भाषा

ENहिગુ
ग्रंथ पाठ

आनन्दकन्द · अध्याय 1.25

1.25.1

आक्, 1, 25
<परिभाषा>
परिभाषां प्रवक्ष्यामि शृणु त्वं सावधानतः ।
<वैद्यभागः>
अर्धं सिद्धरसं देवि त्रिष्वेकं हेमभस्म च

1.25.2

पादांशकं रूप्यभस्म षष्ठांशं ताम्रभस्म च ।
अष्टमांशं हि कान्ताभ्रं कलांशं नवरत्नकम्

1.25.3

रसेश्वरं समुद्दिश्य रसवैद्याय धीमते ।
रसाचार्याय सिद्धाय दद्यादिष्टार्थसिद्धये

1.25.4

<कज्जली पङ्करसश्च>
धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जली साभिधीयते

1.25.5

सद्रवे मर्दितः सोऽपि इति पाकरसः स्मृतः ।
<पिष्टी>
अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽपि खल्वे ।
अर्कातपे तीव्रतरे विमर्द्यात्पिष्टिर्भवेत्सा नवनीतरूपा

1.25.6

खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम्

1.25.7

पेषणात्पिष्टितां याति सा पिष्टीति मता परैः ।
<पातनपिष्टी>
चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका

1.25.8

भवेत्पातनपिष्टी सा तथा रूप्यादिभिः कृता ।
<हेमपिष्टी तारपिष्टी च>
रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम्

1.25.9

समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।
कृष्टीं क्षिप्त्वा सुवर्णान्ते न वर्णो हीयते तया

1.25.10

स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ।
<लोहकम्>
ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः

1.25.11

सगन्धे लिकुचद्रावे निर्गतं वरलोहकम् ।
<हेमरक्ती ताररक्ती च>
तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृता

1.25.12

निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी

1.25.13

एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी

1.25.14

<चन्द्रानलदलम्>
मृतेन वा बद्धरसेन वान्यलोहेन वा साधितमन्यलोहम् ।
सितं हि पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम्

1.25.15

आभासमृतबन्धेन रसेन सह योजितम् ।
साधितं वान्यलोहेन सितं पीतं हि तद्दलम्

1.25.16

<अयोनागम्>
ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् ।
तद्द्वयं द्विपलं वाथ ताम्रभस्म पलद्वयम्

1.25.17

सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढम् ।
तदयोनागमित्युक्तं साधकं देहलोहयोः

1.25.18

रसेन सारणायन्त्रे तदीया गुलिका कृता ।
सा धृता वदने हन्ति मेहरोगानशेषतः

1.25.19

कुरुते दन्तदार्ढ्यं च दृशौ गृध्रदृशाविव ।
तथान्यान् क्षेत्रजान्रोगान् रोगाञ् जत्रूर्ध्वसंभवान्

1.25.20

<शुल्वनागम्>
माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम्

1.25.21

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्तितम्

1.25.22

साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहमशेषतः

1.25.23

पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।
गृध्रदृष्टिर् लसद्दृष्टिः सर्वारोग्यसमन्वितः

1.25.24

<पिञ्जरी>
लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते

1.25.25

<चन्द्रार्कम्>
भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्ते तु चन्द्रार्कमिति कथ्यते

1.25.26

<निर्वापहणम्>
धार्यलोहे ऽन्यलोहश्चेत्प्रक्षिप्तो वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु

1.25.27

क्षिपेन्निर्वाहणं द्रव्ये निर्वाह्ये समभागिकम् ।
आवाप्यं वापनीयं च भागे दृष्टे च दृष्टवत्

1.25.28

<वार्तितर (देf.)>
मृतं तरति यत्तोये लोहं वारितरं हि तत् ।
<रेखापूर्ण (देf.)>
अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत्

1.25.29

मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ।
<निरुत्थभस्मलक्षणम्>
गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम्

1.25.30

न याति प्रकृतिं ध्मानादपुनर्भवमुच्यते ।
<निरुत्थ>
लोहेन सह संयुक्तं ध्मातं रूप्येण चेल् लिहेत्

1.25.31

तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ।
एवं रूप्यं सताम्रं चेद्ध्मातं ताम्रे लगेन्न हि

1.25.32

तदा निरुत्थं मन्तव्यं रजतं च भिषग्वरैः ।
<बीजम्>
निर्वाहणविशेषेण तद्वद्वर्णं भवेद्यदा

1.25.33

मृदुलं चित्रसङ्काशं तद् बीजमिति कथ्यते ।
<उत्तारणम्>
इदमेव हि निर्दिष्टं वैद्यैरुत्तारणं खलु

1.25.34

संसृष्टलोहयोरेकलोहस्य परिनाशनम् ।
<ताडनम्>
प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम्

1.25.35

<धान्याभ्रम्>
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते

1.25.36

<सत्त्वम्>
क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वम् इत्यभिधीयते

1.25.37

<एककोलीसकः>
कोष्ठिकाशिखरापूर्णैः कोकिलाध्मानयोगतः ।
मूषाकर्णम् अनुप्राप्तैर् एककोलीशको मतः

1.25.38

<स्वेदनाद्यर्हाः कोकिलाः>
शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।
कृष्णाङ्गाः कोकिलाश्चेति पर्यायास्ते परस्परम्

1.25.39

<छर्चोअल्:: wओओद्>
द्रावणे सत्त्वपाते च माधूकाः खादिराः शुभाः ।
दुर्द्रावे वंशजापेस्तु स्वेदने बादराः शुभाः

1.25.40

<हिङ्गुलाकृष्टरसः>
विद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रवमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते

1.25.41

<घोषाकृष्टं वङ्गम्>
स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम्

1.25.42

<गुह्यनागम्>
पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् ।
रूपिकादुग्धसम्पिष्टशिलायां परिलेपितम्

1.25.43

शरावसंपुटे रुद्ध्वा पचेत् क्रोडपुटेन ताम् ।
तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते

1.25.44

गुडगुग्गुलुगुञ्जाज्यटङ्कणैः परिमर्द्य तम् ।
मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः

1.25.45

चक्रीं तेन पुनः कृत्वा पलप्रमितपारदैः ।
लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च

1.25.46

पचेद्गजपुटैरेवं वाराणां खलु विंशतिः ।
पुटे पुटे च नागस्य कुर्यादुत्थापनं खलु

1.25.47

नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् ।
इति सिद्धं हि तत् सीसं कर्षमात्रावशेषितम्

1.25.48

गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायने ।
निष्कमात्रं तु नागेऽस्मिन् लोहाख्ये या द्रुते सति

1.25.49

स्वतो लक्षगुणां हैमीं शलाकां ग्रसते ध्रुवम् ।
लगेत्तैलप्रतप्तं तत्स्वर्णमुद्गिरति ध्रुवम्

1.25.50

गुह्यनागोऽयमुद्दिष्टः शक्तिस्वच्छन्दभैरवः ।
<वरनागम्>
तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम्

1.25.51

मृदु कृष्णं द्रुतद्रावं वरनागं तदुच्यते ।
<उत्थापनम्>
मृतस्य पुनरुद्भूतिः सा प्रोक्तोत्थापनाख्यया

1.25.52

<ढालनम्>
द्रुतद्रव्यस्य निक्षेपो द्रवे तत् ढालनं मतम् ।
<चपलः>
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम्

1.25.53

विमृद्य पुटयेत् तावद् यावत् कर्षावशेषकम् ।
न तत्पुटसहस्रेण क्षयमायाति सर्वदा

1.25.54

चपलोऽयं समादिष्टो वार्तिकैर्नागसम्भवः ।
इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः

1.25.55

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।
स रसो धातुवादेषु शस्यते न रसायने

1.25.56

अयं हि कर्पणाख्येन लोकनाथेन कीर्तितः ।
भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशसमन्वितम्

1.25.57

कुमारीमूलतोयेन मर्दयेदेकवासरम् ।
शार्ङ्गेरीस्वरसे वापि दिनमेकमनारतम्

1.25.58

एवं भूनागधौतं च मर्दयेद्दिवसद्वयम् ।
अथैकपलनागेन तावता त्रपुणापि च

1.25.59

दशनिष्करसेन्द्रेण श्लक्ष्णपिष्टं समाचरेत् ।
योजयित्वाद्यकल्केन यथापूर्वं विमर्दयेत्

1.25.60

ततः शाणरसेन्द्रेण सत्त्वेन रसकस्य च ।
पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्कैश्च योजयेत्

1.25.61

अथ प्रक्षाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।
पलार्धं शुद्धसस्येन अष्टगुञ्जारसेन च

1.25.62

विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।
निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च

1.25.63

शिखित्रैर् नवभिः सम्यग्भस्त्राभ्यां प्रधमेत्खलु ।
ततो मूषागतं सत्त्वं समादाय समन्ततः

1.25.64

धमेत्प्रकटमूषायां वङ्कनालेन शोधयेत् ।
दशशाणं हि तत्सत्वं भस्मना लवणेन च

1.25.65

सकाञ्जिकेन संपेष्य पुटयोगेन शोधयेत् ।
त्रिनिष्कप्रमिते तस्मिन्पूर्वप्रोक्तेन भस्मना

1.25.66

अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत् खलु ।
इयता पूर्वसूतोऽसौ क्षीयते न कथंचन

1.25.67

चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।
अनेनापि रसः शीघ्रं पूर्ववद् बध्यते सुखम्

1.25.68

कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः

1.25.69

सुखं प्रकटमूषायां भवेच् चातिगुणोत्तरः ।
जीर्णग्रासो रसो ह्येषां देहलोहकरो भवेत्

1.25.70

<भूनागधौतम्>
भूभुजङ्गशकृत्तोयैः प्रक्षाल्यापहृतं मलम् ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः

1.25.71

<द्वन्द्वानम्>
द्रव्ययोर्मेलनं ध्मानाद् द्वंद्वानं परिकीर्तितम् ।
<भञ्जनी>
भागाद्रूप्याधिके क्षेपमनुवर्णसवर्णकम्

1.25.72

दलैर्वा वर्णिकाग्रासो भञ्जनी वादिनिर्मिता ।
<फुल्लिका>
पतङ्गीकल्कतो जाता लोहे तारत्वहेमता

1.25.73

दिनानि कतिचित् स्थित्वा यात्यसौ फुल्लिका मता ।
<पतङ्गीरागः>
रञ्जितार्धरसाल्लोहादन्यद्वा चिरकालतः

1.25.74

विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञकः ।
<आवापः>
द्रुते द्रव्यान्तरक्षेपाल्लोहाद्यैः क्रियते हि यः

1.25.75

स आवापः प्रतीवापस्तदेवाच्छादनं मतम् ।
<अभिषेकः>
द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम्

1.25.76

सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ।
नागं वा वङ्गं वा प्रद्राव्य निषेचयेच्छतं वारान्

1.25.77

उक्तद्रव्ये तद्द्रवताडनमेतद्धि सोऽभिषेकस्तु ।
<निर्वाप>
तप्तस्याप्सु परिक्षेपो निर्वापस्तपनं च तत्

1.25.78

प्रतिवाप्यादिकं कार्यं द्रुतलोहे सुनिर्मले ।
<शुद्धावर्तः>
यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः

1.25.79

शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।
<रेखावर्तः>
द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा

1.25.80

द्रवस्योन्मुखता सेयं रेखावर्तः स कथ्यते ।
<स्वाङ्गशीतं वह्नि(बहिः)शीतं च>
वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम्

1.25.81

अग्नेराकृष्टशीतं यद्वह्निशीतं तदीरितम् ।
<स्वेदनम्>
क्षाराम्लैर् औषधैर्वापि डोलायन्त्रे स्थितस्य हि

1.25.82

पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।
<मर्दनम्>
उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि

1.25.83

पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ।
<मूर्छनम्>
मर्दनादिष्टभैषज्यैर् नष्टपिष्टित्वकारकम्

1.25.84

तन्मूर्च्छनं हि वार्यद्रिभूजकञ्चुकनाशनम् ।
<नष्टपिष्टिः>
स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत्

1.25.85

विवृद्धिर् जितसूतेन नष्टपिष्टिः स उच्यते ।
<उत्थापनम्>
स्वेदतापादियोगेन स्वरूपापादनं पुनः

1.25.86

तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनम् ।
<पातनम्>
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यापनं पातनसंज्ञयोक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नम्

1.25.87

<रोधनम्>
जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम्

1.25.88

स्थितिराप्यायिनी कुम्भे योऽसौ रोधनमुच्यते ।
<नियमनम्>
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये

1.25.89

क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ।
<दीपनम्>
धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यतः

1.25.90

ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ।
<ग्रासमानम्>
इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः

1.25.91

इयतीत्युच्यते योऽसौ ग्रासमानमितीरितम् ।
<जारणा>
ग्रासस्य चारणं गर्भद्रावणं जारणं तथा

1.25.92

इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।
ग्रासः पिण्डः परीणामस्तिस्रश्चाख्याः पराः पुनः

1.25.93

समुखा निर्मुखा चेति जारणा द्विविधा मता ।
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः

1.25.94

<समुखजारणा>
शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ।
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते

1.25.95

एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुम्

1.25.96

इयं हि समुखी प्रोक्ता जारणामृतजारणा ।
<निर्मुखचारणा>
दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु

1.25.97

भुङ्क्ते निखिललोहाद्यान्योऽसौ राक्षसवक्त्रवान् ।
<चारणा>
रसस्य जठरे ग्रासक्षेपणं चारणा मता

1.25.98

<गर्भद्रुतिः>
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ।
<बाह्यद्रुतिः>
बहिरेव द्रुतीकृत्य घनसत्वादिकं खलु

1.25.99

जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ।
<द्रुति (सुब्स्तन्चे)>
निर्लेपित्वं द्रवत्वं च तेजस्त्वं लघुता तथा

1.25.100

असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ।
<द्रुति (प्रोचेस्स्)>
औषधाज्यादियोगेन लोहधात्वादिकं सदा

1.25.101

उत्तिष्ठते द्रवाकारा सा द्रुतिः परिकीर्तिता ।
<जारणा>
द्रुतग्रासपरीणामो बिडयन्त्रादियोगतः

1.25.102

जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।
<विडम्>
क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः सपटुभिस्तथा

1.25.103

रसग्रासस्य जीर्णार्थं तद्बिडं परिकीर्तितम् ।
<रञ्जनम्>
संसिद्धबीजसत्त्वादिजारणेन रसस्य हि

1.25.104

पीतादिरागजननं रञ्जनं समुदीरितम् ।
<सारणा>
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत्

1.25.105

वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ।
<वेधः>
व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु

1.25.106

वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ।
<वेधभेदाः>
लेपः क्षेपश्च कुन्तश्च शब्दाख्यो धूमसंज्ञकः

1.25.107

<लेपवेधः>
लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौकरम्

1.25.108

<क्षेपवेधः>
प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञकः ।
<कुन्तवेधः>
संदंशधृतसूतेन द्रुतद्रव्याहतिश्च यः

1.25.109

सुवर्णत्वादिकरणः कुन्तवेधः स उच्यते ।
<धूपवेधः>
वह्नौ धूमायमाने ऽन्तःप्रक्षिप्तरसधूमतः

1.25.110

स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः ।
<शब्दवेधः>
मुखस्थिते रसे नाल्या लोहस्य धमनात्खलु

1.25.111

स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ।
<उत्पाटनम्>
पिण्डद्रव्यस्य सूतेन कालुष्यादिनिवारणम्

1.25.112

प्रकाशनं च वर्णस्य तदुत्पाटनमीरितम् ।
<स्वेदनम्>
क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः

1.25.113

भूमौ निखन्यते यत्तत्स्वेदनं समुदीरितम् ।
<संन्यासः>
रसस्यौषधयुक्तस्य भाण्डे रुद्धस्य यत्नतः

1.25.114

सदाग्नियुतचुल्ल्यन्तःक्षेपः संन्यास उच्यते ।
<स्वेदनसंन्यासगुणाः>
द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम्

1.25.115

गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा

मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc