भाषा

ENहिગુ
ग्रंथ पाठ

आनन्दकन्द · अध्याय 1.20

1.20.1

आक्, 1, 20
<योगरसायनम्>
श्रीभैरवी ।
देवदेव कृपाम्भोधे कालकन्दर्पनाशन ।
अष्टमूर्ते महामूर्ते पञ्चकृत्यपरायण

1.20.2

प्रपञ्चितं जगत्सर्वं त्र्यम्बक त्रिपुरान्तक ।
जटाकलितभोगीन्द्रफूत्कारक्लान्तचन्द्रमः

1.20.3

सूर्येन्दुवह्निनयन स्मेरपञ्चानन प्रभो ।
कुण्डलाहिफणारत्नद्योतमानकपोलभूः

1.20.4

कुन्दाग्रदन्तसुभगपल्लवाधरशोभित ।
हालाहलासितगल सप्तभोगीन्द्रभूषण

1.20.5

महाहिवलयप्रोद्यदष्टादशभुजोज्ज्वल ।
सर्वदिव्यायुधोपेत वरव्याघ्राजिनांबर

1.20.6

नमत्सुरासुराधीशमकुटोत्पलरश्मिभिः ।
नीराजितपदद्वन्द्व योगिजन्मजरापह

1.20.7

सच्चिदानन्दविभव प्रसन्न करुणाम्बुधे ।
ओङ्कारगम्य विमलातर्क्याचिन्त्याप्रमेय भोः

1.20.8

स्तोता स्तुत्यः स्तुतिस्त्वं हि कर्ता कार्यं च कारकः ।
सर्वोऽपि हि त्वमेवासि प्रसीद परमेश्वर

1.20.9

त्वन्मायया जगत्सर्वं सृष्टं त्रातं हतं तथा ।
त्वं भूस्त्वमापस्त्वं वह्निस्त्वं वायुस्त्वं नभः शशी

1.20.10

रविस्त्वं परमात्मा त्वं गुणास्त्वं प्रकृतिस्तथा ।
पुरुषस्त्वं मनस्त्वं च बुद्धिश्चित्तमहंकृतिः

1.20.11

रसायनं च सकलमाख्यातुं च सविस्तरम् ।
आज्ञापयाहं यदि ते हृद्या प्राणप्रिया विभो

1.20.12

जीवन्मुक्तिः कथं नाथ योगरूपं च कीदृशम् ।
अनुगृह्णीष्व देवेश सुखोपायं भवापहम्

1.20.13

श्रुत्वा स्तुतिं स्मितमुखो भैरवः परया मुदा ।
उवाच देवीं कल्याणीं पर्वताधिपनन्दिनीम्

1.20.14

श्रीभैरवः ।
साधु साधु महामाये सर्वं वेत्सि सनातने ।
तथापि पृच्छसीशानि लोकानां हितकाम्यया

1.20.15

प्रवक्ष्यामि समासेन सावधानं शृणु प्रिये ।
त्वत्तोऽन्या वल्लभा का मे रहस्यार्थविभाषणे

1.20.16

<जीवन्मुक्तलक्षणम्>
शृणु वक्ष्यामि देवेशि जीवन्मुक्तस्य लक्षणम् ।
कामं क्रोधं भयं लोभं मदं मोहं च मत्सरम्

1.20.17

मानं लज्जां कुलं शीलं कुत्सां दम्भं च वञ्चनाम् ।
अविद्यां जडतां गर्वं शीतमुष्णं तथातपम्

1.20.18

वातं सुखं च दुःखं च पापं पुण्यं हिताहितम् ।
तापत्रयं पुत्रमित्रकलत्रादीनि यस्त्यजेत्

1.20.19

न सक्तः सर्वविषये तत्त्वचिन्तापरायणः ।
पद्मपत्रम् इवाम्भोभिर् निर्लिप्तहृदयो भवेत्

1.20.20

मैत्रीकृतातटोपेक्षामदैतैर् मण्डिताशयः ।
ऐहिकामुष्मिकसुखप्राप्तिकार्याविरक्तधीः

1.20.21

नित्यानित्यविवेकज्ञो ह्यन्तःकरणनिग्रहः ।
जरामरणहीनश्च शिवसामरसात्मवान्

1.20.22

जीवन्मुक्तः स विज्ञेयस्तीर्णसंसारसागरः ।
देवदैत्यादिभिर्वन्द्यः स सेव्यः स गुरुः शिवः

1.20.23

यथाहं सर्वलोकेषु पूजनीयो महेश्वरि ।
तथासौ सर्वलोकेषु सर्वैः सम्पूज्यते सदा

1.20.24

देहान्तेषु तु मुक्तिर्या प्राणिनां साप्रयोजना ।
देहान्ते देहिनः सर्वे मुक्तिं यान्ति न संशयः

1.20.25

भगसंद्रावणान्मुक्तिर् भवेच्चेद् गर्दभादयः ।
पक्षिणो वृषभा मेषाः किं मुक्तास्त्रिपुराम्बिके

1.20.26

रेतोविण्मूत्रसेवायां यदि मुक्तिर्भवेत्प्रिये ।
कपिश्च सूकराद्याश्च कथं मुक्ता भवन्ति ते

1.20.27

न केवलामरत्वाच्च न शिवत्वाद्भवेत्तथा ।
तद्द्वयोर् मेलनाच्च स्याज्जीवन्मुक्तिरियं स्मृता

1.20.28

सर्वस्मिन्समये शास्त्रे मुक्तिरस्त्यन्तकालजा ।
न दृश्यते करान्तस्थमणिवत्सा च शाम्भवि

1.20.29

अतिगोप्यमवाच्यं यद्देवानामपि दुर्लभम् ।
कथयिष्यामि देवेशि देहस्थैर्यं सदातनम्

1.20.30

<जीवन्मुक्तिसाधकशरीरस्थैर्यसंपादनोपायः; योगसिद्धिः>
शिवत्वं खेचरत्वं च सर्वसिद्धिप्रदं शुभम् ।
देहं विना न किंचित् स्याद्देहोऽयं सर्वसाधनम्

1.20.31

तस्माद्देहं प्रयत्नेन रक्षयेत्सर्वतः सदा ।
देहपाते धर्मनाशो धर्मनाशे क्रियाच्युतिः

1.20.32

क्रियाच्युतौ कुतो योगो योगभ्रंशे न चिद्भवेत् ।
चिदभावे कुतो मोक्षो मोक्षे भ्रष्टे न किंचन

1.20.33

अन्योपायशतेनापि न देहो धार्यते सदा ।
पारदः पवनश्च स्यात्सर्वसिद्धिद उत्तमः

1.20.34

संमूर्छितौ मृतौ बद्धावुभौ पवनपारदौ ।
क्रमाद्रोगहरौ नित्यं मृत्युघ्नौ खेचरप्रदौ

1.20.35

रसः पूर्वं मया ख्यातोऽधुना वायुः प्रशस्यते ।
वायोः संधारणाज्ज्ञानं ज्ञानान्मोक्षः प्रजायते

1.20.36

सर्वेषां देहमूलं स्यात्तत्स्थैर्ये पवनः प्रभुः ।
परस्मादक्षरात्तस्मादाकाशं समभूत्ततः

1.20.37

वायुस्तस्माच्च दहनस्तस्मादापस्ततो मही ।
एतेषां पञ्चभूतानामक्षरं कारणं परम्

1.20.38

व्योम शब्दात्मकं वायुः शब्दस्पर्शात्मको भवेत् ।
वह्निः शब्दस्पर्शरूपमयः सलिलमुच्यते

1.20.39

शब्दरूपस्पर्शरसात्मकं भूमिर्विशेषतः ।
शब्दरूपरसस्पर्शगन्धरूपा भवेत् प्रिये

1.20.40

भूवाय्वग्न्यनिलाकाशाधिष्ठात्र्यश्चैव देवताः ।
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ

1.20.41

भूमिर् नष्टाम्बुसंमग्ना ताश्च ग्रस्ता महाग्निना ।
स च चण्डसमीरेण शमितः सोऽपि पार्वति

1.20.42

व्योम्नि लीनः क्रमात् तस्माद् आकाशाद् उद्भवन्ति ते ।
अन्तर्बहिः स्थितं व्याप्तं निराधारं निराश्रयम्

1.20.43

आकाशं चेतसा ध्यायन् प्रच्छिन्द्याद् भवबन्धनम् ।
जगत्प्राणमयं वायुं चिदानन्दप्रदं जलम्

1.20.44

निश्चलीकुरुते युक्त्या वायुवत्स्यात्स खेचरः ।
अनन्तार्काग्निसंदीप्तं दहन्तं जगतां त्रयम्

1.20.45

तेजो ध्यात्वा स्वहृदये नाग्निना स तु बाध्यते ।
सुधातरङ्गनिकरप्लाव्यमानमहीतलम्

1.20.46

अप्तत्त्वं भावयन् स्वान्ते वारि तं न हि बाधते ।
अभूतलचराक्रान्तं भूतलं भूतसंप्लवम्

1.20.47

हृदये भावयन्नित्यं तस्य नो पार्थिवं भयम् ।
यद्यद्भावयते चित्ते तत्तद्रूपम् अवाप्नुयात्

1.20.48

यथाग्नित्वं व्रजेत् काष्ठः कीटो भ्रमरतां यथा ।
<योगाङ्गानि>
आसनं प्राणनियमः प्रत्याहारश्च धारणा

1.20.49

ध्यानं समाधिः षोढा स्युर्योगाङ्गानि क्रमेण च ।
<1. आसनविधिः>
चतुरशीतिलक्षाणि ह्यासनानि भवन्ति हि

1.20.50

तेषु मुख्यासने द्वे च सिद्धपद्मासने स्मृते ।
<सिद्धासनम्>
स्वयोनिं पादमूलेन चैकेन घटयेद् दृढम्

1.20.51

अन्यच्चरणमूलं च मेहनोपरि विन्यसेत् ।
अवक्राङ्गः समासीनो वशीभूतेन्द्रियः प्रिये

1.20.52

निश्चलाक्षो भ्रुवोर्मध्यं पश्यन्निश्चलमानसः ।
सिद्धासनमिदं ज्ञेयं मुक्तिमार्गप्रदायकम्

1.20.53

<पद्मासनम्>
दक्षिणोरौ पदं वामं वामोरौ दक्षिणं पदम् ।
विन्यस्य करयुग्मेन पृष्ठभागगतेन च

1.20.54

विपरीतेन चाङ्गुष्ठं वामं वामकरेण च ।
दक्षिणं दक्षिणेनैव दृढं धृत्वा निजोरसि

1.20.55

विन्यस्य चुबुकं ध्यायेन्नासाग्रं संयतेन्द्रियः ।
एतत्पद्मासनं ख्यातं सर्वरोगनिबर्हणम्

1.20.56

<2. प्राणायामः; अजपामुद्रा>
आधारं तु गुदस्थाने चतुर्दलसरोरुहम् ।
वादिसान्ताक्षरोपेतं बालारुणसमप्रभम्

1.20.57

स्वाधिष्ठानं षड्दलाब्जं बादिलान्ताक्षरान्वितम् ।
विद्युत्प्रभं ततो देवि रत्नाभं मणिपूरकम्

1.20.58

डादिफान्तार्णसंयुक्तं नाभौ दलशतात्मकम् ।
अनाहतं सुवर्णाभं द्वादशच्छदपङ्कजम्

1.20.59

हृदये कादिठान्तार्णं विशुद्धिस्तु प्रशस्यते ।
षोडशारं महापद्मं षोडशस्वरभूषितम्

1.20.60

आज्ञाचक्रं द्वयदलं पद्महस्तविराजितम् ।
श्वेतमेवं क्रमाद्देवि षट्चक्रं समुदाहृतम्

1.20.61

नाभेर् अधस्तान्मेढ्रस्योपरिष्टात् कन्द उच्यते ।
विहंगमाण्डसङ्काशस्तत्र नाडीसमुद्भवः

1.20.62

सप्ततिद्विसहस्राः स्युस्तासु मुख्या दश स्मृताः ।
इडा च प्रथमा नाडी पिङ्गला च द्वितीयका

1.20.63

सुषुम्ना च तृतीया स्याद्गान्धारी च चतुर्थिका ।
पञ्चमी हस्तिजिह्वा स्यात्षष्ठी पूषा तरस्विनी

1.20.64

सप्तम्यलम्बुषा नाडी चाष्टमी च कुहूः स्मृता ।
नवमी शङ्खिनी चैव दशमी च क्रमेण हि

1.20.65

एतास्तु प्राणवाहिन्यो वायवस्तु जपाः स्मृताः ।
प्राणापानौ तथा व्यानोदानौ चैव समानकः

1.20.66

नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।
सर्वेषु नाडीचक्रेषु वर्तन्ते दश वायवः

1.20.67

वामदक्षिणमार्गाभ्यामध ऊर्ध्वं च चञ्चलाः ।
प्राणापानवशो जीवः प्रधावति न दृश्यते

1.20.68

हस्ताभ्यामाहतो भूमौ कन्दुको न स्थिरो यथा ।
प्राणापानपरिक्षिप्तस्तथा जीवोऽपि न स्थिरः

1.20.69

प्राणापानसमाकर्षे तथा प्राणमपानतः ।
बहिर्गच्छद्धकारेण सकारेणान्तराविशेत्

1.20.70

हंसः सोऽहं मनुममुं सदा जीवो जपेत् प्रिये ।
एकविंशत्सहस्रं च षट्शताधिकमीश्वरि

1.20.71

हंसमन्त्रस्य संख्या स्यादहोरात्रेण सर्वदा ।
हंसाख्योऽयं महामन्त्रो ह्यजपेति प्रकीर्तितः

1.20.72

जपाख्येयं च गायत्री यमिकैवल्यदायिनी ।
एतत्समं तपो ज्ञानं जपः पुण्यं न किंचन

1.20.73

अनुच्चार्या ह्यवर्णा च कुण्डलिन्याः समुद्भवा ।
प्राणसंचारिणी ह्येषा ज्ञातव्या योगिभिः सदा

1.20.74

माता कुण्डलिनी शक्तिः कन्दादूर्ध्वं प्रतिष्ठिता ।
अष्टधा परिवृत्ता च प्रसुप्तभुजगाकृतिः

1.20.75

ब्रह्मद्वारमुखं सा तु स्वमुखेन पिधाय च ।
तां च प्रबोधयेदादौ वह्नियोगेन पार्वति

1.20.76

वायुना मनसा सार्धं मध्यनाड्या व्रजेच्छिवे ।
हठादाकुञ्चनाद् ब्रह्मद्वारम् उद्घाटयेत्तु सा

1.20.77

यथा नयेद्गुणं सूची तद्वद् ब्रह्मबिलं तु सा ।
सुखं पद्मासनासीनः पाणी चोत्तानितौ प्रिये

1.20.78

अङ्कमध्ये निधायैव चुबुकं वक्षसि न्यसेत् ।
दृढं गुदमुखं गाढम् आकुञ्च्यापानरन्ध्रकम्

1.20.79

मुहुर्मुहुर्वायुमूर्ध्वं चालयेत्त्वरितं प्रिये ।
प्राणं मुञ्चन्कुण्डलिन्याः प्रभावान्मोक्षवर्त्मजम्

1.20.80

उपैति सत्प्रबोधं च देवानामपि दुर्लभम् ।
तदोद्भूतैः श्रमजलैः स्वाङ्गानि परिमार्जयेत्

1.20.81

क्षीराहारी मितान्नाशी कट्वम्ललवणं त्यजेत् ।
जितेन्द्रियो ब्रह्मचारी कुटीस्थः कर्मवर्जितः

1.20.82

एवमभ्यासनिरतो वत्सरात्सिद्धिमेति सः ।
<प्राणायामे मुद्राः>
जालन्धरं मूलबन्धम् ओड्डीयाणं च खेचरीम्

1.20.83

महामुद्रां च यः कुर्यात्स भवेद्देहसिद्धिभाक् ।
एषां वक्ष्ये लक्षणानि गोप्यानि तव शाम्भवि

1.20.84

<जालन्धरबन्धः>
जालन्धरं कण्ठसिरासमूहानां च बन्धनम् ।
कृत्वाधो नमयित्वा कं तदा स्यन्दति मूर्धतः

1.20.85

नभस्तः स्यन्दमाना च सुधा दोग्धौ पतेन्न च ।
न धावति मरुत्तत्र कर्णसंकोचने कृते

1.20.86

कर्णामयसमूहघ्नं मृत्युघ्नं तत्परं भवेत् ।
<मूलबन्धः>
मूलबन्धं पार्ष्णिभागाद्योनिस्थानं प्रपीडयेत्

1.20.87

गुदमाकुञ्चयेद्योगी नयेदूर्ध्वम् अपानकम् ।
एवं कृते मूलबन्धे क्षीयते मलमूलकम्

1.20.88

प्राणापानौ च संयुक्तौ स्यातां वृद्धोऽपि यौवनम् ।
प्राप्नुयान्मूलबन्धेन मृत्युथोपि विवस्वताम्

1.20.89

<ओड्याणबन्धः>
ओड्डियाणे नाभिविवरमूर्ध्वं जठरे दृढम् ।
आकृष्य पश्चिमं तानं बन्धयेत्पवनस्तदा

1.20.90

विश्रान्तः स्यान्महामाये चोड्याणो ऽयं प्रकीर्तितः ।
मृत्युदावानलो दीप्तो जरारोगाब्धिवाडबः

1.20.91

<खेचरीमुद्रा>
आस्यान्तर्विवरे जिह्वां तालुरन्ध्रे प्रवेशयेत् ।
विपरीतां भ्रुवोर्मध्ये पश्येन्निश्चलया दृशा

1.20.92

एषा हि खेचरी मुद्रा गोपनीयातिदुर्लभा ।
जिह्वा तु खगता यस्मान्मनश्चरति खे ततः

1.20.93

खेचरीति प्रसिद्धेयं मृत्युरोगजरापहा ।
निद्रा क्षुधा तृषा नास्ति खेचर्या मुद्रितस्य च

1.20.94

मूर्च्छा भवति साध्वी च कर्मबन्धभयं न हि ।
रमण्या संगतस्यापि रेतो न पतति ध्रुवम्

1.20.95

यावच्छुक्रं स्थिरं देहे तावत्कालभयं न हि ।
येन बद्धा नभोमुद्रा बीजस्तस्य न गच्छति

1.20.96

यदि गच्छेत्तस्य बीजो हुताशनमुपैति हि ।
स बीजश्चोर्ध्वमायाति शक्त्या प्रतिहतः स्वयम्

1.20.97

योनिमुद्रानिबद्धः सन्सा मुद्रा तेन दुर्लभा ।
बीजस्तु द्विविधः प्रोक्तः शुक्रं चैव महारजः

1.20.98

शिरःस्थानगतं शुक्रं योनिस्थानगतं रजः ।
शुक्रं तु श्वेतवर्णं स्यात्प्रवालाभं रजः स्मृतम्

1.20.99

शुक्रं चन्द्रगतं नित्यं रजः सूर्येण सङ्गतम् ।
शुक्रं शिवो रजः शक्तिस्तया योगः सुदुर्लभः

1.20.100

मरुता शक्तिचारेण रजश्चोर्ध्वं प्रणीयते ।
ऐक्यं तद्बिन्दुना याति तदा दिव्यं वपुर्भवेत्

1.20.101

<महामुद्रा>
वामाङ्घ्रिमूलभागेन योनिस्थानं प्रपीडयेत् ।
दक्षिणाङ्घ्रिं च विततं हस्ताभ्याम् अभिधारयेत्

1.20.102

हनुं वक्षसि निक्षिप्य वायुना जठरं ततः ।
आपूर्य रेचयेद्देवि स्थित्वा बद्धासनो यमी

1.20.103

एषा ख्याता महामुद्रा मलसंशोधनी वरा ।
सूर्येन्दू घटयेज्जिह्वाशोषणी पापनाशिनी

1.20.104

तथा दक्षिणपादेन योनिस्थानं प्रपीडयेत् ।
वितत्य वामपादं च कराभ्यां धारयेत्प्रिये

1.20.105

शेषं पूर्वोक्तवत् कुर्यादेवं सव्यापसव्ययोः ।
भागयोः समकालः स्यादभ्यासस्तां विवर्जयेत्

1.20.106

तस्य पथ्यमपथ्यं च षड्रसा नीरसा अपि ।
घोरं विषं वातिसुखं पीयूषमिव जीर्यते

1.20.107

गुल्मोदावर्तकुष्ठाद्या रोगा नश्यन्त्यसंशयम् ।
सिद्धिदेयं महामुद्रा कालं हन्ति जराभयम्

1.20.108

न प्रकाश्या न देया च यस्मै कस्मैचन प्रिये ।
<3. प्रत्याहारः>
मुक्तासनस्थितो योगी ऋज्वङ्गग्रीवमस्तकः

1.20.109

घोणाग्रलोचनः स्वस्थः कुटीस्थः प्रणवं जपेत् ।
त्रिलोकश्च त्रिकालश्च त्रिदेवास्त्रीश्वरा अपि

1.20.110

त्रिज्योतींषीन्दुमुख्यानि त्रिवेदाश्चाग्नयस्त्रयः ।
शक्तित्रयं त्रिपदवी ब्राह्मी चैन्द्री च वैष्णवी

1.20.111

वर्णत्रयं च भासन्ते यत्र तज्ज्योतिरोमिति ।
तम् ओंकारं च मनसा वचसा कर्मणा तु यः

1.20.112

ध्यायेज्जपेदभ्यसेच्च स मुक्तो भवबन्धनात् ।
गच्छंस् तिष्ठञ्जपञ्जाग्रच्छुचिर् वाप्यशुचिर् यदि

1.20.113

न कर्मणा च लिप्तः स्याज्जलेनाब्जदलं यथा ।
वायौ चलति सर्वेऽपि चलन्तीन्द्रियधातवः

1.20.114

स्थिते वायौ स्थिरे सर्वं वपुःप्रभृति शाम्भवि ।
तस्माद्वायुं निबध्नीयात्स्थिरे वाते स्थिरं मनः

1.20.115

स्थिरे मनसि जीवश्च स्थिरो भवति भैरवि ।
यावत्संयमितो वायुर्यावच्चेतोऽपि सुस्थिरम्

1.20.116

बीजं यावद्भ्रुवोर्मध्ये तावत्कालभयं न हि ।
षट्त्रिंशद्व्यङ्गुलं नित्यं ततः प्राणः प्रकीर्तितः

1.20.117

बद्धपद्मासने स्थित्वा ऋज्वङ्गः स्थिरमानसः ।
वामनासापुटेनैव पूरयेत्प्राणमारुतम्

1.20.118

यावत्षोडशमात्रं च कुम्भयेद् द्वादश प्रिये ।
रेचयेद्दशमात्रं च दक्षनासापुटेन च

1.20.119

पुनश्च सूर्यमार्गेण पूरयेत् पूर्ववत्प्रिये ।
कुम्भयित्वा रेचयेच्च वामनासापुटेन च

1.20.120

प्राणायामविधिः प्रोक्तस्त्रिविधो योगिवन्दिते ।
अधमो मध्यमो देवि ह्युत्तमोऽपि यथाक्रमम्

1.20.121

प्रोक्तो ऽयम् अधमस् तस्माद् द्विगुणो मध्यमः स्मृतः ।
उत्तमस्त्रिगुणः प्रोक्तः प्राणायामोऽयमीश्वरि

1.20.122

यदा तु वामनासायां पूरयेच्चन्द्रमक्षरम् ।
ध्यायेदमृतवारीशमध्यस्थं क्षीरसन्निभम्

1.20.123

यदा तु दक्षनासायां पूरयेत् सूर्यमक्षरम् ।
ज्वलज्ज्वलनसङ्काशं नाभिस्थं चिन्तयेत्सदा

1.20.124

एवं बीजद्वयं ध्यात्वा नासारन्ध्रद्वयेन च ।
पूरयेद्यस्तु मतिमान्नाडीशुद्धिरतो भवेत्

1.20.125

एवं मासत्रयाभ्यासाद्यथेष्टं वायुधारणम् ।
प्रदीप्तो जाठरो वह्निर्नादव्यक्तिश्च जायते

1.20.126

आरोग्यं प्राप्नुयाद्देवि नित्यमभ्यासयोगतः ।
प्रथमेयं न धर्मः स्याद्द्वितीये कम्पते वपुः

1.20.127

उत्तिष्ठति तृतीये तु बद्धपद्मासनस्थितेः ।
प्राणायामादिषट्केन प्रत्याहारो भवेच्छिवे

1.20.128

तद्द्विषट्केन विधिना धारणा तु प्रशस्यते ।
धारणाद्वादशेन स्याद्ध्यानं तद्द्वादशात्मकः

1.20.129

समाधिः कथ्यते देवि तेन दृश्यं परात्परम् ।
तस्मिन्परापरे धाम्नि क्षीयते कर्मसंचयः

1.20.130

जन्ममृत्यू न भवतो जरारोगश्च नश्यति ।
युक्तियुक्तेन योगेन चिरायुश्च सुखी भवेत्

1.20.131

अयुक्त्याभ्यासनाद्धिक्काकर्णरोगशिरोव्यथा ।
श्वासकासादयो रोगा दोषाः स्युर्बहवस्तथा

1.20.132

<विपरीतकरणीमुद्रा>
सौम्यस्थानात्समायाता द्वाभ्यां चैका तु भुज्यते ।
ततस्तृतीयो यः कश्चित्स स्याज्जन्मजरोज्झितः

1.20.133

प्रज्वलज्ज्वलनाकारो नाभिमध्ये स्थितो रविः ।
तालुमध्ये शशी भाति सुधां वर्षत्यधोमुखः

1.20.134

तां ग्रसत्यूर्ध्ववदनो भास्करः किरणत्विषा ।
एतस्य विपरीतं यत्करणं विपरीतकम्

1.20.135

काकचञ्चुवदास्यं च कृत्वा वायुं ससूत्कृतम् ।
आदाय नासारन्ध्रेण पुनस्तं श्वसनं त्यजेत्

1.20.136

शीतलीकरणाख्योऽयं योगस्तु ज्वरपित्तहृत् ।
अमृतं शीतलं तस्य पिबतश्च जरा न हि

1.20.137

जिह्वया तालुमूलेन प्राणं यः पिबति प्रिये ।
तस्य षण्मासतः सर्वे रोगा नश्यन्ति योगिनः

1.20.138

रसनामूर्ध्वतः कृत्वा सोमं पिबति यः प्रिये ।
सिद्धिर्मासार्ध आयाति रोगास्तस्य न सन्ति हि

1.20.139

जिह्वाग्रेण च संपीड्य रसनान्तर्बिलं महत् ।
ध्यात्वामृतझरीमम्बाम् अर्धाब्देन भवेत्कविः

1.20.140

अमृताप्लाविततनोर् योगिनो वत्सरत्रयात् ।
रेतश्चोर्ध्वं प्रयात्येव सिध्यन्ति ह्यणिमादयः

1.20.141

त्रिविधं गरलं तस्य शरीरे च न संक्रमेत् ।
जरा च मरणं नास्ति दुष्टसत्त्वभयं तथा

1.20.142

<4. धारणम्>
उक्तासनसमारूढः प्राणायामरतः सदा ।
प्रत्याहारप्रसन्नः सन्नभ्यसेद्धारणं ततः

1.20.143

चेतसो निश्चलत्वं यद्धारणा सा स्मृता शिवे ।
पृथ्व्यादिपञ्चभूतानां या पृथग्धारणा हृदि

1.20.144

चतुरश्रा सुवर्णा सलकारा च हृदि स्थिता ।
ब्रह्मणा सहिता भूमिर्ध्यातव्या पञ्च नाडिकाः

1.20.145

प्राणं तत्रैव मनसा धारयेत्सह शांभवि ।
एषा स्तम्भकरी विद्या पृथ्वीजयमवाप्नुयात्

1.20.146

अर्धचन्द्रप्रतीकाशं कर्पूरहिमनिर्मलम् ।
कण्ठस्थानगतं नित्यं सुधाप्लुतवकारयुक्

1.20.147

जलतत्त्वं च संयुक्तं विष्णुना तत्र धारयेत् ।
प्राणं चित्तेन सहितं ध्यातव्यं पञ्चनाडिकाः

1.20.148

एषा हि वारुणी विद्या विषपित्तज्वरापहा ।
ग्रसने कालकूटस्य मयैव परिकल्पिता

1.20.149

त्रिकोणं तप्तहेमाभं सरेफं रुद्रदैवतम् ।
तालुस्थानगतं ध्यायेद्वह्नितत्त्वं ज्वलत्प्रभम्

1.20.150

तत्रैव पञ्चघटिकाः प्राणं च मनसा सह ।
धारयेन्निहितं योगी ह्येषा वैश्वानरी परा

1.20.151

विषाग्निभीतिसंहर्त्री वातश्लेष्मादिरोगहृत् ।
वर्तुलं नीलमेघाभं भ्रुवोर्मध्ये प्रतिष्ठितम्

1.20.152

सयकारं वायुतत्त्वं नित्यमीश्वरदैवतम् ।
तत्रैव नाडिकाः पञ्च प्राणं च मनसा सह

1.20.153

धारयेद्वायवीयैषा विद्या खगतिदायिनी ।
मृगतृष्णाम्बुसङ्काशं हकारेण समन्वितम्

1.20.154

सदाशिवादिदैवं च ब्रह्मरन्ध्रगतं सदा ।
व्योमतत्त्वं निराकाशं शान्तं सर्वगतं प्रिये

1.20.155

तत्र प्राणं च संयम्य मनसा सह धारयेत् ।
यावत्स्युः पञ्च घटिका नभोविद्येयमीश्वरि

1.20.156

कथिता मोक्षदा देवि योगिनां दुःखहारिणी ।
स्तम्भनी पार्थिवी विद्या प्लावनी वारुणी मता

1.20.157

ततो वैश्वानरी विद्या दाहिनीति प्रकीर्तिता ।
वायवी भ्रामणी प्रोक्ता शमनी व्योमरूपिणी

1.20.158

क्रमशः पञ्चविद्याश्च धारणीयाः पृथक्पृथक् ।
स्वनामकर्मसदृशं फलं ददति योगिनाम्

1.20.159

एषा पञ्चविधा देवि धारणा भुवि दुर्लभा ।
<5. ध्यानम्>
तत्त्वेषु निश्चला चिन्ता या तद्ध्यानं प्रकीर्त्यते

1.20.160

ध्यानं द्विधेति विख्यातं सगुणं निर्गुणं प्रिये ।
सगुणं वर्णसहितं निर्गुणं वर्णवर्जितम्

1.20.161

लक्षं च वाजपेयानामश्वमेधसहस्रकम् ।
सकृद्ध्यानस्य योगस्य कलां नार्हन्ति षोडशीम्

1.20.162

प्रत्यङ्मना बहिर्दृष्टिर् ऋजुः पद्मासनस्थितः ।
ध्यानयोगः स विज्ञेयः सद्यः सिद्धिप्रदः शुभः

1.20.163

मूलाधारे सुवर्णाभे चक्रेऽस्मिन्प्रथमे प्रिये ।
ध्यात्वात्मानं च नासाग्रे लक्षयेद्धन्ति किल्बिषम्

1.20.164

स्वाधिष्ठाने च रत्नाभे ह्यात्मानं परिचिन्तयेत् ।
नासाग्रलक्षो दुःखेभ्यो मुच्यते योगिसत्तमः

1.20.165

बालारुणाभे चात्मानं चक्रेऽस्मिन्मणिपूरके ।
स्मृत्वा नासाग्रदृष्टिः संस्त्रिजगत्क्षोभयेद्यमी

1.20.166

विद्युन्मालानिभे चक्रेऽनाहते हृदयस्थले ।
प्राणायामेन बहुधा साधिते परमेश्वरि

1.20.167

आत्मानं चिन्तयेद्यस्तु नासाग्रगतलोचनः ।
भवेद्ब्रह्मसमो योगी वशीकृतमनाः प्रिये

1.20.168

घण्टिकायां विशुद्धाख्ये स्वर्णचम्पकसन्निभे ।
घ्राणाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्

1.20.169

लम्बिकायां सुधापूर्णे चन्द्रमण्डलमण्डिते ।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्

1.20.170

भ्रुवोर्मध्येऽञ्जनाकारे ध्यायेदात्मानमीश्वरि ।
जितप्राणो भवेद्योगी योगानन्दमयो भवेत्

1.20.171

निर्गुणं निरपायं च शिवं शान्तं परात्परम् ।
विश्वतैजसम् आत्मानं ध्यायेद्भ्रूमध्यलोचनः

1.20.172

ब्रह्मानन्दमयो योगी भवत्येव न संशयः ।
आज्ञाचक्रमिति ख्यातं परे व्योम्नि निरामये

1.20.173

शिवम् आत्मानमाचिन्त्य भवेज्ज्ञानमयो वशी ।
गगनाकारममलं मृगतृष्णाम्बुसन्निभम्

1.20.174

ध्यात्वात्मानं सर्वगतं मोक्षं व्रजति संयमी ।
अपानमेढ्रौ नाभिश्च हृदयं घण्टिका तथा

1.20.175

लम्बिका च भ्रुवोर्मध्यं नभश्च ब्रह्मरन्ध्रकम् ।
तव चक्रमिति ख्यातं देयं स्थानं च योगिनाम्

1.20.176

धारणा पञ्चघटिका षण्णाडी ध्यानमुच्यते ।
समाधिर्द्वादशाहं स्यात्प्राणसंयमनात्प्रिये

1.20.177

<6. समाधिः>
जलसैन्धवयोर्योगादेकत्वं च यथा भवेत् ।
चित्तात्मनोः सामरस्यं समाधिः स तु कथ्यते

1.20.178

मनः प्रलीयते चान्ते यदा प्राणक्षयो भवेत् ।
सामरस्यं तदा स्याच्च समाधिः स तु कथ्यते

1.20.179

प्रणष्टाखिलसङ्कल्पो जीवात्मा परमात्मना ।
यदेकत्वं भजेद्देवि समाधिः स तु कथ्यते

1.20.180

परापेक्षोज्झितं चित्तमिन्द्रियेषु प्रवर्तते ।
यदा जीवो गतश्चैक्यं तदा नैवेन्द्रियं मनः

1.20.181

शब्दं स्पर्शं च रूपं च रसं गन्धं परं तथा ।
आत्मानं च सुखं दुःखं मानामानं प्रियाप्रिये

1.20.182

शीताशीतं तथा वातमातपं यो न वेत्ति च ।
न बाध्यते स्वकर्मौघैर्न कैश्चिदपि बाध्यते

1.20.183

न शस्त्रैर्बाध्यते मन्त्रैर्यन्त्रैस्तन्त्रैर्न गृह्यते ।
नाग्निना न जलेनापि वायुना न च पीड्यते

1.20.184

अवध्यो देहिभिः सर्वैर् माननीयः सुरैरपि ।
आहारे च विहारे च निद्रायाम् अवबोधने

1.20.185

सर्वकर्मसु युक्तः सन्स तत्त्वं वेत्ति योगिनि ।
निरालम्बं निराकारमनाद्यन्तं निराश्रयम्

1.20.186

अनालयं निष्प्रपञ्चं निष्क्रियं निर्मलं महत् ।
निश्चलं निर्मलं नित्यं निर्गुणं व्योम चिन्मयम्

1.20.187

सदानन्दमनन्तं च सर्वगं विभु संततम् ।
एतद्ब्रह्मपदं तत्त्वं विद्धि त्वं विन्ध्यवासिनि

1.20.188

अनामये निरालम्बे निरातङ्के महाद्युतौ ।
निराभासे परे तत्त्वे योगयुक्तः प्रलीयते

1.20.189

दुग्धे दुग्धं घृते चाज्यमग्नावग्निर्जले जलम् ।
क्षिप्तं व्रजेत्तन्मयत्वं तथा ब्रह्मणि लीयते

1.20.190

<योगाभ्यासफलम्>
मयोदितमिदं सर्वं दिव्यवायुरसायनम् ।
यः सेवेत स पुण्यात्मा कृतकृत्यो जगत्त्रये

1.20.191

सर्वयज्ञफलोपेतः स स्नातः सर्वतीर्थके ।
स यशस्वी स योगीन्द्रः स एवामरवन्दितः

1.20.192

स एव सिद्धः शुद्धश्च मम तुल्यो वरानने ।
तस्मिन्स्निह्यति मे चेतस्तच्चित्तं मे निवासभूः

1.20.193

सफलं जीवितं तस्य पूतं तदुभयं कुलम् ।
तत्पदन्यासमात्रेण धरित्री पावनीकृता

1.20.194

यत्रोषितं क्षणं तेन पुण्यक्षेत्रं हि सा मही ।
धन्या तज्जनयित्री च पुण्यस्तज्जनकः प्रिये

1.20.195

तद्दर्शनात्सजीवाः स्युः शूलप्रोतादयः शवाः ।
तद्वाक्येनैव सर्वेऽपि लभन्तेऽपि शुभाशुभम्

1.20.196

तन्मूत्रमलसंस्पर्शाल्लोहा यान्ति सुवर्णताम् ।
किं पुनः कथ्यते देवि मम तुल्यपराक्रमः

मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc