भाषा

ENहिગુ
ग्रंथ पाठ

आनन्दकन्द · अध्याय 1.17

1.17.1

आक्, 1, 17
<उषःपानरसायनम्>
अथ प्रीतमना देवी पप्रच्छ परमेश्वरी ।
श्रीभैरवी ।
आदिभैरव देवेश सृष्टिस्थित्यन्तकारण

1.17.2

सर्वज्ञ शिव लोकेश त्वत्प्रसादान्मया विभो ।
रसायनानि दिव्यानि श्रुतानि विविधानि च

1.17.3

सुसाध्यं सुलभं दिव्यं सद्यः प्रत्ययकारणम् ।
बालस्त्रीषण्ढवृद्धानां रोगार्तानां विशेषतः

1.17.4

योग्यं रसायनार्हाणां ब्रूहि देव कृपानिधे ।
ततः स्मेराननाम्भोजो भैरवो भवभैरवः

1.17.5

श्रीभैरवः ।
शृणु देवि प्रवक्ष्यामि सर्वयोग्यं सुखङ्करम् ।
पावनं सुलभं चान्तर्बहिरंहोविनाशनम्

1.17.6

यस्माज्जगन्ति जातानि प्राणाः प्राणभृतामपि ।
त्रायते विश्वमखिलं सर्वदेवात्मकं प्रिये

1.17.7

त्रिदोषशमनं सौख्यं पथ्यं सर्वरसाधिकम् ।
षड्जीवनादिगुणयुग्रसयुक्तं बलप्रदम्

1.17.8

जीवनं च बलं प्रायः प्राणिनामग्निमूलकम् ।
तस्याग्निरिन्धनं तोयं तस्मात्तोयं पिबेद्बुधः

1.17.9

वैद्युतो बाडवो वह्निर्जाठरश्च त्रयोऽग्नयः ।
अबिन्धनाः स्युरन्येषां काष्ठादीनीन्धनानि हि

1.17.10

तस्माद्देवि शिवं वच्मि शृणु तोयरसायनम् ।
पूरयेन्नूतनघटे प्रातः शोध्यैश्च वारिभिः

1.17.11

गाङ्गेयैर्वाथ नादेयैस् ताटाकैर्वापि सारसैः ।
कौपैर्वा चापि वै घर्मैर्वार्षिकैर्वा यथाभवैः

1.17.12

तद्घटं स्थापयेन्मञ्चे दिव्यभास्कररश्मिभिः ।
नष्टदोषं निशायां च चन्द्रामृतकराप्लुतम्

1.17.13

एलोशीरककर्पूरचन्दनैरधिवासितम् ।
पाटलीकेतकीजातिमल्लिकोत्पलवासितम्

1.17.14

उशीरतालवृन्तेन तोयसिक्तेन मन्द्रतः ।
मुहुर्मुहुर्वीजितं तु हंसोदकमुदाहृतम्

1.17.15

अनुराधोदयात्पूर्वं नास्पृष्टमलमूत्रकम् ।
पिबेत्तोयं ततः कुर्यान्मलमूत्रविसर्जनम्

1.17.16

सन्ध्यावन्दनकर्मादि कुर्वन्स्वेच्छाशनो भवेत् ।
एकाब्दबालको नित्यं पिबेत्तोयं पलं पलम्

1.17.17

एवं षोडशवर्षान्तं प्रत्यब्दं च पलं पलम् ।
वर्धयेत् क्रमशो धीमान्पलषोडशिकावधि

1.17.18

षोडशाब्दात्परं सेव्यं षोडशप्रसृतं जलम् ।
एवं विंशतिवर्षान्तं नित्यं सेवेत सादरम्

1.17.19

अनेन व्याधयः सर्वे विनश्यन्ति न संशयः ।
जीवेद्वर्षशतं बुद्धिबलेन्द्रियसुखान्वितः

1.17.20

प्रसृतं च पिबेदष्टपलं दीर्घायुषाय च ।
यथा वह्निबलं तोयं त्र्यहाद्वा पञ्चवासरात्

1.17.21

सप्ताहाद्वा क्रमात्प्राज्ञः प्रसृतं प्रसृतं तथा ।
पुनस्तु कुडवं वापि वर्धयेत्तच्छनैः शनैः

1.17.22

षोडशप्रसृतं यावत्तावत्सेव्यं ततः परम् ।
यथा यथाम्बुनो वृद्धिस्तथा दोषः प्रशाम्यति

1.17.23

षण्मासं वा वत्सरं वा वाद्यन्तं वा पिबेज्जलम् ।
यथा वृद्धिस्तथा ह्रासो यावच्चुलुकमात्रकम्

1.17.24

उपवासं दिवा रात्रौ पथ्याशी तत्परित्यजेत् ।
आत्यन्तिके च व्यायामे सति वाञ्जलिमात्रकम्

1.17.25

पादमर्धं त्रिपादं वा यथा सेवाञ्जलिं पिबेत् ।
मध्वाज्यतैलदुग्धाज्यजलाद्यन्यतमैर् युतम्

1.17.26

हन्याच्छीघ्रं वातरोगमथवास्यस्थभेषजैः ।
तत्तद्रोगोपशमनं भक्षयित्वा च भेषजम्

1.17.27

ततो जलं वा प्रपिबेन्मुहूर्ते वा गते सति ।
जीर्णे वा सलिले सेव्यं भोजनान्तेऽथवा निशि

1.17.28

ज्वरादिरोगे संजात उपवासो भवेद्यदि ।
पिबेद् अर्धं च पूर्वस्माल्लघ्वाहारी यथासुखम्

1.17.29

उपवासो व्रतार्थं चेत् तत्क्षीरं वा पलं निशि ।
रात्रावभोजनं देवि जठरे वारि शुष्यति

1.17.30

अर्धं वा प्राञ्जलिं वारि पिबेन्नित्यं प्रयत्नतः ।
सर्वत्राहारसत्वाग्निसाम्यं वारि पिबेत्सुधीः

1.17.31

विण्मूत्रोत्सर्जनं ब्राह्मान्मुहूर्तात्पूर्वतो यदि ।
ततः पीत्वैव सलिलं विण्मूत्रं च विसर्जयेत्

1.17.32

वारि पूतं विषं त्वल्पं विण्मूत्रोत्सर्जनात्परम् ।
अज्ञातवेले रात्रौ चेत्पिबेत्तोयं पुनः प्रगे

1.17.33

पादं वाथ चतुर्थांशमञ्जलिं वा पिबेज्जलम् ।
<जलपानकल्पे पथ्यम् अपथ्यञ्च>
गोधूमषष्टिशाल्यन्नं यवजाङ्गलजामिषम्

1.17.34

गव्यं सर्पिर्दधि क्षीरमुदश्विन्नवनीतकम् ।
मध्विक्षुदाडिमद्राक्षामोचखर्जूरशर्कराः

1.17.35

सहकारफलं धात्री नालिकेरजलं नवम् ।
कूष्माण्डालाबुरुनिम्बपत्रफलानि च

1.17.36

पत्रपुष्पफलं शिग्रोर्मुद्गयूषरसौ कृतौ ।
सुनिषण्णकगोरण्टी जीवन्तीद्वयकं तथा

1.17.37

राजवृक्षकशोथघ्नी चिल्ली वापि लघुच्छदा ।
शतावरी तण्डुली च मत्स्याक्षी च विदारिका

1.17.38

उपोदकी च वार्त्ताकी कारवल्लीफलानि च ।
लघुकोशातकी लक्ष्मी पटोलं तालमूलकम्

1.17.39

मोचायाः कुसुमं दण्डफलानि क्षुद्रदन्तिका ।
सदाफलं च मत्स्याण्डी शृङ्गवेरं च सैन्धवम्

1.17.40

फलपूराम्लकं पक्वधात्रीफलम् अलर्ककः ।
वायसी कुन्तली चैव वसुकन्यालिका तथा

1.17.41

कुस्तुम्बरी च सरसी शार्ङ्गेरी चक्रमर्दकः ।
मण्डूकपर्णी पालक्याः पत्रं गाङ्गेरुकं तथा

1.17.42

आखुकर्णी कासमर्दपत्रं गाङ्गेरुकं तथा ।
संस्कारार्थं च कैडर्यसैन्धवोषणजारकाः

1.17.43

सर्वेऽपि मधुरप्रायाः स्वादुशीताः सुखप्रदाः ।
कतकस्य च पथ्यायाः शलाटुं लवणाक्तकम्

1.17.44

नीलोत्पलाब्जयोर् नालपुष्पशालूककेसराः ।
स्नेहयुक्तं भजेत्स्नानं श्वेताम्बरधरः शुचिः

1.17.45

कस्तूरीचन्दनहिमकर्पूरैर् अनुलेपनम् ।
मन्दानिलं पुष्पमाल्यं कौमुदीरत्नभूषणम्

1.17.46

पथ्यं रुच्यं जलीयं च स्वादुप्रायं च सद्रवम् ।
घृतक्षीरयुतं भक्तं भुञ्जीतोदकसेवकः

1.17.47

ताम्बूलचर्वणं कुर्यात् सकर्पूरं सुखासनम् ।
नारिकेलजलं सायं निशि क्षीरं सशर्करम्

1.17.48

शाल्मली तूलशय्या च निशि निद्रा यथासुखम् ।
ऊनातिमात्रविष्टम्भिविबन्ध्युष्णखराणि च

1.17.49

रूक्षाहृद्यस्थिरगुरुपिच्छिलाकालभोजनम् ।
कुल्माषबृहतीचोषद्वयालाबुनिरूढकम्

1.17.50

कुलुत्थयूषकालिङ्गगुञ्जावृक्षफलं तथा ।
पलाण्डु लशुनं सर्वकन्दं सिद्धार्थकं तथा

1.17.51

अजाङ्गलं पलं मत्स्यं किंचित्क्षीरान्नभोजनम् ।
अनुक्तशाकमन्नं च फलं क्षीरयुतं पलम्

1.17.52

सर्वक्षीरयुतान्सर्वान्रसानमधुरानपि ।
तिलतैलं च तत्कल्कम् एतैः संयुक्तम् औषधम्

1.17.53

बहुभाष्यातपछायासमचिन्ताध्वरोषणम् ।
शोकवाहनभीतिश् चालस्यात्यन्तरतं तथा

1.17.54

मूर्ध्नि भारवहश्चांभस्तरणं चोपवासकम् ।
व्यायामेर्ष्यादिवास्वापो निशि जागरणं तथा

1.17.55

पुरोवातो हिमं धूलिर्वातप्रायस्थलं तथा ।
धूमप्रायगृहं तल्पं कार्पासपरिकल्पितम्

1.17.56

अग्निः श्रमाम्बुजननं तथोष्णाम्बरधारणम् ।
कौशेयधारणं तूर्वोस्ताडनं कठिनासनम्

1.17.57

उष्णालयक्षारकूपसलिलं कटुतिक्तकौ ।
अम्लः कषायतिक्तश्च रामठं च विरूक्षकम्

1.17.58

मदिरा च वसा मज्जा मूत्रं दुष्टजलानि च ।
मदं शीतमनारोग्यं भोजनं तैलवर्जितम्

1.17.59

अभ्यङ्गं काञ्जिकं शीतं रोगाभावे कषायकम् ।
विदाहि शोषणं मूर्ध्नि स्नानमप्युष्णवारिभिः

1.17.60

कारणं दोषकोपानां निन्द्यमन्यद्विवर्जयेत् ।
<पीतजलजीर्णलक्षणम्>
स्वस्थः पीत्वा सुखासीनः सलिलं वाग्यतः शुचिः

1.17.61

विसर्जयेन्मलं मूत्रं ताम्बूलादींश्च वर्जयेत् ।
यावज्जलं पिबेत्तावन्मूत्रं निर्याति चेत् तदा

1.17.62

जलं जीर्णं विजानीयादौषधेन विना यदा ।
निर्गच्छेत्सलिलं पीतं तदा स्वस्थतरो मतः

1.17.63

निर्गते पीतसलिले निःशेषे क्षुत्प्रजायते ।
तैलाभ्यङ्गं ततः कुर्याद्विहितं पथ्यमाचरेत्

1.17.64

<जलाजीर्णलक्षणं तत्परिहारश्च>
परिहारं विना रोगा जायन्ते नाविचारतः ।
श्रमः क्लमश्च वमनं शिरस्तोदः शिरोभ्रमः

1.17.65

सलिलस्तम्भशोषौ चाभिष्यन्दो वेगरोधनम् ।
गुल्मोदावर्तकौ वह्निसदनं गात्रभञ्जनम्

1.17.66

तोदो बस्तौ मेहने च वक्षणे हृदि लोचने ।
जङ्घोद्वेष्टनकं श्वासो भुक्तिद्वेषस्त्वरोचकः

1.17.67

अश्मरी पीनसः कासस्त्वतिसारश्च दुस्तरः ।
सकृदम्भोविशोषश् चेद् रूक्षायासादिकर्मभिः

1.17.68

स दोषो न तु विज्ञेयो दोषस्तंभोऽसकृद्यदि ।
प्रपीते सलिले स्तब्धे चिकित्सात्र विधीयते

1.17.69

कूष्माण्डपत्रैर् उदरं बस्तिं चाच्छादयेत्सुधीः ।
मूत्रमोचनकृल्लेपं विदध्याज्जलमुक्तये

1.17.70

यद्वाज्यधात्रीलिप्ताङ्गस्नानं कुर्याद्रसायनम् ।
सगुडं वा पिबेत्क्षीरं तक्रं वा शर्करान्वितम्

1.17.71

नालिकेरोदकैर्वापि ससितोर्वारुबीजकम् ।
कष्टाज्जीर्णं जलं यस्य भुक्तेः प्राक् सर्पिर् आददेत्

1.17.72

यद्वा तिष्ठेच्चिरं चाप्सु स्नायाद्धात्र्यादिभिर्हिमैः ।
यद्वा स्तब्धे जले पीते स्वादुशीतैर्विशोधयेत्

1.17.73

कृष्णामदनसिन्धूत्थैः कल्कैर्मधुयुतैर्वमेत् ।
पथ्याचूर्णं नालिकेरजलैः पीत्वा विरेचयेत्

1.17.74

यद्वा त्रिजातकव्योषक्रिमिघ्नामलकाब्दकैः ।
त्रिवृत्सर्वसमा योज्या ह्येतत्सर्वसमा सिता

1.17.75

सक्षौद्रगुलिकां कृत्वा लिहेदम्भोविमुक्तये ।
रात्रौ वरा सेविता चेत्सर्वदोषविनाशिनी

1.17.76

नाभेरधश्चार्द्रपटं क्षणमात्रं निधापयेत् ।
अवगाहेन शीताम्भो मूर्ध्नि वा शीतवारि च

1.17.77

निक्षिपेदथवा सार्द्रसिकतातल्पशोभिते ।
धारागृहे वा चासीत त्रपुसोर्वारुबीजकम्

1.17.78

वरीद्राक्षाम्बुना पेयं वा तु काश्मीरजं वृषम् ।
द्राक्षारसेन वा पेयं कर्कटीबीजकानि च

1.17.79

तण्डुलक्षालनजलैर्मधुकं वाथ शर्कराम् ।
सद्राक्षं च गुडं दार्वीं तण्डुलोदकयोगतः

1.17.80

यद्वा धात्रीफलरसैर्गोस्तनीं शर्करान्विताम् ।
वरीं वा शर्करायुक्तां द्राक्षां वा मस्तुना सह

1.17.81

जलेन वा गुडं पेयं नालिकेरजलेन वा ।
तुगाक्षीरीभवं कल्कं वापि कर्कारुबीजकम्

1.17.82

कल्पं वा तामलक्याश्च मूलं वा यष्टिकल्ककम् ।
पिशाचकदलीपक्वफलं क्षौद्रसितान्वितम्

1.17.83

नालिकेरजलैर्वापि तक्रैर्वा मस्तुनापि वा ।
रम्भाकन्दजलैर्वापि क्षीरैर्वामलकीरसैः

1.17.84

यद् वामृतारसैर् वापि कूष्माण्डस्वरसेन वा ।
दाडिमस्य रसैर्वापि त्वभीरोश्च रसैस्तथा

1.17.85

अलाबोश्च रसैर्वापि पिबेदेलां सशर्कराम् ।
कदलीकन्दयष्ट्याह्वश्वदंष्ट्राश्च कशेरुकाः

1.17.86

तृणपञ्चकमूलानि शुक्रा चैव शतावरी ।
एतेषां कदलीकन्दप्रमुखानां कषायकम्

1.17.87

सक्षौद्रं ससितं वापि पेयं जलविमुक्तये ।
<उषःपानगुणाः>
एवं ब्राह्मे मुहूर्ते यत्पीतं वारि रसायनम्

1.17.88

दोषान् अशेषान् शमयेद् रोगानपि विनाशयेत् ।
रक्तवातं च वातांश्च हृद्रोगं श्वासकासकम्

1.17.89

रक्तपित्तं च पित्तानि ग्रहणीछर्द्यरोचकान् ।
क्षयमूर्च्छाकुष्ठमेहमोहगण्डार्बुदान् गदान्

1.17.90

गुल्मप्लीहाश्मरीशूलानाहाजीर्णविषूचिकाः ।
क्रिमिं पाण्डुं कामिलां च हलीमकविसर्पकाः

1.17.91

व्रणं च श्वयथुं श्वित्रमग्निसादं त्रिधा विषम् ।
जत्रूर्ध्वगुह्यकान् रोगान् अपस्मारं च विभ्रमम्

1.17.92

ज्वरान् आध्मानजठरमूत्राघातगुदाङ्कुरान् ।
वलीपलितनिर्मुक्तो जीवेत्त्रिशतवत्सरम्

1.17.93

स्थिरधीर्बलवान्धीरः कान्तः कान्तामनोभवः ।
<नासापानरसायनम्>
नासापुटाभ्यां सलिलं यस्तु प्रातः पिबेन्नरः

1.17.94

शुक्तिमात्रं प्रतिदिनं पथ्याशी विजितेन्द्रियः ।
इन्द्रियाणां पटुत्वं च वलीपलितनाशनम्

1.17.95

शतायुष्यम् अवाप्नोति नासारन्ध्ररसायनम्

मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc