भाषा

ENहिગુ
ग्रंथ पाठ

आनन्दकन्द · अध्याय 1.14

1.14.1

आक्, 1, 14
<विषम्; विषोत्पत्तिः>
श्रीभैरवी ।
श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् ।
विषोत्पत्तिं च जातिं च सेवां वद च तत्फलम्

1.14.2

श्रीभैरवः ।
क्षीरोदधौ मथ्यमाने मन्थनीकृतमन्दरैः ।
सिद्धकिन्नरगुह्येन्द्रपिशाचोरगराक्षसैः

1.14.3

ब्रह्माद्यैरखिलैर् देवैरेकतो दनुजाधिपैः ।
दैत्यैरन्यत्र विपुलैर्महाबलपराक्रमैः

1.14.4

ततो जातानि रत्नानि कौस्तुभादीनि कामगौः ।
कल्पवृक्षो महालक्ष्मीर् ऐरावतमहागजः

1.14.5

उच्चैःश्रवास्तथा चेन्दुर्धन्वन्तरिभिषग्वरः ।
अमृतं च लता दिव्या दिव्यसिद्धिप्रदायकाः

1.14.6

मन्दरभ्रमणश्रान्तनागराजमुखात् ततः ।
विषज्वाला समुत्पन्ना तीव्रा लोकभयंकरी

1.14.7

ममज्ज क्षीरजलधावत्यन्तमथनात्पुनः ।
कालकूटं महाक्ष्वेडं कल्पान्तयमसन्निभम्

1.14.8

संवर्ताग्निप्रतीकाशं वीक्ष्य भीताः सुरास्तदा ।
ममान्तिकं समाजग्मुः स्तुवन्तो दीनमानसाः

1.14.9

स्वामिन्सर्वोत्तम त्राहि शरणागतपालक ।
इत्यादि बहुधा स्तोत्रं कुर्वाणास्ते सुरासुराः

1.14.10

अहं स्मितमुखं कृत्वा कालकूटं तदापिबम् ।
तत्र तत्रावशिष्टं तद्बहुधा समभूद्भुवि

1.14.11

क्वचिन्मूलस्वरूपेण क्वापि त्वग्रूपतः प्रिये ।
कुत्रापि पर्णरूपेण तोयरूपेण कुत्रचित्

1.14.12

एवं बहुविधं जातं तत्र तत्र विषं गतम् ।
तेषां श्रेष्ठं कन्दविषमष्टादशविषं प्रिये

1.14.13

<पोइसोन्:: 10 किन्द्स्>
क्रमाद्भेदं प्रवक्ष्यामि कालकूटं च दर्दुरम् ।
हालाहलं मेषशृङ्गं मोहदं ग्रन्थि कर्कटम्

1.14.14

रक्तशृङ्गि हरिद्रं च केसरं दशमं स्मृतम् ।
एते दशविधाः क्ष्वेडा न प्रयोज्या रसायने

1.14.15

<पोइसोन्:: 8 किन्द्स्>
श्वेतशृङ्गी वत्सनाभं सर्षपं शृङ्गि वालुकम् ।
मुस्तकं सक्तुकं देवि चाष्टमं कर्दमं भवेत्

1.14.16

रसायने योजनीयास्त्वष्टौ भेदाः प्रकीर्तिताः ।
कालकूटं काकचञ्चुप्रभं दर्दुरसन्निभम्

1.14.17

दर्दुरं नीलवर्णं च हालाहलविषं समम् ।
मेषशृङ्गी तु मेषस्य शृङ्गाभं मोहदं पुनः

1.14.18

रक्तनीलप्रभं देवि ग्रन्थिकं ग्रन्थिसंयुतम् ।
कर्कटं कपिलाभं च रक्तशृङ्गि महाविषम्

1.14.19

कृष्णपिङ्गं च रक्ताभं हरिद्राभं हरिद्रकम् ।
केसरं पद्मकिञ्जल्कप्रभं दशविधं त्विति

1.14.20

श्वेतशृङ्गीभदन्ताभं वत्सनाभं च पाण्डुरम् ।
सर्षपाकृतिभिर्युक्तं बिन्दुभिः सर्षपं भवेत्

1.14.21

शृङ्गी शृङ्गाकृतिर्ज्ञेयो वालुकं वालुकाकृति ।
मुस्ताकृतिर्मुस्तकं स्याच्छ्वेतवर्णं तु सक्तुकम्

1.14.22

मधूच्छिष्टाकृतिर्देवि कर्दमं विषमुत्तमम् ।
विषखण्डेषु भग्नेषु दृश्यन्ते येषु बिन्दवः

1.14.23

श्वेतरक्तपीतवर्णाः कृष्णा विप्रादयः क्रमात् ।
श्वेता रसायने रक्ता वश्ये पारदकर्मणि

1.14.24

क्षुद्रकर्मणि पीताः स्युः कृष्णवर्णास्तु मारणे ।
विषं युक्त्यामृतं देवि तदयुक्त्या विषं भवेत्

1.14.25

तस्माद्युक्त्या विषं सेव्यमयुक्त्या न कदाचन ।
रसाभ्रहेमकान्तानां वीर्येण सदृशं विषम्

1.14.26

<विषशुद्धिः>
रक्तसर्षपतैलेन लिप्ते वस्त्रे च बन्धयेत् ।
त्रिदिनान्ते समुद्धृत्य टङ्कणेन समं विषम्

1.14.27

मर्दयेच्छ्लक्ष्णचूर्णं तत्कारयेच्च विशुध्यति ।
रोगे रसायने योज्यं सिद्धिदं स्याद्वरानने

1.14.28

<विषरसायनम्>
शुद्धदेहो विरेकाद्यैः पथ्याशी विषभुग्भवेत् ।
क्रमेण सेवनीयं तत्सर्षपं राजसर्षपम्

1.14.29

मुद्गव्रीहियवा माषा गुञ्जामात्रं परावधिः ।
शर्करासहितं सेव्यं क्ष्वेलं तदमृतं भवेत्

1.14.30

कट्वम्ललवणास्त्याज्या व्यायामोष्णातपादयः ।
तैलसर्षपखाद्याश्च वर्ज्या विषरसायने

1.14.31

गव्यं क्षीरं घृतं तक्रं स्निग्धं दधि च शर्करा ।
सेव्या स्वादुरसद्रव्या नोचेद्विकृतिकारणम्

1.14.32

<विषोपद्रवास्तच्चिकित्सा च>
मात्रया सेवितं क्ष्वेलम् अमृतं भवति प्रिये ।
अतिमात्रं यदि भवेदमृतं च विषायते

1.14.33

प्रमादादतिमात्रं चेत् तदा वेगा भवन्ति च ।
कष्टं प्रथमवेगे स्याद्वेपथुश्च द्वितीयके

1.14.34

तृतीये च तृषा दाहश् चतुर्थे गतिभञ्जनम् ।
फेनिलास्यः पञ्चमे स्यात्षष्ठे कन्धरभञ्जनम्

1.14.35

सप्तमे च निरुत्थानं मरणं चाष्टमे भवेत् ।
तस्माच्छीघ्रं प्रतीकारः करणीयो वरानने

1.14.36

किंचिन्मात्राधिकं क्ष्वेलं नानारोगान्करोति तत् ।
भ्रान्तिविस्मृतिशूलानि वान्त्यतीसारकं परम्

1.14.37

स्वरसादं गद्गदत्वं दाहं दृष्टिभ्रमं तथा ।
कर्णरुक्श्वासकासादीन् अन्यान् वातोद्भवान् गदान्

1.14.38

यदातिमात्रं चिह्नानि दृश्यन्ते वपुषि प्रिये ।
तदा तु टङ्कणं निष्कम् आज्यं चापि चतुर्गुणम्

1.14.39

पेयं तत्परिहारार्थं जलैर्वा तण्डुलीयकम् ।
मज्जां वा पुत्रजीवस्य फलान्निष्कं जलान्वितम्

1.14.40

तुत्थं पणद्वयोन्मेयं नृमूत्रैर् वा हरिद्रकम् ।
वचां वा देवदालीं वा सर्पाक्षीं वाथ सार्बुणीम्

1.14.41

पटोलीं गिरिपर्णीं नृमूत्रैर्विषजित्पृथक् ।
लां यां वां हां चतुर्वर्णैर् गारुडं संपुटीकृतम्

1.14.42

स्तम्भस्तोभननिर्वाहनिर्विषीकरणं तथा ।
लां प्रों लां अनेन मन्त्रेण स्तम्भनम् ।
शीतजलघटम् अभिमन्त्र्य विषातुरस्य मस्तके जलं ढालयेत् ।
विषं नाक्रामति ।
यां प्रों यां अनेन स्तोभनमन्त्रेण विषातुरस्य शिखिनमन्धयेत् ।
वां प्रों वां अनेन निर्वाहमन्त्रेणार्कदण्डं वा धुत्तूरकाष्ठदण्डं वाभिमन्त्र्य विषातुरस्य सर्वाङ्गं स्पृष्ट्वा विषं निर्वाहयेत् ।
हां प्रों हां अनेन निर्विषीकरणमन्त्रेण निर्विषीकरणार्थं विषातुरस्य सर्वाङ्गं दण्डेनापामार्जयेत् स्वस्थो भवति ।
जीर्णं क्ष्वेलं शरीरे चेत्पित्तान्तं वमनं प्रिये

1.14.43

आमान्तं रेचनं कार्यं तण्डुलीयकमूलभुक् ।
सेवेत मांसं सघृतं विषदोषहरं भवेत्

1.14.44

पूर्वोक्तमात्रासेवी यो महाव्याधेर्विमुच्यते ।
देवि षण्मासयोगेन जरापलितखण्डनम्

1.14.45

संवत्सरोपयोगेन जीवेच्चन्द्रार्कतारकम् ।
हिमशीतवसन्तेषु योज्यं विषरसायनम्

1.14.46

ग्रीष्मवर्षशरत्स्वेतन्न प्रयोज्यं कदाचन ।
वातस्थविरगर्भिण्यः क्षुत्तृड्घर्माध्वपीडिताः

1.14.47

नपुंसका गदक्षीणाः पित्तक्रोधाधिकास्तथा ।
यक्ष्मिणो नैव योग्याः स्युः सदा विषरसायने

मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc