अमृतेशतन्त्रम् · अध्याय 1
ओं नमः शिवादिभ्यो गुरुभ्यः ।
यस्तृधा त्रिष्ववस्था सुरूपमास्थाय शक्तिमान् ।
उद्भवस्थितिसंहारकृत्स्नं विश्वस्य शक्तितः ॥
विदधाति नमस्तस्मै शुद्धामृतमयात्मने ।
शिवाय ब्रह्मविष्ण्वेश पराय परमात्मने ॥
कैलासशिखरासीनं देवदेवं महेश्वरं ।
क्रीडंतं च गणैः सार्द्धं पार्वत्या सहितं हरं ॥
दृष्ट्वा प्रमुदितं दैवं प्राणिनां हितकाम्यया ।
उत्संगादवतीर्याशु पादौ जग्राह पार्वती ॥
पप्रच्छ परया भक्त्या सन्तोष्य परमेश्वरं ।
श्रीदेव्युवाच ॥
भगवन् देवदेवेश लोकनाथ जगत्पते ।
यं त्वया महदाश्चर्यं कृतं विस्मयकारकं ॥
सर्वस्य जगतो देव किंतु मे परमेश्वर ।
दुर्विज्ञेयं दुराराध्यं रहस्यं न प्रकाशितं ॥
कार्तिके यस्य न मया न सुरेषु गणेषु च ।
योगेश्वरीणां मात्रीणां ऋषीणां योगिनां न हि ॥
तदद्य मे जगन्नाथ सुप्रसन्नो यदि प्रभो ।
१ब्)
प्रार्थयामि प्रपन्नाहं निःशेषं वक्तुमर्हसि ॥
एवं देव्या वचः श्रुत्वा प्रसन्नवदनो व्रवीन् ।
भगवानुवाच ॥
किं किं वदसि सुश्रोणि रहस्यान्ते हृदि स्थितं ॥
सर्वं वक्ष्याम्यसंदेहि तोषितो ऽहं त्वया ऽनघे ।
देव्युवाच ॥
भगवन् देवदेवेश चित्राश्चर्य विधायकं ।
आश्चर्यमीदृशं रम्यं न श्रुतं तच्छृणोम्यहं ॥
विभो प्रसन्नवदन परमानंदकारक ।
अमात्सर्येण भगवन् कथनीयं त्वया मम ॥
यत् तदापोमयं देव चक्षुः सर्वत्र दृश्यते ।
तस्मादग्निः कथं रौद्र उत्पन्नः कालदाहकः ॥
येन वै दृष्टमात्रेण पित्रीषा भस्मसात् कृतः ।
किं तद्रौद्रं कृतं देव वह्निः कालदिदृक्षया ॥
प्रज्वालित जगत्सर्वं ब्रह्मादिच्छा वरान्तिकं ।
कामस्तथैव निर्दग्धो लीलया परमेश्वर ॥
क्रोधनेत्रानले नाथ दृश्यते यन्न कस्यचित् ।
२अ)
कृतं तद् देवदेवेन महाविस्मयकारकं ॥
देवनेत्रांतरे ह्यग्निस्त्वदृते कस्य दृश्यते ।
किं वा वह्निमयं चक्षुस्तत्कथं न विभाव्यते ॥
येन वै चक्षुषा कृत्स्नं प्रसरस्त्वं जगत्पते ।
सर्वामृतमयेनैव जगदाप्यायकृत् क्षणात् ॥
ममानंदयसे देव प्रसन्नेनैव चक्षुषा ।
अमृताकारसंशुभ्रं जगदाप्यायकारकं ॥
तस्मात् कालानलप्रख्यं कुतो वह्निः प्रजायते ।
एतत् सर्वं समासेन भगवन् वक्तुमर्हसि ॥
भगवानुवाच ॥
अतिकौतूहलाविष्टा पृच्छस्येतच्छृणु प्रिये ।
यन्मे नेत्रांतरे ह्यग्नि यद्वामृतमनुत्तमं ॥
तत्सर्वं संप्रवक्ष्यामि योगयुक्त्या शृणु प्रिये ।
यत्स्वरूपं निजं शुद्धं व्यापकं सर्वतोमुखं ॥
सर्वभूतान्तरावस्थं सर्वप्राणिषु जीवनं ।
योगगम्यं दुराराध्यं दुष्प्रापंमकृतात्मभिः ॥
स्वसंवेद्यं स्ववीर्यं च ममैव परमं पदं ।
तद्वीर्यं सर्ववीर्याणां तद्वै बलवतां बलं ॥
२ब्)
तदोजस्तेजसां सर्वं शाश्वतं ह्यचलं ब्रुवं ।
साममेच्छा पराशक्तिर्ह्यवियुक्ता स्वभावजा ॥
वह्नि ऊष्मे च विज्ञेया रविरूपा रवेरिव ।
सर्वस्य जगतो वापि सा शक्तिः कारणात्मिका ॥
सर्वज्ञादि गुणास्तत्र व्यक्ताव्यक्ताश्च संस्थिता ।
सैवेच्छा ज्ञानरूपा च ज्ञानादि गुणविस्मृताः ॥
ज्ञानादि षट्गुणा ये च तत्रस्थाः प्रभवन्ति च ।
सा वै क्रिया महारूपा संस्थितैका क्रिया मता ॥
अणिमादि गुणानष्टौ करोति विकरोति सा ।
एवं ममेच्छा ज्ञानाज्ञा क्रियाख्या शक्तिरुच्यते ॥
सूर्याचंद्रमसौ वह्निस्त्रिधामपरिकल्पना ।
त्रिनेत्रकल्पनामह्यं तदर्थमिह दृश्यते ॥
दहनाप्यायनन्तेन प्रकाश्य विदधाम्यहं ।
सृष्टिस्थितिं संहृतिं च तनुर्विधाम्यहं ॥
तद्वीर्या पूरितं सर्वं मत्तेज उपबृहितं ।
इच्छाज्ञानक्रियारूपं नेत्रामृतमनुत्तमं ॥
तद्वीर्यं परमं धाम यत् परामृतरूपकं ।
३अ)
स एष परमानंदो देहे तत् परमं पदं ।
तदेतन्निष्कलं ज्ञानं विशुद्धं नेत्रमुत्तमं ॥
मृत्युजित् तेन चाख्यातं सर्वेषा मोक्षदायकं ।
तत् सिद्धिदं परं देवि सर्वदुःखविमोक्षदं ॥
सर्वव्याधि हरं देवं सर्वाहरमयं शिवं ।
दारिद्र्य दमनं नित्यं मृत्युजित् सर्वतो मुखं ॥
अमोघममलं शान्तं सर्वगं सर्वसंस्थितं ।
सूर्यकोटिसहस्राणां वह्न्यायुतसहस्रशः ॥
यत् तेजसा समस्तस्य कलानार्घंन्ति षोडशी ।
सर्वन्तेजोमयं तस्मादप्रधृष्यं सुरासुरैः ॥
तेन नेत्राग्निना सर्वं निर्दहानि क्षणाद्ध्रुवं ।
तेनैवाप्यायनं भूयः प्राकाश्य विदधाम्यहं ॥
तस्मात् परतरं नान्यत् किं विद्वीर्य प्रदृश्यते ।
तदेवास्त्रमयं रौद्रं अणोः सन्तारणं परं ॥
क्षयकृत् सा शत्रूणां अस्त्रंस्त्वेतदुदाहृतं ।
सर्वेषामेव भूतानां आयुद्धान्ते तदायुधं ॥
तदेकं बहुधा वीर्यं भेदानंतविसर्पितं ।
महापाशुपतं मह्यं विष्णोस्तच्च सुदर्शनं ॥
३ब्)
ब्रह्मणो ब्रह्मदंडश्च सर्वेषां स्वस्वमायुध ।
अनेकाकाररूपेण आयुधं तदनेकधा ॥
सुराणां सुस्वरूपेण मयावीर्यं समर्पितं ।
ज्ञानशक्त्या तु योगेश्या तेन व्याप्तमिदं जगत् ॥
भीतानां सा परा रक्षात्र स्नानां अभयं परं ।
शत्रुभिश्चार्दितानां तु मोक्षदं परमं ध्रुवं ॥
किं वा विस्तरणोक्तेन पौनपुण्येन सुंदरि ।
यद्यन्निव्रतरं रौद्रं श्रीमद्वर्जितमेव वा ॥
प्रसादं वरदं श्रेयः प्रकाश्यन्तत्तदेव हि ।
तद् ज्ञेयमप्रमेयं च ज्ञानं मन्त्रं महाबलं ॥
त्रातारं सर्वभूतानां गुप्तगोप्यं सदा मया ।
तवाद्य कथितं देवि भूयः परिपृच्छसि ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृत्तिशविधाने तंत्रावताराधिकारो नाम
प्रथमः पटलः ॥ १ ॥
श्रीदेव्युवाच ॥
यद्येवं परमं शान्तं अप्रमेयं गुणालयं ।
सर्वानुग्रहकं वीर्यं देवदेव मुखाच्छ्रुतं ॥
४अ)
भगवं देवदेवेश लोकानुग्रहकारक ।
त्रियोनिजमिदं सर्वं देवमानुष तिर्यगं ॥
आधिव्याधि भयो द्विग्नं विषभूतभयार्दितं ।
अपमृत्यु शतां कर्णं ज्वरकासक्षयान्वितं ॥
भूतजं मानुषे लोके विप्राद्याः प्राणिनस्तथा ।
दुःखदोषशताकीर्णं कुतंस्तेषां सुखं विभो ॥
युगानुरूपभावेन तेषामायुं स्वमानतः ।
जिघांसन्ति बलोपेतास्त्वत्तेजबलबृंहिताः ॥
अनेकशतभेदैस्तु व्याधादि विनिपीडिताः ।
तेषामनुग्रहार्थाय कृपया प्राणिनां हितं ॥
उपायस्तु जगन्नाथमुच्यन्ते येन सर्वतः ।
येन येन प्रकारेण ज्ञानयोगेन मंत्रतः ॥
यत् तत् पश्यति देवेश तमुपायं वदस्व मे ।
एवं देव्या वचः श्रुत्वा प्रहस्यो वारशंकरः ॥
ईश्वर उवाच ॥
अतिकारुण्यया विष्टा देवित्वं पृच्छसे मम ।
न केन विदहं पृष्ठो नाख्यातं कस्य चिन्मया ॥
यत् तत् सर्वेषु नेत्रेषु नेत्रभूतं(?) प्रकीर्तितं ।
४ब्)
ममांशकेन केनापि लक्षितं तु सुदुर्लभैः ।
तवाद्य कथयिष्यामि तृप्रकारं परं ध्रुवं ॥
मंत्रयोगज्ञानगम्यं मोक्षदं सिद्धिदं परं ।
आदौ मंत्रमयं वक्ष्ये सिद्धत्रयसमन्वितं ॥
सांगं स्वमुद्रया युक्तं सर्वत्राणकरं परं ।
भूतयक्षग्रहोन्माद शाकिनी योगिनी गणैः ॥
भगिनी रुद्रमात्रीभि डाव्याडामरकादिभिः ।
रूपिकाभिरपस्मारैः पिशाचैश्चाप्यनेकशैः ॥
ब्रह्मरक्षोग्रहादिभ्यः कोटिशो यदि मुद्रिताः ।
अपमृत्युभिराक्रान्ताः कालपाशजिघांसता ॥
राजानो राजतनया राजपत्न्यो ह्यनेकशः ।
विप्रादि प्राणिनः सर्वे सर्वदोष भयार्दिताः ॥
येन वै स्मृतमात्रेण मुच्यते तद् ब्रवीमिते ।
भूय प्रदेशे समे रम्ये चंदनागुरु चर्चिते ॥
कर्पूरामोदगंधाढ्ये कुंकुमोदक चर्चिते ।
आचार्य सुप्रहृष्टात्मा चंदनागुरु चर्चितः ॥
उष्णीराद्यैराभरणैर्भूषितः सुमहामतिः ।
५अ)
पद्ममष्टदलं कृत्वा मात्रिकां तत्र चालिखेत् ।
त्रितनुं मध्यतो लेख्यं वर्गाष्टौ प्राग्विषो लिखेत् ॥
पूजयेत् परया भक्त्या पुष्पधूपार्घविस्तरैः ।
मंत्रमाता ततो देवि प्रोद्धरेत् मंत्रमुत्तमं ॥
विश्वाद्यं विश्वरूपान्त विश्वहामृतकं दलं ।
स्वेति ध्वनि पराशक्तिः शिवमेकत्र योजयेत् ॥
अनेन ग्रथितं सर्वं सूत्रेमणि गणा इव ।
अस्मात्मंत्रासमुत्पन्ना सप्तकोट्याधिकारिणः ॥
चित्रभानु पदान्तस्थं शशांकशकलोदरं ।
तदंकुशोर्ध्वविन्यस्तं तिर्यगं तूर्ध्वयोजितं ॥
एतत् तत् परमं ज्योतिरेतत् तत् परमामृतं ।
एतत् परममुद्दिष्टं अमृतं लोकविश्रुतं ॥
पेयूष कलया युक्तं पूर्णचंद्रनिभोपमं ।
एतत् परतमं धाम एतत् परतमं पदं ॥
एतत् परतमं वीर्यं एतत् परमामृतं ।
तेजसां परमं तेजं ज्योतिषां ज्योतिरुत्तमं ॥
सर्वस्य जगतो देव ईश्वरं कारणं ध्रुवं ।
स्रष्टा कर्ता च हर्ता च नास्त्यस्य जगतो वली ॥
५ब्)
मंत्राणामालयं ह्येष सर्वसिद्धिगुणास्पदः ।
अधुनांगानि वक्ष्यामि सन्नद्धोयैस्तु सिध्यति ॥
कृतान्तमध्यमं वर्णं सुररा *? च मानुगं ।
प्रभंजनान्त शिरसं हृअदया सर्वसंस्थितं ॥
सामान्तमनलाद्येन युक्तं प्रणवयोजितं ।
शिरो ह्येषो निलान्तेन युक्तो माया शिखा स्मृता ॥
प्रशान्तमीश्वरोर्ध्वं च द्वादशार्द्धनियोजितं ।
शिवशक्तिस्तथा नादयुक्तं तद्वत्मनोत्तमं ॥
सभैरवाद्यं प्रणवं सदागति शिर स्थितां ।
नेत्रमंत्र महोदग्रं सर्वकिल्विष नाशनं ॥
अजीवकटसंयुक्तं अस्त्रमेतत् प्रकीर्तितं ।
अंगषट्क समाख्यात मंत्रराजस्य निसृतं ॥
इति सर्वस्रोतसंग्रहसारे अमृतीशविधाने मृत्युंजये
मंत्रोद्धारविधिर्द्वितीयः पटलः ॥
ईश्वर उवाच ॥
अधुना यजनं वक्ष्ये येन सिद्ध्यन्ति मंत्रराट् ।
आदौ स्नान प्रकुर्वीत सर्वकिल्विषनाशनं ॥
६अ)
अस्त्रमंत्रेण देवेशि मृदमुद्धृत्य मंत्रवित् ।
शौचं यथोदितं कृत्वा स्नानं पश्चात् समाचरेत् ॥
पादौ जंघे कटी चैव पूवद्भिः त्रिभिस्तृभिः ।
त्रिभिरंतरयोगेन सप्तभिः शुद्ध्यते मनः ॥
सप्ताभिमंत्रितं कृत्वा मृदमस्त्रेण मंत्रवित् ।
प्रतांप्यार्क मुखे पश्चाच्छरीरमनुलेपयेत् ॥
विघ्नोपशमनार्थं तु क्षाल्यमंतर्जलं जपेत् ।
वामहस्ते ततो भागान् मृदयात्रींस्तु कारयेत् ॥
अस्त्रजप्तं क्षिपेद् दिक्षु मूले तीर्थं प्रकल्पयेत् ।
अंगैः शरीरमालिप्य क्षाल्यमन्तर्जलं जपेत् ॥
मूलं शक्त्या समुत्तीर्य संध्यां वंदेदनुक्रमात् ।
शिखांबद्ध्वा शिखास्मृत्वा मंत्राणां तर्पणं ततः ॥
देवान् पितॄनृषींश्चैव मनुजान् भूतसंयुतान् ।
सन्तर्पतीर्थं संगृह्य यागोक्तविधिना विशेत् ॥
आशामात्री गणं लक्ष्मी नंदिगंगे प्रपूजयेत् ।
महाकालं तु यमुनां देहलीं पूजयेत् ततः ॥
६ब्)
विघ्न प्रोच्चाटनं कृत्वा दिग्बंधं कवचास्त्रयोः ।
स्वासनार्थं प्रकल्प्येत शक्तिमाधारपूर्विकां ॥
उपविश्य ततः कुर्यात् प्राणायाममनुक्रमात् ।
धारणामारभेत् तत्र युगपच्छोषणादिभिः ॥
षाङ्कोषिकं(?) तु मलिनं दिग्बंधं तत्र भावयेत् ।
विज्ञानं केवलन्तत्र शून्यन्तत्रगतं स्मरेत् ॥
नाहमस्ति न चान्योस्ति ध्येयं चात्र निवेद्यते ।
आनंदपदसल्लीनं मनः समरसी गतं ॥
पश्चादाधारशक्तिस्थं स्था?सनं परिभावयेत् ।
धात्रीपयोगिवं पद्मां चंद्रबिंवावभासितं ॥
पश्चात् कलाकलापोत्थं पेयूषेन तु सिंचितं ।
मूर्ति पूर्वं तृतत्वे तु मूले नैव प्रकल्पयेत् ॥
ततोंगानि कराभ्यां तु शरीरे विन्यसेत् पुनः ।
मंत्रं चैवाभिमानं तु चिन्तये ध्यानयोगतः ॥
धेनुमुद्रा ततो बद्ध्वा पद्ममुद्रा तथापि वा ।
ध्यायेदात्मनि देवेशं चंद्रकोटिसमप्रभं ॥
स्वच्छमुक्ता फलप्रख्यं स्फटिकाह्नि समप्रभं ।
७अ)
कुंदेंदु गोक्षिरे निभं हि मादृशं विभुं ।
शुभ्राद्वारेंदु कांतादि सितभूषणभूषितं ॥
सितचंदनलिप्तांगं कर्पूरक्षोदधूसरं ।
स्फुरचंद्रामृतस्फार बहुलोर्मिपरिप्लुतं ॥
सोममंदलमध्यस्थं एकवक्त्रं त्रिलोचनं ।
सितपद्मोपविष्टं च बद्धपद्मासनस्थितः ॥
चतुर्भुजं विशालाक्षं वदराभयपाणिनं ।
पूर्णचंद्रनिभं शुभ्रं मृतेनैव पूरितं ॥
कलशं धारयन्तं हि जगदाप्याय कारकं ।
परिपूर्णं तथा चंद्रं वामहस्ते विचिन्तयेत् ॥
सर्वश्वेतोपचारेण पूजितं तमनुस्मरेत् ।
बहुनात्र किमुक्तेन साक्षादमृतसागरं ॥
तस्मादेव समुत्पन्नममृतं विश्वजीवनं ।
अथ चिन्तामणि प्रख्यं भावभेदेन संस्मरेत् ॥
सौम्यं रौद्रं तथा भीमं विकृतं भावभेदतः ।
सदाशिवं भैरवं र?न्तं चुंरुं वीरनायकं ॥
येन येन हि रूपेण साधकंस्संस्मरे तदा ।
तस्य तन्मयतां याति चिन्तामणि रिवेश्वरः ॥
७ब्)
एवं ध्यात्वा यजेद् देवं मानसैः कुसुमैः शुभैः ।
हृत्पद्मे सर्वसिद्ध्यर्थं पश्चाद् बाह्ये प्रपूजयेत् ॥
मानसैः कुसुमैरर्चा साधकेन शुभामता ।
अनिर्माल्य पराशुद्धा मोक्षदा सिद्धिदा शुभा ॥
तस्मात् सर्वप्रयत्नेन मानसं यजनं ध्रुवं ।
आदावे प्रकर्तव्यं पश्चाद् द्रव्यैस्तु विस्तरैः ॥
स्वगृहे देवतागारे संगमे गिरिमूर्द्धनि ।
सुप्रशस्ते तु भूभागे पद्मशंडे सुशोभने ॥
आलिखेत् मंडलं चित्रं सितरेखोपशोभितं ।
चतुर्द्वारं चतुष्कोणं सुसमं तु मतोरमं ॥
शोभापशोभसंपन्नं तन्मध्ये शशिमंडलं ।
पूर्णचंद्रसमप्रख्यं रश्मिमालावली युतं ॥
तन्मध्येष्टदलं पद्मं सुसितं चंद्रसन्निभं ।
विचित्रकेसरोपेतं हेमकर्णिकमुत्तमं ॥
तन्मध्ये चैव देवेशं स्वस्थानादवतारयेत् ।
आवाहयेत् ततो देवं त्रिदेहपरिकल्पितम् ॥
८अ)
आग्नेयादि विभागेन दलेष्वंगानि विन्यसेत् ।
पूज्यश्वेतोपचारेण पुष्पांवरविलेपनैः ॥
नैवेद्यैर्विविधैश्चित्रैर्धूपैः श्रेष्ठैः सुधूपितैः ।
हृद्यैः पानैश्चर्विविधैर्भावभेदेन पूजयेत् ॥
सर्वश्वेतोपचारेण शान्त्यर्थं पूजयेत् पृये ।
पुष्ट्यर्थं बहुभिर्मिश्रैः संभारः संस्कृतं यजेत् ॥
पश्चाद्धोमं प्रकुर्वीत यथाकर्मानुरूपतः ।
त्रिमेखले वर्तुले च चतुरश्रे सुशोभने ॥
हस्तमात्रे ततः कुंडे षडंगेनोर्द्धमेखले ।
मध्यमादि चतुष्केण द्वादशांगेन चाधमा ॥
हस्तमात्रं ततः खातं ओष्ठमेकांगुलायतं ।
अश्वत्थपत्त्र सदृशी नाभिः कुर्यान्नवांगुला ॥
दैर्घ्यात् तु पार्श्वतस्तद्वतत्मध्याग्रांगुलन्वयं ।
उक्तं साहस्रिके होम द्विगुणं चायुते मतं ॥
त्रिपंच युत होमेन त्रिगुणं तद्विधीयते ।
कुंडं वै लक्षणोपेतं लक्षहोमे प्रशस्यते ॥
नित्यनैमित्तिके काम्ये शान्तौ पुष्टौ तु वर्तुलं ।
८ब्)
सर्वदिक्षु प्रशाम्येत श्रीकामे चतुरश्रकं ।
शस्यते पूर्वमानेन यं दृष्ट्वा कर्मभेदतः ॥
संस्कारान्वस्य कुंडस्य कर्तव्या अस्त्रमंत्रतः ।
अधःकरणमुद्धारं अभिक्षेपं प्रपूरणं ॥
सेचनं कुट्टनं चैव मार्जनं लेपनं तथा ।
प्रणवेन तु कर्तव्यं कुंडस्य परिकल्पना ॥
चतुष्पथं चाक्षवाटं वागेश्या गृहकल्पनं ।
असिना प्रणवेनैव वागेश्या वाहनं पुन ॥
अर्वनं चैव कर्तव्यं त्रितत्वेनन्त प्रोक्षणं ।
अस्त्रेण ताडनं चैव संस्कृत्यविधिपूर्वकं ॥
क्रियाशक्ति स्वरूपेण कौंडिल्या कुंडकल्पना ।
ज्ञानशक्तिस्वरूपं तु वह्निन्तत्र प्रकल्पयेत् ॥
वह्निमादाय पात्रस्थं पंचसंस्कारसंस्कृतं ।
निरीक्षणादि चास्त्रेण कवचेनावगुंठनं ॥
प्रणवेनाहुतिः पंच हुत्वा द्रव्यादि शुद्धितः ।
विश्वाग्न्यापादनं पश्चात् कुर्वीत भ्रामये तृधा ॥
बीजरूपं ततो वह्निमात्माने परमेश्वरं ।
९अ)
माया चैव तु योगेशी योनौ संक्षोभ्य संक्षिपेत् ।
वर्तुलीकृत विश्वाग्नौ पूजनं प्रणवेन तु ॥
कर्तव्यं तन्मुखे पश्चात् संस्कारस्तु ततो नले ।
गर्भाधानं पुंसवनं सीमन्तोन्नयं तथा ॥
वक्त्रकल्पनविश्वाग्नौ सीमाग्रीवादि कल्पन ।
जातकर्म तथैवात्र निष्क्रामोनामकल्पना ॥
हृदयाद्यंग षट्केन कर्तव्यमनुपूर्वशः ।
चूडाद्या ये तु संस्कारा पूर्णाहुत्येकया पुनः ॥
संस्काराणि तु सर्वाणि वह्नौ मूलेन कारयेत् ।
शिवशक्ति मयन्तत्र कल्पये तु विधानवित् ॥
स्रुक्स्रुवौ तु दृढौ कार्यौ क्षीरवृक्षसमुद्भवौ ।
शस्यते शान्तिपुष्टौ तु शस्तद्रुमसमुद्भवौ ॥
अन्यत्र भावभेदेन कार्यौकमानुरूपतः ।
षट्तृंशदंगुलं मानं स्रुग्वावाहु प्रमाणतः ॥
षडंशपरिणाहेन दंडः कुंभात् समुत्थितः ।
चतुरंगुलपीठाग्रं तत्पीठं कमलोदरं ॥
कर्तव्यं दंडमध्ये तु द्व्यंगुलायतवर्तुलं ।
९ब्)
अर्द्धांगुलसमुत्सेध विचित्ररचनाकुलं ।
वेदिकाष्टांगुलाकार्या चतुरासुशोभना ॥
अधः पद्मा निविष्टान्त ऊर्ध्वि? पंचांगुलायुत ।
खातं तं अंगुलं कार्यं तदूर्ध्वं वर्तुलभ्रमं ।
अर्द्धांगुलप्रमाणेन तिलकैरुपशोभितं ॥
तस्य पार्श्व चतुष्कं तु चतुष्कोणसमन्वितं ।
शिल्पिविज्ञानरचना नाना भिरचितं मतं ॥
कंथ एका.उग्लः कार्यस्त त्रिभागविकल्पितः ।
पार्श्वयोश्च ततः कार्यं मुखं सप्तांगुलं शुभं ॥
दैर्घ्यां तु पार्श्वयोष्टौ तु द्वौ भागौ ह्रासयेत् क्रमात् ।
मुखाग्रं तत् त्रिभागे तु द्वौ भागौ पार्श्वयोस्तथा ॥
वर्तयेद्वेदयेतां तु कनिष्ठांगुलिमानतः ।
निम्नं निम्नतरं कुर्याद् यावच्चाग्रमुखान्तरं ॥
पार्श्वयोस्तु तथा कार्या विचित्र रचना शुभा ।
स्वतृभागविवर्त स्यात् पार्श्वयोस्तु तथैव च ॥
हस्तमात्र स्रुवः कार्यो मूलपीठे त्रिशाखिकं ।
मध्याग्रपीठपद्मांक कंठाचांगुलवर्तुलं ॥
१०अ)
चतुरंगुलदीर्घं तु द्विपुटाग्रं सुवर्तितं ।
अंगुष्ठपर्ववत् खातं गोष्पदाकृतिकारयेत् ॥
कनिष्ठांगुलमानेन प्रतिष्ठा खातु वर्तुला ।
वर्तयेद्रवचनायुक्तं कर्षापूरितवक्त्रकं ॥
चतुष्पला भवेत् पूर्णा स्रुवाशक्तिः स्रुवः शिव ।
क्रियाशक्तिस्तु वै कुंडं ज्ञानशक्तिस्तथा नलं ॥
एवं निष्पाद्य विधिवत् पश्चाद्धोमं समाचरेत् ।
तिलैःक्षीरयुतैर्होमं शर्कराघृतमिश्रितैः ॥
महाशान्तिप्रजायेत तत्क्षणात् नात्रसंशयः ।
आदौ चैवाज्य?संस्कारंन् कुर्याद्धोममथापरं ॥
अधिश्रयणमुद्धारं भ्रामणं स्थापनं ततः ।
निरीक्षणं ततोस्त्रेण नैराजनमतः परं ॥
पर्यग्नि करणं चैव तथैवोत्प्लवसंप्लवौ ।
अस्त्रे चैवार्चनं मूले नामृतीकरणं तथा ॥
दर्भास्तरं विष्टराणि परिधी नस्त्रमंत्रतः ।
सूर्याचंद्रमसौवह्नि कल्पयेत् प्रणवेन तु ॥
भावयेत् तवजिह्वा तु पूर्णां मूलेन पातयेत् ।
१०ब्)
पश्चात्तूतं मंत्रं सागं मध्यमतं यजेत् ।
एवं कृत्वा तु जुहुयान्मंत्री कर्मानुसारतः ॥
पयसाघृतयुक्तेन पुष्टिर्भवतिशाश्वती ।
घृतगुग्गुलुहोमेन पूर्णायुर्भवते ध्रुवं ॥
श्रीकामं जुहुयात् पश्चान् घृतक्षीरसमन्वितं ।
राज्यकामोस्ततो बिल्वा त्रिसंधाक्तात् सुसिद्धिदात् ॥
क्षीरवृक्षसमिद्भिस्तु होमाचारो गृ?तां भभेत् ।
प्रशस्तसमिधा होमात् प्रशस्त तरुजे नले ॥
सर्वकामानवाप्नोति सत्यमेव नवान्यथा ।
ब्रीहिसप्तकहोमेन धनार्थी लभते धनं ॥
ईहितं काममुद्दिश्य ईहितं होममाचरेत् ।
पयसा केवले नैव होमान्मृत्युंजये ध्रुवं ॥
क्षीरवृक्षसमिद्भिस्तु होमादाराम्व?तो लभेत् ।
प्रशस्त समिधा होमात् प्रशस्तेन जले नलं ॥
सर्वकामानवाप्नोति सत्यमेतं न चान्यथा ।
इति सर्वस्रोतसंग्रहं सारे मृत्युजिदमृतीशविधाने यजनाधिकार तृतीयः
पटलः ॥
११अ)
ईश्वर उवाच ॥
अथ दीक्षां प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदां ।
भूततन्मात्रदशकं मनोबुद्धिरहंकृतं ॥
प्रकृतिं पुरुषं चैव ईश्वरं च सदाशिवं ।
शिवमष्टादशं नाम तत्कार्येवविशोधयेत् ॥
प्रकृतिं पुरुषश्चैव निपतिः काल एव च ।
माया विद्या तथैशं च सदाशिवशिवस्तथा ॥
तत्वानि नवधा सम्यक् शोधयेद्दैशिकोत्तमः ।
तत्वैशट्तृंशदर्द्धेन तदर्द्धे नाथ पंचभिः ॥
त्रिभिरेकेन वा कार्या परापरविभूतये ।
या कलाभिः पंचभिर्वाथ पदैर्दीक्षाथवा पुनः ॥
वर्णैः पंचाशतो वापि मंत्रैर्वा भुवनैस्तथा ।
एतैः सर्वैः प्रकर्तव्या कार्या एकतमाथवा ॥
सर्वैस्तु समुदायेन व्यक्तिशक्ति स्वरूपतः ।
यथा विभवसारेण कर्तव्यादैशिकोत्तमैः ॥
वागेश्याः पूजनं कार्यं तद्गर्भे योजयेत् पशुं ।
गर्भाधानं तु जननं अधिकार लयं तथा ॥
११ब्)
भोगः कर्मार्जनं चैव निष्कृतिस्तदनन्तरं ।
मूलमंत्रेण कर्तव्यं पाशच्छैदस्तथा स्मृतः ॥
अस्त्रमंत्रेण दाहस्तूतं भस्मीकरण स्थितिः ।
शिखाच्छेदं तथा होमं मूलेनैव तु योजयेत् ॥
संयोज्य परमे तत्वे संस्थानं चैव कारयेत् ।
अधिकारार्थमाचार्ये परापर पदे स्थितिः ॥
शिवतत्वे स्वधाकारां विद्यादीक्षा सदाशिवे ।
पुत्रके परमे तत्वे समयिन्येश्वरे तथा ॥
एवमुद्देशतो दीक्षा कथिता विस्तरेन्यतः ।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने दीक्षाधिकारश्चतुर्थः
पटलः ॥
ईश्वर उवाच ॥
अभिषेकं प्रवक्ष्यामि यथा यस्यैव दीयते ।
अष्टभिः कलशैर्देयमाचार्यस्य विधानतः ॥
ते तु विद्येश्वराः प्रोक्ता समुद्राश्च सगर्भगाः ।
पंचभिर्भूतसंख्यैर्वा त्रिभिर्वा तत्वरूपकैः ॥
आत्मविद्या शिवाख्यैस्तु एकेनापि शिवात्मना ।
अधिकारार्थमाचार्ये साधके सिद्धिकामतः ॥
१२अ)
अभिषिक्तो ह्यनुज्ञातः प्रकुर्यान्मंत्रसाधनं ।
तद्व्रतस्तमसाचारस्तद्भक्तस्तत्परायणः ॥
पवित्राहारनिरतो लघ्वाशी संयतेंद्रितः ।
एकान्ते पुण्यक्षेत्रे तु तीर्थायतन गोचरे ॥
सर्वसंगोज्झितमनाः साधको जपमारभेत् ।
लक्षमेक जपेन्मंत्री पूर्वमेव समाहितः ॥
तेन सामान्य कर्माणि सिद्ध्यन्ते साधकस्य तु ।
भौमीं सिद्धिमवाप्नोति दशलक्ष जपेन तु ॥
अन्तरिक्षीं लभेत् सिद्धि लक्षपंचाशतोद्ध्रुवं ।
दिव्यां सिद्धिं तु लभते साधको नात्रसंशयः ॥
यथा कोटि कृतेर्जप्यै ईश्वरी सिद्धिमावहेत् ।
व्यापकस्तु शिवो भूत्वा निग्रहानुग्रहक्षमः ॥
यथेच्छां कुरुते सर्वां धारयेत् संहरेद्भृशं ।
सर्वगस्सर्ववेत्ता च सर्वज्ञो भवते ध्रुवं ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधान अभिषेकसाधनाधिकारः
पंचमः पटलः ॥
१२ब्)
श्रीदेव्युवाच ॥
श्रुतं मया महादेव मृत्युजित् सिद्धिमोक्षदं ।
अधुनाश्रोतुमिच्छामि सिद्धि त्रय समन्वितं ॥
अमृतीशं महात्मानं सर्वप्राणिषु जीवनं ।
यदा सिद्धि प्रदो लोके मानुषाणां हितं करं ॥
पूर्वोक्त दुष्टशमनं अपमृत्युविनाशनं ।
आप्यायनं शरीरस्य शान्तिपुष्टिप्रदं शुभम् ॥
श्रीभैरव उवाच ॥
श्रूयतां संप्रवक्ष्यामि रहस्यं परमाद्भुतं ।
यथातरंति मनुजा दुःखो दधि परिप्लुता ॥
अपमृत्युशताक्रान्ता जरादारिद्र्यसंयुता ।
आधिव्याधिभयोद्विग्ना पापौघैर्विनिपीडिताः ॥
मुच्यन्ते तु यथा सर्वे पूर्वोक्तैर्मारणैः पृये ।
त्रिविधं तदुपायं तु स्थूलं सूक्ष्मं परं च यत् ॥
१३अ)
स्थूलं च यजनं होमं जप ध्यानं समौद्रकं ।
मंत्राणि संपुटादीनि मंत्रराट् कुरुते भृशं ॥
सूक्ष्मं चक्राभियोगेन कलानाद्यादयेन च ।
परं सर्वात्मकं देवं मोक्षदं मृत्युजिद् भवेत् ॥
यदा मृत्युभया घ्रातं कालेन कलितं पृये ।
दृष्टस्तत्प्रतिघानार्थममृतेशं यजेत् तदा ॥
सर्वश्वेतोपचारेण पूर्वोक्तेन विधानतः ।
यस्य नामं समुदिश्य पूजयेत् मृत्युजिद् विभुः ॥
मृत्योरुत्तरते शीघ्रं सत्यं मेनानृतं वचः ।
सितशर्कर या युक्तो घृतक्षीर प्लुतैस्तिलैः ॥
पुण्यदार्विधने वह्नौ कुंडे वृत्ते त्रिमेखले ।
महारक्षा विधानेन यस्य नामांकितो हुनेत् ॥
महाशक्तिर्भवेत् क्षिप्रं गतस्यापि यमालयं ।
१३ब्)
अथवा शर्करायुक्तं पयसा केवलेन तु ।
होमान्मृत्युंजये च्छीघ्रं मृत्युंजिन्नात्रसंशयः ॥
सुगंधघृतहोमेन क्षीरवृक्षमये नले ।
जुहुयान्नाशयेन्मृत्युं मृत्युजिन्नात्रसंशयः ॥
क्षीरवृक्षसमिद्धो वा ज्वरं नाशयते क्षणात् ।
तिलतंडुलमक्षीक आज्यंक्षीरसमन्वितं ॥
एष पंचामृतो होम सर्वदुष्ट निवारणं ।
गुग्गुलांगुलिकाभिश्च त्र्यक्ताश्च शक्रमात्रया ॥
होमात्पुष्टिर्भवत्याशु क्षीणदेहस्य सुव्रते ।
यदा व्याधिशा कीर्णा ह्यबलो दृश्यते नरः ॥
तदा तु संपुटी कृत्य नामजप्त्वा विमुच्यते ।
यं यं मंत्रं जपेद् विद्वानमृतीशेन संपुटं ॥
स तस्य सिद्ध्यते क्षिप्रं भाग्यहीनोपि यो भवेत् ।
क्षीणगात्रस्य देवेशि भेषजं मंत्रसंपुटं ॥
दीयते तत्क्षणा देवि सपुष्टिं लभते बली ।
१४अ)
हृत्पद्ममध्यगं जीवंच्चंद्रसंपुटमध्यगं ।
साध्यर्णरोषितं कृत्वा मृत्युरुन्तरते भृशं ॥
साध्यर्ण रोधितं नित्यं ध्यायेद् देहं स योगवित् ।
सर्वव्याधिविनिर्मुक्तो सभवेन्नात्रसंशयः ॥
क्षीरोदमध्यपद्मस्थं अमृतोर्मिभिराकुलं ।
ऊर्द्ध्वाधः शक्तिरुद्धं तु साध्यर्णसंपुटीकृतं ॥
यो ध्यायति सदृष्टात्मा ह्यात्मनस्य परस्य वा ।
सबाह्याभ्यन्तरं शुभ्रं स्वधापूरितविग्रहणं ॥
अमुद्विग्नमनायश्च सर्वभोगैः प्रमुच्यते ।
रोचना कुंकुमेनैव क्षीरेण च समन्वितं ॥
सितपद्मेष्ट पत्रे तु मध्यसाध्यं निरोधितः ।
सर्वव्याधि पराक्रान्तं चंद्रमंडलवेष्टितं ॥
चतुष्कोणे पराक्रान्तो वज्रभृद्वज्ररोधितः ।
मुच्यते नात्रसंदेहो सर्वव्याधि प्रपीडितः ॥
षोडशारे महापद्मे षोडशस्वरभूषिते ।
आद्यन्तमंत्ररोधेन साध्यनामं विलेखयेत् ॥
जीवान्तं सावमध्यस्थं वर्णांतांतेन रक्षितं ।
१४ब्)
प्रत्यर्णममृतीशेन संपुटि त्वानुसर्वतः ।
मध्ये दलेषु सर्वेषु शशिमंडलमध्यगं ॥
बाह्ये तु द्विगुणं पद्मं कादिसान्तं क्रमेण तु ।
पूर्ववत् तु लिखेन्मंत्री प्रतिसाध्यर्ण रोधितं ॥
वर्णे तदनु साध्यस्य नामबाह्येर्कमंडलं ।
पुरंदर पुरे पश्चात् समन्तात् परिवारयेत् ॥
श्वेतचंदनयुक्तायां रोचनाक्षीरयुक्तया ।
लिखित्वा मंत्रवाजानां कर्पूरक्षोदधूसरं ॥
महारक्षाविधानं तु सुखसौभाग्यदायकं ।
एतच्चक्र महादेवि सितपुष्पैः प्रपूजयेत् ॥
सर्वश्वेतोपचारेण मधुमध्ये निधापयेत् ।
अनेनैव विधानेन सप्ताहान् मृत्युजिद् भवेत् ॥
राजरक्षाविधानं तु भूभृतामप्रकाशयेत् ।
संग्रामकाले वरदं ऋपुदर्पापहं भवेत् ॥
शिवादिनवतत्वानि प्रत्येकं शशिमंडले ।
मध्ये पूर्वादिमीशान्तं अमृतीशेन मंत्रवित् ॥
यदा व्याधि शताक्रान्ता अपमृत्युभिरेव च ।
१५अ)
तदा श्वेतोपचारेण पूज्यं क्षीरघृतेन च ॥
तिलैः क्षीरसमिद्भिर्वा होमाच्छान्तिं समश्नुते ।
एवसंपूज्य कुंभे तु सर्वौषधि समन्वितः ॥
सितगर्भमये शुभ्रे रन्नगर्भांबुपूरिते ।
सर्वमंगलघोषेण शिरसि ह्यभिषेचयेत् ॥
समुच्यतेन संदेहो सर्वव्याधि प्रपीडितः ।
ध्यात्वा परामृतं नित्यं नित्योदितमनामयं ॥
प्रकृद्यान्तस्सममृतं अवतार्य पराशिवान् ।
चतुर्णवामृताधार नवधान च पूरितं ॥
शतार्द्धक्षोभिता नित्यं षट्पंचैक समन्वितं ।
अनन्ताधारगंभीरं अष्टत्रिंशविभूषितं ॥
पंचभिर्वा प्रसिद्ध्यर्थं पूर्णन्तेन निरुन्तरं ।
एवं ध्यानपरो यस्तु सबाह्याभ्यन्तरामृतं ॥
विक्षोभ्यकलशं मूर्द्ध्नि दैशिको मंत्र तत्परः ।
अनुग्रह सदावस्थस्त्वभिषिंचेत् प्रयत्नतः ॥
समुच्यतेन संदेहो संसाराद्दुरति क्रमात् ।
आयुर्बलं यशः कीर्ति धृतिर्मेधा यशः श्रियः ॥
१५ब्)
सर्वं प्रवर्द्धते यस्य भूभृतोराज्यमुत्तमं ।
दुःखान्वितो विदुःखस्तु व्याधिमान्निमुजो भवेत् ॥
बंध्यापि लभते पुत्रं कन्या तु पतिमावहेत् ।
ययत्समीहते कामं तं तं तस्य ध्रुवं भवेत् ॥
अभिषेकस्य माहात्म्यं विधान विहितस्य च ।
कथितं ते मया देवि पूजनं हितकाम्यया ॥
अन्यशास्त्रोपचारेण सर्वशान्त्यारहो भवेत् ।
एवं स्थूलविधानं तु सूक्ष्मं चैवाधुना शृणु ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतेशविधाने स्थलधिकार षष्ठमः
पटलः ॥
ईश्वर उवाच ॥
अतः परं प्रवक्ष्यामि ध्यानं सूक्ष्ममनुत्तमं ।
ऋतु षष्ट्य स्वराधारं त्रिलक्षं व्योमपंचकं ॥
ग्रंथिद्वादशसंयुक्तं शक्तित्रयसमन्वितम् ।
धामत्रय पथाक्रान्तं नाडित्रयसमन्वितं ॥
ज्ञात्वा शरीरं सुश्रोणि दशनाडि पथानुगं ।
१६अ)
द्वासप्तति सहस्रैस्तु सप्तकोट्यार्द्धसंयुतं ।
नाडिवृंदैः समाक्रान्तं अनले व्याधिभिः कृतं ॥
सूक्ष्मध्यानामृतेनैव परेणैवोदितेन तु ।
आप्यायं कुरुते योगी आत्मानोथ परस्य वा ॥
दिव्यदेहस्तु भवति सर्वव्याधिविवर्जितः ।
यत् स्वरूपं स्वसंवेद्यं स्वस्थस्वव्याप्ति संभवं ॥
स्वोदिता तु पराशक्ति स्वस्था तद्गर्भगः शिवः ।
तां वद्वेन्मध्यमे प्राणे प्राणापानांतरे ध्रुवं ॥
अहं भूत्वा ततो मंत्रं तत्स्थं तच्चक्रगं ध्रुवं ।
स्वोदितेन वरारोहे स्पंदनं स्पदनेन तु ॥
कृत्वा तदभिमानं तु जन्मस्थाने निधापयेत् ।
भावभेदेन तत्स्थानाम्मूलाधारे प्रयोजयेत् ॥
नादसूच्याप्रयोगेन वेधयेत् सूक्ष्मयोगतः ।
आधारः षोडशं भित्वा ग्रंथिद्वादशकं तथा ॥
मध्यनाडिपथारूढो वेधयेत् परमं ध्रुवं ।
तत्प्रविष्टस्तदा भूत्वा तत्समो व्यापकः शिवः ॥
सर्वामयपरित्यागान्निष्कलं क्षोभ्यशक्तितः ।
१६ब्)
पुनराप्यायतेनैव मार्गेण हृदयान्तरं ।
तत्र प्रविष्टमात्रस्तु ध्यानालब्धं रसायनं ॥
विश्राम्या तु भवं प्राप्य तस्मात् स्थानात् प्रवाहयेत् ।
सर्वं तदमृतं वेगान् सर्वत्रैव निरोधयेत् ॥
अनन्तनाडि भेदेन ह्यनन्तामृतमुत्तमं ।
अनन्त ध्यानयोगेन परिपूर्यस्वकंपुरं ॥
भुक्त्वा जरामरस्तद्वत् सबाह्याभ्यन्तरं प्रिये ।
एवं मृत्युजितात् सर्वं सूक्ष्मनादेन पूरितं ॥
तदासौ सिद्ध्यते क्षिप्रं सत्यं देवि न चान्यथा ।
जन्मस्थानं समाशृत्य स्पंदस्थं मध्यमां कलां ॥
तत्स्थं कृत्वा तदात्मानं कालाग्निं तु समाश्रयेत् ।
गत्वा गृहीत विज्ञानं वीर्यं तत्रैव निक्षिपेत् ॥
तद्वीर्यात् परमां शक्तिं क्रियाख्या मध्यमोदिता ।
विज्ञानेनोर्ध्वतो भिन्ना ग्रंथिभेदेन चेच्छया ॥
मूलस्पंदं समाशृत्य त्यक्त्वा बाहु द्वयं ततः ।
प्रथ?मार्गप्रवाहेन सुषुम्नाख्यं समाश्रयेत् ॥
१७अ)
तदेवाशृत्य विरमेत् तत् सर्वेंद्रिय गोचरे ।
तदा प्रत्यस्तमे नैव विज्ञानेनोर्द्धतः क्रमात् ॥
ब्रह्मादि कारणानां तु त्यागं कृत्वा शनैःशनैः ।
षष्ट्यांशक्तिमतः प्राप्य कुंडलाख्यां निरोधिकां ॥
मायादि ग्रंथिभेदेन हृद्यादौव्यमपंचकं ।
जन्ममूले समयाख्या ग्रंथिजन्मनि पाशतः ॥
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ।
कारणस्था तु पंचैवं ग्रंथादौ समुदाहृतं ॥
इंदिकाख्या तु या ग्रंथिर्विमार्गेस्तन्मना तु सा ।
तदूर्द्ध्वं दीपिका चैव तदूर्धे चैव वै दधी ॥
नादाख्या तु महाग्रंथि शक्तिग्रंथिस्त्वतः परम् ।
ग्रंथिर्द्वादशकं भित्वा प्रविशेत् परमं शिवं ॥
ब्रह्माणं च तथा विष्णुं रुद्रं चैवेश्वरस्तथा ।
सदाशिवं तथा शक्तिं शिवस्थानं प्रभेदयेत् ॥
खमनंतं तु जन्माख्ये नाभौ व्योम द्वितीयकं ।
तृतीयं तु हृदि स्थाने चतुर्थीं चंद्रमध्यतः ॥
नादाख्यं तु समुद्दिष्टं षट्चक्रमधुनोच्यते ।
१७ब्)
जन्माख्यं नाडिचक्रं तु नाभौ मायाख्यमुत्तमं ।
हृदिस्थं योगिचक्रं तु ता ईलुस्थं भेदनं स्मृतं ॥
विंदुस्थं भेदचक्रं च नादस्थं शान्तमुच्यते ।
पूर्वोक्तानि च सर्वाणि ज्ञानशूलेन भेदयेत् ॥
आक्रम्याधार जन्माख्यं तन्मूलं पीडयेच्छनैः ।
तस्याधारस्य सुश्रोणि पर्यायाच्छृण्वतः परं ॥
जन्मस्थानं तु कूर्माख्यं कूमाख्यं स्थानपंचकं ।
मत्स्योदरं तथैवं हि मूलाधारं तदुच्यते ॥
तस्मात् तां खेचराख्यां तु मुद्रां विंदेत योगवित् ।
मुद्राया तु तदा देवि आत्मा वै मुद्रितो यदा ॥
तदा चोर्ध्वं तु विचरेद्विज्ञाने नोर्ध्वतः क्रमात् ।
विद्व्याद्भिंद्यात्परं यावत् स्थानं सुरवरार्चितं ॥
तस्थानं देवि संप्राप्य योगिनी समरसी भवेत् ।
निष्कलं भावमापन्नो व्यापकः परमः शिवः ॥
एवं भूत्वा समं सर्वं निस्पंदं सर्वतोदित ।
ततः प्रवर्तते शक्तिर्लक्षहीना निरामया ॥
१८अ)
इच्छामात्रविनिर्दिष्टा ज्ञानरूपा क्रियात्मिका ।
एका सा भावभेदेन तस्य भेदेन संस्थिता ॥
खेचरी मुद्रया पूर्य शक्त्यन्तं तत्र सर्वतः ।
यावच्चनोदितश्चंद्रस्तावन् शून्यं निरंजनं ॥
भावग्राह्यसमाकीर्णं सर्वावस्थोज्झितं परं ।
व्यापकं परमेशानं अनौपम्य मनामयं ॥
भवन्ति योगिनस्तत्र तदारूढा वरानने ।
सा योनिः सर्वदेवानां शक्तीनां व्याप्यसर्वतः ॥
अग्नीषोमात्मिका योनि तस्मात् सर्वं प्रवर्तते ।
तत्र संग्रंथिता मंत्रा त्राणवन्तो भवन्ति ते ॥
सर्वेषां चैव संहारं तदेव परमं पदं ।
तस्मात् प्रवर्तते सृष्टि विक्षोभ्य परमं शिवं ॥
अनौपम्यामृतं प्राप्य बिंदुं विक्षोभ्य लीलया ।
चंद्रोदयं तथा ख्यातं परमामृतमुत्तमं ॥
वहलामृतकल्लोल अनन्तं तत्र संस्मरेत् ।
तस्मात् प्राप्यामृतं शुभ्रं स्वशक्त्या चैव कर्षयेत् ॥
मध्यमार्गेण सुश्रोणि कारणानि प्रभेदयेत् ।
आप्यायनं प्रकुर्वीत स्थाने स्थानेप्यनुक्रमात् ॥
१८ब्)
यावद्ब्रह्मपदं प्राप्तं तस्मादाप्याययेदधः ।
जन्मस्थान पदा चैव कालाग्नौ च प्रचक्रमेत् ॥
तदा पूर्यसमतां तु परिपूर्णं स्मरेत् पुनः ।
सुषुम्नामृतेनाखिलं तु परिपूर्णं विभावयेत् ॥
अनन्त नाडिभिस्तत्र रोमकूपैः समन्ततः ।
निष्क्राम्य व्यापको भूत्वा खमृतोर्मि भिराकुलं ॥
अमृतार्णवसंरूढो मज्जन्तममृतार्णवे ।
तदूर्धे ह्यमृतार्णं तु प्रद्रुतं व्यापकं शिवं ॥
एवं समरसी भूत्वा ह्यमृतं सर्वतो मुखं ।
इच्छाज्ञानक्रियारूपं शिवमात्मस्वकं विभुम् ॥
निरामयमनुप्राप्य स्वानुभूतं विभावयेत् ।
अमृतेश पदं सूक्ष्मं संप्राप्ये वामृती भवेत् ॥
तदासौ ह्यमृती भूत्वा मृत्युजिन्नात्रसंशयः ।
कालजित् सुभगो वीरो मृत्युस्तस्य न बाधते ॥
कालस्य वंचनं सूक्ष्मं मया ते प्रकटीकृतं ।
न कस्य चिन्मया ख्यातं त्वदृते भक्तिवत्सले ॥
१९अ)
इति अमृतेशविधाने सूक्ष्मध्यानाधिकारः सप्तमः पटलः ॥
भगवानुवाच ॥
अथ मृत्युंजय नित्यं परचैवाधुनोच्यते ।
यं प्राप्य न निवर्तन्ते संसारे तृविधे प्रिये ॥
योगी सर्वगतो भाति सर्वदृक् सर्वकृच्छिवः ।
तमहं कथयिष्यामि यस्मादन्यन्न विद्यते ॥
यं प्राप्यते तन्मयत्वेन भवते ह्यजरामरः ।
पन्नवाग्वदते नित्यं यन्न दृश्येत चक्षुषा ॥
यन्न संश्रूयते कर्णैर्भासायश्च न जिघ्रति ।
न चार्द्धं(?) स्वादयते जिह्वा न स्पर्शेत त्वगिंदृयं ॥
न चेतसा चिन्तनीयं सर्ववर्ण रसोज्झितं ।
सर्ववर्ण रसैर्युक्तमप्रमेयमतींद्रियं ॥
यं प्राप्ययोगिनो देवि भवन्ति ह्यजरामराः ।
तदभ्यासेन महता वैराग्येन परेण च ॥
रागद्वेषपरित्यागा लोभमोहक्षयात् प्रिये ।
मदमात्सर्य संत्यागान्मानगर्वतमोज्झितान् ॥
लभते शाश्वतो नित्यं शिवमध्ययमुत्तमं ।
१९ब्)
निमिषोन्मेषमात्रं तु यदि चैलोपलभ्यते ।
ततः प्रभृति मुक्तोसौ न पुनर्जन्ममाप्नुयात् ॥
अष्टांगेन तु योगेन प्राप्नुयानान्यथा क्वचित् ।
संसारे विरतिर्नित्यं यमः परमुदाहृतः ॥
भावना तु परे तत्वे नित्यं नियम उच्यते ।
मध्यमप्राणमाश्रित्य प्राणापानपथान्तरं ॥
आलंव्यज्ञानशक्तिं च तत्स्थं चैवासनं भवेत् ।
प्राणादि स्थूल भावं तु त्यक्त्वा सूक्ष्मं पथांतरं ॥
सूक्ष्मातीतं तु परमं स्पंदनं लभ्यते यतः ।
प्राणायामसमुद्दिष्टो यस्मान्न च्यवते मनः ॥
शब्दादि गुणं वृत्तिर्या चेतसा ह्यनुभूयते ।
त्यक्त्वा तां परमं धाम प्रविशेत् तत् स्वचेतसा ॥
प्रत्याहारमिति प्रोक्तं भवपाशनिकृन्तनं ।
धीर्गुणात्समतिं क्रम्य निर्गुणं चाव्ययं विभु ॥
ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः ।
धारणा परमात्मानं धार्यते येन सर्वदा ॥
धारणा सा विनिर्दिष्टा भववंधविनाशनी ।
२०अ)
समस्सर्वेषु भूतेषु आधारं चिन्तविग्रहं ।
समाधानमिति प्रोक्तमन्यथा लोकदांभिकं ॥
स्वपरस्थेषु भूतेषु जगत्यस्मिन्समानधीः ।
शिवोहम द्वितीयोहं समाधिस्स परस्मृत ॥
सम्यक् स्वरूपं संवेद्यं संविद्रूपं स्वभावजं ।
स्वसंवेद्यं स्वरूपं च समाधानं परं विदुः ॥
राशिभ्यां विज्जडाभ्यां च विचार्य निपुणं पदं ।
यदेवं शाश्वतं रूपं समाधानं तु तं विदुः ॥
एवमष्टांग योगेन स्वभावस्थं परं ध्रुवं ।
दृष्ट्वांवचयते कालं ममृतेशं परं विभुं ॥
मृत्युजित् स भवेद् देवि न कालः कलयेच्च तं ।
तत्त्व षट्तृंश तस्त्यागाद्भूवनानंत्यवर्जनात् ॥
एकाशीति पदोर्ध्वं वै वर्णपंचाशतः परं ।
व्यापकं सर्वतंत्रेषु सर्वेष्वेव हि जीवनं ॥
अष्टातृंशत्कलोर्ध्वे तु सर्वान्तस्सर्वमध्यगः ।
आदि मध्यं न चैवान्तं लभ्यते यस्य कस्यचित् ॥
तम प्रमेयमतुलं प्राप्यसर्वं न विद्यते ।
येनैकेन जगत्सर्वं मरमेयेन पूरितं ॥
२०ब्)
तं ज्ञात्वा मुच्यते क्षिप्रं घोरात् संसारबंधनात् ।
तत्वत्रयविनिर्मुक्तं शाश्वतं ह्यचलं ध्रुवं ॥
दिव्येन योगमार्गेण दृष्ट्वा भूयो न जायते ।
सर्वेंद्रियविनिर्मुक्तं विश्वरूपमनामयं ॥
परमात्मस्वरूपं तु सर्वोपाधिविवर्जितं ।
चैतन्यमात्मनोरूपं सर्वशास्त्रेषु कथ्यते ॥
निर्मलं न भवेद् देवि यावच्छक्त्या न शोधितं ।
दीक्षा ज्ञानाग्निना शोध्यमात्मानं चैव निर्मलं ॥
ये विंदंति न चैवान्यं विंदन्ति परमं पदं ।
तेनात्मोपासकाश्चैव गच्छन्ति परमं शिवं ॥
यदा तु परमाशक्तिस्सर्वज्ञादिषु गुणान्विता ।
आपादादि विकासिन्या न विकाम्येति निर्मला ॥
यावन्न निर्मलो ह्यात्मा बद्धः शैवे तदुच्यते ।
२१अ)
यत्रस्थः पुरुषः सर्वं वेत्यतीतमनागतं ।
सन्नियम्येंदृयग्रामं तत्तत्वं शक्तिलक्षणं ॥
यत्र यत्र भवेदिच्छा ज्ञानं वापि प्रवर्तते ।
कृयाकृत्य स्वरूपा वा तत्तत्वं शक्ति लक्षणं ॥
व्यापकस्य सतो देवि चिद्रूपस्यात्मनः शिवान् ।
प्रसरत्यद्भूतानंदा सा शक्तिः परमाद्भूता ॥
विप्रसार्यतवात्मानं सर्वज्ञादि गुणैर्गुणी ।
साभासः कथ्यते देवि शिवः परमकारणः ॥
सर्वज्ञः परितृप्तश्च यश्च बोधो ह्यवादिमान् ।
स्वतंत्रो ह्यप्रलुप्तश्च यश्च वानन्तशक्तितः ॥
शक्तिमान् गुणभेदेन सगुणान्विंदते गुणी ।
पृथग्भेदविभेदेन नानात्वं विचरेदिह ॥
सर्वाभास इति प्रोक्तो निराभासस्तु कथ्यते ।
२१ब्)
नाहमस्ति न चैदान्यो(?) निराभासो यथा भवेत् ।
सावस्था परमा प्रोक्ता शिवस्य परमात्मनः ॥
नाहमस्ति न चान्योस्ति ध्येयं चात्र विद्यते ।
आनंदपदसंलीनं ज्ञानं समरसी गतं ॥
नोर्ध्वे ध्यानं प्रयुंजीत नाधस्तान्न च मध्यतः ।
नाग्रतः पृष्ठतः किंचित् पार्श्वयोरुभयोरपि ॥
नान्तः शरीरसंस्थं तु न बाह्ये भावयेत् क्वचित् ।
नाकाशे बध्यते लक्षं नाधो दृष्टिं निवेशयेत् ॥
न चक्षुर्मीलनं किंचि न किंचि दृष्टि बंधनं ।
अवलंबं निरालंबं सावलंबं न भावयेत् ॥
नंदृयाणि भूतानि शब्दस्पर्शरसादिना ।
सर्वं त्यक्त्वा समाधिस्थः केवलन्मयो भवेत् ॥
सावस्था परमा प्रोक्ता शिवस्य परमात्मनः ।
निराभास पदे तं तु तं प्राप्य विनिवर्तते ॥
एवं भावितमात्मानमात्मनो भावना बलात् ।
स भवेत् परमं शान्तं शिवमत्यंत निर्मलं ॥
तदेक तत्वं सर्व च भवते मृत्युजिच्छिवं ।
२२अ)
स चामृतीशं परमं तृतीयं पदमुत्तमं ।
आख्यातं तव देवेशि किमन्यत् कथयामि ते ॥
एवं मृत्युजितात् सर्वं व्याप्तं ज्ञात्वा विमुच्यते ।
सर्वकाले तु कालस्य वंचनं कथितं पृये ॥
एवं तु त्रिविधं देवि मयाते प्रकटीकृतं ।
कालस्य वंचनं नाम योगं परमदुर्लभं ॥
अनेनाभ्यासयोगेन मृत्युजिद्भवते नरः ।
अनेनैव तु योगेन लोकानुग्रहकाम्यया ॥
मृत्युजिद्भवते योगी सर्वप्राणिषु सर्वदा ।
एवं मृत्युंजयं ख्यातं शाश्वतं परमं ध्रुवं ॥
अस्मात् परतरं नास्ति सत्यमेतदुदाहृतं ।
यत्परामृतरूपं तु त्रिविधं चोदितं मया ॥
तदभ्यासाद् भवे जंतुरात्मनोपि परस्य वा ।
अमृतीश समोदेवि मृत्युजिन्नात्रसंशयः ॥
येन येन प्रकारेण यत्र यत्रैव संस्मरेत् ।
तेन तेन प्रकारेण स योगीकालजिद्भवेत् ॥
यत्र यत्र स्थितो वापि येन येन व्रतेन च ।
२२ब्)
येन येन हि योगेन भावभेदेन सिद्ध्यति ।
तदेकं बहुधा देवि विध्यातं वै सिद्धिदं भवेत् ॥
द्वैताद्वैते विमिश्रे वा एकवीरेथयामले ।
सर्वस्सर्वप्रकारेण सर्वथा सिद्धो भवेत् ॥
चिन्तरन्तं यथा लोके चिन्तितार्थ फलप्रदं ।
तथैषमंत्रराजस्तु चिन्तितार्थविधायकः ॥
मंत्राणां सप्तकोटीनां मालयः परमो बली ।
भावहीनास्तु ये मंत्रा शक्तिहीनास्तु कीलिताः ॥
वर्णमात्रविहीनास्तु गुर्वागमनविवर्जिताः ।
भ्रष्टाम्नायविहीनायेप्यागमोज्झितविघ्निताः ॥
न सिद्ध्यन्ति यथा देवि जप्त्वा यष्ट्वा सहस्रशः ।
असिद्धा ऋपवो ये च सर्वशंकाविवर्जिताः ॥
आद्यन्तसंपुटे नैव साध्यर्णेन तु रोदिताः ।
मंत्रेनानेन देवेशि अमृतीशेन दीपिताः ॥
सिद्ध्यन्ति ह्यप्रयत्नेन यष्टाजप्ता न संशयः ।
ध्याता सर्वप्रदा देवि भवन्तेनानृतं वचः ॥
२३अ)
इति ते सर्वमाख्यातं रहस्यं परमं पृये ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने कालवंचनो नामाष्टमः
पटलः ॥
श्रीदेव्युवाच ॥
श्रुतं मया महादेव माहात्म्यं मंत्रनायकं ।
अधुना श्रोतुमिच्छामि यदुक्तं विधुना मम ॥
सर्वागमविधानेन भावभेदेन सिद्धिदं ।
वामदक्षिणसिद्धान्त सौरवैष्णववैदिके ॥
यथेष्टसिद्धिदो देवो यथेष्टाचरयोगतः ।
तदाख्या हि सुरेशान चिन्तारन्तफलोदयं ॥
भगवानुवाच ॥
शृणु सुंदरि तत्वेन परमार्थं वदामि ते ।
अमृतीशविधानेन मृत्युजित् कथितं मया ॥
तदेव परमं देवि शिवं सूक्ष्ममनामयं ।
स्वभावतत्समुद्दिष्टं व्यापकं शाश्वतं ध्रुवं ॥
न तस्य रूपं वर्णं वा परमार्थ वदामि ते ।
यस्मात् सर्वगतं देवं सर्वागममयं शुभं ॥
व्यापकं सर्वमंत्राणां सर्वसि * फलप्रदं ।
निर्मलं स्फटिकं यद्वत् तं तु प्रोक्तं सितादिकं ॥
२३ब्)
प्रतिचिंचेतसर्वत्रये नयेन हिरंजितः ।
तत्तदर्शयतीत्येवं नस्त्व? भावेन रंजितं ॥
यथा तथैव देवेशि सर्वागम नियोजितः ।
फलं ददाति सर्वेषां साधकानां हि सर्वतः ॥
तस्मात् स्रोतः सुसर्वेषु चिन्तामणिरिवोज्वलः ।
भावभेदेन वै ध्यातस्सर्वकामफलप्रदः ॥
शिवस्सदाशिवश्चैव भैरवस्तुंबुरुस्तथा ।
सोमसूर्यस्वरूपेण वह्निरूपधरोविभुः ॥
यतो ज्ञानमयं देवं ज्ञेयं च बहुधा स्थितं ।
नियंत्रितानां बद्धानां त्राणन्तन्नेत्र मुच्यते ॥
मृत्योरुन्तारयेद् यस्मात् मृत्युजितेन बोध्यते ।
अमृतत्वंदयत्ये(?) तदमृतीश इति स्मृतः ॥
एवं सर्वगतो देवो बहूरूपो मणिर्यथा ।
सर्वैचाराधितो देवि स्वसिद्धफलवांछया ॥
सर्वेषां फलदो देव प्रार्थितार्थविधायकः ।
२४अ)
तस्माद्भावानुरूपेण साधकस्साधने स्थितः ।
येन येनैव भावेन तस्य तत्फलदो भवेत् ॥
यत्सदाशिवरूपेण सदा ध्यायति साधकः ।
सदाशिव तनुस्तस्य भवते परमेश्वरि ॥
सर्वसाधारणो ह्येष सर्वानुग्रहकारकः ।
सद्यो वामो ह्यघोरश्च पुरुषेशानविग्रहः ॥
अनेन हृदयादीनिन्यस्तव्यानि वरानने ।
अनेनैव तु मंत्रेण स्वासनं परिकल्पयेत् ॥
चंद्रार्बुदप्रतीकाशं हि माद्रिनिचयोपमं ।
पंचवक्त्रं विशालाक्षं दशबाहुं त्रिलोचनं ॥
नागयज्ञोपवीतं तु व्याघ्रचर्मांबरच्छदं ।
बद्धपद्मासनासीनं सितपद्मोपरिस्थितं ॥
त्रिशूलमुत्पलं वाणमक्षसूत्रं च मुद्गरं ।
दक्षिणेषु कारेष्वेवं वामेष्वेवमतः परं ॥
खेटकादर्षचापोग्रं मातुलुंगं कमंडलुं ।
२४ब्)
चंद्रार्द्धमौलिनं देवमापीतं पूर्ववक्त्रतः ।
दक्षिणं कृष्णन्तीमोग्रं दंष्ट्रालंबिकृताननं ॥
कपालमालाभरणं जगत्संत्रासकारकं ।
पश्चिमं हिमकुंदाभं वामं रक्तोत्पलं प्रभं ॥
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ।
एवं ध्यात्वा तु देवेशं पूजयेद् विधि पूर्वकं ॥
स्वमूर्तौ स्थंडिले लिंगे जले वा कमलोपरि ।
ईशानाद्यादि सद्यान्ता स्वदिक्षु प्रतिपूजयेत् ॥
आग्नेयया हृदादीनि न्यस्त्वा पूज्यान्विधानतः ।
तदा सिद्ध्यत्य संदेहः सत्यमेतद् ब्रवीमिते ॥
इति मृत्युजिदमृतीशविधाने सदाशिवाधिकारो नाम नवमः पटलः ॥
भगवानुवाच ॥
अथेदानीं प्रवक्ष्यामि भैरवागम भेदितं ।
भिन्नांजन वयप्रख्यं कल्पान्त दहनात्मकं ॥
पंचवक्त्रं शवारूढं दशबाहुं भयानकं ।
क्षपामुखं घोरतरं गर्जं तं भीषणस्वरं ॥
२५अ)
दंष्ट्राकरालवदनं भृकुटीकुटिले क्षणं ।
सिंहचर्मपरीधानं व्यालहारैर्विभूषितं ॥
कपालमालाभरणं दारितास्यं महातनुं ।
गजत्वाघ्राच्चत(?) तनुं शशांककृतशेखरं ॥
कपालखट्वांगधरं खड्ग खेटकधारिणं ।
पाशांकुशधरं देवं वरदाभय पाणिनं ॥
वज्रहस्तां महावीरं परश्वायुधपाणिमं ।
भैरवं पूजयित्वा तु तस्मात् संगगतां स्मरेत् ॥
प्रलयाग्नि समाकारां लाक्षासिंहरसप्रभां ।
ऊर्ध्वकेशां महाकायां विकरालां सुभीषणां ॥
महोदरीं पंचवक्त्रां नेत्रत्रयविभूषिता ।
नखरालां कोटराक्षीं मुंडमालाविभूषितां ॥
भैरवोक्त भुजां देवो भैरवायुधधारिणीं ।
इच्छाशक्तिरितिख्यातां स्वच्छंदोत्संगगामिनीं ॥
अघोरेश्वरीति विख्यातांमीदृग्रूपधरां स्मरेत् ॥
सर्वतंत्रेषु या प्रोक्ता प्रच्छन्ना न स्फुटीकृता ।
ममाशयो(?) ततो(?) नाभि लक्षितो भुवि दुर्लभः ॥
२५ब्)
व्याधि ग्रहणाद्येषु(?) पद्मनेषु(?) क्षय हेतवे ।
गोब्राह्मणेषु रक्षार्थं शान्तिपुष्टौ सदा यजेत् ॥
अथवा हेमकुंदेंदु मुक्ताफलसमद्युतिं ।
चंद्रकोटिसमप्रख्यं स्फटिकाबलसन्निभं ॥
कल्पान्त दहनप्रख्यं जपाकिंशुकसन्निभं ।
सूर्यकोटिसमाकारं रक्तं वा तमनुस्मरेत् ॥
अथवा पद्मरागाभं हरितात्मसमद्युतिं ।
इच्छारूपधरं देवमिच्छासिद्धिप्रदायकं ॥
यादृशे नैव वर्णध्वा साधकस्तु मनुस्मरेत् ।
तादृशं भवते रूपं तादृक् सिद्धि प्रदं शुभं ॥
पद्ममध्ये स्थितं ध्याये पूजयेद् विधिना ततः ।
यथानुरूप नैवेद्य पुष्पधूपा सदै?र्विभुं ॥
या क्षीरसदृशीं देवीं हरहाससमप्रभां ।
विशुद्धस्फटिकप्रख्यां कुंदेंदु शशिनिर्मलं ॥
चतुर्भुजां त्रिनेत्रां तु चक्रैकेन विभूषितां ।
सितांबरधरां देवीं सितहारविभूषितां ॥
२६अ)
सारंगासनसंस्था तु वज्रहस्तां महाबलां ।
पाशांकुशधरीं देवीं घंटाध्वनि निनादितां ॥
पूर्वस्यां दिशि संस्था तु देवदेवस्य सन्मुखं ।
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति साधकः ॥
सूर्यकोटिसमप्रख्यां ज्वलिताग्नि समप्रभं ।
सिंदूरराशिसदृशीं विद्युद्रूपां भयंकरीं ॥
त्रिनेत्रां भीमवदनां स्थूलकायां महोदरीं ।
लंबोदरीं लंबकुचां प्रेतारूढां महाबलां ॥
कपालमाला भरणां व्याघ्रचर्मकटिस्थलां ।
गजचर्मोत्तरीयां च मुंडमालाविभूषितां ॥
महोक्लेवविराजदन्तीं भासयन्तीं दिशोम्बरं ।
चतुर्भुजैकवक्त्रां तु खड्गखेटकधारिणीं ॥
कपालखट्वांगधरीं दक्ष दिक्संस्थितां स्मरेत् ।
कृष्णारुणां महादीप्तां निर्मांसां विकृताननां ॥
सुशुस्ककोटराक्षींर एकवक्त्रां चतुर्भुजां ।
त्रिनेत्रां भीमवदनां व्यालहारैर्विभूषितं ॥
ऊर्ध्वकेशां महाकायां मुंडमालाविभूषितां ।
२६ब्)
स्नायुरज्जु निबद्ध्वांगीं नरचर्मकटिस्थला ।
व्याघ्रचर्मांबर धरां खड्गखेटकधारिणीं ॥
अंत्रासृङ्मांससंपूर्णं पिटिकां धारयेत् सदा ।
त्रोटयन्तीं महांत्राणि पश्चिमायां दिशि स्मरेत् ॥
कुंभीरासनसंस्था तु? स? चैवमधुनोच्यते ।
उष्ट्रग्रीवं गजस्कंधमश्वकर्णं हुडाननं ॥
व्याडजंघसमाकारं नखावज्रायुधोपमाः ।
कूर्मपृष्ठं मीनपुच्छं कुंभीरं परिकीर्तितं ॥
नीलोत्पलदलश्यामां शरदंबुदसन्निभां ।
त्रिनेत्रां चैक वक्त्रां च नीलांबरविभूषितां ॥
सिंहपृष्ठे समारूढां शरचाप करोद्यतां ।
शक्तिहस्तां महादेवीं तथा चोत्पलहस्तिका ॥
दिश्युत्तरस्यां देवेशी ध्यातां यष्टां फलप्रदां ।
सिद्धारक्ता तथा शुष्का तथैवोत्पलमालिनी ॥
चतुर्दिक्षु स्थिता ह्येता भैरवापातुगाः प्रिये ।
विदिक्षु दूत्योदिन्यस्य(?) वह्नादीशं दिगन्ततः ॥
२७अ)
काली चैव कराली च महाकाली तथैव * ।
भद्रकालीति विख्याता देवी रूपेण संस्थिता ॥
किं त्वेता द्विभुजादेव्य पद्मासनमवस्थिताः ।
कर्तृका मुंडधारिण्यः किंकरा द्वारदेशतः ॥
क्रोधनोवृत्तकश्चैव कर्षणोथ गजाननः ।
द्विभुजा विकृतास्यास्तु खड्गखेटकपाणयः ॥
शान्त्यर्थे तु सिताः सर्वे रूपं वा कर्मभेदतः ।
अथातः संप्रवक्ष्यामि राजरज्याविधानतः ॥
मंत्रसंपुटयोगेन मध्ये नामसमालिखेत् ।
तद्धर्थि भैरवं देवममृतेशं यजेत् पृये ॥
देव्योदलेषु तेनैव तथैवाद्यंत्वयोजितां ।
दूत्यस्तथा नियोज्यन्ते मूलमंत्रेण किं कराः ॥
पद्मबाह्ये सुशुक्लं तु लिखेत्रु?शशिमंडलं ।
चतुष्कोणं ततो बाह्ये वक्तलांछनलांछितं ॥
रोचना कुंकुमेनैव क्षीरेण सितया पिव ।
लिखित्वा पूजयेच्छांतौ सर्वश्वेतोपचारतः ॥
यथा तु रूपैर्नैवेद्यैर्घस्मरैर्वलिरासवैः ।
२७ब्)
सितचंदनसंमिश्रं कर्पूरक्षोदधूसरं ।
साक्षतातंद्रुलतिलात्सितशर्करया सह ॥
घृतक्षीरसमायुक्तान् होमयेद्यंस्तुयन्तीः(?) ।
महाशान्तिर्भवेत् क्षिप्रं गृहीतो यदि मृत्युना ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतेशविधाने दक्षिणवक्त्राधिकारो नाम
दशमः पटलः ॥
भगवानुवाच ॥
अथेदानीं प्रवक्ष्यामि तन्त्रोत्तरमनुत्तमं ।
मंत्रेणानेन यष्टव्यं सर्वसिद्धिफलोदयं ॥
सर्वोपद्रव शान्त्यर्थमष्टपत्रे कुशेशये ।
पूर्वोक्तमंडले देवि मध्ये देवं तु तुंबुरुं ॥
दशबाहुं सुराशानं पंचवक्त्रं त्रिलोचनं ।
सदाशिवेन वपुषा वक्त्रान्येवं प्रकल्पयेत् ॥
तमर्द्धचंद्रशिरसं राजीवासनसंस्थितं ।
हिमकुंदेंदु धवलं तु दि?नाबलसन्निभं ॥
नागयज्ञोपवीतं च सर्वभूषण्भूषितं ।
सर्वाभरणसंयुक्तं व्याघ्रचर्म कटिस्थलं ॥
२८अ)
गजचर्मपरीधानं वृषारूढं महाबलं ।
खड्गचर्मधरं देवं टंककंदलभूषितं ॥
पाशांकुशधरं देवं चक्रहस्ताक्ष सूत्रधृक् ।
वरदाभयहस्तं च सर्वकिल्विषनाशनं ॥
चतुर्दिक्षु स्थिता देव्यः पूर्वाद्या दूतयस्तथा ।
आग्नेयादि विदिक्ष्वेवं किंकरा द्वारदेशतः ॥
जंभनी मोहनी चैव सुभगा दुर्भगान्तिमाः ।
दूतयस्तु समाख्याता किंकराः शृणुतः पृये ॥
क्रोधनो नृत्तकश्चैव गजकर्णो महाबलः ।
सव्यापसव्ये गायत्री सावित्री विनिवेशयेत् ॥
अधोर्ध्वे चांकुशं मायां विन्यसेत् तदनन्तरं ।
सर्वाद्येतानि योज्यानि मूलमंत्रेण सर्वदा ॥
सितरक्तपीतकृष्णा देव्यो वै चतुरानना ।
चतुर्भुजाः त्रिनेत्रा च टंककंदलधारिणी ॥
दंडाश्च सूत्रहस्ताश्च प्रेतोपरिविराजते ।
जया देवी च विजया वक्त्रवर्णा चतुर्भुजा ॥
चतुवक्त्रास्त्रिनेत्रा च शरकार्मुक धारिणी ।
२८ब्)
खड्गचर्मधरी देवी ह्युल्रो?कोपरिसंस्थिता ।
जयन्ती पद्मगर्भाश्च चतुर्वस्त्रा चतुर्भुजा ॥
शक्तिघंटाधरी देवी चर्मपट्टिसधारिणी ।
अश्वारूढा महादेवी सर्वाभरणभूषिता ॥
अजिता च चतुवक्त्रा कृष्णवर्णा महाबला ।
चतुर्भुजा त्रिनेत्रा च पाशांकुशधरा तथा ॥
रत्नपात्र गदाहस्ता दिव्यासनसुसंस्थिता ।
सौवर्णां चरधारिण्यो स्वर्णभूषण भूषिताः ॥
स्वदिक्षुसंस्थिता यष्टा ध्यातासिद्धिफलप्रदा ।
दूत्यस्तद्रूपधारिण्यो किंतु वक्त्रैक भूषिताः ॥
द्विभुजाश्च त्रिनेत्राश्च मुंडकर्तरिभूषिताः ।
मत्स्यः कूर्मोथमकरोभेकमासां तथासनं ॥
किंकराः खड्गहस्ताश्च द्विभुजाश्चर्मधारिणः ।
एकवक्त्रास्त्रिनेत्राश्च भृकुटी कुटिलेक्षणाः ॥
सितादि वर्णभेदेन ध्यातासिद्धिप्रदां शुभां ।
गायत्री रक्तवर्णा च वक्त्रैकेन विभूषिता ॥
वद्वपद्मासनासीना ध्यानान्मीलित लोचना ।
२९अ)
सावित्रीसितवर्णेन ध्यानान्तर्गत लोचना ।
तथैवा वयवा देवी मायाकृष्णा चतुर्भुजा ॥
महापट्टावगूहिन्या संपुटाकारयुग्मतः ।
अंकुशं भैरवाकारं पाशांकुशधरं विभुं ॥
कपालखट्वांगधरं वसासृङ्मांस लंपटं ।
रावंक्षीरार्णवं वोर्वी शक्तिमाधारिकां शुभां ॥
आसनार्थं प्रयुंजीत सर्वशान्त्यर्थसाधकं ।
सर्वाण्येतानि वा देवि सुशुक्लाः शान्तिकारकाः ॥
रक्तापीतास्तथा कृष्णा ध्यातव्याः कर्मभेदतः ।
तद्वत् पूजां प्रकुर्वीत यदासिद्धिफलप्रदाः ॥
अथान्यं संप्रवक्ष्यामि चक्रराजं महाबलं ।
आद्यन्तसंपुटे चैव मध्ये नाम समालिखेत् ॥
एवं देव्यश्च दूत्यश्च पूर्ववद् विधिना स्मरेत् ।
मध्ये दलेषु विदलेष्वन्यतः सर्वतः सुधीः ॥
यथानुरूप नैवेद्यैर्भूरिशान्त्यर्थमात्मनः ।
अन्यस्य चात्रयोक्तव्यं यष्टव्यं शान्तिकर्मणि ॥
२९ब्)
तिलतंडुलमध्वाज्य क्षीरशर्करया सह ।
होमयेत् पूर्ववत् कुंडे प्रशस्तेंधन दीपिते ॥
महाशान्तिः प्रजायेत *? मेनानृतं वचः ।
सर्वरक्षाविधानेस्तु योज्यादेव्यः सुसिद्धिदाः ॥
पंक्तिस्था वायजेद् देवीं मध्ये देवं तु तुंबुरुं ।
सर्वश्रेयस्समाप्नोति साधकः संय *? दृयः ॥
अन्यस्य वा प्रयुंजानो जयत्यनं संशयः ।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशं विधाने उत्तरतन्त्राधिकारे
एकादशः पटलः ॥
भगवानुवाच ॥
अथातः संप्रवक्ष्यामि कुलाम्नाय निदर्शनं ।
यागहोमं जपं कार्यं येन सर्वमवाप्नुयात् ॥
पद्ममध्ये तु संपू *? भैरवः पूर्वचोदितः ।
पूर्वादि दिग्दलान्तस्था ह्यष्टौ देव्य स्वभावतः ॥
ब्रह्म्यादि देवतानां च स्वरूपायुधवाहनाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैषणवी तथा ॥
३०अ)
वाराही चैव माहेंद्री चामुंडा बहुरूपिणी ।
ब्रह्मादि बहुरूपान्तं रूपमासां स्ववाहनं ॥
हंसो वृषो मयूरश्च वैनतेयश्च सीकरः ।
*? नैत्योवाहनानि प्रोक्ता न्यासां क्रमेण तु ॥
स्वायुधं चैव सर्वासां स्वरूपांकुशभूषितां ।
कपालखट्वांग धरा वरदा भयहस्तिका ॥
पंक्तिस्था वा * जे देवि सर्वाभीष्टफलप्रदा ।
सर्वेषां चैव शान्त्यर्थं प्राणिनां भूतिमिच्छता ॥
भूरियागेन यष्टव्या यथाकर्मानुरूपतः ।
विशेषेन तु षष्ट्यव्य भूभृतानां तु दैशिकैः ॥
आसामेव प्रसादेन राज्यं निहतकंटकम् ।
भुंजते सर्वराजान सुभगा ह्यवनीतले ॥
यस्मादेत जगत्सर्वं देवीनां भावजं ।
एता योनि स्वरूपास्तु देवादि जगतः प्रिये ॥
सर्वास्ताः सर्वदुःखौघ हारिण्यः प्राणिनां पृये ।
रक्षन्ति मातृवच्चैताः पालयन्ति * *? त्सदा ॥
३०ब्)
कोष्ठे वै कार्षिकान्यद्वच्छक्ति रूपं जगत् प्रिये ।
प्रलयेधारयन्तिस्ससृजन्तीह पुनश्चताः ॥
यद्वच्च कार्षकाः काले बीजवापं प्रकुर्वति ।
फलार्थं फलदं तद्वद्ब्रह्मकल्पसिसृक्षया ॥
कल्पादौ कल्पमध्यान्ते व्यापयन्ति जगद्धिताः ।
तस्मात् सर्वप्रयत्नेन शान्त्यर्थं हितकाम्यया ॥
यष्टव्याश्चैव होतव्या ध्यातव्यास्सिद्धिकामतः ।
सर्वबीजैस्त्रिमधोक्तैस्तिलैर्वा श्रीफलैः शुभैः ॥
पुष्पैर्वा सुप्रशस्तैश्च फलैरन्यैः सुहोमि *? तैः ।
सर्वसिद्धिप्रदादेव्यः सर्वकामफलप्रदाः ॥
इति सर्वस्रोतसंग्रहसारे मृत्युंजिदमृतीशविधाने कुलाम्नायाधिकारो
द्वादशमः पटलः ॥
ईश्वर उवाच ॥
एवं वै मंत्रराजस्य कौलिकं विधिचोदितं ।
पुनरन्यं प्रवक्ष्यामि विधानं यत्फलं प्रदं ॥
नारायणं चतुर्वाहुं पद्मपत्रयते क्षणं ।
३१अ)
अतसी पुष्पसंकाशमेकवक्त्रं द्विलोचनं ।
शंखचक्रगदापद्म सर्वाभरणभूषिणं ॥
दिव्यांवरधरं देवं दिव्यपुष्पोपशोभितं ।
स्फुरन्मुत्त?माणिक्य किंकिणी जालमंडितं ॥
दिव्यकुंडलधारी च उत्थितं तु सदास्मरेत् ।
अथवा पक्षिराजस्थं सुश्वेतं तु मनोरमं ॥
त्रिवक्त्रं सौम्यवदनं वराहरिभूषितं ।
भुजैः षट्भिसमायुक्तं वराभयसमन्वितं ॥
उत्संगे स्प?शृयं ध्यायेत् तद्वर्णायुधधारिणीं ।
लावण्यकान्ति सदृशी देवदेवस्य सन्मुखां ॥
? तुर्दिक्षु स्थिता देव्यो विदिक्ष्वंगानि पूजयेत् ।
जयालक्ष्मीस्तथा कीर्माया वैदिग्नता यजेत् ॥
पाशांकुशधरां देवीं वरदाभयपाणिनीं ।
देवस्य सन्मुखा ध्याये श्रीवर्णारूपधारिणी ॥
देवस्य सदृशान्यंगाष्टद्वर्णायुधधारकां ।
अथवाष्टभुजं देवं पीतवर्णसुशोभनम् ॥
३१ब्)
मेषोपरिस्थितं देवं दिग्वासंमूर्द्धलिंगिनं ।
शृंगवटा? * *? केन चोयानोव्य?तपाणिनं ॥
बालरूपं यजे नित्यं क्रीडमानं हि योषितां ।
चतुर्दिक्षु न्यसेद् देवीं दिग्वासास्तु मनोरमाः ॥
कर्पूरी चंदनी चैव कस्तूरी? कुंकुमी तथा ।
तद्रूपधारिणीं देवीं इच्छासिद्धिफलप्रदा ॥
बहुनात्रकिमुक्तेन विश्र?भुग्वा सदास्मरेत् ।
अनेकवक्त्रसंघातैरनेकास्त भुजैस्तथा ॥
शयनं वा विवाहस्थं ह्यधे लक्ष्मि युतं तथा ।
केवलं नरसिंहं वा वाराहं वाथवा स्मरेत् ॥
कपिलाननोपि वा ध्यायेदव्यक्तं वापि निष्कलं ।
येन येन प्रकारेण भावभेदेन संस्मरेत् ॥
तस्य तन्मयतां याति इत्याज्ञा पारमेश्वरी ।
तेजोमयमतोवक्ष्ये येन सिद्धिर्भवेर्नृणां ॥
रक्तपद्मनिभाकारं लाक्षारससमप्रभं ।
सिंदूररासिवर्णाभं पद्मरागसमप्रभं ॥
कुसुंभरससंकाशं दाडिमी कुसुमप्रभं ।
३२अ)
कल्पान्तवह्निसदृशमेकवद्वक्त्रं द्विलोचनं ।
चतुर्भुजं महात्मान वरदाभयपाणिकं ॥
वज्रमेकेन हस्तेन पद्ममेकेन धारयेत् ।
सप्ताश्च रथमारूढं नागयज्ञोपवीतनं ॥
रक्तमाल्यांबरधरं रक्त स्रगनुलेपनं ।
अथवाष्टभुजं देवं लोकपालायुधान्वितम् ॥
त्रिवक्त्रं घोरवदनं त्रिनेत्रं विकृताननम् ।
अश्वोपरिसमारूढं पद्ममध्ये सदायजेत् ॥
हृच्छिरश्च शिखावर्म लोचनास्त्रं प्रपूजयेत् ।
मध्यपद्मे यजेद् देवं ग्रहाष्टौ तु द्वितीयके ॥
नक्षत्राणि तृतीये तु य *? संख्यं त्रिभिस्त्रिभिः ।
दलाग्रे तृतयं पूज्यं लोकपालांस्ततो यजेत् ॥
पंचमे पद्मसंस्थाने अस्त्राण्यष्टौ प्रपूजयेत् ।
केवलं सुत्थितं वापि द्विभुजं रश्मि संयुतं ॥
विश्वकर्मस्वरूपं वा विश्वकर्ता जगत्पत्तिः ।
चतुर्भुजं महात्मानं टंकपुस्तकधारिणं ॥
३२ब्)
सादर्षं वामहस्तेन सूत्रं वै दक्षिणेन तु ।
देवैः सिद्धैश्च गंधर्वैस्तूयमानं विचिन्तयेत् ॥
स्थले नले जले चैव पर्वताग्रेषु पूजयेत् ।
यत्र वा रोचते चित्तमिच्छासिद्धिफलप्रदं ॥
शंखकुंदेंदु धवलं त्रिवक्त्रं रुद्ररूपिणं ।
सदाशिवेन रूपेण वृषारूढं विचिन्तयेत् ॥
चतुर्भुजं महात्मानं शूलाभयसमन्वितं ।
मातुलुंगधरं देवं अक्षसूत्रधरं प्रभुं ॥
अथवा बहुबाहुं च नाद्यस्थं चिन्तयेत् प्रभुं ।
उमार्द्धधारिणं देवं विष्णुरेवार्द्धधारिणं ॥
विवाहं च वा ध्यायेत् समीपस्थं प्रपूजयेत् ।
ब्रह्मा चतुर्मुखः सौम्यो रक्तवर्णः सुलोचनं ॥
लंबकूर्चः सुतेजस्कौ हंसारूढश्चतुर्भुजः ।
दंडाक्षसूत्रहस्तश्च कमंडलुभयप्रदः ॥
३३अ)
वेदैश्चतुर्भिः संयुक्तः सर्वसिद्धिफलप्रदः ।
बुद्धः पद्मासनगतः प्रलंवः श्रुतिवीवरः ॥
पद्माक्षः पद्मचिह्नश्च मणिवद्धो जगद्धितः ।
समाधिस्थो महायोगी वरदाभयपाणिकः ॥
अक्षसूवधरोदेवः पद्महस्तः सुलोचनः ।
ध्यात्वा ह्येवं प्रपूज्येतस्त्रीणां मोक्षफलप्रदः ॥
बहुनात्र किमुक्तेन पौनः पुण्येन सुंदरि ।
कान्तिकेयश्च कामश्च सोमसूर्यविनायकाः ॥
लोकपालाश्च वै सर्वे ह्यन्येवै देवयोनयः ।
गारुडे भूततंत्रे च वाग्विधानेषु पूजयेत् ॥
न्यायारहन्वसांख्यैश्च वैदिकानां च सर्वशः ।
यामले एकवीरे च नवके तृकभेदतः ॥
उमार्द्धधारिणे चैव विषुरेवार्द्धधारिणे ।
३३ब्)
तत्समीपस्थ देव्यो वा दुर्गाख्ये विंध्यवासिनी ।
चंडिकाद्याश्च शुष्काद्याः स्वयंभुस्ते महेश्वरे ॥
प्राक्प्रतिष्ठितरूपे वा ऋषिर्मनुजयोजिते ।
आयुधेषु च सर्वेषु विद्यापीठेषु सर्वतः ॥
पातालमंत्रतंत्रेषु नागेंद्रद्रावितेषु च ।
शक्तयो वाप्यनन्ताश्व मंत्रेनानेन सुव्रते ॥
विधानेन तु यष्टव्या सर्वसिद्धिफलप्रदाः ।
भवंन्त्य वितथं भद्रे सत्यं मेनानृतं वचः ॥
सर्वं साधारणो देवः सर्वसिद्धिफलप्रदः ।
सर्वेषामेव वर्णानां जीवभूतो यत स्मृतः ॥
प्रतिष्ठा पूजने चैव भद्रपीठार्घपात्रकं ।
बाह्यस्थिते सकृत् पूज्ये सकृचंद्रार्क मूर्तिषु ॥
अग्निसंस्करणे चैव न्यासध्यानादि वाहनैः ।
विकल्यो नैव कर्तव्यो सर्वसाधारणो यतः ॥
संकरत्वं न जायेत तस्माच्छंकां परित्यजेत् ।
सकृजप्तशरीरस्थः संकृज्जप्तोर्घपात्रके ॥
३४अ)
सकृद्धस्तेषु विन्यासो मानसे तु सकृज्जपे ।
बाह्यस्थितस्सकृत्पूज्यस्सकृचंद्रार्क मूर्तिषु ॥
सकृहोमे सकृज्जप्ये उदके तु सकृद्यजेत् ।
सकृत्सकृच्च सर्वत्र पूजयेत् परमेश्वरं ॥
प्राणायामादिकं क्लेश धारणामुद्रयोगतः ।
नैवोपयुज्यते ह्यस्य मंत्रराजस्य सुव्रते ॥
व्यवसायैः प्रकर्तव्यं अन्यथा नैव सिद्ध्यति ।
निच्छिद्रं साधकेंद्रस्य राज्ये राष्ट्रविवृद्धये ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने
सर्वविद्याधिकारस्त्रयोदशमः पटलः ॥
श्रीदेव्युवाच ॥
यदि देव परत्वेन वर्णितं मंत्रमुत्तमम् ।
सर्वेषामेव देवानां देवीनां चैव सर्वतः ॥
हृदयं परमं ह्येष मंत्रराट्सर्वसिद्धिदं ।
किमन्यैर्मंत्रमुख्यैश्च यष्टैर्जप्तैर्व्रवीहितं ॥
भगवानुवाच ॥
साधुसाधुमहेशानि पृष्टोहं यत्त्वयानघे ।
३४ब्)
तदहं संप्रवक्ष्यामि यत्सारं परमं ध्रुवं ।
आसीदिदं शक्तिरूपं अनौपम्यमनामयं ॥
शिवं सर्वगतं शुद्धंमप्रमेयमतींद्रियं ।
सिसृक्षुच्चेच्छया देवि ज्ञानशक्त्या क्रियात्मकः ॥
प्रथमो ह्येषदेवेशि सर्वज्ञः सर्वगः शिवः ।
सर्वस्सर्वात्मको देव आदिसृष्टिप्रवर्तकः ॥
ततो तु मंत्रसृष्टि वै शिवेन परमात्मना ।
नाना प्रकार रचिता पृथग्भेद व्यवस्थया ॥
यथा तथैव देवेशि सर्वः सर्वात्मकः परः ।
साधारणो मंत्रनाथः सर्वेषां चैव वाचकः ॥
यदा तदा हि सर्वेषांमात्मरूपो ह्यलेपकः ।
मंत्रकोट्यो ह्यसंख्याता व्यक्ताव्यक्ताश्च संस्थिता ॥
सर्वे ते सिद्धिदास्तेन आद्यन्तेन तु रोधिताः ।
एतत् संपुटयोगेन जप्त्वासिद्धिफलप्रदाः ॥
तदर्धं तव सुश्रोणि स्नेहेन प्रकटीकृतं ।
रहस्यं परमं सत्यं न श्राव्यं यस्य कस्यचित् ॥
गुप्तः सुसिद्धिदो ह्येष प्रकटः सिद्धिहा भवेत् ।
३५अ)
प्रथमो ह्येष देवेशि सर्वज्ञः सर्वतः शिवः ।
सर्वः सर्वात्मको देवो आदि सृष्टिकरः प्रभुः ॥
तदेव मंत्रसृष्टिं वै शिवं वै परमात्मनः ।
नानाप्रकार रचिता प्रेषंते देव्यवस्थिता ॥
तत् तत् तथैव देवेशि सर्वसर्वात्मकं परं ।
तस्मात् सुगुप्तं कर्तव्यं संप्रदाय मुखागमः ॥
इति मृत्युजिदमृतीशविधाने सर्वाधिकारो नाम चतुर्दशमः पटलः ॥
भगवानुवाच ॥
अतः परं प्रवक्ष्यामि सर्वरक्षाकरं यथा ।
मंत्रनाथं महोग्रं च धूपं रक्षोघ्न चोदितं ॥
सप्तवाराभिजप्तं तु रक्षोघ्नं यस्य दीयते ।
शिरस्थं धारयेन्नित्यं सर्वदोषैः प्रमुच्यते ॥
सर्वदैत्य क्षयार्थं तु समुक्तेनैव ब्रह्मणा ।
सेर्षाणां चैव सर्वेषांमभिचारो यथाकृतः ॥
सदा वै सर्षपा प्रोक्ता पाति रक्षति सर्वतः ।
यदा रक्षांसि सर्वाणि प्राग्विव्रुतहतानि च ॥
मया देवि यदा प्रोक्ता रक्षोघ्ना प्रथिता भुवि ।
३५ब्)
आहवेषु च सर्वेषु दैत्येस्सह सुरोत्तमैः ।
नियुक्ता दुष्टहन्तारों सिद्ध्यर्थं रिपुनाशनं ॥
तेषामर्थं यदासिद्धं तदासिद्धार्थकं भुवि ।
ख्यातं दर्पापहं देवि भूतानां दुष्टचेतसां ॥
यदा सर्वेषु भूतेषु भयत्रस्तेष्ट्र? सर्वतः ।
नैराजनविधानेन नामांकं जुहुयात् पृये ॥
वह्नौ संक्रुद्धमनसा मंत्री रक्षार्थमुद्यतः ।
तदा नैराजनं ख्यातं सर्वश्रेयस्करं परं ॥
सितादि युगभेदेन वर्तते तु ग्रहो बली ।
शुक्लः सर्वप्रदः ख्यातो रक्ते राज्यविधायकः ॥
पीतोरक्षाकरः प्रोक्तः शत्रुविनाशकृत् ।
चतुर्युगे तु सर्वत्र पीतकृष्णौ द्वितीयके ॥
राजसर्षपगौराख्यो रूपौ द्वौ तु हितौ प्रिये ।
यदा मृत्युवशाघ्रातस्सर्वतै तु कृष्णपद्रुतः ॥
तदा तु घृतसंयुक्तं गोक्षीरसितशर्करं ।
तिलैविमिश्रितं कृत्वा जुहुयात् सर्वशान्तिदं ॥
तिलैः कृष्णैः समायुक्तं राजसर्षपमुत्तमं ।
३६अ)
त्र्यक्ते वै जुहुयात् सम्यक् सर्वशान्ति प्रदं शुभं ॥
अनेनैवाभिमंत्रित्वाद्यस्य हस्ते तु दीयते ।
सौभाग्यमतुलं देवि जयिते(?) द्या?वसंशयः ॥
सप्ताभिमंत्रितं कृत्वा मंत्रेनानेन मंत्रवित् ।
मूर्ध्नि प्रदापयेद् यस्य सर्वदोषैः समुच्यते ॥
अभिमंत्र्य तथा धूपं पुष्पं वासांसि वौषधं ।
समालभनपानं वा भोजनं वाभिमंत्रितं ॥
दीयते(?) यस्य तस्यैव न हिंसंतितीतिहिंसकाः ।
दिविदिक्षु क्षिपेद् यस्य रक्षार्थं प्रयतात्मनः ॥
दिवा वा यदि वा रात्रौ सुप्ते वा जाग्रतोपि वा ।
अवधस्सर्वभूतेषु भुवितिष्ठत्यसौ नरः ॥
राजरक्षाविधानं तु मयैवं प्रकटी कृतं ।
तव स्नेहात् प्रशस्तं तु रहस्यं सर्वसिद्धिदं ॥
नृपाणां नृपपत्नीनां तत्सुतानां द्विजातिषु ।
आचार्यः कुरुते यस्तु सर्वानुग्रहकारकः ॥
मंत्रज्ञः साधको वाथ स पूज्यस्सर्वथा प्रभुः ।
सम्मानैवमनैर्नित्यं(?) दारैर्विविध विस्तरैः ॥
३६ब्)
यथा मंत्रार्थसंयुक्त स्वाहा होमे फलप्रदः ।
तथा सर्वेषु कार्येषु दीक्षितो मंत्रवित्सदा ॥
फलप्रदो भवेत् सम्यक् सर्वशक्ति प्रदः शुभः ।
सुधा यथा च नागानां पितॄणां च स्वधा यथा ॥
नमस्कारोक्ति देवानां वौषट् शांतौ प्रशस्यते ।
मंत्रज्ञानां तथा नित्यं? दानसन्मानमुत्तमं(?) ॥
फलप्रदं भवत्यासु? सर्वसिद्धि प्रदायकं ।
ज्ञानशक्ति स्थिता मंत्रास्तं ज्ञानं चेतसि स्थितं ॥
तच्चितं पूजितं तुष्टं सात्विकं भवते सदा ।
सत्वस्था तु शृयो नित्यं लक्ष्मीस्तत्र प्रवर्द्धते ॥
रजस्तमो विनाशेन मंत्राः सत्वोदये सदा ।
सिद्धि प्रदा भवंत्याशु यतोतीव सुनिर्मलाः ॥
३७अ)
तस्मात् सर्वप्रयत्नेन आज्ञैषा पारमेश्वरी ।
परिपाल्या प्रयत्नेन सिद्धिमुक्तिर्न दूरतः ॥
अनुत्तर विधानं तु न दद्यात् परदीक्षिते ।
स्वशिष्ये दीक्षिते दद्यान्नान्यथा सर्वथा प्रिये ॥
इति सर्वस्रोतसंग्रहसारे मृत्युंजिदमृतीशविधाने पंचदशमः पटलः ॥
श्रीदेव्युवाच ॥
कथितं देवदेवेन रहस्यं परमाद्भुतम् ।
सर्वागम मयं देवं एकवीरं महाबलं ॥
वामदक्षिणसिद्धान्तं भेदत्रयविभेदितं ।
वैष्णवादि समायुक्तं रहस्यं समुदाहृतं ॥
सर्वदेव मयो ह्येष मृत्युजिद् व्यापकः शिवः ।
बहुभिः संप्रदाद्यैश्च यष्टव्यो भाव भेदतः ॥
नाना कृयोपचारेण नानासिद्धि फलप्रदं ।
अधुना श्रोतुमिच्छामि संयम हृदि स्थितं ॥
३७ब्)
त्वदृते संशयस्यास्य च्छेत्तान ह्युपपद्यते ।
पृथक्पृथक्समाचारं सर्वं देवेन भाषितं ॥
कथमस्मिन्समाचारं सामान्यं सर्वतोदितं ।
कथमेकेन मंत्रेण सर्वेसिद्ध्यंति पूजिताः ॥
बीजैः कूटैस्तथा पिंडैर्मालामंत्रैरनेकशः ।
वाच्यवाचक भेदेन सर्वसिद्धिफलप्रदं ॥
कथमेकेन मंत्रेण पूजनार्हो नरो भवेत् ।
भवन्तीह सुराः सर्वे स्वावारस्यं प्रभावतः ॥
मानवानां हितार्थाय कारुण्यात् परमेश्वर ।
कलिमासाद्य सिद्ध्यन्ति मनुजा दुःखमोहिताः ॥
दारिद्र्यानलसंतप्ता जरामृत्युभयान्विताः ।
पायैकनिरताः क्रूरास्तपस्सत्य विवर्जिताः ॥
हिंसा पैशुन्य चेतस्का शौचाचार बहिष्कृताः ।
योगिनी शाकिनीभिश्च डाद्यों डामरिकादिभिः ॥
भूतैर्यक्षैरपस्मारैर्मुद्रिताः प्राणिनो यथा ।
३८अ)
सिद्ध्यंति विगता यासास्तथा ब्रूहि महेश्वर ।
श्रीभैरव उवाच ॥
साधु साधु महाभागे यथापृष्टं वदाम्यहं ।
भविष्यन्ति महादेवि कलिः कष्टतरं यतः ॥
तदर्थें परमार्थेन मया ते प्रकटी कृतं ।
परमाथ परत्वेन मृत्युजित्सर्वतो मुखः ॥
भावभेदेन यष्टव्यो मोक्षसिद्धिं समीहते ।
यस्मिन् यस्मिन् यदाचारं मयाशस्त्रेषु भाषितं ॥
स्रोतस्सुतत् तथा कार्यं विशेषाद्याग होमयोः ।
अन्ये सामान्यतो देवि न सिद्ध्यन्ति कदाचन ॥
किन्तस्मिन्नाधिकारोस्ति त्रिविधे सर्वसिद्धिदे ।
द्वैताद्वैत विमिश्रे च यष्टं वै सिद्धिदो भवेत् ॥
यस्मात् सर्वगतं देवं विश्वरूपो मणिर्यथा ।
साधकस्येच्छया यष्टं सिद्धिदं भवते ध्रुवं ॥
यतः सर्वगतं देवं सर्वंश्वन्तर्गतं विभुं ।
तत्सिद्धि मुक्ति दातारं न वर्णाः परमार्थतः ॥
३८ब्)
तस्मात् सर्वं सदा देवि यष्टव्यं भावभेदतः ।
यागमस्य प्रवक्ष्यामि कृयते तु यथेच्छया ॥
पर्वताग्रे नदीतीरे गवां गोष्ठेथ चत्वरे ।
वने चोपवने रम्ये देशकालानुरूपतः ॥
सर्वशल्यविनिर्मुक्ते दुष्टसत्वविवर्जिते ।
पुण्यधर्मे स्वसंवासे पापाचार वहिं कृते ॥
यत्र निंदा पराः पौरा न दृश्यन्ति कदाचन ।
यत्र पश्यन्ति ते दुष्टा संकीर्णं सर्वशंकरैः ॥
तस्मिं यजेन् महामंत्रं गीतिभिः परिवर्जितं ।
गृहे यागः प्रकर्तव्यः आचार्यैस्तत्व दर्शिभिः ॥
सुगुप्तं तु प्रकर्तव्यं विशेषां शान्तिकर्मणि ।
दीक्षाकाले तु कर्तव्यं मंडलं यत्र तत्र हि ॥
शान्तौ पुष्टौ प्रयत्नेन सुगुप्तं यजनं ध्रुवं ।
यस्माद्विंसापरालोके दृश्यन्ते सिद्धि हिंसकाः ॥
कीलनं चैव मंत्राणां भेदनं मोहनं तथा ।
मंत्र संताडनं चैव जंभनं स्तंभनं तथा ॥
रिपु त्वकरणं चान्यं प्रत्यंगैरत्वमेव हि ।
३९अ)
सर्वहानि करत्वं च कृयते दुष्टमंत्रिभिः ।
एवं दशप्रकारेण प्रपतंते हि हिंसकाः ॥
तस्मात् सर्वप्रयत्नेन सुगुप्ते शरणोपरि ।
स्वगृहे कारयेद्यन्नाद्यागहोमं जपं तथा ॥
अत्यंत फलं श्रेष्ठ सुगुप्तं मृत्युजित्सदा ।
मंडले स्थंडिले कुंभे निर्विशं न चेतसा ॥
हर्म्योपरि तथा होमं विशेषाच्छान्ति पुष्टिदं ।
न विकल्पोत्र देवेशि विकल्पाद्रौरवं ब्रजेत् ॥
यागं होमं च तत्रैव सर्वसिद्धिफलप्रदं ।
तस्करन्तं विजानीयात् सिद्धि हानि करोति यः ॥
नाधिकारी भवेत् सोपि तन्त्रे वै पारमेश्वरे ।
सर्वतः स भवेद् देवि तत्वविच्चाध्वविद्गुरुं ॥
एवं व्याप्तिं तु यो वेत्ति परापरविभागशः ।
सभवेन्मोचकः साक्षान् शिवः परमकारणः ॥
शिवतत्वमविज्ञाय दीक्षादौ कुरुते तु यः ।
अंधेनैव यष्टांधाश्च उभयोश्च भ्रपातिनः ॥
आत्मानं च तथा शिष्यं नीत्वा निरयसंकटे ।
३९ब्)
तस्मात् तत्व विदः श्रीमानाचार्यः सर्वगो भवेत् ।
यावन्न तत्व विच्छ्रेष्ठः कथं कर्माणि कारयेत् ॥
मंत्रज्ञो ब्रह्मयोगज्ञो परस्यैवात्मनो यथा ।
यावन्न निर्मलो मंत्रस्तावत्सिद्धिः कथं भवेत् ॥
निर्मलं तु भवेद् देवि तत्स्था मंत्राः सुनिर्मलाः ।
तदुद्भूतास्तत्समाश्च भवन्ते सर्वसिद्धिदा ॥
शिवशक्ति नियोगाच्च मंत्राणामुदयं शुभं ।
सर्वत्र फलदा मंत्रा यतस्ते च शिवास्मृताः ॥
तस्मात् शिव मयाः सर्वे नित्यानुग्रहकारिणः ।
शिवश्चाचार्य रूपेण तेन ते फलदा स्मृताः ॥
यावन्न तत्व विन्मंत्री गुरुं वा साधको पि वा ।
तावन्न फलदो देवि सत्यमेतद्ब्रवीमिते ॥
अन्यथा भोगसंयुक्तं आचार्यफलदं न हि ।
तस्मात् तत्व विदश्रेष्ठः सर्वदा सर्वकर्मसु ॥
तेन यो दीक्षितो जंतुर्ब्रह्महापि शिवो भवेत् ।
यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् ॥
४०अ)
येन येनोपचारेण भवभेदेन येन वा ।
सामान्येन विशेषेण कौलिकेनाथ सुव्रते ॥
तत्तत्साधयते शीघ्रं यदि देवः सदाशिवः ।
चतुरश्रे वर्तुले तु हस्तमात्रेधिकेथवा ॥
आचार्यस्येच्छया सर्वं सिध्यन्ति व्याप्ति वेदनां ।
क्रियाशक्तिस्वरूपेण कौंडिल्या व्याप्ति भेदना ॥
तत् कुंडं व्यापकं ज्ञात्वा सर्वदस्तु भवेद् गुरुः ।
यावन्न विंदते व्याप्ति कुंडस्यैवात्मनो पि च ॥
साध्यश्चैव पशुश्चैव पाषानां च षडध्ववित् ।
बालवत् क्रीडते तावत् कार्यं तस्य कथं भवेत् ॥
यः पुनर्वेत्ति चात्मानं शिवशक्ति स्वरूपकं ।
ससर्वफलदश्रेष्ठः सकर्ता सर्वगः शिवः ॥
ज्ञानशक्तिमयो वह्नि व्याप्यव्यापक भेदतः ।
सजाता सर्वकर्ता च मोक्षदः फलदो गुरुः ॥
षडध्वातीतयागं तु यजते यस्तु दैशिकः ।
मायोदधौ शनोद्भूतं सर्वत्राणकरः शिवः ॥
४०ब्)
अध्वमध्यगतं योगं यः करोत्यविचारतः ।
नासौ मोचयितुं शक्तः परस्यैवात्मनो पि वा ॥
नैव सिद्धिं तु लभते न कार्य करणे क्षमः ।
षडध्वाध्वानतो नैव बंधनं तु मलं स्मृतं ॥
मायीयाणव कर्मोत्र विसरे बंधकारणं ।
पशुश्चैव न तत्रस्थं शक्तौ वै मोचने गुरुः ॥
अध्वमध्यगताः पाशा प्ररोहंति सदात्मनः ।
तदातीतं परं ज्ञात्वा कोन मुच्येत बंधनात् ॥
कोपि वा मोक्षदो न स्यात् कस्सिद्धिं लभते सदा ।
कोन दाता भवेन् मंत्री कः कार्येन क्षमः पृये ॥
स परः सर्वतो भद्र तं ज्ञात्वा तन्मयो भवेत् ।
मानोन्मान प्रमानेन विंदते यो ध्वनेद् गुरुः ॥
शिल्पिवद् भवते दक्षो विचित्राकारकारकः ।
न मोक्षदस्तु भवते नसौ सिद्धिफलप्रदः ॥
तस्मात् शिव समास्सर्वे द्रष्टव्या तत्ववेदिभिः ।
४१अ)
कार्मी ज्ञानी तथा योगी आचार्यस्त्रिविध स्मृतः ।
कर्मयोगौ तु स देवेशि ज्ञाने योगफलप्रदः ॥
पृथग्भेदेन दृश्येत ज्ञाना द्वे योग कर्मणा ।
तस्मादार्य मुख्ये तु ज्ञानवां सर्वदो भवेत् ॥
शिवाश्रयः शिवस्थस्तु शिवशक्ति प्रचोदितः ।
निर्ममेतजगत्सर्वं शिवरूपो यतस्थितः ॥
इच्छाज्ञानक्रिया युक्तः शिवतत्व विशारदः ।
यः करोति शिवेच्छा तु ज्ञानव्याप्य व्यवस्थितः ॥
अचिन्त्या मंत्रशक्तिर्वै परमेश मुखोद्भवा ।
यव्यत्प्रकुरुते ज्ञानी शिवशक्ति समाश्रयात् ॥
तत्तन्निष्पद्यते तस्य शिवशक्तिप्रभावतः ।
तस्यैव सम्मुखा मंत्रा दृष्टप्रत्ययकारिका ॥
शान्तिकादीनि कर्माणि विषभूतग्रहादिषु ।
क्षणेन कुरुते सर्वं शिवः परमकारणः ॥
तं प्रबोधयते यस्तु ज्ञानयोग बलान्वितः ।
मंत्रशक्ति प्रभावेन स दीक्षां दीक्षयेत् पृये ॥
४१ब्)
क्षयन्नयत्यशौ पाशां दद्यादेवं परं पदं ।
योजनाद्योजयेत् शक्तिः शिवशक्ति प्रभावतः ॥
तस्यैव सन्मुखा मंत्रा दृष्टप्रत्ययकारकाः ।
शान्तिकादीनि कर्माणि विषभूतग्रहादिषु ॥
प्रत्ययस्तस्य भवते दृष्टं नान्यस्य कस्यचित् ।
गारुडे भूततंत्रे च वामस्रोते च दक्षिणे ॥
ज्येष्ठे चंडासि धारे च प्रत्यक्षफलदा क्रिया ।
अत्यंतमलिनस्यास्य पुंसो बद्धस्य मायया ॥
कर्मणा भोगसक्तस्य अभिलाषान्वितस्य च ।
मोक्षं ददाति दीक्षासौ क्रियाज्ञानस्वरूपिणी ॥
तन्मना तु पराशक्ति ज्ञानरूपावधूतिका ।
सा कृयेत्यभिधीयेत न क्रियावाध्वमध्यगा ॥
योगशक्तिर्ज्ञानशक्तिः सर्वशास्त्रेषु गीयते ।
सा शक्तिः परमेशस्य शिवस्या शिवहारिणी ॥
बंधमोक्षकरी पुंसां न स्वतंत्रा स्वभावतः ।
अनेनैवा तु मानेन शिवः सर्वप्रदः शुभः ॥
४२अ)
शिवादि गुरुपंक्तिर्या रुद्रकोट्यो ह्यनेकशः ।
आप्तोपदेशमार्गेण पारंपर्येणसंस्थिता ॥
शिवज्ञानं यतो देवि सर्वै चाप्तागमस्मृतः(?) ।
ब्रह्मादिस्तं च पर्यन्तं शिवशक्ति समन्वितं ॥
एवं शक्ति मयं सर्वं जगत्स्थावरजंगमं ।
शक्तिमान्सर्वकर्माणि कुरुतेनात्रसंशयः ॥
शान्तिकादीनि कर्माणि कर्माण्येवान्यथा न हि ।
शक्तिहीना न सिद्ध्यन्ते युगकोटिशतैरपि ॥
जपकोटिसहस्रैस्तु होमलक्षैः सुविस्तरैः ।
तस्मात्सर्वप्रयत्नेन शिवज्ञानं समभ्यसेत् ॥
तदासिद्ध्यन्ति कर्माणि सर्वाण्येतान्यथा न हि ।
शान्तिकादीनि कर्माणि कुरुतेसौ तदा गुरुः ॥
यागे होमे जपे चैव तथा लेख्य क्रमेण तु ।
आपदायदिवोत्पना यथोक्तं यागमारभेत् ॥
साध्यनामेन तद्र्वयं संभारेण तु संभृतः ।
यागं तु कुरुते यस्य तस्य शान्तिः प्रजायते ॥
४२ब्)
तिलक्षीरघृतेनैव सितशर्करया सह ।
होमयेद्यस्य नामेन महाशान्तिमवाप्नुयात् ॥
क्षीरवृक्षसमिद्भिस्तु क्षीराक्तैः सुसमाहितः ।
होमयेद्यस्य नामेन तस्य शान्तिर्भवेध्रुवं ॥
सुमनाघृतसंयुक्ता होमयेद्यस्य नामतः ।
तस्य शान्तिर्भवेत् क्षिप्रं नात्रकार्यविचारणा ॥
श्रीकामैः श्रीफलं हुत्वा श्रियामाप्नोति पुष्कलां ।
घृतगुग्गूलुहोमेन पुष्टिर्भवति शाश्वती ॥
मृत्युजित्संपुटं कृत्वा साध्यनामं जपेद् यदि ।
आत्मनो वा परस्यापि मृत्युस्तस्य न बाधते ॥
अष्टपत्रे तु कमले कर्णिकायां निवेशयेत् ।
साध्यर्णरोधितं नाम ततोर्ध्वं मृत्युजिद् भवेत् ॥
आग्नेयादि विभागेन तलेष्ठंगानि विन्यसेत् ।
द्विरष्टदलसंपूर्णं बाह्ये तत्कमलं लिखेत् ॥
स्वरशोडशकेनैव पूर्वादौ पूरयेत् तदा ।
द्वातृंशदलसंयुक्तं तद्बाह्ये पंकजं न्यसेत् ॥
४३अ)
कादिसान्त * मेणैव पूर्वादीशानगं क्रमात् ।
साध्यर्ण रोहिताः सर्वे वर्णाश्चक्र त्रये स्थिताः ॥
सर्वेषामध्यतः संज्ञा साध्यस्यैव तु रोधयेत् ।
जीवमध्यगतं नामकर्णिकायां निवेशयेत् ॥
प्राणान्ते कल्पये जीवं प्राणवर्णान्तमध्यगं ।
बाह्ये तु मंडलसौम्यं सुसंपूर्णं प्रकल्पयेत् ॥
तद्बाह्ये तु पुरं चैंद्रं वज्रदृग्वज्रभेदितं ।
भूर्जपत्रे तु संलिख्य चक्रमेतद्वरानने ॥
सुशुक्ले निर्व्रणेश्लाक्ष्ण रोचना कुंकुमेन वा ।
मलयक्षीरयुक्तेन कर्पूरक्षोदधूसरं ॥
संवेष्ट्यसितसूत्रेण कर्पासेन नवेन च ।
मधुमध्ये निधाप्येवं सुगंधघृतमिश्रितैः ॥
मृद्भांडे सन्निधाप्येव सितपुष्पैः प्रपूजयेत् ।
पायसैर्घृतमिश्रैश्च भक्षैर्नानाविधैस्तथा ॥
मृष्टैर्धूपैपयित्वा पूजयेद्भूतिसंभृतैः ।
बाह्ये तु कलशा नष्टौ पूर्वादौ पूजयेत् ततः ॥
सितचंदनकर्पूरसुधूपोदसंस्रुता ।
४३ब्)
रत्नगर्भांबुसंपूर्णां सर्वौषधिसमन्वितां ।
सौवर्णां राजतां ताम्रां मृन्मयां वा सुशोभनां ॥
अकालमूलां सुशुभां प्रसस्तां लक्षणान्वितं ।
संपूज्य तेषां मध्ये तु लोकपाला क्रमेण तु ॥
तेषां शिवाज्ञादा तथा रक्षध्वंसाध्यमुत्तमं ।
प्रातर्मध्याह्ने सायाह्ने निशार्द्धे पूजयेत् ततः ॥
सप्तरात्रे व्यतिक्रान्ते मृत्युजिद्भवते नरः ।
सर्वव्याधिविनिर्मुक्तः सर्वदोषविवर्जितः ॥
सर्वरोगैर्विमुच्येत ज्वरैः सर्वैर्न संशयः ।
सर्वदुःखपरित्यक्तः ईतिभिः परिवर्जितः ॥
तिष्ठते च नरोभूमौ कंचुयुक्तो यथाफणिः ।
यदि नान्यमनो देवि साधकस्तत्परायणः ॥
जपहोमरतः शान्तः अस्मिन् स्थाने तु तिष्ठति ।
सत्ववांधैर्य संपन्नो दयादाक्षिण्यसंयुतः ॥
सप्तरात्रे व्यतिक्रान्ते मृतश्चैवानयेद्वलात् ।
गोभूहिरण्यवस्त्राणि केयूरकटकादिभिः ॥
४४अ)
पूज्योसौ परया भक्त्या शान्तिपुष्टिर्विशेषतः ।
यस्मात् मंत्रमयः सोवै शिवः साक्षां तु दैशिकः ॥
तेन पूजितमात्रेण सर्वे मंत्राः फलप्रदाः ।
भवत्यवितथं भद्रे सत्यमेतन्नसंशयः ॥
अन्यथा सिद्धिहानिः स्यात् कृतं चैव निरर्थकं ।
आचार्यश्चैव साध्यस्य कृत्या(?) चोत्पद्यते भृशं ॥
तस्मात् सर्वप्रयत्नेन मंत्रवित् पूजयेद् गुरुः ।
भवन्ति पूजिता मंत्रा सर्वसिद्धिफलप्रदाः ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने
व्याप्त्याधिकारः षोडशमः ॥
भगवानुवाच ॥
अथातः संप्रवक्ष्यामि चक्रराजं महाबलं ।
पूर्ववत् मध्यतो नाम जीवान्तं कल्पयेत् पृये ॥
प्राणान्ते तु ततः कृत्वा वर्णान्तांतर्व्यवस्थितं ।
अंतिमं तु ततो बाह्ये तद्बाह्ये मध्यमन्यसेत् ॥
प्रथमा तु ततो बाह्ये कर्णिकायां ततो न्यसेत् ।
केसरेषु स्वराः योज्या दलेष्वंगा पूजयेत् ॥
४४ब्)
बाह्ये तु कलशं लेख्यं कलशो भयमध्यगं ।
पूजयेत् पूर्वविधिना जपहोमार्चने रतः ॥
साधयत्य चिरेणैव चिंतितं नात्रसंशयः ।
सर्वशान्तिप्रदं चक्रं पुष्टिसौभाग्यदायकं ॥
आयुर्वीर्यप्रदं पुण्यं ज्वररोगविनाशनं ।
परराष्ट्रविभीतानां नृपाणां विजयावहं ॥
राजस्त्रीणां सुतानां च विप्रादीनां च सर्वशः ।
रक्षा ह्येषा प्रयोक्तव्या सर्वोपद्रवनाशनी ॥
पंड्त्या?चैव लिखेन्नाम अक्षरान्तरितं प्रिये ।
आद्यं तु मूलमंत्रं तु वौषड् जाति युत न्यसेत् ॥
पूर्ववत् पूजयेद् भूरि पाशे चैव सिते शुभे ।
तत्क्षणान् मुच्यते रोगैराघ्रातो यदि मृत्युना ॥
वौषड् जाति युतं मंत्रं दिक्ष्वष्टौ सुलिखेसिते ।
भूर्जवल्कलके रम्ये मध्ये नामं तु पूर्ववत् ॥
रक्षापदसमायुक्तं तद्बाह्ये शशिमंडले ।
मंत्रान्तं वर्णममृतं कलाषोडशसंयुतं ॥
ताडिर्मंडलमापूर्य बाह्ये तु कमलं न्यसेत् ।
४५अ)
तद्बाह्ये चंद्रसूर्ये तु पुरंदरपुरे स्थितौ ।
रोचना कुंकुमेनैव क्षीरशर्करया लिखेत् ॥
पूजयित्वा विधानेन पूर्ववंशान्त्यतस्थितः ।
राजरक्ता तु वै प्रोक्ता सर्वोपद्रवनाशनी ॥
राजरक्षाविधानं तु होमये क्षीरसंयुतं ।
सितशर्करसंयुक्तम् सुगंधघृतसंयुतम् ॥
क्षीरवृक्षेंधने वह्नौ तिलैः शान्तिर्भवेद्ध्रुवं ।
यदासौ मृत्युना प्रातं कालेन कलिता नराः ॥
यष्ट्वा तु पूर्ववद् यागं मंडलं तु यथोदितं ।
कर्तव्यं द्रव्यसंभारैः संभृतो मृत्युनाशनः ॥
मृत्युरुन्तरते शीघ्रं मंत्रस्यास्य प्रभावतः ।
तदेव भूर्जपत्रे तु सितशर्करया सह ॥
क्षीरेण रोचना युक्तं कुंकुमेन च्युतं लिखेत् ।
रुक्मकुंभे तु मध्वाक्ते स्थापयेत् तु सुगोपितं ॥
तदूर्ध्वे तु द्वितीयं तु क्षीरपूर्णसुशोभनं ।
स्रवन्तममृतं ध्यात्वा स्थापयेत् पुष्टि कामतः ॥
४५ब्)
सप्तरात्रप्रयोगेन मृत्युजिद् भवते नरः ।
क्षीणकायो भवेत् पूर्णं पक्षान्ते तु यथा शशी ॥
न मृत्युवशगः सौरै सत्यं मेनांनृतंवचः ।
साध्यर्णरोधितं नाम रक्षापदसमन्वितं ॥
मध्ये संयोजयेत् साध्यं पूर्ववच्चामृतीकृतं ।
तदात्मानं तु संवेष्ट्य वारुणेन तु वै पुनः ॥
कलाशेषेण तद्बाह्ये संपूर्णेन तु वेष्टयेत् ।
पुरंदरं ततो बाह्ये द्वाचतुर्दिक्षु गोचरे ॥
तन्मंडलांते योज्येत वक्त्रसंपुटमध्यगं ।
रक्षितं चामृतीशेन न तस्य भयदं क्वचित् ॥
भवति योगिनी भूतरक्षराक्षसहिंसकैः ।
ब्रह्मराक्षसकाः सर्वे डाव्योडामरिकास्तथा ॥
तेषां वै रक्षणार्थं तु यागरक्षासुशोभने ।
कुंभान्तस्थं लिखेन्नाम तं स्थाप्य कमलोपरि ॥
अधोमुखं ततो पुष्टिकमलं पूर्ववल्लिखेत् ।
तत्कर्णिकस्थं विमलं अधोवक्त्रं प्रयोगतः ॥
स्रवमानं ततो ध्यायेदमृतं सर्वतो मुखं ।
४६अ)
अमृतीशंकरं धेनु प्रविष्टं तु विभावयेत् ।
हृदिस्थं तत्प्रविष्टं तु सर्वनाड्यः प्रपूरयेत् ॥
तत्क्षणाद् भवते पुष्टि क्षीणकायश्च यो नरः ।
पंक्त्या तु वै लिखेन् मंत्रं प्रत्येकं वर्णमध्यगं ॥
नामं साध्यस्य वै लेख्यं दिग्विदिङ्मृत्युजिल्लिखेत् ।
पूर्ववत् कमलं लिख्य षडंगं पूर्ववत् प्रिये ॥
संयोज्य पूजयेत् शक्त्या यथाविभवविस्तरं ।
सर्वश्वेतोपचारेण सर्वदुःखनिवर्हणं ॥
भवते मंत्रमुख्यैस्तु नात्रकार्यविचारणा ।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने यंत्राधिकारो नाम
सप्तदशमः पटलः ॥
श्रीदेव्युवाच ॥
भगवं देवदेवेश सर्वसत्वं हितेरत ।
व्रातास्त्वं तु सुरेशान सर्वानुग्रहकारक ॥
उक्तं त्वया महेशान व्याप्ति मंत्रेषु चाध्वनः ।
आख्या हि मे जगन्नाथ यदि तुष्टोसिते प्रभुः ॥
४६ब्)
मंत्राणां कीलनादौ तु योजनं सूचितं प्रभुं ।
नाख्यातं देवदेवेश यथायोज्यन्ति साधकाः ॥
चूर्णलोपांजनादीनि कुहिकानि तु यानि हि ।
यथा मंत्रस्तथा जप्यै ध्यानधारणयोरपि ॥
अन्येन मुक्तदोषेस्तु विषादिगरसंभवे ।
योजितं मंत्रराजानं कथं ज्ञास्यन्ति दैशिकाः ॥
परदेहे स्वदेहे वा लक्षणैः कैश्चि दृश्यते ।
दृसंहिति कुतः कार्यं रक्षाया परमेश्वर ॥
ईश्वर उवाच ॥
यो विंद्यात् समिदं ज्ञानं सर्वकृत् साधकोत्तमः ।
परप्रयुक्तमंत्रस्य लक्षणं सुरसुंदरि ॥
रागद्वेषाभिभूतं तु अपिमानश्च योगिनः ।
कार्यार्थं राजकार्ये वा परिभूतं यतस्ततः ॥
योजयेत् मंत्रराजानं येन यत् सविभास्सदा ।
सेविते मंत्रनाथेन त्रैलोक्यं हस्तगं भवेत् ॥
किं पुनर्मानुषे लोके वश्याकर्षणमारणं ।
करोति लीलया पूर्वं मंत्रराजप्रभावतः ॥
४७अ)
ध्यानेन मंत्रयुक्तेन तथा लेख्य क्रमेण च ।
होमेन लोहचूर्णैश्च तथा संक्रमणौषधैः ॥
विवादिगव(?) दोषैश्च खानपान विलेपनैः ।
एकान्ते निर्जने रात्रौ निःशब्दे तु वनेपि वा ॥
पूजयेद् देवदेवेशं महाभैरव रूपिणं ।
महासंहारसंयुक्तं नैवेद्यैर्विविधैस्तथा ॥
पानैश्च विविधैश्चैव धूपदीपानुलेपनैः ।
वस्याग्रतस्थितो मंत्री ध्यायेद् भैरव रूपिणं ॥
महाकरालवदनं दंष्ट्रानं विकृताननं ।
उर्ध्वदृष्टि विरूपाक्षिं महाश्मश्रु भ्यानकं ॥
आयुधैर्विविधैश्चैव नानाप्रहरणोद्यतं ।
ग्रसमानं हि भूतानां कालरूपे स्वरूपतः ॥
ध्यानयुक्तं महामंत्रं योजद्येद्वृद्धि(?) मध्यतः ।
महामंत्रवरंघोरं वर्णरूपं विचिन्तयेत् ॥
भ्रममानं देहमध्ये अक्षरामंत्रनायके ।
द्रूतास्ते हेमवत् तत्र वह्निरूप विचिंतयेत् ॥
भ्रममानं देहमध्ये अक्षरामंत्रनायके ।
४७ब्)
द्रुतास्ते हेमवत् तत्र वह्निरूपं विचिन्तयेत् ।
ताम्रवद्रसरूपं तु हृदिस्था परिकल्पयेत् ॥
सुस्वरूपं भवेत् तत्र तत्रान्तः कारणं क्षिपेत् ।
शक्तिर्मायाधिकास्तेषा एकभावं विकल्पयेत् ॥
वीजांकुरवशेकं तु महानंदं प्रवर्तयेत् ।
अनन्ताशक्ति संक्षोभा च(?) कुरेव(?) समुत्थिता ॥
प्रज्वलन्तं तृशूलं तु ध्यायमानं स्वशक्तितः ।
निष्क्रान्तं कनिकाभासं स्फुरज्वाला बलायुतं ॥
सुवक्त्र यंत्रमार्गेण प्रेरितं शक्ति वेगतः ।
सव्यस्य वक्त्ररंध्रेण प्रविशन्तं विचिन्तयेत् ॥
दीप्तहाटकवर्णाभं वह्निज्वालासमायुतं ।
स्फुरन्तं वायुवेगेन ध्यायमानं महाबलं ॥
चित्तशक्त्या तु देवेशि मृत्युरूपेण चोदितः ।
ततः संक्षोभितं शूलं पतितं हृदिमध्यगः ॥
तेनाक्रान्तस्तु मंत्रेण तीव्रं हृत्पद्ममध्यगः ।
आयुधैः प्रेतसत्यस्य नानाप्रहरणोद्यतैः ॥
४८अ)
इति ध्यायेन्महाक्रूरात् पतितोसौ ममाग्रतः ।
शूलेन संपुटी भूतं गृहीतं परिचिन्तयेत् ॥
चैतन्यं ग्राहयेत् तत्र साध्य हृन्मध्यसंस्थितं ।
स्वशक्त्योच्चारयेद्वेगाद्ध्यानं मंत्रप्रयोगतः ॥
नीयते सममासीध्ये मंत्रस्यास्य प्रभावतः ।
शरीरविंवशी भूत नानामंत्रप्रयोगतः ॥
इति ध्यानपरो यस्तु सप्ताहान्मारयेतसः ।
मृयते नात्रसंदेहो यदि साक्षात् पुरंदरः ॥
सप्तरात्र प्रयोगेन देविनास्त्यत्रसंशयः ।
अथवामरणं नेच्छेत् प्रविशेतस्ववक्त्रतः ॥
साध्यचिन्तं समाध्याय सततो ह्यधिमध्यतः ।
साध्यामृत महोघे सिंचमानं हृदिस्थितः ॥
अनेनैव प्रयोगेन आकर्षे तृदशान्वलान् ।
संहृतः सर्ववीरैश्च का कथा मनुजेषु च ॥
स्वराज्यं स्वधनं चैव स्वदारात् स्वसुतं तथा ।
ददंति मंत्रिणे सर्वं आकृश्या मंत्र तेजसा ॥
४८ब्)
ऋपूंदासत्वमायान्ति क्लिन्न योन्यस्तथांबु या ।
पूर्ववत् संप्रयोक्तव्यं त्रिशूलं साध्यविग्रहे ॥
तत्रस्थं चिन्तयेत् साध्यं चाल्पमानं मुहुर्मुहुः ।
स्वस्थानात् प्लाव्यते वेगान्नीतः कल्पान्त वायुना ॥
उच्चाटयति तत्साध्यं मेरु मध्यादि संस्थितः ।
अनेनैव प्रयोगेन प्रीति विद्वेषलक्षणं ॥
निष्क्रान्तं तद्विधा चिन्त्य उभौ तेषां प्रपूजयेत् ।
उच्चारण प्रयोगेन विमुक्ता यान्ति वेगतः ॥
विद्वेषे दहनं लक्ष्मी किं पुनर्मनुजा भुवि ।
एवमेवान्व योगेन प्रविष्टः साध्यविग्रहे ॥
तत्रस्थं देवदेवेशं चिच्चेतनसमन्वितं ।
आक्रम्य हृदयं तिष्ठेत् पिबे द्रव्य गमं क्रमात् ॥
द्रावयेत् परदेहं तु सूर्यवद्विसमन्वितं ।
प्रत्येकं द्रावयेद् द्रव्यं पूरयित्वा स्वविग्रहं ॥
आपूर्य देहं सकलं चंद्रवत् तिष्ठते ततः ।
क्षीणं साध्यं विचिंत्यं च सर्वक्षीणं स्वविग्रहं ॥
४९अ)
किंचित्काले तु तिष्ठेत यावत् पूर्वं निरन्तरं ।
वेगेनागच्छते पूर्णं प्रविशत् स हृदान्तरे ॥
अमृतात् प्लव्यमात्मानं देवेशं तत्र पूजयेत् ।
तैर्द्रव्यैरमृती भूतं परिपूर्णं प्रकल्पयेत् ॥
सप्ताहाभ्यासयोगेन आनयेन्निर्विकल्पतः ।
ब्रह्मविष्केश्वराद्यैस्तु रक्षितं यदि नित्यशः ॥
अनेनैव प्रयोगेन हृदि चिन्तं करिष्यति ।
उन्मत्तः क्रियते वापि स्तंभितं वा प्रकल्पयेत् ॥
मूको वा तिष्ठते साग्र्य ग्राहयेद् वा यदिच्छया ।
ज्वरभूतविशादिभ्यो व्याधिशोकभयावहं ॥
शूलमुन्मेलदुःखैश्च नानाव्याधिशतैरपि ।
यादृशं चेच्छते साध्यं तादृशं कृयते बला ॥
अनेनैव प्रयोगेन साध्यं वा ग्राहयेद् विषैः ।
नागैश्च दस्युभिस्साध्यै सप्ताहान्नात्रसंशयः ॥
ततः प्रभृति साध्यस्य दुःखशोकाश्च जायते ।
अनुत्साहं ततो द्वेगं बंधुपुत्रक्षयान्वितः ॥
४९ब्)
दारांभृत्यांस्तथा भ्रातॄं प्रजा सर्वं च यौवनं ।
नोच्यते क्रमशस्साध्यो दुःस्वप्नं पश्यते सदा ॥
अतिक्लेश सहो नेह(?) वचिन्तो भवते क्वचित् ।
अनुच्छाहमनाश्चासो भवत्रासं च जिह्मकं ॥
कार्यहानिं राजभयं विदेशगमनं तथा ।
दुःखितं राज्यभ्रंशं वा देशादेश परिभ्रमं ॥
एवमादि सहस्रैश्च दुःखदोषैः समन्वितं ।
तिष्ठते च परो भूमौ व्यभिचारे कृते सति ॥
अथवा होमयेत् साध्यं फलं द्रव्यं तथौषधं ।
खदिराग्नौ कंटकैश्च चित्यग्नौ वापि होमयेत् ॥
कार्या तु सारहोमैर्वा तुषांगारसमन्वितैः ।
पुष्पकं कणकैर्वापि महाफल्गुषमेव वा ॥
कृष्णांजसंभवं कार्यं होमसिद्ध्यानुसारतः ।
तदद्भावात् प्रकुर्वीत फलैः सद्यैस्तृकंटकैः ॥
रक्तास्तु कुसुमान्वश्ये उच्चाटे कृष्णवर्णकं ।
५०अ)
मरणे कंटकैर्युक्ता विद्वेषे गंधदूषिता ।
उच्चाटे कटु तैलोक्ता आकर्षे घृतसंयुतां ॥
का कस्य संयुतं कृत्वा मारणे कुसुमं हुनेत् ।
विद्वेषे कटु तैलैश्च लवणेन हुतौ यजेत् ॥
एवमेव फलं हुत्वा बीजांश्च विविधा क्रमात् ।
करोति विविधं च्छिद्रं साधको दुष्टहिंसकात् ॥
अथवा लेखयेद्वापि नानामंत्रप्रयोगतः ।
मंत्रनाथेन देवेशि साध्यनामं विदर्भितं ॥
अनलां कायेथेच्छासौ साध्यार्णेषु नियोजयेत् ।
आग्नेययं मंडलांतस्थं वायुमंडलवेष्टितं ॥
ज्वलंतं चिन्तयेत् साध्यं दिनानां सप्तकं यदि ।
तत्क्षणानां जायते दाघं यदि शक्रसमो भवेत् ॥
मंत्रराजं निवद्व्येतस्मरेण पटमध्यगं ।
श्मशानांगारके लिख्य विषरक्तान्वितेन तु ॥
यस्य नामं वरारोहे हूं फट्कारं विदर्भितं ।
मारयेत् तत्क्षणावेगात् करजातिसमन्वितं ॥
५०ब्)
मृयते सप्तरात्रेण अथ शत्रु भयं भवेत् ।
मंत्रनाथ महादेवि अधोर्ध प्राक् स्वसंस्थितं ॥
साध्यनामदेवेशि कार्यत्वं शपदे लिखेत् ।
विगतं श्रेयमाप्नोति मानुश्रीयस्य या भवेत् ॥
तृरक्षमवमाने तु यन्नामं तु समालिखेत् ।
यकाराद्यंत संरुद्धंमतः फट् स्त्रितयान्वितं ॥
प्रेत स्थाने निधाप्येवं भैरवं तत्र पूजयेत् ।
अर्कपुष्पैर्वरारोहे तद्दिशाभिमुखस्थितः ॥
तमुच्चाटयते क्षिप्रं विद्वेशो भव जायते ।
नियोग भवदे ह्येष मातामित्रो यदि भीवन् ॥
पंचागेन पिशाचस्य क्रुद्धराजवसानकं ।
नाम्ना समालिखेद् यस्य उन्मत्तं ज्वरदाघ कृत् ॥
काकोलूकस्य पक्षाणि खरोष्ट्रं मूत्रमृत्तिका ।
कृत्वा पतिकृतं कार्यं काकरक्तेन लेखयेत् ॥
काकोलूकस्य पक्षाणि गुदयाता विनिक्षिपेत् ।
५१अ)
चतुष्पथे निखने श्मशानाग्निं ततोपरि ।
प्रज्वाल्य होमयेत् प्राज्ञः काकपक्षांश्च सुव्रते ॥
उद्भ्रान्तपत्रसहिता खरमूत्रेण भाविता ।
यस्य नामं समुद्दिश्य यकाराद्यं तु रोधितं ॥
मंत्रावसाने विन्यस्यस्तं विसर्गान्तं विचारयेत् ।
भ्रमते काकवत् पृथ्वी शत्रुव्याधि प्रपीडितं ॥
पिष्ट्याकं निंबपत्राणि मृतकेश तुषानि च ।
शत्रोः प्रतिकृतिं कुर्यादर्कपुष्पैस्तु वेष्टयेत् ॥
श्मशाने निखने तत्र वह्नेः प्रज्वाल्य चोपरि ।
पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेत् ॥
विद्वेषो भवते शत्रुः कामदेव समोपि यः ।
अथ चेन्मारयेत् क्षिप्रं शत्रु वै निश्चितात्मनः ॥
अपकारशतैर्युक्तौ कृतघ्नो दुष्ट चेतसः ।
कपाल द्वितयं ग्राह्यं नामं शत्रो समालिखेत् ॥
कपालहस्तकस्तत्र विषांगारेण भावितः ।
रुधिरेण समायुक्तं फट्कारांत विदर्भितः ॥
५१ब्)
महापितृवनं गत्वा भैरवं पूजयेत् ततः ।
कृष्णमाल्योपहारैस्तु ततः कर्मसमारभेत् ॥
विज्ञप्तं देवदेवेश शत्रुमेवं निपातयेत् ।
अनुज्ञातस्तु देवेशिं गृहीत्वा तु शिरो द्वयं ॥
तत्र गत्वा महादेवि कपालासनसंस्थितः ।
तत्रस्थो रूपवर्णस्तु दक्षिणाभिमुख स्थितः ॥
आत्मानं भैरवं रूपं ध्यात्वा घोरं स्वभीषणं ।
क्रूद्धः समुच्चरेन् मंत्रं विलोमेन महामतिः ॥
हूं फट् स्वमुच्चार्य काद्यश्चास्फालयेद्भृशं ।
खंडश * *? तो यावत् तावच्छत्रुः प्रनश्यते ॥
सप्तरात्रेण देवेशि प्रयोगस्त्व निवर्तकः ।
अन्ये शतसहस्राणि अन्यकालोच्छितानि तु ॥
प्रयोगानि करोत्येशः पूजितो मंत्रनायकं ।
स्थावरं जंगमं चैव योगजं शंकयापि वा ॥
कृत्त्रिमं वा प्रकुर्वीत सच्चिन्तं प्राणहानिकं ।
मूत्रं रक्तं तथा केशं वलास्थिं वानसीषु च ॥
५२अ)
गोस्थिष्यास्थिभृगालांस्थि तथा मेषाविलोचनं ।
गोधूम हाटके युक्तो गृध्रवृष्ट्या च लेपयेत् ॥
भक्षैपानै प्रदातव्या यागं कृत्वा सुपूजितं ।
स्नाने विलेपने धूपे गंधवस्त्रे तथौषधे ॥
मृयते नात्रसंदेहं तृसप्तेन समो यदि ।
वनकामाषमुद्गाणि अपानेन विनिर्गता ॥
धान्यं शृतं तथा रक्तं स्त्रीरक्तं निर्मलं तथा ।
मूलं रक्तं तथा केशं लाला चैव वरानने ॥
मूत्रं जारीकृताह्वावनागेंद्रमदसंयुता ।
मोहनी विष्णुक्रान्ता च धात्री चैवकतस्थिता ॥
पुष्यरिक्षे तु युंजीत गर्वितानां यशस्विनि ।
भक्षेपानेषु दातव्यं यावदायुर्वशी भवेत् ॥
इति संक्षेपतः प्रोक्तं प्रयुक्तं मंत्रनायकं ।
करोति विविधा वाधां पूर्वसेवा यदा कृता ॥
साधको योजयेद् देवि मंत्रा मंत्रेषु जायते ।
खादकास्त्रादि मंत्राणां परस्पर नियोजनात् ॥
तीव्रातीव्राभियोगेन दूर्णितानिःखषा गता ।
५२ब्)
परस्परं सिद्धिहानि जपस्य हरणं तथा ॥
जंभनं स्तंभनं चैव मोहनं कीलनं तथा ।
बलाबलवियोगेन साधकाये यजंति च ॥
इत्यमृतीषविधाने वश्याकर्षणाधिकारोष्टा दशमः पटलः ॥
श्रीदेव्युवाच ॥
भगवं देवदेवेश सर्वभूत हितेरत ।
? णं कृत्वा सुरेशान सर्वानुग्रहकारक ॥
उक्तान्वया महादेव व्याप्तिमंत्रेण चाध्वनः ।
आख्याहितं जगन्नाथ यदि तुष्टोसि मे प्रभो ॥
मंत्राणां काल(?) नादौ तु योजनं सूचितं विभुः ।
नाख्यातं देवदेवेश यथा सिद्ध्यन्ति साधक ॥
परयुक्ता नश्यन्ति कृत्या खार्खोदकानि च ।
प्रत्यंगिरा प्रयोगेन हंतिरिष्टान्यनेकशः ॥
यथा तथा महादेव ब्रूहि निःसंशयं मम ।
ईश्वर उवाच ॥
वादिनामेव सर्वेषा मंत्रवादं तु चोत्तमं ।
आज्ञा नियोजयेत् मंत्रं मंत्रलिंगानि सुव्रते ॥
५३अ)
दीपनं बोधनं चैव ताडनं चाभिषेचनं ।
विमलीकरणं चैव तथेंधन निवेशनं ॥
सन्तर्पणं गुप्तिभावं आप्यायं नवमं तथा ।
एवं नवप्रकारेण मंत्रवादमशेषतः ॥
योजानाति स जानाति मंत्रसाधनसाधनं ।
एकादशं विधो मंत्रो ज्ञातव्यो हि पुनः पृये ॥
येन सम्यक् प्रयोगाश्च सिद्ध्यन्ते साधकेश्वराः ।
ते च वै संप्रवक्ष्यामि सर्वशास्त्रेषु सम्मतं ॥
संपुटं ग्रथितग्रस्तं समस्तं च विदर्भितं ।
आक्रान्वमथमाद्यन्तगर्भस्थं सर्वतोद्धृतं ॥
तथा युक्ति विदर्भं च विदर्भ ग्रथितं तथा ।
इत्येकादशधा मंत्रा भवन्ति फलदा पृये ॥
सिद्धं साद्ध्यसुसिद्धं च तथैवारित्वमेव च ।
ज्ञात्वा सर्वमशेषेण मंत्र वा * * *? चरेत् ॥
उदयास्तमनं व्याप्तिं ध्यानमुद्रा स्वरूपतः ।
यो वेत्येवमवेदज्ञो सर्वकृत् सर्वकोत्तमः ॥
एवमाद्यैरशेषैश्च भावभेदः सुरेश्वरि ।
भावितव्या(?) महामंत्रा भवन्ति फलदा प्रिये ॥
५३ब्)
तस्मात् सर्वप्रयत्नेन ज्ञात्वा सर्वं नियोजयेत् ।
अस्य वै मंत्रराजस्य नास्ति देवि विचारणा ॥
सर्वेषामेव मंत्राणां वृंहकः परमेश्वरः ।
अनेन ग्रंथिता मंत्राः सूत्रेमणि गणा इव ॥
अस्य गर्भे स्थिता मंत्राः भवन्ति सिद्धिमोक्षदाः ।
यस्मात् सर्वगतं देवं सर्वसिद्धिफलोदयं ॥
व्यापकं सर्वतो भद्रं सर्वतो सुखमव्ययं ।
पूरणं सर्वमंत्राणां रक्षणं परमं बलं ॥
मंत्राणां योनि भूतं तु मोक्षदं सिद्धिदं शुभं ।
यतस्ततोस्य मंत्रस्य नास्ति देवि विचारणा ॥
एभिर्दोष सहस्रैश्च छिद्रितं साधकं यदि ।
विनायकैश्च ये ग्रस्ता आधिव्याधि प्रपीडिताः ॥
राज्यभ्रष्टास्तु राजानः परराष्ट्रनिपीडिताः ।
विरक्तपौरान्निर्वृत्या अपुत्राश्च सुदुःखिताः ॥
मृतपुत्रामृतादारा स भयाविगत शृयः ।
आचार्यः साधको वापि मंत्रसिद्धि परांमुखा ॥
विप्रुत्रा दुर्भगानार्यो बंध्या विद्विष्टभर्तृकां ॥
५४अ)
एवमादि सहस्रैश्च दुःखदोषैश्च संयुता ।
दृष्ट्वान्त मानवां लोके उक्तौर्दोषैश्च दूषिताः ॥
तथा चैवग्र कर्तव्यं यागभाग्यरुहांपरां ।
श्रीवागं परमेशानि मंत्रेणानेन मंत्रिणा ॥
महालक्ष्मी कृते यागे भाग्यभाग्भवते नरः ।
पूर्वोक्त दोषनिर्मुक्तो प्राप्नोति परमसुखं ॥
कलशे नाभिषिक्तोसौ पूजयित्वा महाश्रियां ।
प्राप्नोति चिन्तितां कामान् ब्रह्मविष्णुशिवोपमान् ॥
एवं ज्ञात्वा तु मेधावी यागं कुर्यात् सुशोभनं ।
कर्तव्यं सर्वथा देवि सर्वश्रेयकरं परं ॥
पूर्वोक्तेनूप्रदेशे तु सर्वलक्षणलक्षिते ।
सर्वशल्योद्वृति(?) रम्ये महापद्मवने तथा ॥
प्रछन्नेषु च शस्तेषु सुगुप्ते शरणोपरि ।
आलिखे मंडलं तत्र चतुरश्रं समन्ततः ॥
एकोन विंशसूत्राणि पतयेद् वैंद्र वारुणे ।
तथा दक्ष कुबेराभ्यां(?) सूत्राणि सुसमां कुरु ॥
५४ब्)
भागेष्टादशभिर्भागैश्चतुर्दिक्षु समन्ततः ।
कोष्ठकानां शतात्रीणि चतुर्विंशाधिकानि तु ॥
तन्मध्ये तु लिखेत् पद्मं अष्टपत्रं सुशोभनं ।
भागाष्टकं तु तन्मध्ये चतुर्था विभजेत् ततः ॥
प्रथमे कर्णिका कार्या केसराणि द्वितीयके ।
संधयश्च तृतीये तु दलायाणि चतुर्थकं ॥
भ्रामयेच्चतुरौ वृत्ता सुसमासुसमानतः ।
दिक्षुसुत्राष्टकं दद्याद् विदिक्षुः पातयेत् तथा ॥
ऐंद्र्या दिशि गृहीत्वा तु मध्यसूत्रप्रमाणतः ।
किं जल्कस्थंभवेत्पत्रं तन्मध्ये कर्णिका लिखेत् ॥
दलसंधि स्थितेः सूत्रे स्थाप्यपार्श्वे तु भ्रामयेत् ।
द्वाभ्यामुभयपाश्वाभ्यां पुर्वपत्रप्रसाधयेत् ॥
इतरान्येवमेवं तु पद्मपत्रदलं भवेत् ।
पीता तु कर्णिका कार्या पुष्करा हरिता स्मृता ॥
केसराणि विचित्राणि चतुर्विंशकसंख्यया ।
सितारक्ता तथा पीता मूलमध्याग्र योजिता ॥
५५अ)
सुश्वेताश्च दलाकायां व्योमरेखा तु वर्तुला ।
बाह्ये चांगुष्ठमानेन श्वेतवर्णासुशोभना ॥
दलान्तराणि रक्तानि तद्बाह्ये चतुरश्रकं ।
तथैवांगुलमानेन सितरेखा तु पीतला ॥
गात्रकानि ततो बाह्ये भागाभ्यां चैव पार्श्वतः ।
सितादि वर्णभेदेन कोणेष्ठाग्नेयमादिभिः ॥
गात्रकाः पीतवर्णाद्याः पूर्वादि क्रममालिखेत् ।
द्वौ द्वौ भागौ ततो लोप्य वीत्यर्ये चैव सर्वतः ॥
कृष्णेन रजसा पूर्य शंखपद्मविभूषिताः ।
द्वारशुक्लादि कुर्वीत द्विभागेनैव पार्श्वतः ॥
वीथिमानेन विस्तारं वीथ्यर्धेन तु कारयेत् ।
कंठं तथोपकंठं च तथा शोभोपशोभितं ॥
एवं निष्पाद्यते द्वारं संवृत्ता त्रीणि कारयेत् ।
पश्चिमं विवृतं कार्यं पार्श्वाभ्यां विलेखयेत् ॥
शोभाश्चैवोपशोभाश्च रक्तवर्णाश्च पीतकाः ।
प्रतिकुर्याच्चतुर्दिक्षु कोष्टकैरधरोत्तरैः ॥
५५ब्)
कोणान्तेषु लिखेद् देवि पद्मशंखौ समं ततः ।
तस्मिन् बाह्ये समन्ताच्चु? भूतरेखा प्रपातयेत् ॥
सितादि वर्णभेदेन निवृत्त्याद्याश्च ताः कलाः ।
बाह्ये तु पत्त्रवल्यब्जैः स्वस्तिकैरुपशोभितं ॥
आलिखेत् मंडलं मुख्यं तन्मध्ये तु यजेच्छृयं ।
पूर्वाधिवासः कर्तव्यो यथाविभवविस्तरैः ॥
यागहर्म्यं प्रकर्तव्यं शक्त्याद्रव्यानुसारतः ।
वेदीतोरणसंयुक्तं नाना ध्वजविभूषितं ॥
छत्रपादुकशयादि नाना शोभसमन्वितं ।
गृहोपस्करणाद्यैश्च भोगैर्नानाविधैस्तथा ॥
वितानोपरिकर्तव्यं सुश्वेतं तु मनोरमं ।
जवनी चतुरंगा च दीपाष्टौ दिक्षुदापयेत् ॥
बालव्यंजनघंटाश्च तथा दर्श चतुष्टयं ।
पताकाष्टौ तवाश्रेष्ठा नानारंगसमुद्भवाः ॥
कलशाष्टौ तथारोप्या ताम्राया मृन्मयापि वा ।
समुद्राष्टौ तथा पूज्या सर्वौषधि समन्विताः ॥
भूतपल्लवयुक्ताश्च स हिरण्याश्च पूजयेत् ।
५६अ)
कांडाष्टौ पंचरंगाश्च चतुर्दिक्षु निवेशयेत् ।
लोकपालास्तथा पूज्या पटेषु स्वाकृति स्थिताः ॥
तथा ह्यस्त्रा कृतिः कार्या दशदिक्षुसमन्ततः ।
द्वाराध्यक्षांस्ततो बाह्ये कर्तव्याम्नाय दर्शनं ॥
सर्वसाधारनत्वाश्च पटे कार्यास्तु या दृशा ।
वेदमंगलनिर्घोषैर्जयपुण्याहसंयुतै ॥
नृत्तवादित्रगीतैश्च स्तोत्रैर्नानाविधैस्तथा ।
आचार्यश्च स्रुशुचिर्दक्षश्चंदनागुरुचर्चितः ॥
धौतपौतिकया युक्तं उष्णीषांगुलि भूषितः ।
कटकादिभिहारैश्च पुष्पं स्रग्दामभूषितः ॥
मूर्तिपैर्धूपबाहैश्च अर्घवाहैस्तथैव च ।
सर्वसंभारसंयुक्तं अधिवासनपूर्वकं ॥
कुंभोस्त्रवर्द्धनी चैव तथा क्षेत्रपरिग्रहं ।
पश्चाद्वैरजपातं तु कर्तव्यं दैशिकेन तु ॥
पूर्वोक्त वपुषा ध्यात्वा मृत्युजित् मध्यतो यजेत् ।
तदुत्संगे स्थितां देवीं श्रियं वै विश्वमातरं ॥
५६ब्)
विशुद्धस्फटिकप्रख्याहिमकुंदेंदु सप्रभां ।
चंद्रार्बुदप्रतीकाशं गोक्षीर सदृशं प्रभां ॥
मुक्ताफलनिभां श्वेतां श्वेतवस्त्राविभूषितां ।
सितचंदनलिप्तांगीं कर्पूरक्षोदधूसरां ॥
शुभ्रहारेंदु कांतादि रत्नोज्वलविमंडितां ।
सितस्रग्दाममालाभिः कमलैः सुविभूषितां ॥
हरहाससुशुभ्रांगी सिंहहासांमनौरमां ।
सुशुक्लमुकुटोपेतां एकवक्त्रां त्रिलोचनं ॥
बद्धपद्मासनासीनां योगपट्टविभूषितां ।
शंखपद्मकरां सौम्यां वरदाभयपाणिनीं ॥
चतुर्भुजां महादेवीं सर्वलक्षणलक्षितां ।
ध्यातव्यां भावभेदेन रूपायुधविभूषितां ॥
अमृतीशविधानेन तथैवांगानि विकल्पयेत् ।
सर्वश्वेतोपचारेण पूजयेत् सर्वसिद्धिदां ॥
अनेनैव विधानेन श्रीधरं वा शृया सह ।
पूजयेद् भक्तितो देवि सर्वकामफलप्रदं ॥
५७अ)
पाद्यार्घकुसुमैः शुभ्रैर्मृष्टधूपैश्च धूपयेत् ।
लेहैः पेयैस्तथा वोष्पैर्भक्षैर्नानाविधैः शुभैः ॥
पूजयेत् परमेशानं सर्वसिद्धिफलप्रदं ।
पूर्वैवनिर्मितं कुंडे होमं पूर्वोदितेन च ॥
तर्पये देवदेवेशीं भक्तियुक्तेन चेतसा ।
अथवाष्ट भुजां देवीं चितां रत्नकरां शुभां ॥
कलशं धारयेन्नित्यं अमृतेन समन्वितं ।
सोमसूर्यकरां देवीं सितपद्मोपरिस्थितं ॥
निधीनां चोपरिष्टा तु गजमंगलभूषितां ।
ब्रह्माद्यैः सुरसंघातैः पूजितां संस्तुतां सदा ॥
ध्यातां जप्तां महेशानि सिद्धिमुक्तिफलप्रदां ।
यष्ट्वा तु देवदेवेशीं कुंभस्थां प्रपूजयेत् ॥
पूर्वोक्तेन विधानेन यागे पूर्वोदिते शुभे ।
पूर्ववद्ध्यानयोगेन कुंभमध्यगतां यजेत् ॥
जप्त्वा चाष्टोत्तरशतं त्वभिषिंचेतपूर्ववत् ।
तस्या बला महालक्ष्मी राज्यं वायदभीप्सितां ॥
५७ब्)
भौमांतरिक्षसिद्धीनि दिव्यां चैवेश्वरी शुभां ।
ईहितं कामयेत् किंचित् सुप्रसन्नो प्रयच्छति ॥
आयुर्बलं यशः कीर्ति मेधाकांति शृयं वपुः ।
सर्वं विवर्द्धते यस्य यस्य वेश्मनि पूजिता ॥
यः कश्चिदभिषिक्तो वा यस्य वा साधयेत् प्रिये ।
पूर्वोक्तं सर्वमाप्नोति शान्तिं पुष्टिं सुखानि च ॥
पटे तु लिखितां देवीं यस्य वेश्मनि पूज्यते ।
पूर्वोक्तेन विधानेन तस्य सर्वं प्रयच्छति ॥
बहुनात्र किमुक्तेन सिंहस्यैव यथामृगाः ।
प्रपलायन्ति सर्वे दुष्टादोषां सहस्रशः ॥
किमन्यैर्मंत्रबृंदैश्च देवताराधनेन वा ।
यत्रैषा देवदेवेशी ध्याता जप्ता तु पूजिता ॥
संग्रामकाले ध्यातव्या खड्गपत्रलता स्थिता ।
जयं प्रयच्छते वश्यं रिपुदर्पापहा भवेत् ॥
संग्रामाग्रे सदायोज्या रिपुदर्पापहा भवेत् ।
अवश्यं जयमाप्नोति देवदेव्या प्रसादतः ॥
५८अ)
अपि व्याधिशतार्तो वा दुःखशोकैः प्रपीडिताः ।
सर्वव्याधिविलिप्तो वा कृत्या खार्खोदपीडिताः ॥
मंत्रैर्यंत्रैस्तथा ध्यानैर्जपहोमविशादिकैः ।
चूर्णलेपांजनादीनि कुहकानि तु यानि वै ॥
करिष्यन्ति रिपो यत्र स्त्रियौ वा पुरुषोपि वा ।
पूजितानेन विधिना तेषां प्रत्यंगिरा भवेत् ॥
आश्रित्य परमां देवीं भक्त्यासंपूजयेत् तु यः ।
यथा न दृश्यते दुष्टैः पापाचार रतैर्नरैः ॥
मंत्रसिद्धैस्तथा धूर्तैः समयघ्नैश्च कंटकैः ।
तथा गुप्तानुयष्टव्या गोपिता सिद्धिदा भवेत् ॥
यागा होमे तथा जप्ये मुद्रायां ध्यानयोगतः ।
सुगुप्तां ध्यायते देवी यस्य सौभाग्य भाग्भवेत् ॥
यस्मादुष्टाश्च वहवो जिघांसन्ति सुखानि च ।
अन्य सौभाग्य संत्यक्ता दौर्भाग्येन प्रपीडिताः ॥
पश्यन्ति यागे होमे च जपध्यानविधौ सदा ।
५८ब्)
जनयन्ति महाविघ्नां तस्माद्गुप्त तमो विधिः ।
भावभेदेन यष्टव्या साधकेन विपश्चिता ॥
एकवीरक्रमेणाथ पूजिता वा सुरेश्वरी ।
ददाति सर्वकामांश्च प्रसन्नापरमेश्वरी ॥
शैवे वैष्णवसिद्धान्ते भेदेनैव सुपूजिता ।
भक्तानां चित्तभेदेन फलदा परमेश्वरी ॥
चिन्तामणिर्यथा लोके चिन्तितार्थफलप्रदा ।
तथैषानुमहालक्ष्मी सर्वकामफलप्रदा ॥
देवासुरमनुष्याश्च नागागंधर्वकिन्नराः ।
ऋषयोप्सर सा यक्षा राक्षसाश्च पिशाचकाः ॥
भूतवेतालयोगिन्यो मातरो गुह्यकास्तथा ।
डाव्योडामरिका देव्यो भगिन्यो दूतयस्तथा ॥
तत्रायोगेश्वराः सर्वे योगसिद्धाश्च सर्वशः ।
महाश्रिया प्रसादा च सर्वे सिद्धाश्च सिद्धिदः ॥
आकारं सर्वसिद्धीनां महालक्ष्मी महाबला ।
आशृतानां च भक्तानां साधकानां वरप्रदा ॥
५९अ)
अस्याः परा हि जगतो नान्या कीचित् सुखप्रदा ।
अणिमादि गुणा ये च सर्वज्ञा द्यास्तु ये परा ॥
ते सर्वेस्याः पुमां देवि सिध्यन्ते नान्यथा पृये ।
मोक्षार्थी वा प्रकथ? एकवीरां तु पूर्ववत् ॥
अथवा शक्तिसंयुक्तं प्रतिष्ठापयते विभुं ।
सर्वसंभारसंयुक्तं प्रासादे तु मनोरमे ॥
शक्तिशक्तिमतो योगात् स्थापयित्वा विधानतः ।
जन्मान्तर सहस्रैस्तु यत्पापं समुपार्जितं ॥
तत्क्षणान्न पश्यते देवि तूलराशि रिवानलत् ।
वेष्टमात्रेण देवेशः स्थापितो वापि दीक्षितः ॥
कुलां चोद्धरते सर्वां दशपूर्वां दशापरान् ।
यावत् प्रासाद लिंगं वा प्रतिमा चित्रभित्तयः ॥
पाषाणधातवश्चैव ध्वजो वा ध्वजयष्टयः ।
समुद्रा सरितो याव मेरुचंद्रार्क भूमयः ॥
संख्या तत्परमाणूनां तावत्कालं भुनक्ति सः ।
भोगात् सदाशिवे तत्वे भुक्त्वानिर्वाणमाप्नुयात् ॥
५९ब्)
यथा समुद्रसंप्राप्य सिंधुः समरसी गतः ।
तथा शिवत्वमापन्नः पशुर्मुक्तो भवार्णवात् ॥
प्रतिष्ठाफलमेतद्धि प्राप्नुयान्नात्रसंशयः ।
अदीक्षितानां नृपतौ तत्सुतानां द्विजातिषु ॥
भोगालस्याथवा देवि कर्मदोषाश्च विघ्नतः ।
न यष्टं नपस्तप्तं न ध्यानं न प्रतिष्ठितं ॥
पातित्येन मृतानां तु येषां नरकसंस्थितिः ।
निदानैर्वहुभिर्देवि बालस्त्रीवृद्धमानुषैः ॥
मृतस्योद्धरणार्थाय दीक्षार्थं परमेश्वरं ।
यष्टव्यं पूर्वदेवेशं विशेषस्तत्र वा कृतिः ॥
कर्तव्या रजतावश्यं सदृशाद्वादशांगुला ।
कार्या वा गोपये देवि कुशैर्वा स्नानशोधिता ॥
दीक्षैव तत्र संस्कारां व्याप्त्या यत्र समं नयेत् ।
अणुं च योजयेत् तस्मिं पूर्णाहुत्या क्षिपे नले ॥
योजन्या शिवतत्वे तु ततः सा योज्यतां लभेत् ।
श्राद्धे संपूजयेद् देवं मंतेष्टि त्वेति वा यजेत् ॥
६०अ)
प्रतिष्ठाप्यस्तथा देवि दग्धपिंडे श्मशानके ।
पूर्वोक्त द्रव्यसंभारैः पूर्वोक्तविधिना गुरुः ॥
पूर्वोक्तं भीषणं रूपं शक्तिद्वयसमन्वितं ।
चतुश्चाष्टौथवा देवि पूर्वध्यानावलोकितं ॥
पूर्वोक्तं फलमाप्नोति इत्याज्ञा पारमेश्वरी ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधानो एकोन विंशतिमः पटलः ॥
श्रीदेव्युवाच ॥
कथितं देवदेवेन प्राणिनां हितकामया ।
अमृतेशविधानं तु सर्वरक्षाकरं परं ॥
इदानीं श्रोतुमिच्छामि संशयं मे हृदिस्थितं ।
दृष्टिपातं प्रकुर्वन्ति जंतूनां मातरः सदा ॥
असंख्यातास्तुता देव्यो अप्रमेय बलान्विताः ।
छायाच्छिद्रेण बाध्यन्ते योगिन्यौ बलवत्तराः ॥
अत्यन्त वलिनस्तीव्रा निस्तृंशानिर्भया दृढाः ।
हिंसकाः सर्वजंनूनां चालानां च विशेषतः ॥
६०ब्)
न संख्या विद्यते तासां तत्रोपायं वदस्व मे ।
छायारूपं फलं यत्तदृष्टिपातछलं तथा ॥
प्रकुर्वन्ति सदा देव च्छायास्तास्तु कति स्मृताः ।
दृष्टिपातभयं किं वा कथं वापि निवर्तते ॥
एतत्सर्वं समासेन प्रसादाद्वदशूलधृक् ।
भगवानुवाच ॥
श्रूयतां संप्रवक्ष्यामि छायायाश्चैव लक्षणं ।
अप्रमेया ह्यनन्ताश्च मातरो बलवत्तराः ॥
भूताश्च विविधाकारा ह्यनन्ताश्च महाबलाः ।
यक्षरक्षपिशाचांश्च ये चान्ये हिंसका शठाः ॥
न संख्या विद्यते तेषां कोटि भेदेन संस्थिताः ।
संक्षेपतः प्रवक्ष्यामि येन मुच्यन्ति बालकाः ॥
स्तृयश्च मनुजा वापि नृपपन्यश्च तत्सुताः ।
यथात्यजन्ति बलिनो यागव्रतपरायणाः ॥
मंत्रसन्नद्ध देहाश्च सुप्रमेय बलान्विताः ।
पुराकल्पे समुत्पन्ना नानाजसहस्रशः ॥
६१अ)
सर्वत्र हिंसकाः क्रूराः सर्वकालजिघांसकाः ।
यागार्थमुद्यताः सर्वे भैरवानुचराः सदा ॥
तच्छक्त्या बलिनः सर्वे तत्तेजो बलबृंहिताः ।
महापशूपहारेण तोषयन्ति महाव्रताः ॥
महाभैरवरूपं यत्स्वच्छंदं कृतवाहनं ।
दैत्यानां तु वधार्थाय देवानां स्थापनाय च ॥
इंद्रादयो यदा देवा सदादित्यैरुपद्रुताः ।
विद्राविता यदा दैत्यै तदाहंसंस्तुतः सुरैः ॥
ब्रह्माद्यैर्विविधैस्तोत्रै माया तेषां हितार्थतः ।
महाभैरवरूपं तु स्वच्छंदं तु कृतं मया ॥
विद्रावणं तु दैत्यानां देवानां स्थापनाय च ।
तदर्थंनुग्रहा भूता मातरो निर्मिता मया ॥
जित्वातैः शत्रुदर्पं कृतार्थास्ते मदंतिकं ।
आगताः प्रार्थयन्तिस्म विनाशभयभीरवः ॥
भगवं देवदेवेश अस्माभिस्तोषितो ह्यसि ।
तुष्टेन देवदेवेन यत्कार्यं तत्प्रसादतः ॥
कुरु देवेति चोक्तं तैस्तदा ते चरिता मया ।
६१ब्)
अजेया वरदानेन प्रार्थयन्तो महाबलाः ।
एवं भवन्ति मे सर्वे यथासृष्टा मयापुरा ॥
ततः प्रभृति तैः सर्व जगत्स्थावरजंगमं ।
आक्रम्यपीडितं सर्वं देवमानुष तिर्यगं ॥
देवानां तु जिघांसन्ति भूताः स्वर्गे महाबलाः ।
मानुषान्येव वलिनो जिघांसन्ति समन्ततः ॥
तिर्यग्योन्यश्च विविधा जिघांसन्ति तथापरां ।
असंख्यातास्तु ते प्रोक्ता अप्रमेय वलोत्कटाः ॥
पुनःस्तुतोहं देवैश्च प्रजापति पुरंदरैः ।
तदाक्षिप्ता मयासर्वे भूताश्च बलवत्तराः ॥
मातरो भीमरूपाश्च भयभीतामदन्तिकं ।
आज्ञाविधायिनः सर्वे किंकुर्वाणात् समागतान् ॥
तदा क्रुद्धेन देवेशि मंत्रकोट्यो ह्यनेकशः ।
अवतार्य विनाशार्थं मातॄणां च गृहेषु च ॥
शिवशक्ति प्रभावेन मननत्राणधर्मिणः ।
६२अ)
मंत्रकाद्या ह्यनन्ताश्च मया सर्वेधिकारिकाः ।
विद्याबलभयाद्भीता आगतास्ते मदंतिकं ॥
तदा मया ते विक्षिप्ताः स्थलेषु च जलेषु च ।
दिगंतरेषु शून्येषु ममाज्ञावशवर्तिनः ॥
बलिकामास्तथा चान्ये भोक्तुकामाः परे तथा ।
रतिकामाहं तु कामा वातजाश्चापि पित्तजा ॥
श्लेष्मजाः सन्निपातान्ये भूता विविधरूपकाः ।
मयोक्तास्तेपि बलिनो मयादावशवर्तिनः ॥
मदुक्तमंत्रमुद्राभि ध्यानैश्च विविधैर्युतान् ।
पंचस्रोतो विनिर्भिन्नं शृण्वन्तो हि पदां पृये ॥
तदा सर्वे विद्रवन्ति भयभीतादिशोदश ।
निधानै बहुभिस्सर्वैजिघांसंति नरं पशुं ॥
दुराचारं दुरात्मानं अशुचिं पुरुषाधमं ।
मातापित्रो रसं माना तथायनवर्जनात् ॥
अति स्त्री संगशमना निबंधाश्च विशेषतः ।
अकालमैथुनान्मोहाद् भयात् संभ्रमणं तथा ॥
६२ब्)
संध्याविवर्जिता ये च संध्यामैथुन सेवकाः ।
भोजना ध्ययने निद्रा संध्यायां योनि सेवकां ॥
अकामिनीः कामयन्ति गुरुदारादि ये पृये ।
प्रध्वंसयन्ति बलिनो बला चैवाति योषितः ॥
तथान्ये सत्य वक्तारः प्रभुद्रोहकृतो शुभाः ।
अनुक्तैः पापरचितै ये नरा सम्यमाधवाः ॥
एतैरन्यैर्निदानैश्च गृह्यन्ते मानुषा ग्रहैः ।
स्त्रीणां चैव तु दौःशील्यादशौचा भक्ष्यभक्षणात् ॥
तथोभयगुरुद्वेषाद्भर्तारव्यभिचारतः ।
अन्यैरनुक्त दोषैश्च दूषिता मुद्रयंति च ॥
रुंदंतां चैव बालानां रात्रौ जागरणां तथा ।
रात्रौ संत्रासना चैव दुष्टच्छायासुदूषिता ॥
रजस्वला दूतिकाश्च पापिष्ठा ह्यशुचिस्तदा ।
उन्मत्ता विद्रुताभीतास्त्रस्तादोषैश्च दूषिताः ॥
रुदंती क्रोशमानाश्च मुक्तकेशास्तदा रुणा ।
६३अ)
दुष्टपुक्कसचंडाल स्पर्शेनैव तु दूषिताः ।
शवस्पर्शान्तर्गमना तत्रस्थ स्पर्शनात् तथा ॥
तद्दुष्टसाहचर्याच्च तद्वार्तानुगमं तथा ।
अशौचादि तथानेकै अस्पर्शैरपि दूषणात् ॥
दुष्टा स्त्री पुरुषो वाथ स्नात्वां च्छायां प्रदापयेत् ।
बालानां भूपतीनां च तत्पत्नींनां तपस्विनां ॥
च्छायाच्छिद्रेण भूताश्च मातरो बलवत्तरा ।
दृष्टिपातं प्रकुर्वन्ति लध्वच्छिद्राश्च हिंसकाः ॥
रौद्रां दृष्टिं पातयन्ति बालानां च जिघांसकाः ।
पापिष्ठाश्च दुराचारा भूतद्यस्ता ज्वरादिकैः ॥
ततोन्मत्ता दुष्टचेता पापाचाराः सुदुःखिताः ।
बुभुक्षिताअ मत्सराश्च शत्रवो वैरगर्विताः ॥
एताश्चान्याश्च बहवो दृष्टिं संपातभीषणां ।
पश्यन्ति यदि बालानां पूर्वोक्तानां च सर्वशः ॥
दृष्टिपातं ततो जाये ज्ञात्वा श्रेयसमाचरेत् ।
तत्क्षणान्न विलंवेत स्वल्पे नैव कृतेन हि ॥
६३ब्)
न बाधयंते दोषानि उषित्वा वाध यन्तिताः ।
न विलंव्य तदा कालं सव्य एव समाचरेत् ॥
स वौषधैस्सुप्रशस्तैर्बहुभिर्मंगलान्वितैः ।
पंचगव्येन वा तत्र मंत्रयुक्तेन कारयेत् ॥
स्नानं सौभाग्य जननं सर्वदोष भयापहं ।
आचार्यो मंत्रकलशै पूर्ववद्विचोदितै ॥
सदाति सद्यो बालानां पूर्वोक्तानां च सर्वशः ।
सद्यः श्रेयस्करं पुण्यं पुष्टिदं कांतिदं शुभं ॥
यदा ह्यनन्तास्तत्रस्था मातरः संनिधाः पृये ।
जिघांसन्ति तदा सद्यो महामात्रीषु पूजयेत् ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेंद्राणी चामुंडा सप्तमातरः ॥
एतास्तु मातराः सप्त पूजयित्वा शिवं भवेत् ।
समस्तमातृचक्रस्य योनयस्ताः प्रकीर्तिताः ॥
ताभिः पूजितमात्राभिरुपहारैः पृथग्विधैः ।
कृत्स्नं मातृ समुहं तु तुष्टो भवति तत्क्षणात् ॥
६४अ)
प्रधानाः सर्वमातॄणां एताः सप्त प्रकीर्तिताः ।
सितपीतरक्तकृष्णैः पुष्पैर्नानाविधैस्तथा ॥
पायसैः कृसरैर्मात्स्यर्लेह्यैः रेपैरशेषतः ।
चतुर्विधेन मांसेन घस्मरैर्बलिभिस्तथा ॥
पूजयित्वा तु मालानां सद्यः श्रेयो भविष्यति ।
तस्मात् प्रदानयागेन गुणभूतास्तु देवताः ॥
त्रिप्ता भवन्ति सर्वत्र सर्वश्रेयो ह्यवाप्नुयात् ।
त्रिंशत्कोटिसहस्राणि स्वांगुष्ठा निर्मिता मया ॥
विनायकानां घोराणांमग्निज्वलित चेतसां ।
यदितैर्विघ्नितः कश्चिदभिभूतो भवे नरः ॥
तत्राधिदैवतं पूज्यं विघ्नेशं तु विनायकं ।
अन्य तंत्रोपचारेण ध्यानयोगेन पूजयेत् ॥
हेमं रत्नानि धारूनि बीजान्येव प्रदापयेत् ।
स्वेन स्वेनैव रूपेण सर्वं सर्वेषु दापयेत् ॥
विघ्नैः प्रमुच्यते साध्यं तत्क्षणान्नात्रसंशयः ।
६४ब्)
यदि भूतैर्गहैर्घोरैर्मुद्रितां बलिनैर्नरं ।
तदा भूतेश्वरं योज्यं पूर्वोक्तेन विधानतः ॥
राक्षसैः विविधैर्यत्र प्राणिनो वाधिता ध्रुवं ।
इष्ट्वा रक्षोधिपस्तत्र सर्वश्रेयमवाप्नुयात् ॥
यदा यक्षैरसंख्यातैरति भूतं क्वचिन्नरं ।
तदा वै श्रवणं शीघ्रं यष्ट्वा मोक्षमवाप्नुयात् ॥
अष्टयोन्यस्तथा दिव्यौ विरुद्धा यदि कुत्रचित् ।
तदा तु भैरवं यागं कुर्याच्छ्रेयमवाप्नुयात् ॥
अन्तर्बलिस्तु सर्वेषां दातव्यो भूरि घस्मरं ।
तदा बाह्यबलिं क्षेत्रे दातव्यः श्रेयमिच्छताः ॥
आरण्यको बलिश्चान्यं महिशाद्यैस्तथाजिनैः ।
विविधैश्च बलिं कुर्यात् सर्वेषां तु प्रदापयेत् ॥
नदीतटे श्मशाने वा अटव्यां मातृमंडले ।
प्रातर्मध्याह्नकाले च सायं चैवार्द्ध रात्रतः ॥
बलिस्तेषु प्रदातव्यास्तेन तृप्ता भवन्ति ते ।
उदकं ह्यन्नमिश्रं तु भूरितेषां प्रदापयेत् ॥
येन तृप्तास्तु ते सर्वे सर्वश्रेय फलप्रदाः ।
६५अ)
भवन्त्य वितथं भद्रे मातृवत् पालयन्ति ते ।
स्मृतिर्मेधा जयं वृद्धि वपुरायुर्यशः सुखं ॥
नष्टं बलं तु सर्वेषां ददत्येन बलि स्मृतः ।
एवं मृत्युजिता सर्वं कर्तव्यं सर्वसिद्धिदं ॥
स्कंदग्रहागृहीतानां बालानां पीडितात्मनां ।
रति ग्रहैस्तथा नार्योरभिभूता भवेत् क्वचित् ॥
कार्तिकेयं ततो यष्ट्वा पूर्वोक्त विधिना ध्रुवं ।
क्षिप्रं ता च प्रमुच्यन्ति स्कंदाद्या ये शिशु ग्रहाः ॥
यस्मिन् कुलेयं दशे तु मुद्रितं कीलितं क्वचित् ।
तत्कुले नैव यष्टेत सर्वदोषैर्विमुच्यते ॥
तदर्द्धं तु मया सर्वं रहस्य प्रकटीकृतं ।
अस्मिन्तंत्रे तु सर्वेषां अमृतेश विधानतः ॥
सर्वतं म्लषु सामान्यं मृत्युजित् प्रकटीकृतं ।
सर्वेषां हृदयं गुप्तमप्रकाश्यं महाद्भुतं ॥
न केन चिदहं पृष्टो नाख्यातं कस्य चिन्मया ।
रहस्यं संप्रदायं च सर्वश्रेयः सुखावहं ॥
साधकस्य प्रयत्ना ये भक्त्या ह्याराधयन्ति च ।
६५ब्)
सर्वदुःखैर्विमुक्तास्ते सत्यं मेनानृतं वचः ।
अनेनैवात्मनः कार्यं सर्वदुःखनिवर्हणं ॥
भक्तानां स्वसुतानां च स्वदाराणां तु कारयेत् ।
स्वशिष्याणां तु भक्तानां नान्यथा तु प्रयोजयेत् ॥
सर्वाश्रमं गुरुत्वाच्च भूपतीनां च सर्वदा ।
तत्सूतानां च पत्नीनां कर्तव्यं तु हितार्थिना ॥
नित्ये नैमित्तिके काम्ये शांत्यर्थे कारयेत् सदा ।
मुखे प्रक्षालिते नित्यं तिलकं श्वेत चंदनं ॥
सप्ताभिमंत्रितं कार्यं दोषनिवृत्तयेत् तदा ।
स्नानकाले तथा कार्यं तिलकं श्वेतभस्मना ॥
स्मालभन पुष्पं वा तांबूलं वाभिमंत्रितं ।
दीयते यस्य तस्येह न हिंसंतीह हिंसकाः ॥
भोजनं चाभिमंत्रैव मंत्रेणानेन मंत्रवित् ।
उभयोश्चंद्रयोर्मध्ये भुंजानो मृतमश्नुते ॥
सर्वव्याधिविनिर्मुक्तस्तिष्ठते नृपतिः क्षितौ ।
अथ क्रीडनकालेषु गजाश्च महिषेषु च ॥
अस्त्र क्रीडासु सर्वासु रक्षार्थं कलशं यजेत् ।
६६अ)
क्रीडार्थं विजयार्थं तु रक्षार्थं हिंसकादिषु ।
यस्माद्दुष्टाश्च वहवो जिघांसन्ति नृपेषु च ॥
तस्माद्रक्षा प्रयोक्तव्या सर्वश्रेयस्करी शुभा ।
ततः सुप्तस्य नृपतेर्निद्रा कलशमर्चयेत् ॥
रौप्यमौषधि संयुक्तं चंदनागुरुचर्चितं ।
क्षीरश्चोदक पूर्णं वा यजेत् मृत्युजितं जपेत् ॥
सर्वश्वेतोपचारेण पुष्पधूपार्घपायसैः ।
ग्रंथे स्थितां महानिद्रां जगत्संमोहकारकी ॥
सुखार्थं नृपते रात्रौ जीर्णार्थं भोजनादिके ।
आरब्धा देवदेवेन आज्ञादन्तेति भावयेत् ॥
ततो रात्रि समग्रा तु तिष्ठते निद्रया सह ।
यक्ष रक्षः पिशाचाद्या दुस्वप्ने मातरासु च ॥
भयैः संत्रासदुःखैश्च मुक्तस्तिष्ठेद्यथा सुखं ।
लोकपालेषु चास्त्रेषु रक्षार्थं नृपतेष्वपि ॥
पूजनं चार्घ पुष्पाद्यैः कलशे पूजिते सति ।
यस्यैवं सततं कुर्याज्ज्ञानवां दैशिकोत्तमः ॥
६६ब्)
पूर्वोक्तं सर्वमाप्नोति इत्याह भगवां शिवः ।
निमित्तेषु च सर्वेषु अमृतेशं यजेत् सदा ॥
कामरूपी यजेद् यस्मात् सर्वकामानवाप्नुयात् ।
प्रजानां रक्षणार्थाय शालीनां सस्यसंपदे ॥
सुतपत्नीषु रक्षार्थं आत्मनो राष्ट्रवृद्धये ।
इंद्ररूपी यजेत् तस्माद् बिजयार्थं नृपेषु च ॥
गोभूब्राह्मणरक्षार्थमात्मनः स्वजनेषु च ।
महानवम्यां पूज्येत भूरि यागेन वेश्मनि ॥
पूर्वोक्त श्रेयमाप्नोति आयुरारोग्यसंपदः ।
अस्त्रयागं प्रयत्नेन कर्तव्यं सिद्धिहेतुतः ॥
अस्त्रसिद्धिमवाप्नोति प्रयुक्ता फलमश्नुते ।
यदा मृत्युवशा प्रातःकालेन कलितं नृपं ॥
अरिष्टचिह्नितादान देशं वा तत्सुतादयः ।
ब्राह्मणादिषु सर्वेषु पौरजानपदेषु च ॥
शालिचूर्णादि शस्येषु फलमूलोदकेन च ।
दुर्भिक्षव्याधिकाद्येषु उत्पातैश्चाप्यनुत्तमैः ॥
६७अ)
तदा नैराजनं कार्यं राज्ञां राष्ट्रस्य वृद्धये ।
पूर्ववद्यजनं कृत्वा कलशेनाभिषिंचयेत् ॥
निःशंकं निर्जने रात्रौ शुभमेतत् तु दैशिकः ।
जय पुण्याह शब्देन वेदमंगलस्वस्तिकैः ॥
अभिषिंचत राजान सिद्धार्थान् होमयेद् बहून् ।
नैराजनविधानेन नामांकं जुहुयात् पृये ॥
वह्नौ संक्रुद्धमनसो अजंश्च प्रोक्षयेद्बहून् ।
तृप्त्यर्थं भूतसंघस्य मंत्रीरक्षार्थमुद्यतः ॥
शाकुनोंत्पाशगत्या वा विज्ञाय शकुनं हितं ।
यजेंद्र शिववारुण्यां निर्यातं सर्वसिद्धिदं ॥
अथ पूर्वोक्तेन विधिना गृहयागं तु कारयेत् ।
यावत् सप्ताह्निकं देवि भूरिहोमेन सिद्धिदं ॥
तस्याचला महालक्ष्मीराज्यं वा यदभीप्सितं ।
भौमांतरिक्षसिद्धीनि प्राप्नुया नृपतिः सुखी ॥
तदा नैराजनं ख्यातं सर्वश्रेयस्करं परं ।
पूर्वोक्तं न पश्यते दोषं देविनास्त्यत्रसंशयः ॥
गोषु मध्ये यजेद् यस्मा सदावर्द्धति गोकुलं ।
६७ब्)
सिंदूरं गौरिकं वापि अभिमंत्रेत मंत्रवित् ।
योक्तव्यं गोषुरक्षार्थं शृंगोर्ध्वे सर्वदोषजित् ॥
अश्वानां रक्षणार्थाय पूर्वोक्तविधिना यजेत् ।
अभिमंत्रेत कलशं शिरस्तेषां प्रदापयेत् ॥
सिद्धार्थकां जपित्वा तु कंठे कार्यं तु मुर्द्धनि ।
सर्वदोषविनिर्मुक्तां गजांश्चैव तु रक्षयेत् ॥
अजेषु पशवो ह्येवं रक्षासर्वत्र कारयेत् ।
सर्वप्राणिषु रक्षार्थं योक्तव्यं नृपतेः सदा ॥
महाशान्तिर्भवेत् तेषां दुर्भिक्षं नश्यते सदा ।
महाभयेषु सर्वेषु उल्काभूकंप पातने ॥
अति दृष्टिरनावृष्टिः सूचितेषु भयेषु च ।
अकालोत्पन्न पुष्पादीं दैवै नष्टैश्च खंडितैः ॥
ज्वरलूतादि दोषैश्च अपमृत्युभिरेव च ।
दुःखैर्नानाविधैश्चैव आघ्रातं मंडलं यदि ॥
कर्मदोषाश्च यत्किंचि ग्रहदोषाश्च दारुणाः ।
६८अ)
तिरोभावं तु चोत्पन्नं मंत्रच्छिद्रं तथागतं ।
वटादि विशनाशेन कीटादि स्फोटकादयः ॥
वातपित्तविकारेषु श्लेष्मदोषेषु सर्वतः ।
अर्षाश्च चक्षुरोषाश्च शरवैसर्पकादयः ॥
वातजा पित्तजा दोषा धातुदोषास्तथैव च ।
व्याध्यंतराश्च ये चान्ये क्षतजातः सहस्रशः ॥
अभ्यंतरस्थो व्याध्यश्च शोकाद्याश्चिन्तनाशकाः ।
अभिशप्ताश्च ये केचिद्ब्राह्मणाद्येषु सर्वसु ॥
तदानुपूर्ववद्यागं कर्तव्यं शान्ति हेतुतः ।
प्रत्यहं हवनं कार्यं राज्ञोराष्ट्रविवृद्धये ॥
सुखेन भुंजते राज्यं नात्रकार्याविचारणा ।
सकृत् पूजितमात्रेण नश्यन्ते विघ्नकारिणः ॥
नष्टादशदिशो यान्ति सिंहस्यैव यथामृगाः ।
सतताभ्यासयोगेन दारिद्र्यं नश्यते कुलान् ॥
यस्मिन् राष्ट्रे च देशे च वसते मंत्रवित् सदा ।
ईतयो व्याधयस्तत्र खार्खोदास्तस्करा ग्रहाः ॥
शाकिन्यो विविधा यक्षाः पिशाचाराक्षसास्तथा ।
६८ब्)
बालग्रहाश्च विस्फोटा व्यंतरा ह्यंतराश्च ये ।
सर्पा विशान्ये दोशश्च दुर्भिक्षं रिपु पीडिनं ॥
सर्वेन प्रभवंत्यत्र मंत्रविद्यत्र संस्थितः ।
स पूज्यः सर्वजंतूनां भूपतीनां च सर्वदा ॥
दानपूजादि सम्मानैरसमैः पूज्यते यदि ।
तेन पूजितमात्रेण सर्वे मंत्रास्तु पूजिताः ॥
भवन्ति सुखदास्तत्र तन्मुखस्थाः प्रपूजिताः ।
सर्वत्रा च्छेदकर्तार ग्रहाहिंसन्ति साधकं ॥
तस्मात् ग्रहाणां दातव्यं सर्वदेवोदकोदनं ।
यष्ट्वा भूतानि तृप्यन्ते तृप्ता न भवन्ति ते ॥
तदा रक्षा प्रकर्तव्या दैशिकेन महात्मना ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाते राजरक्षाधिकारो नाम
विंशतिमः पटलः ॥
श्रीदेव्युवाच ॥
रक्षा तु कथिता देव प्राणिनामनुकम्पया ।
कीदृशी प्रोच्यते सा तु कस्य वा कृयते कथं ॥
व्यापकः पुरुषः प्रोक्तो ह्यमूर्तः सर्वदेहिनां ।
६९अ)
देही बाह्यान्तरस्थोसौ निर्गुणो ह्यशरीर कृत् ।
कथं तु कृयते तस्य रक्षा कस्मा च रक्षते ॥
शरीरं सकलं वाथ रक्षितव्यं कथं च तन् ।
पृथिव्यादि महाभूतैः निर्मितं चोदितं किल ॥
अन्य तृतीयो वा रक्षः कस्य दैवं कथं विभो ।
कस्माच्च रक्षणियोसौ केन वा वद शूलधृत् ॥
एतत् सर्वमशेषेण का रक्षा भगवन्वद ।
भगवानुवाच ॥
शृणु देवि परं गुह्यं न पृष्टोहं सुरासुरैः ।
गरुडाद्यैस्तथा शिष्यै बहुभिर्मुनिभिर्न च ॥
तदद्यन्ते प्रवक्ष्यामि शृणुष्वायत लोचने ।
व्यापकः पुरुषः सूक्ष्मो निर्गुणो निष्कृयो बलः ॥
किं त्वाणवस्तथा कर्मो मायायस्त्रिविधो मलः ।
तत्संबंधात् समलिनो ह्यस्वतंत्रो ह्यशक्तिमान् ॥
अशुद्धः प्रोच्यते तस्मात् मलत्रय विरोधतः ।
निर्मलो वा कथं प्रोक्तो भोगेषु सविरुध्यते ॥
६९ब्)
शुद्धो भोगी न सिद्ध्येत विकल्पो भोग उच्यते ।
विकल्पः स तु संसारः पशोः संसरणं सदा ॥
संसार्यस्य तु वद्धस्य निर्मलत्वं युज्यते ।
आणवं यन्मलं सूक्ष्मं कार्यतो ह्युपलभ्यते ॥
अभिलाषं तु तत्कार्यं भोगादीनां प्रवर्तकं ।
कर्मयत्करणं कार्यं देशकालशरीरतः ॥
क *? दि यत्पृथिव्यान्तं माया कार्या विदुर्बुधाः ।
एवं मलत्रयोपेतं संसारी संसरंत्यणु ॥
कोशकारकृमिर्यद्वदात्मानं वेष्टये दृढं ।
उद्वेष्टनेन शक्तस्सो(?) ताथात्मा पाशपंजरे ॥
यावन्न चेश्वरो देवो ह्यनुगृह्याति शक्तिमान् ।
तावत् मलावगूहेन गुंठितस्तिष्ठते पशुः ॥
यदि चेन्नेश्वरः कश्चित् स्वतंत्रमखिलं जगत् ।
नियमः कारणानां तु न भवेदसमंजसं ॥
बलीबंदं यदा कश्चित् बंधनं पाशवं धनः ।
तृणौः संयोजितैर्भोगैर्ह्यस्वतंत्रस्तथा पशुः ॥
७०अ)
ह्यस्य पाशहस्तस्य ग्राहकः कश्चिदुन्नतः ।
समर्थो दृश्यते यद्वत्तद्वदीशोप्यनुग्रही ॥
सर्वेषां च सकृच्छक्ता स्वशक्त्याबृंहितः शिवः ।
अवियुक्ता *? सा तस्य निजारश्मी रवेरिव ॥
दाहप्रकाशिका वह्ने ऊष्मा नैव वियुज्यते ।
तद्वदीशस्य सा शक्तिरवियुक्ता शिवात्मिका ॥
जगतः कारणं देवि सा चैका बहुधा स्थिता ।
इच्छाज्ञानकृयारूपा कृत्य भेदेन वर्तते ॥
अघोरा सा तदिच्छास्याद् व्यापिका सा मुदायिनी ।
घोराज्ञान स्वरूपा तु सा परिग्रह वर्तिनी ॥
घोराघोररता चान्या क्षोभिकाया कृयात्मिका ।
सा रक्षा सर्वभूतानां सर्वरक्षासुरक्षिणी ॥
सा च दीक्षा समुद्दिष्टा दान * पणलक्षणा ।
अनेनैव प्रकारेण सर्वदोषनिवर्हणी ॥
व्यापकस्य सतो पुंसः सा रक्षा न विधीयते ।
पुनरन्यं प्रवक्ष्यामि रक्षासर्वसुरक्षिणी ॥
७०ब्)
? लत्रयविरोधेन नानाकर्मफलोदया ।
शब्दादीनां तु विषये इंदृयाणां प्रवर्तते ॥
हृत्पुंडरीक मध्यस्थं धर्माधर्मप्रवर्तकं ।
रागद्वेषभिभूतं च तृधान्तः करणावृतं ॥
कार्यकारणसंबंधं करणैर्भूतंरंप्रतैः ।
निबद्धं चिन्मले नैव शतशोतसहस्रशः ॥
कार्यकार्यान्त * *? तै धर्माधर्मविचिन्तितैः ।
तिजव्र?लुप्त चैतन्यं जीव इत्यभिधीयते ॥
तस्य रक्ता समुद्दिष्टा मंत्रैर्विविधविस्तरैः ।
धारणामंत्रतंत्रैश्च शिवेन परमात्मना ॥
जीवरक्षा तु सा प्रोक्ता क्रियाशक्तिर्महेश्वर ।
अन्या तृतीया रक्षा तु शरीरस्य तु रक्षणी ॥
महाभयेभ्यः सर्वेभ्यो भूतयक्षग्रहादिकैः ।
डाव्यो डामरिकाभिश्च भगिन्यो * मारस्तथा ॥
शाकिन्यो योगिनीभिश्च मुखमंडकादिभिः ।
नानाविधैरशेषैश्च हिंस *? कृयते ध्रुवं ॥
७१अ)
यद्भयं तस्य शमनं सा रक्षा शक्तिरुच्यते ।
भूतजं मलिनं देहं अध्रुवं च अशाश्वतं ॥
वातपित्तैस्तथा श्लेष्मैः सन्निपातादि * *? रैः ।
अनेकशतसंख्यातैर्दोषैर्दुष्टांशरीरकं ॥
तस्य हिंसन्ति वहवो हिंसका दुष्टबुद्धयः ।
वातपित्तरुजाभूताश्लेष्मजास्सन्निपातिकं ॥
भोक्तुकामावलिकामारतिकामास्तथा परे ।
हंतु कामाश्च वहा वा हिंसकाः सर्वजंतुषु ॥
वात स्थानं समाशृत्य वातजाः प्र *? वन्ति हि ।
क्षोभयन्ति स्वकं स्थानं पित्तजाः पित्तिकन्ततः ॥
श्लेष्मजाश्च स्वकं भावं स्थानं सान्निपातजाः ।
क्षोभयंति विनाशार्थं देहरक्षा त *? तः ॥
मंत्रौषधि क्रियायोगे रक्षा वै शिवचोदिता ।
कर्तव्या शिवदा नित्या सा शिवाशिवहारिणी ॥
बलिकामानुबलिभिर्घस्मरैस्त *? येत् पृये ।
७१ब्)
भोक्तुकामांजिघांसन्ति नश्यन्ते मंत्रयोगतः ।
रतिकामा अनेकैश्च मंत्रैस्तंत्रैस्तथौषधैः ॥
प्रोक्तोप्यनुग्रहस्तेन मंत्रे *? मंत्रयोगिना ।
हंतु कामास्तु ये प्रोक्ता दुराधर्षा महाबलां ॥
तथापि पारमेशेन मंत्रतेजो बलेन च ।
शिवशक्त्या प्रभावेन नश्यन्ते *? त्रसंशयः ॥
एवं सेक्षेपतः प्रोक्तो इदं भूतविनिर्णयं ।
प्राणिनां तु हितार्थाय विष्टरोत्यत्रदर्शितः ॥
एवं हि क्रियते रक्षा सुज्ञात *? कृता भवेत् ।
अन्यथा स्वात्मघाताय वर्ततेप्यनुयोगिनः ॥
रक्षा बहुप्रकाराश्च कर्तव्याम्नाय दर्शनात् ।
आधाररक्षा प्रथ *? जीवरक्षा द्वितीयका ॥
तृतीयागर्भरक्षा तु सूतिकाले चतुर्थिका ।
पंचमी भूतिका रक्षास्नात्वा षष्ठी तु कारयेत् ॥
बालानां सप्तमी प्रोक्ता पुरुषा?णां तथाष्टमी ।
७२अ)
भेदं तासां प्रवक्ष्यामि यथाधाराधिकारयेत् ।
मातापित्रोंपरारक्षा कार्या तत्व विचिन्तकैः ॥
दोषां कृत्वा सुपुरुषे संभवन्त्यस्य हिंस(?)काः ।
हिंसन्ति रक्षणी योसौ संभवार्थं प्रयत्नतः ॥
यदा स्त्री मुद्रिता भूतैःस्तदा गर्भो न गृह्यते ।
एषा तु प्रथमा रक्षा आधाराख्या प्रकीर्तिता ॥
*? रक्तमयः कायः सर्वेषां प्राणिनां यतः ।
तदा तु रक्षितौ द्वौ तु कर्तव्यो मंत्रवादिभिः ॥
रतिकामग्रहाये च कामाचारा ह्यनेकशः ।
पिबन्ते रेत? *? क्तं च नक्तं संभवते कथं ॥
तस्मात् तु कारणाद्रेतो रक्षितौ संभवो भवेत् ।
संभूतं गर्भकं नेत्रं संरक्ष्यं गर्भपातनं ॥
प्रसूति काले नारीणां रक्षाग *? विशारदैः ।
कार्यारक्षा प्रयत्नेन न च हिंसन्ति हिंसकाः ॥
यावन्न सूतिका शुद्धा तद्गृहस्थं तु बालकं ।
सूतिका ग्रहदोषाद्या बाधन्ते रक्षया * *? ॥
७२ब्)
तस्मात् सुरक्षितौ कार्यौ ह्यस्त्राद्यैस्तु विचक्षणः ।
सूतिकां स्नानकाले तु बालं वायच तत्स्थितं ॥
हिंसन्ति बलिनो भूता तस्मात् स्नानं तु कार *? ।
स्नात्वा तदुत्तरं कालं बालरक्षासमात्रिका ॥
धात्री तु कारणं तस्य क्षीरस्पर्शादि पोषणैः ।
तस्माच्चैरक्षितव्यादौ धात्री बालस्तोर्ध्वतः ॥
सर्वका *? चरक्ष्य मंत्रौषधि प्रयोगतः ।
धारणाध्यानमुद्राभिमंत्रैर्धूपैरतत्रितः ॥
तिलाज्यादि कृतैर्होमैः कलशैर्विविधैः शुभैः ।
शिरसि ह्यभि * *? त रक्षणीयं तु सर्वदा ॥
बालप्रबुद्धसुप्तौ तु रुदमानं प्रहासितं ।
भुंजानं शयनस्थं तु तिष्ठन्तं क्रीडनं तथा ॥
प्रभाते चार्द्धरात्रे च मध्याह्ने सा * *? चरे ।
संध्याकालेषु सर्वेषु रक्षये तन्तु बालकं ॥
देवासुराणां भूतानां मात्रीणां भगिनीषु च ।
इष्टग्रहपिशाचानां संध्याकाले तु संगमं ॥
७३अ)
संध्यासु सर्वासु रक्षितव्यं तु बालकं ।
गच्छंस्तिष्ठत्स्वपं जाग्रत् सर्वकालं तु रक्षयेत् ॥
गच्छन्तं दर्शनाद् देवि जिघांसन्ति जिघांसकाः ।
रक्षाहीनं तु तिष्ठन् * *? यत्ते सुभीषणाः ॥
स्वस्थं कलेन सुप्तं तु त्रासयन्ति समन्ततः ।
जाग्रतः केवलं रात्रौ त्रासयन्ति ग्रहाधमाः ॥
तस्मात् सर्वप्रयत्नेन रक्षयेत् सर्वदा शिशुं ।
*? नान्यैरुपायैश्च मंत्रवादैर्विना पृये ॥
विशेषाद्राजतनयं रक्षितव्यं हि दैशिकैः ।
भाग्य सुक् स्रु प्रशस्तं च सर्वलक्षणरक्षितं ॥
दृष्ट्वा यत्नेन दु * *? जिघांसन्ति शिशुं शुभं ।
तस्मात् सर्वप्रकारेण धारणाभिरनंतरं ॥
प्राकारास्त्रेन वा देवि मंत्रैर्वा विविधैः शुभैः ।
लिखितैर्यंत्र योगैर्वा पू * *?ः सुप्रयत्नतः ॥
वेष्टितैः कंठलग्नैर्वा सूत्रकैश्च सितादिकैः ।
धूपैर्विविधरूपैश्च धारिभिर्मणिभिस्तथा ॥
रक्षोघ्नैस्तिलकैर्वापि नीरांज * *? रः सरैः ।
७३ब्)
रक्षणीया सदा बाला राजपुत्राविशेषतः ।
राजानो राजमात् पंच सजपन्त्यस्तथा पृये ॥
अनेनैव विधानेन रक्षितव्यां सुनिश्चितैः ।
यस्म क्षुद्रा महाभूता मातरो दुष्ट चिन्तकाः ॥
जिघांसन्ति प्रयत्नेन नित्यकालमतंद्रिताः ।
तेषां प्रशमनार्थाय प्राणिनामनुकंपया ॥
मंत्रास्तौषधं यत्रा * *? हाबलपराक्रमाः ।
अनुग्रहार्थं मर्त्यानां मयासर्वेवतारिताः ॥
तेषामेव हि सर्वेषां मंत्राणां भूरितेजसा ।
बलमोजस्तथा ज्ञानं स्मृतिर्मेधा व * *? यः ॥
जीवनं प्रभु सर्वेषां मृत्युजित् कथितं मया ।
भूरिर्यागैर्जपैर्होमै तपसा संयमेव च ॥
मंत्राश्चास्त्राणि सिद्ध्यन्ति युगधर्मानुरूपतः ।
तथा *? लि युगे दुष्टे पापिष्ठा येन राधमाः ॥
तेषां ते सिद्धिदा मंत्रा भवन्ति न भवन्ति वा ।
अस्य देवाति देवस्य कृतादि युगसंस्थिति ॥
भावानुरूप नि * नां तपो न व्रत सेवनात् ।
७४अ)
सर्वभावप्रसन्नानां द्वैताद्वैतजिगीषना ।
दौर्भाग्यालस्य युक्तानां पापोपहत चेतसां ॥
भक्तिमात्राबलं बन्धा * *? ते नात्रसंशय ।
चिन्तारत्नं यथासर्वं चिन्तितार्थं प्रयच्छति ॥
तथा सर्वं तु नेत्रं वै भावितस्य करोति हि ।
सूर्यचंद्रौ यथालोके सामान्येनाव * *? कौ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
सामान्यं वर्तयंत्येते ह्यन्नंत्कृद्दोष(?) हृद्यया ॥
तथा सर्वेषु भूतेषु व्यापकः परमेश्वरः ।
* *? प्रपंचरहितः सर्वेषां सर्वदः प्रभुः ॥
मृत्युजित्परमो देव सर्वेषां सर्वसिद्धिदः ।
भक्तिमात्रावलंविन्धा?द्ध्यानधारण तत्परः ॥
योस्यवेत्ताप्रपन्नश्च * *? निष्कंप चेतसः ।
ससर्वं फलमाप्नोति सर्वसिद्ध्यारुहो भवेत् ॥
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने इष्टपाताद्यधिकार * *?
विंशतिमः पटलः ॥
श्रीदेव्युवाच ॥
उक्तं देवेन मे सर्वं यन्मयापरिपृच्छितं ।
अधुना श्रोतुमिच्छामि संशयं मे हृदिस्थितं ॥
योगिन्ये * *? राश्चैव शाकिन्यो बलगर्विताः ।
कथं परपुरे प्राणाः क्षणादाकर्षयन्ति ताः ॥
कस्माच्च निर्घृणा रौद्रा तासां वा किं प्रयोजनं ।
एतत् सर्व * *? षेण भगवन्वक्तु मर्हसि ॥
भगवानुवाच ॥
शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतं ।
यथा प्राणांजिघांसन्ति पशूनां पतिशासनात् ॥
रागद्वेष * *? र्मुक्तालोभमोहविवर्जिताः ।
यागार्थं देवदेवस्य पशवः प्रोक्षयन्ति ताः ॥
न लोभेन च हिंसंति न चैव हि जिघांसया ।
महाभैरव देवस्य शास * *? लयन्तिताः ॥
यदर्थ पशवस्पृष्ट्वा स्वयमेव स्वयंभुना ।
पशवः पतियागार्थमुपयुजन्ति नान्यथा ॥
तेषामनुग्रहार्थाय पशूनां च वरानने ।
मोच * *? हि पापेभ्यः पाशौघां छेदयंति ताः ॥
७५अ)
पशूनामुपयुक्तानां नित्यमूर्द्धमतिर्भवेत् ।
त्रिविधेन तु योगेन योजयन्ति शिवाज्ञया ॥
परे नैव हि सूक्ष्मेण स्व * *? त्रितयेन तु ।
योजयंति न चैवात्र घातयन्ति बलेन ताः ॥
परः सर्वात्मके तत्वे निष्कृयो निर्मलस्तु यः ।
व्यापकः परमेशस्य सर्वं कारणकारणं ॥
*? तान्तरालस्थं सर्वानुग्रहकारकं ।
तस्मिन्नेव नियुक्तास्ता निर्मला विगतक्लमाः ॥
एकीभावमनुप्राप्ता न वियुक्ताः कथंचन ।
तच्छक्तौ तु विलीना * *? च्छा रूपेणसंस्थिताः ॥
ज्ञातोत्कर्षाः क्रियावस्था यागयोग्यावधूतिकाः ।
तद्भावं तु समास्थाय तद्रूपा योजयन्ति यत् ॥
ते मुक्ताः शिवभूतास्तु * *? क्त्या शिवे रताः ।
निर्मला शिवभूतास्तु तत्प्रभावा भवन्ति ते ॥
यथा योगेन दीक्षायां शिवत्वमुपलभ्यते ।
तथा वै योगयोगेन शिवत्वमुपया * *? ॥
७५ब्)
अत्यन्तमलिनस्यास्य प्रागुक्तस्याधिकारिणः ।
मलप्रध्वस्तरूपस्य निर्मलत्व भजंतिताः ॥
मूलच्छेदेन हि पशोजिघांसति मलत्रयं ।
मलय * * * *? स्य शरीरं न प्ररोहति ॥
दीक्षैव योजने तस्य पशोर्नैव हि घातनं ।
व्यापकेन स्वरूपेण स्वशक्ति विभवेन च ॥
त्रोटयन्ति पाशोः पाशां शरी * * *? नष्ट्यति ।
शरीरेण प्रनष्टेन मोक्षणं न जिघांसनं ॥
दृढपाशप्ररूढस्य बद्धस्य पुरुषस्य वा ।
वियोगस्तु शरीरेण मारणन्तं बिदुर्बुधा ॥
*? परप्रकारस्तु सूक्ष्मं चैवाधुनोच्यते ।
सूक्ष्मशक्तिमयं ज्ञानं ज्ञानशक्त्या तु शस्यते ॥
अरावारावराविष्ट्याध्वनिभासावसानगं ।
सिद्धा * *? द्धिदं ज्ञानं खेचर्योपासयन्ति ताः ॥
अज्ञानेनावृतं ज्ञानं पशूनां समलस्थितं ।
निर्मलेन तु ता देव्यो ज्ञानेनाभि भवन्ति हि ॥
यथाप्रसुप्तं बुद्ध * *? डते तु यतस्ततः ।
७६अ)
मदिरासेवमानेन यथैवोन्मादितः क्वचित् ।
क्रीडते ह्यस्वतंत्रत्वाद्वालो वा भ्राम्यते क्वचित् ॥
उन्मत्तो वा प्रमत्तेन प्रेर्यते प * * *? था ।
मातृभिर्गुह्यकैः शक्त्या स्वेन योगबलेन तु ॥
जीवमाकृश्यते क्षिप्रं पशूनां योगवीर्यतः ।
यत्तत्परममव्यक्तं शाश्वतं ह्यचलं ध्रुवं ॥
तं * * * *? योगमार्गेण प्रविश्य परदेहतः ।
परोभूत्वा स्वशक्त्या तु जीवं जीवेन वेष्टयेत् ॥
आक्रम्य तं हृदिस्थानोदध्वोर्द्धेन प्रवेशतः ।
एक * * *? त्वमापाद्य समत्वं तत्र चाभ्यसेत् ॥
परं कारणमाशृत्य स्वतंत्रत्वं समभ्यसेत् ।
व्यापकेन स्वरूपेण शक्त्याशक्तिं तु आनयेत् ॥
तदा तत्संपुट * * *? शान्तिच्छेदं तु कारयेत् ।
शक्तिरूपं ततो देवि तत्वमास्थापयोगवित् ॥
स्वतत्वसत्तारूपेण चित्सूर्यत्वेन तापयेत् ।
द्रावयेत् तत्परस्थो * * *? रश्मिषु चार्कवत् ॥
७६ब्)
योजयेद्धृदये सर्वान् शब्दादीनांद्रियाणि च ।
भूतानि रसभूतानि गुणान्येव हि सर्वशः ॥
अतः करणसंघातं गृहीत्वा * *? चेतसा ।
प्रविशेत्त तदा योगी पुरमाक्रम्यसर्वशः ॥
द्रुतं गृहीत्वा तत्सर्वं क्षिप्रमात्मस्थमानयेत् ।
तत्क्षणादानये जीवं मुद्रामंत्रप्रयो * *? ॥
अनेन विधिना सूक्ष्मं योगं योगी समभ्यसेत् ।
तत्सर्वं प्राप्नुयात् क्षिप्रं सूक्ष्मं योगेन योगवित् ॥
सूक्ष्मयोगः समाख्यातः स्थूलश्चै * *? च्यते ।
पिंडस्थन्प्रयोगेन पिंडमाकर्षये ध्रुवं ॥
मंत्रमुद्राविधानेन विधिनापाशमेव च ।
ध्यानयोगबलेनैव च्छुम्मकाद्यंगलक्षणै? ॥
*? यंतितसंदेहः पशूनां पाशवं पुरं ।
त्रिविधेन तु योगेन योगिनो बलगर्विताः ॥
जिघासंति यदा देवि तदाश्रेयः समाचरेत् ।
मृत्यु * * *? मं देवमनृतं सर्वतोमुखं ॥
७७अ)
परेणैव स्वरूपेण व्यापकत्वेन मंत्रवित् ।
ज्ञात्वा तत्परमं योगं मंत्री व्याप्यपशोः पुरं ॥
इच्छाशक्त्यात्वधिष्ठा(?) * * * *? जीवितं शुभं ।
संरक्षोद्योगविन्मंत्री क्रमं ज्ञात्वा तु योगिनां ॥
पूर्वोक्तानां च सर्वेषां हिंसकानां यशस्विनि ।
सूक्ष्मं स्वशक्तिमार्गेण चक्र? * *? म योगतः ॥
पूर्वोक्तं ग्रंथिभेदेन सूक्ष्मध्यानेन मंत्रवित् ।
मोचयेत् सर्वदोषेभ्यो नान्यथा तु कदाचन ॥
ज्ञानयज्ञबलोपेतो मंत्रतंत्रविश * *? ।
मृत्युजित् सिद्धमंत्रश्च तपस्वी संयतेंद्रियः ॥
ध्यानमंत्रादि युक्तश्च सत्वस्था ज्ञानवान्बली ।
संतुष्टः परमो योगी अष्टमूर्तिविधौरतः ॥
रागद्वे * *? निर्मुक्तो लोभमोहविवर्जितः ।
निर्भयश्चैव निःशंको ह्यनुग्रहपरायणः ॥
पूर्वोक्तै दारुणैर्दोषै मोचकः सभव्त् प्रिये ।
अन्यथा व * * *(?) स्तु सत्तवेदात्मनाशकः ॥
७७ब्)
स्वकुलभ्रंशको दुष्टो नरके पच्यते ध्रुवं ।
भूताश्च विविधाकामा तरोदुष्ट हिंसकाः ॥
योगिन्यो गुह्यका यक्षाः पिशाचा दुरित क्र *? ।
*? लिकामाभोक्तुमाहं तुं कामास्तथा परे ॥
रति कामाश्च साध्याश्च स्कंदाद्या ब्रह्मराक्षसा ।
असंख्यातास्तु ये केचि रौरान तेषां सह कुत्रचित् ॥
विरो * * * *? कर्तव्यो आत्मज्ञैः स्वार्थ पंडितैः ।
धनार्थिभिवालुध्वै?श्च न कुर्याचि यशोर्थिभिः ॥
स्वकुद्रं चंद्रनादीनां कारुण्या चैव कारयेत् ।
नृपाणां तत्सुतानां * * * *? नां च सर्वथा ॥
यस्मिं देशेथराष्ट्रे वा निवसे योगमंत्रवित् ।
तत्र राजा प्रभुर्देव सा देवाश्रमेणां गुरुः ॥
सर्वेषां माश्रमाणा च राजासंपद्यते गुरु(?) ।
? कृते वर्तमानस्य सहते तास्तु मातरः ॥
पूर्वोक्ता दारुणा घोरा प्रशमं यान्ति सर्वथा ।
तेषां वल्युपहारेण भूरियागेन ते नृपा ॥
संतोषयन्ति(?) * *? द्वैत स्यात् सर्वं क्षमन्तिते ।
७८अ)
मंत्रवादं हि सर्वत्र न कार्यं शिवचिन्तकैः ॥
नानाविधैरुपायैश्च शरीरं पांचभौतिकं ।
विनाशयन्ति ये घोरा तेषां प्रश * * * *? णु ॥
स्थूलं स्थूलेन भावेन चूर्णधूपविलेपनैः ।
मंत्रौषध क्रिया योगैरावेशन पुरःसरैः ॥
यंत्रचक्रप्रयोगैश्च जीवरक्षादिभिस्तथा ।
* *? रणयोगैश्च सिद्धमंत्रैश्च धारणात् ॥
मुद्रामंत्रविधिज्ञैश्च गमागमविचिंतकैः ।
भूततंत्रविधौर्वीरैरौषधज्ञैः सुचिन्तकैः ॥
संयतैरप्रमत्तै श्च * *? संकरवर्जितैः ।
प्रातः स्नानैः कृता पूजैर्जपध्यानपरायणैः ॥
लक्षलक्षणवेदज्ञैनिर्यपेक्षैः सुपेशलैः ।
कर्तव्यो मंत्रवादश्च नान्यथ *? चिन्तकैः ॥
यदीच्छेदुत्तमां सिद्धिं मोक्षं वा शाश्वतं ध्रुवं ।
मंत्रवादं न कर्तव्यं इत्याज्ञा पारमेश्वरी ॥
अनुग्रहार्थं मर्त्यानां भूपतीनां कुदुंविनां ।
अ * *? ह पदस्थेन कर्तव्यो हितमिच्छता ॥
७८ब्)
कदाचिदप्रबंधेन यदि कुर्याद् विनश्यति ।
न क्षमंति बलोपेताः शिवयागेषु भाविताः ॥
नित्य * *? वीत भया भैरवाज्ञानुपालितः ।
आज्ञातास्ते प्रकुर्वन्ति मंत्रमुद्रा प्रयोगतः ॥
नात्मार्थं ते जिघां सन्ति तेन ते बलित स्मृताः ।
पुरा देव * *? वेन शिवेन परमात्मना ॥
सृष्टा ह्यनेन विधिना पिशाचानांतादिशोदश ।
तद्बलेन समाविष्टा जनिता बलवत्तराः ॥
प्रवृत्तास्ते महा * *? पूर्वं देवि जिघांसया ।
चतुर्दशविधं सर्गं भोक्तुं दृष्ट्वा स्वयंभुवा ॥
पूर्वं यतस्ततः सृष्टा मंत्राश्चामोघशक्तयः ।
सप्तकोट्यस्तु बलिनो ब * * *? ति पक्षतः ॥
ये दुष्टा जगतो घोरा जिघांसन्ति बलोत्कटा ।
तेषां हि शमनार्थाय जगतो रक्षणार्थाय च ॥
मंत्रौषधि क्रिया योगाच्छतषोथ * * * *? ।
७९अ)
आज्ञाताः परमेशेन तदर्थं वै प्रवर्तनं ।
मंत्रवादेषु सर्वेषु नाज्ञाभंगेषु नान्यथा ॥
तत्प्रभावाच्च बलिनो मंत्राश्चामोघशक्तयः ।
तद्वीर्या पूरि * * *? शेषा वर्णास्तु केवलाः ॥
मृत्युंजयं समाख्यातं सर्वमंत्रेश्वरः प्रभुः ।
न चास्य कश्चिन् मंत्रो वा विद्या चाज्ञानुलेपयेत् ॥
स्मरणाच्चपला * * * *? स्येव यथा मृगाः ॥
इति सर्वस्रोतसंग्रहसारे मृत्युदमृतीशविधाने जीवाकर्षयाद्यधिकार
द्वाविंशतिमः पटलः ॥
श्री * *? च ॥
मंत्राः किमात्मका देव किं स्वरूपास्तु कीदृशाः ।
किं प्रभावाः कथं शक्ताः केन वै संप्रयोजिताः ॥
शिवात्मकाश्च तदेव व्यापकाः शून्यरूपि *? ।
? या कारणहीनत्वात् कथं तेषां हि कर्तृता ॥
अमूर्तत्वा कथं तेषां कर्तृत्वं चोपपद्यते ।
विग्रहेण विना कार्यं कः करोति विभो वद ॥
न दृष्टो ह्यशरी * * *? पकः परमेश्वरः ।
७९ब्)
शरीरेण यतो बद्धः कथं बद्धस्य कर्तृता ।
मलिनत्वादस्वतंत्रो लुप्तशक्तिर्विभाव्यते ॥
शक्तिहीनस्य कर्तृत्वं विरुद्धं सर्व वस्तुषु ।
एवं शिवात्मका मंत्राः कथं सिद्ध्यन्ति वस्तुतः ॥
अस्ति चेच्छक्ति रूपस्तु कस्य शक्तिश्च कीदृशी ।
शक्तिः किं कारणं देव कार्यं वा कस्य कीदृशं ॥
* *? शक्तिमान् कश्चित् कस्य शक्तिर्विधीयते ।
स्वतंत्र्या न प्रसिद्ध्येत्तु विना सिद्धेन केनचित् ॥
असिद्धेन तु यत्सिद्धं तदसिद्धं प्रचक्षते ।
वस्तुशूते * *? चात्र शक्तिर्वै सिद्ध्यते क्वचित् ॥
शक्तिरूपास्तु ते मंत्राः केवलास्तु विपर्ययं ।
अथ वेदाणवामंत्रा विग्रहाकररूपिणः ॥
आत्म स्वरूपा व्या * *? बलिना बलिनो न हि ।
मलिनो मलिनस्यैव प्रक्षालयति कस्य कः ॥
न सिद्धाद्ध्याणवा मंत्रीः कैवलाः परमेश्वरः ।
तत्र तृयं विनासित्वं विरु * * *? संस्थितिः ॥
८०अ)
युक्तिरेवात्र कर्तव्या प्राणिनां हितकाम्यया ।
दृश्यंते बलिनो मंत्रा ह्यप्रधृष्याः सुरासुरैः ॥
सर्वानुग्रहकत्वेन सर्वदा सर्वगा हि *? ।
? क्षेपतो महेशान संशयं तु वदस्व मे ॥
त्वत्तः परतोनान्यदस्ति कश्चिज्जगत्पते * ।
ब्रूहि सर्वं सुरेशान यदि तुष्टोसि मे प्रभो ॥
भगवानुवाच ॥
*? थश्नो महागूढो न पृष्टोहं न केनचित् ।
चोदितास्तु मया सर्वे सर्वशास्त्रेषु सर्वदा ॥
न विंदन्ति विमूढात्मा मायदाच्छादितः सदा ।
तत्व त्रयं विना * * *? त्रे वक्तुं न युज्यते ॥
आस्तां ताव जगत्सर्वं तत्वं यावं न सिद्ध्यति ।
त्रितत्व निर्मितं सर्वं यत्किंचिदिह दृश्यते ॥
तत्व त्रयं विनादेवि न पदार्थो हि विद्य *? ।
स्मात्तत्त्व त्रयं सर्वं परं चापरमेव च ॥
शिवात्मकाः शक्तिरूपास्तथा मंत्राण चात्मकाः ।
तत्त्व त्रय विभागेन वर्तन्ते ह्यमितौजसाः ॥
परं सर्वात्मकं * * *? नाद्यं कारणं ध्रुवं ।
अप्रपंचमनिर्देश्य मनौपम्यमनामयं ॥
८०ब्)
निराभासं परं शान्तं सर्वामयविवर्जितं ।
व्यापकं सर्वतो भद्रं सर्वज्ञादि गुणै * *? ॥
ज्ञानघनसंपूर्ण स्वानंदानंदनंदितं ।
निरानंदं निर्विकल्पं निराचारं निरक्षरं ॥
अद्वैतं कल्पना हीनं चिद्व्यनं चिन्मलापहं ।
चिदचिद्व्यापकं * * *? त्योदितमनुत्तमं ॥
निर्विकारं परं नित्यं निर्मलं निरुपप्लवं ।
सर्वो *? मानरहितं सर्वभावविवर्जितं ॥
सर्वरूपं कलातीतं अचलशाश्वतं वि *? ।
* *? त्व कलामंत्र भुवनाक्षरवर्जितं ॥
सर्वभूतांतरस्थं तु सर्वभूतेषु संस्थितं ।
सर्वे मंत्रास्तु तत्रस्था सर्वत्रांतर्गतं विभुं ॥
सर्वदं सर्वभावस्थं सर्व * * * *? वनं ।
हृदिस्थं सर्वभूतानां प्रेरकं सर्वजंतुषु ॥
न तेन रहितं किंचि दृश्यते सुरवंदिते ।
तस्मात् सर्वगतं विश्वं स एकः परमेश्वरः ॥
सर्वज्ञो * * * * *? तस्य बोधो ह्यनादिमान् ।
८१अ)
स्वतंत्रो लुप्तशक्तिश्चानंतशक्तिर्महेश्वरः ।
तस्य चेच्छा महेशस्य निर्विकल्पः कथंचन ॥
अमेयत्वादनादि त्वात् कथं * * *? लभ्यते ।
कार्यतो ह्यनुमानेन वस्तुतः परिभाव्यते ॥
कार्य तस्य परा शक्ति यथा सूर्यस्य रश्मयः ।
वह्नि ऊष्मेव विज्ञेया ह्यविना भाव तस्थि *? ॥
* *? दकरी भद्रा शिवस्येच्छानुवर्तिनी ।
तद्धर्मधर्मिणी शान्ता नित्यानुग्रहशालिनी ॥
विवर्तमेतत्सर्वं हि तच्छक्तेनान्यतो भवेत् ।
सानंदा तु * * * *? निरानंदः परः शिवः ॥
सर्वज्ञादि गुणा ये च शिवस्य परमात्मनः ।
शाक्तास्तेनान्यतो दृष्टा ह्यन्यथानोपपत्तितः ॥
एकः शिवस्तथैका तु श * * * *? शाश्वती ।
अभिस्था द्वैतसंस्था च सैवैका सामुदायिनी ॥
इच्छारूपा शिवस्यैषा ह्यभिन्ना सर्वतोमुखी ।
किं चिदुच्छूनतापत्तिः सर्वज्ञादि गुणास्त *? ॥
८१ब्)
न रूपे तु सैवैका यदा बोधयतेखिलं ।
बोधो ह्यनादिमान्यत्तत्परं ज्ञानं तु सा स्मृता ॥
ज्ञानशक्तिरिति ख्याता सर्वज्ञादि गुणास्पदा ।
अस्वतंत्र * * *? सा क्रिया कारणरूपिणी ॥
वष्टरूपाष्ट भेदेन स्योटादि(?) ध्वनिरूपिणी ।
मातृका सा विनिर्दिष्टा कृपाशक्तिर्महेश्वरं ॥
क्रियाख्या परमा सा तु * * * *? य रूपिणी ।
एवं क्वतेति सा प्रोक्ता एकानान्य स्वभावजा ॥
स्वभावोत्था स्वभावा तु स्वास्वतः स्वोदिता शिवा ।
व्यतिरिक्ता न चैवैषा कर्तृ * * * * च्यते ॥
शिवस्य परिपूर्णस्य स्वतंत्रस्य विभोर्यतः ।
कः कर्ता क्षोभकः कोवा तस्या तद्वैतता शिवे ॥
यत्तस्य सर्वकर्तृत्वं सा शक्ति तुपचर्यते ।
* * *? रुते सृष्टिं स्थितिं विलयसंहृती ॥
करोति भगवान् सर्वस्तिरोभावमनुग्रहं ।
क्रियाशक्त्या तु सृजते ज्ञानशक्त्या जगत्स्थितिं ॥
संहारं रुद्र * * * *? रो भावं तु मायया ।
८२अ)
अनुग्रहं तु ज्येष्ठाया कार्यते नामसंचयः ।
कृत्यं पंचविधं शंभो जगतो विद्यतेर्यतः ॥
क्रियया न विकल्प्यं तु सर्वं ज्ञास * * *? तं ।
यतस्ततः शक्तिरेषा शिवस्यैवानुमीयते ॥
आत्मा देवो ह्यनन्तश्च मलेनैव निरोधिताः ।
ते तु गृहीताः परया परमेशस्य चेच्छया ॥
* * *? स्तथात्मा च त्रितत्वं वेद्यमुत्तमं ।
त्रिस्वरूपस्तथा देवो रुद्रोविष्णुपितामहः ॥
करोति षट्विधां सृष्टिं चतुर्भेदविभेदितां ।
थतनारकिति * * * * *? सुरमानुषात् ॥
जरायुजांडजा देवि तथा च स्वेदजोद्भिजात् ।
शक्त्या तु भगवान् सर्वं करोति विभु शक्तितः ॥
निमित्तकारणं देवो यथासु य * * *? या ।
उपादानं तु सा शक्ति चक्षुध्वा समवायतः ॥
यथार्क रश्मि संस्पर्शात् सूर्यकान्तो मणिर्महान् ।
तेजः प्रकुरुतेप्यर्थं उभाभ्यां नैव का * *? ॥
८२ब्)
यस्कान्तमणिर्दृष्ट्वा लोहः प्रकुरुते प्रिया ।
उभयोर्नैव कामोस्ति निमित्तं तु तथा पुनः ॥
सूक्ष्मत्वानोपलभ्येत यस्ताभ्यां प्रचोदकः ।
तादृक्स्व * * * *? तो नान्त भूतोन्तकारणं ॥
उपादानं तु सा शक्ति सर्वत्रैव विभाव्यते ।
यथा सर्वं सुनिष्पन्नं कृयाशक्त्या प्रदृश्यते ॥
क्षोभ्यक्षोभकभावं तु प्रत्य * * * *? र्हरिन् ।
पार्श्वांतं समवायं तु कारणं तु विदुर्बुधाः ॥
अकामतः सृजेत्सर्वं शक्त्यासर्वं चराचरं ।
एवमुक्तेन विधिना मंत्राः सर्वेन्त्रितत्त्वजाः ॥
* *? शक्तिरूपाश्च तथैवात्म स्वरूपकाः ।
त्रिस्वभावाः समुद्दिष्टा सर्वत्र बलशालिनः ॥
भवन्ति सर्वदाः सर्वे सर्वगासर्वरूपिणः ।
शिवो ह्यनादि * * * * *? तः प्रथमो बलः ॥
इच्छया तु यदा देव प्रसरंत्यविलंबितः ।
सा शक्तिः परमासूक्ष्मा उन्मना शिवधर्मिणी ॥
अस्तित्वमात्रमात्मानं क्षो * * * * *? यदा ।
८३अ)
समना सा विनिर्दिष्टा शक्तिः सर्वाध्ववर्तिनी ॥
क्रोडी करोति या विश्वं संहृत्य सृजते पुनः ।
कौंडिल्याख्या महाशक्तिस्तृतीया ह्यु * * * *? ॥
रूपं द्यदास्फोटं अदृष्टं शिवविग्रहं ।
प्रसरत्यति वेगेन ध्वनिना पूरयेज्जगत् ॥
सनादो देवदेवेशः प्रोक्तश्चैव सदाशिवः ।
ध्वनि र * * * * *? विश्रमत्यनुरोधतः ॥
निरोधीनामविख्यात सर्वे देव निरोधकः ।
निरुद्धस्य महेशत्वं अभिमानं प्रवर्तते ॥
असंख्यातास्तु कोट्यो वै * * * * * *? स्थिताः ।
लभंतेत्र प्रविष्टा ये तद्विंदुं चेश्वरं स्मृतं ॥
यदाशिवामृतं मूर्द्ध्नि पतते सृष्टिकारणं ।
आप्यायं भवते तेन सोर्द्धचंद्र इति स्मृतः ॥
* * *? र्व वर्णानां सृष्टिकारण एव च ।
मकारो ह्यत्र वै रुद्रो वर्णसंघट्ट उत्तमः ॥
यदा स्थितं तु लभते सोन्मुखं सृष्टिकारणं ।
प्रतिष्ठाख्यो ह्यका * * * *? साक्षाद्भवत्यसौ ॥
८३ब्)
निवृत्तिस्तु यदा सर्वं निष्पन्नं प्रणवं विदुः ।
उंकाराख्यं परं वाम ब्रह्मासौ कमलासनं ॥
मंत्रसृष्टिर्भवेदेषा शिवस्य परमा * *? ।
*? ष्टविधभेदेन वर्णपंचाशरूपिणी ॥
ज्ञानशक्तिः परासूक्ष्मा मातृकांतं विदुर्बुधाः ।
सायोनिः सर्वमंत्राणां सर्वमात्रारणि स्थिता ॥
जुहो * * * * *? लं सामृतं सृष्टि संयुतं ।
तेनासौ देवदेवेशो ह्यमृतेशः परापरः ॥
मृत्युरुत्तारयेद् यस्मात् मृत्युजित् तेन कथ्यते ।
भरणात् प्रकृ * * * *? भैरव इति स्मृतः ॥
एवमाद्या स्मृता मंत्राः सर्वेहामृत तेजसः ।
अधिकारं प्रकुर्वन्ति सर्वस्य जगतो प्रिये ॥
मोचयन्ति हि संसाद्यो ज * * * * * *? वे ।
मननत्राणधर्मित्वा तेन मंत्रा इति स्मृताः ॥
तस्मात् सर्वगता मंत्राः सर्वदास्तित्रितत्वजाः ।
शिवशक्त्यात्मरूपास्तु नित्यानुग्रह श * *? ॥
* *? क्ति प्रभावाश्च शिवदा शिवहारिकाः ।
८४अ)
ज्ञातमात्रा हि फलदा भोगमोक्षप्रदायकाः ।
यत्तेषां सर्वदेवित्वं सर्वशक्तित्वमेव च ॥
तच्छिव * * * * *? शक्तित्वं सर्वकर्तृता ।
सर्वानुग्रहकर्तृत्वं सर्वत्र फलदायकं ॥
आत्मत्वे यत्स्वरूपं तु त्रिविधं साधनं स्मृतं ।
मंत्रध्यानं तथा मुद्रा सा * * * * * *? तं ॥
दीक्षामंडलसंस्कारं यजनं तपनं तथा ।
होमक्रिया तथा लेख्यं ध्यानं धारणयोः क्रिया ॥
मुद्राबंधस्तथा योगो यजनं तु कृ * * *? ।
*? मंत्राः समाख्याताः सर्वत्रैवाधिकारिणः ॥
इति सर्वत्रस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने मंत्रविचारवर्णनो
नाम त्रयोविंशतिमः पटः ॥
श्रीदेव्युवाच ॥
असंख्यातास्तु कोट्यावै मंत्राणाममितौजसां ।
उक्ता देवेन सर्वज्ञाः सर्वदाः सर्वगाः शुभं ॥
८४ब्)
* *? र्वेश्वराः शक्ताः सर्वत्रैवाधिकारिणः ।
तेषामेवेति सर्वेषां कथमप्यधिको बली ॥
मंत्रराद्यरमेशानः कथं मृत्युंजयः परः ।
स * * * *? मुत्पन्नं हृदि देव वदस्व मे ॥
पूर्वोक्तं मंत्रसद्भावं हृदं देवे नामकं ।
तदश्रोतुमिच्छामि परां कोतूहलं हिमे ॥
भगवानुवाच ॥
श्रूयतां * * * *? मि संशयं मे हृदि स्थितं ।
मंत्रकोट्या ह्यसंख्याताः सर्वे सर्वाधिकारिणः ॥
शिवशक्तिप्रभावाच्च सर्वशक्तिसमन्विताः ।
भोगमोक्ष * * * * *? शक्तिबलबृंहिताः ॥
किंतु देवि परः शान्तो ह्यप्रमेयो गुणान्वितः ।
शिवः सर्वात्मकः शुभ्रो भावग्राह्यो ह्यनुत्तमः ॥
आश्रयः परमस्तेषां * * * * *? मेश्वरः ।
तदिच्छया समुत्पन्ना तं च्छक्त्यासंप्रचोदिताः ॥
भवन्ति फलदाः सर्वे सर्वेत्रैवाधिकारिणः ।
यदे तत्परमं धाम सर्वेषामालय * *? ॥
८५अ)
* *? वसमुत्पन्ना मंत्राश्वामोघशक्तयः ।
नित्यो नियामको ह्येषां नेता च निरनुप्लवः ॥
निष्प्रपंचो निराभासोस्त्रायकः कारणः शिवः ।
त्र * * * * * * *? तारणं तु स्वचेतसा ॥
नयते मोक्ष भावं तु तारयेन् महतो भयान् ।
नयनाश्च तथा भ्राणा नेत्रमित्यभिधीयते ॥
जीवनं सर्वभूतेषु नेत्रभूतं * * * *? ।
*? स्त मंत्रजातस्य स्वामिवत्परमेश्वरः ॥
प्रणवं प्राणिनां प्राणं जीवनं संप्रतिष्ठितं ।
गृह्नाति प्रणवं सर्वं कलाभिः कलयेच्छिवं ॥
षट्प्रकारं म * * * * * *? र पदे स्थितं ।
जुहोति विद्यया सर्वं जुंकारेण प्रबोधितं ॥
स्वरूपं यत्स्वसंवेद्यं सम्यक्संतृप्तिलक्षणं ।
सर्वामृत पदाधारं सविसर्गं परं शिवं ॥
* * * * *? तेन पूर्णाहुत्या तु मूलया ।
स्वाचारया स्वभावस्था स्वस्वरूपा सदोदिता ॥
इच्छाज्ञानक्रियारूपा या चैका शक्तिरुत्तमा ।
तया प्रकुरुते * * * * *? त्स शिव स्मृतः ॥
८५ब्)
उद्गीथाक्षरसंयुक्ता तत्त्ववर्णपदात्मकं ।
भुवनानि कलामंत्राः कारणानि षडेव तु ॥
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः(?) ।
*? श्चेति स्वशक्त्या तु षट्त्यागात् सप्तमे लयः ॥
अकारश्च उकारश्च मकारो बिंदुरेव च ।
अर्द्धचंद्रनिरोधी च नादोनादान्त एव च ॥
कुंडली व्यापि * * * * * *? तस्तु सा मया ।
निष्कलं चात्म तत्वं तु शक्तिश्चैव तथोन्मना ॥
सा भासंतं निराभासं परतत्वमनुत्तमं ।
षट्त्यागात् सप्तमं प्रोक्तं लयमाल * * * *? ॥
* *? र्वे प्रलीनास्तु तत्समास्तत्प्रसादतः ।
यच्छक्ति बृंहिताः शक्ताः परिपूर्णा भवन्ति हि ॥
क्रमस्तेषां प्रवक्ष्यामि यथा लीयन्ति सुंदरि ।
अकारं * * * * * * *? तं यावदध्वनः ॥
कलाष्टकेन संयुक्तं कलयेत् सर्वं जंतुषु ।
सिद्धिरिद्धि द्युतिर्लक्ष्मी मेधाकान्तिर्धृतिः सुखं ॥
सद्या ब्रह्म कला जाते * * * * *? संस्थितं ।
८६अ)
रजोरक्षारतिः पाल्याङ्कम्पातृष्णामतिः क्रिया ।
वृद्धि माया च रात्री च भ्रामणी मोहनी तथा ॥
मनोन्मनीति विख्याता वाम दे * * * * *? ।
कंठान्तं यावत् स्वप्नस्था विष्ण्वंशे तु स्थिता इमाः ॥
तमो मोहा क्षुधा निद्रा व्याधिमृत्युभयाजरा ।
अघोरस्य कला ह्येता रौद्रांशे तु व्य * * *? ॥
* *? यावत्सौषुप्तं तैजसी व्याप्तिरुत्तमा ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥
पुरुषस्य कला ह्येता ईश्वरे तु व्यवस्थिताः ।
वाद्याव(?) * * * * * * *? तं यावद्रज्वलाः ॥
शान्तावस्था तु तुर्याख्या नादाख्या संप्रचक्ष्यते ।
व्याप्तिः सदाशिवे सान्त व्योमाख्या शून्यरूपिणी ॥
वारासुतारातर * * * * * *? तारणी ।
द्वादशान्त पदारूढा तुर्यात्तान् रश्मिवस्मृता ॥
ईषानस्य कलाह्येता पंचैवं कारणात्मिका ।
स्थूलमेतत्समाख्यातं ब्रह्माणं * * * * *? ॥
८६ब्)
? क्ष्ममेव मनोवक्ष्ये ह्यध्वानै तु यथा स्थितं ।
यदर्द्धचंद्र कथितं प्लावितं बिंदुमूर्द्धनि ॥
शक्त्यामृतं तदुदिष्टं कलायुक्तं महेश्वरि ।
ज्योत्स्ना * * * * * *? सुप्रभाविमलाशिवा ॥
अर्द्धचंद्रकला ह्येताः सर्वज्ञः परसंस्थिताः ।
विद्यावरणसंवद्धा मंत्रकोटिविभूषिताः ॥
क्रियाशक्ति स्व * * * * * *? विमलाः शुभाः ।
बंधुनी रोधनी रौद्री ज्ञानबोधा तमोपहा ॥
निरोधिका कला ह्येताः सर्वदेव निरोधिकाः ।
नित्य तृप्ता महाभागा व * * * * * *? काः ॥
इंधिका दीपिका चैव रोचिका मोचिका तथा ।
ऊर्ध्वगामिन्य इत्येताः कलानादसमुद्भवाः ॥
एता स्वतंत्रता युक्ताः सकले नि * * * *? ।
? न शक्ति स्वरूपास्तु ज्ञाताः सर्वज्ञदायिकाः ॥
सूक्ष्मा चैव सुसूक्ष्मा च अमृतामृतसंभवा ।
व्यापिनी चैव विख्याता शक्तितत्वं समा * * *? ॥
८७अ)
* * *? क्ति संबद्धाश्चिच्छक्त्यासनवेष्टिता ।
शक्ति तत्वे स्थिता ह्येताश्चिन्मात्रावधिलक्षिताः ॥
व्योपिनीव्योमरूपा च अनन्तानाथसंज्ञि *? ।
* * * *? हेशानि व्यापिन्यस्तु कला स्मृता ॥
सर्वज्ञा सर्वदा भद्रा सादनास्पृहणा धृतिः ।
समना चेति विख्याता एताः शिव कला स्मृताः ॥
इच्छा * * * * * *? इच्छाशक्तिप्रदायिकाः ।
शिवतत्वं समाश्रित्य सुसंपूर्णार्णव प्रभा ॥
अनन्तशक्ति सस्थाना सूक्ष्मश्चात्यन्तनिर्मलाः ।
समनान्तं वरा * * * * * *? मनन्तकं ॥
षट्कारण पदाक्रान्तं स्थूलं सूक्ष्मं प्रभेदतः ।
शक्त्यादि समनान्तं हि सूक्ष्मविज्ञान गोचरं ॥
तदूर्ध्वे तु पराशान्तं अप्रमेय मनामयं(?) ।
* * * * * *? विज्ञात्वा मोचयते गुरुः ॥
तत्रासौ निर्मलो ह्यात्मा स्वशक्त्याधारसंस्थितः ।
ज्ञानक्रियासमाविष्ट चिन्मात्रो निरनुप्लवः ॥
सर्वभाव पदां * * * * * *? विवर्जिताः ।
८७ब्)
निर्मलस्फटिकाकार स्वात्म आत्म व्यवस्थितः ।
तत्रस्थस्य च या शक्ति तस्यानुग्रहकारिणी ॥
यावन्न भवते देवि तावदात्मा शिवाना(?) *? ।
* * * *? ना शुद्धकमलं नार्करश्मिभिः ॥
यावन्नाद्भासितं सर्वं तावदीशन् प्रविस्तरं ।
यथार्क रश्मि संयोगात् कमलं प्रसरे क्षणात् ॥
शिवशक्त्या तथा * * * * * * * *? शिवः ।
सर्वज्ञादि गुणैर्युक्तो भवते च शिवो यथा ॥
निराभासः परः शान्तः अप्रत *? मनुत्तमं ।
यावन्न पूर्णतां प्राप्लस्तावत्साभास(?) उच्यते ॥
य * * * * * * * *? क्त्यात्मा वै प्रसारितः ।
ततः प्रसर रश्मि(?) वा? गृहीतस्तु परस्सदा(?) ॥
शि * * * *? देवेशि *? विभागेन? सर्वशः ।
एवं ज्ञातु मंत्राणां मंत्रत्वं कुरुते सदा ॥
* * * *? स्तः सर्वे भागमोक्षफलप्रदा ।
न विंदेत यदा मंत्री सृष्टिसंहारकारिणी ॥
उदयास्त स्वरूपेण मंत्रा ह्यल्प फलप्रदाः ।
भोगमोक्षं नवच्छन्ति(?) जप्ता(?) ध्या? * * * * *? ॥
*? त्फलं प्रयच्छति शिवाज्ञासंप्रचोदिताः ।
यदा तु विंदते मंत्री उत्पत्ति स्थिति संहृतीः ॥
उदयास्त *? रूपेण मंत्राणां ममितौजसां ।
ईषत्फलं * * * * * * * *? विदायिनः ॥
८८)
सन्मुखाश्च भवंत्येते साधकस्य भवंति हि ।
एवं शिवाज्ञया विष्टाः शिवीभूताः शिवप्रदा ॥
भवन्ति विगता यासा निर्दोषा * * * * *? ।
*? स्यास्य प्रभावेन शिवस्य परमात्मनः ॥
अमृतेशस्य देवस्य मृत्युजिद्भिरवस्य तु ।
परापरविभेदं च यो विंदत्यस्य सर्वशः ॥
सोचिरादमृ * * * * * *? न्नात्रसंशयः ।
ये प्रपन्नास्य मंत्रस्य कृतकृत्या भवन्ति ते ॥
येन येन हि भावेन यद्यत्फलजिगीषया ।
यद्यदा श्रयते भक्त्या तत्तत्फलमवाप्नुयात् ॥
* * * *? माख्यातं मया तुभ्यं न चान्यथा ।
यदाहं चोदितो देवि सर्वानुग्रहकारकः ॥
गूहप्रश्नेन तत्सर्वं मया ते प्रकटीकृतं ।
इति संक्षेपतः प्रोक्तं * * * * * * * *? ॥
न देयं पापशीलानां क्रोधिनां कामिनां तथा ।
गुरु निंदा परानां च देवमंत्रविदूषिणां ॥
नास्तिकानां शठानां च कृयाधर्म बहिष्कृतं ।
देयते * * * * * * *? पुत्राभ्यां च नान्यथा ॥
८९)
स्वदीक्षितानां भक्तानां गुरुदेवाग्नि पूजनं ।
विना समय दीक्षां वै न दद्यात् सु पृयस्य च ॥
सर्वथा नैव दात्तव्यं * * * * * * * *? ।
आज्ञाभंगेन देवेशि देहपातो भविष्यति ॥
ददाति यदि मोहेन स्नेहेन धनलिप्सया ।
गच्छते नरकं घोरमित्याज्ञापारमेश्वर ॥
* * * * *? शस्य पालनात् सिद्धिमाप्नुयात् ।
पलनाच्च भवे देवि मृत्युजित् परमेश्वरः ॥
इति मृत्युजिदमृतीशविधाने मंत्रमहात्म्य * * * *? चतुर्विंशतिमः पटलः ॥
समाप्तमिदं मृत्युजिदमृतीशविधानं संपूर्णमिति शुभम् ॥
संवत् ३२० चैत्रशुदि शनि दिवे * * * * * * *? विश्वेश्वर लिखापितमिदं
पुस्तकं ॥ पंडितकीर्तिधर लिखितं मया ॥ ओं नमः शिवाय ॥ ओं नमो
भगवते वासुदेवाय ॥
मूल पाठ: amṛteśatantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0