भाषा

ENहिગુ
ग्रंथ पाठ

अहिर्बुध्नसंहिता · अध्याय 59

59.1

पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणम् नाम
एकोनषष्टितमोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
ब्रह्मचक्रान्तर्गतसंभारादिमन्त्रार्थानिरूपणे कारणनिरूपणम्
अहिर्बुध्न्यः -
संभारा देवपत्न्यश्च दक्षिणा हृदयानि च ।
रुद्रा ब्रह्माणि चेत्येतन्निगदेन निरूप्यते (१) ॥ ५९-

59.2

१ अतीतेनाध्यायेन होतृवर्गः सग्रहो व्याख्यातः । अथ
संभारादीनां व्याख्यानमवसरप्राप्तम् । तथापि निपुणधियां
निगदेनैव तदर्थबोधसंभवाद् ग्रन्थविस्तरभयाच्च तेषां नेह
व्याख्यानं प्रस्तूयत इति प्रथमश्लोकाभिप्रायः ।
संभारादिपदार्थस्वरूपमात्रमिहास्माभिः बुभुत्सुजनसौकर्याय
प्रदर्श्यते । तथा हि- संभारादीनि षट् पदानि मन्त्रविशेषवाचकानि ।
तत्रैकविंशतिवाक्यात्मकः अग्निर्यजुर्भिः इत्ययं
तैत्तिरीयारण्यकतृतीयप्रपाठकस्याष्टमोऽनुवाकः
संभारयजुरित्युच्यते; यज्ञाङ्गत्वेन संभरणीयानां
यजुःस्तोमदीनां तस्मिन्ननुवाके समाम्नानात् ।
षड्विंशतिवाक्यात्मकः सेनेन्द्रस्य इत्ययं नवमोऽनुवाको
देवपत्न्याख्यः; ऊक् च सूनृता च देवानां पत्नयः इति
मन्त्रलिङ्गोपसंहारदर्शनात् । एकोनपञ्चाशद्वाक्यात्मकः देवस्य
त्वा सवितुः प्रसवे इत्ययं दशमोऽनुवाको दक्षिणाप्रतिग्रहमन्त्रः
राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् इत्यादिमन्त्रलिङ्गात् ।
हृदयशब्देन पञ्चहोतृहृदयाख्यो मन्त्रगणो विवक्षितः । स
चाष्टाविंशत्युत्तरशतवाक्यात्मकः सुवर्णं धर्मं परिवेद
वेनम् इत्ययमेकादशोऽनुवाकः । हृदयशब्दविवक्षितरहस्यार्थप्रति-
पादकत्वादस्यानुवाकस्य हृदयशब्दबोध्यत्वम् । चित्तिः स्रुक्
इत्यादीनां हि होतृमन्त्राणां पञ्चानां हृदयं रहस्यं तत्त्वं
परमात्मस्वरूपमनेनानुवाकेन विस्पष्टं विस्पष्टं प्रतिपाद्यते ।
अत एवायमनुवाको भागपञ्चकात्मकः । तत्र सुवर्णं धर्मं
इत्यादिः स मानसीन आत्मा जनानाम् इत्यन्तश्चतुर्दशवाक्यात्मकः
प्रथमोभागः चित्तिः स्रुक् इत्यादिदशहोतृहृदयभूतपरमात्म-
तत्त्वप्रकाशकः । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् इत्यादिः कवयो
निचिक्युः इत्यन्तो द्वादशवाक्यात्मको द्वितीयो भागः पृथिवी होता
इत्यादिचतुर्होतृमन्त्रहृदयभूतपरमपुरुषप्रतिपादकः । शतं
नियुतः इत्यादिः तेन कॢप्तोऽमृतेनाहमस्मि इत्यन्तो द्वादशवाक्यात्मक-
स्तृतीयो भागः अग्निर्होता इत्यादिपञ्चहोतृमन्त्रहृदयभूतभग-
वत्स्वरूपप्रतिपादकः । सुवर्णं कोशं इत्यादिः शतधा चरन्तम्
इत्यन्तो द्वादशवाक्यात्मकश्चतुर्थो भागः वाग्घोता इत्यादि-
षड्ढोतृमन्त्रहृदयभूतपरमपुरुषस्वरूपविशेषप्रतिपादकः ।
इन्द्रो राजा जगतो य ईशे इत्यादिरनुवाकसमाप्त्यन्तोऽष्टसप्ततिवाक्यात्-
मकः पञ्चमो भागः महाहविर्होता इत्यादिसप्तहोतृमन्त्रहृदय-
भूतस्य श्रियः पत्युर्भगवतः स्वरूपविशेषप्रतिपादकः । एकेनैव
भागेन भगवत्स्वरूपप्रतिपादने भगान्तरेण पुनस्तत्प्रतिपादनवै-
यर्थ्याशङ्का तूत्तरोत्तरभागस्य पूर्वपूर्वभागाप्रतिपन्नगुण-
विशेषविशिष्टभगवत्स्वरूपप्रतिपादनपरत्वान्निराकर्तव्या । तदेवं
समस्तोऽयमनुवाको हृदयशब्देन विवक्षितः । रुद्राः शतरुद्रीय-
संज्ञका मन्त्राः । ते च तैत्तिरीयसंहितायाश्चतुर्थकाण्डस्य
पञ्चमप्रपाठके नमस्ते रुद्र इत्यादिषु तं वो जम्भे दधामि
इत्यन्तेष्वेकादशस्वनुवाकेषु समाम्नाताः । ब्रह्माणि- ब्रह्मलिङ्ग-
कानि सूक्तानि ब्रह्म जज्ञानं इत्यादीनि तैत्तिरीयब्राह्मणद्वितीयाष्ट-
कस्याष्टमप्रपाठकेऽष्टमानुवाके प्रसिद्धानि ।
प्. ५९६) पुरुषसूक्तश्रीसूक्तयोरर्थं निरूपयितुं जगद्धिताय
परमपुरुषाल्लक्ष्म्याश्च तयोराविर्भावकथनम्
सूक्तं तु पौरुषं पुंसः परस्मादुत्थितं पुरा ।
जगद्धिताय लक्ष्म्याश्च श्रीसूक्तं तत् समुद्गतम् ॥ ५९-

59.3

पुरुषसूक्तस्य ऋक्संख्यायां मतभेदप्रदर्शनम्
नानाभेदप्रपाठं तत् पौरुषं सूक्तमुच्यते ।
ऋचश्चतस्रः केचित्तु पञ्च षट् सप्त चापरे ॥ ५९-

59.4

प्. ५९७) ऋचः षोडश चाप्यन्ये तथाष्टादश चापरे ।
अधीयते तु पुंसूक्तं प्रतिशाखं तु भेदतः ॥ ५९-

59.5

पुरुषसूक्तप्रतिपाद्यप्रमेयप्रदर्शनम्
समस्तजगदुत्पत्तिहेतुः स्वर्गापवर्गदः ।
पौरुषो मानुषो यज्ञः सूक्तेऽस्मिन् प्रतिपाद्यते ॥ ५९-

59.6

आद्यानां चतसृणामृचां
वासुदेवादिचातुरात्म्यस्वरूपविवेचकत्वम्
तत्राद्याभिश्चतसृभिश्चातुरात्म्यं विविच्यते ।
तत्राद्यमन्त्रस्य
लक्ष्मीपतित्वपरिष्कृतवासुदेवाख्यप्रथमव्यूहप्रतिपादकत्वम्
यः परः पुण्डरीकाक्षः परमात्मा सनातनः ॥ ५९-

59.7

या च सा जगतां योनिर्लक्ष्मीस्तद्धर्मधर्मिणी ।
भगवान् वासुदेवोऽसावाद्यया प्रतिपाद्यते ॥ ५९-

59.8

मन्त्रस्य प्रतिपदमर्थं वर्णयितुं सहस्रशीर्षशब्दस्य श्रियः
पतित्वपरत्वप्रदर्शनम्
सहस्रा सहगा यस्य सहभावमुपेयुषी ।
श्रीर्नाम परमा शक्तिः पूर्णषाड्गुण्यविग्रहा ॥ ५९-

59.9

निःसक्तासक्तको यश्च नित्यं सन् सकलाश्रयः ।
सहस्रशीऋस इत्येवं भगवान् परिगीयते ॥ ५९-

59.10

पुरुषशब्दस्यावाप्तसमस्तकामत्वपरत्वम्
पूर्णत्वात् पुरुषो नित्यं पृणातेः पूरणार्थकात् ।
प्. ५९८) सहस्राक्षशब्दस्य
सहस्रत्वगुणविशिष्टबद्धात्मवैशिष्ट्यपरत्वम्
अश्नोतेरथवाश्नातेरक्षोऽजेरञ्चतेरुत ॥ ५९-

59.11

अक्षः पुरुष उद्दिष्टो यः प्रकृत्याश्रितो विभुः ।
सहस्रपाच्छब्दस्य सहस्रत्वगुणविशिष्टप्रकृतिवैशिष्ट्यपरत्वम्
पद्यतेः परिणामार्थात् पादित्येष निरुच्यते ॥ ५९-

59.12

पादिति प्रकृतिः प्रोक्ता सा नित्यपरिणामिनी ।
प्रकृतिपुरुषयोः सहस्रशब्दप्रवृत्तिनिमित्तप्रदर्शनम्
षण्णां गुणानां मध्ये या शक्तिः सा हस्र उच्यते ॥ ५९-

59.13

प्रधानपुरुषौ तस्याः सृतौ सर्गे सनातनौ ।
तामेवापि श्रितावन्ते तौ सहस्रावतः स्मृतौ ॥ ५९-

59.14

वासुदेवस्य प्रकृतिपुरुषवैशिष्ट्यनिगमनम्
सहस्रपुरुषाव्यक्तः सहस्राक्षः सहस्रपात् ।
उत्तरार्धस्य तात्पर्यार्थनिरूपणमुखेन
कारणगतापरिच्छिन्नत्वगुणपरत्वप्रदर्शनम्
स भूमिं विश्वतो वृत्वेत्येतेनैव निरूप्यते ॥ ५९-

59.15

यदतीत्य सृतं विश्वं नानासत्तात्मनः स्थितिः ।
कार्ये हि कारणेयत्ता पयसो दधिसंभवे ॥ ५९-

59.16

कार्यं सत्संततौ क्वापि कार्येयत्तैव कारणे ।
मधूच्छिष्टमये पिण्डे यथाकारवियोगिनी ॥ ५९-

59.17

नैवं भगवतः सर्गे प्रतिसर्गेऽपि वा सति ।
प्. ५९९) कार्येयत्तात्वमस्तीति स भूमिमिति वर्ण्यते ॥ ५९-

59.18

भगवत्यार्जितानीति शुद्धाशुद्धमयानि च ।
भूमिं जगदुपादानं भूमिशक्तिरिहोच्यते ॥ ५९-

59.19

शुद्धाशुद्धविभागो यः कालपुंप्रकृतिस्थितिः ।
स भूमिं विश्वतो वृत्वा विष्टभ्य स्वेन तेजसा ॥ ५९-

59.20

स्वसंकल्पस्वरूपेण प्रभवाप्ययवेलयोः ।
अत्यतिष्टिअदतीत्यैव स्थितो भूयो दशाङ्गुलम् ॥ ५९-

59.21

दशाङ्गुलिभिरानन्त्यं कारणस्योपदिश्यते ।
द्वितीयमन्त्रस्य संकर्षणाख्यद्वितीयव्यूहपरत्वप्रतिपादनम्
अथ संकर्षणावस्था जगद्धेतुर्निरूप्यते ॥ ५९-

59.22

यदिदं दृश्यते विश्वं भूतभव्यात्मरूपकम् ।
इदं पुरुष एवादौ सिसृक्षायामभूत् किल ॥ ५९-

59.23

मन्त्रगतस्य पुरुषशब्दस्य संकर्षणपरत्वोपपादनम्
पुरुषः स्यन्दति व्यक्तं सम्यग्विज्ञानयोजनात् ।
अतः पुरुष इत्येवं संकर्षण उदीर्यते ॥ ५९-

59.24

उत्तरार्धेन संकर्षणस्य
ज्ञानोपदेष्ट्टत्वनिबन्धनमोक्षप्रदत्वप्रतिपादनम्
तिलकालकवद् विश्वं बिभ्रच्चिदचिदात्मकम् ।
संकर्षण उदेति स्म स एवं पुनरुच्यते ॥ ५९-

59.25

उतामृतत्वस्येशान इति तस्यार्थ उच्यते ।
अन्नेन भोग्यभूतेन प्रकृतिप्राकृतात्मना ॥ ५९-

59.26

प्. ६००) कालसंकलितेनैव नानाकारविधाजुषा ।
अचिदंशेन जीवात्मा यश्चिदंशोऽधिरोहति ॥ ५९-

59.27

स्वस्यासंबन्धपूर्वं यः पूर्वसङ्गवशादिह ।
तस्य सद्गुणसंसर्गान्नानाबन्धक्षये सति ॥ ५९-

59.28

अमृतत्वं स्वरूपाविर्भावमोक्षापराह्वयम् ।
तस्य संकर्षणो देव ईशानो ज्ञानदेशनात् ॥ ५९-

59.29

तृतीयमन्त्रस्य प्रद्युम्नाख्यतृतीयव्यूहपरत्वप्रतिपादनम्
संसारानलसंतप्तचेतनानुजिघृक्षया ।
संकर्षणोदयो विष्णुरुच्यतेऽथ तृतीयया ॥ ५९-

59.30

एतावानस्य महिमा विष्णोः संकर्षणात्मनः ।
यदयं धृतवान् विश्वं समुन्मीलनमादिमम् ॥ ५९-

59.31

ज्यायानतोऽपि पुरुषः प्रद्युम्न उपकारतः ।
मन्त्रगतेन पुरुषशब्देन प्रद्युम्नस्य ज्यायस्त्वोपपादनम्
पुरू प्रकृतिपुंरूपौ पुरुषः सृजतीति यत् ॥ ५९-

59.32

विश्वोपकारचेष्टाभिर्ज्यायस्त्वं तस्य वर्ण्यते ।
चतुर्थमन्त्रस्यानिरुद्धाख्यचतुर्थव्यूहपरत्वप्रतिपादनम्
ऋचा तुरीयया सूक्ते त्रिपादूर्ध्व उदैदिति ॥ ५९-

59.33

देवोऽपरिमितेहः सन्ननिरुद्धो निरूप्यते ।
मन्त्रगतस्य पुरुषशब्दस्यानिरुद्धपरत्वोपपादनम्
पुरा सीदति कार्याणि कारयन् प्राणिनोऽखिलान् ॥ ५९-

59.34

प्. ६०१) फलानि पुरुषेभ्यश्च सनोति क्रिययार्चितः ।
ततः पुरुष इत्येवमनिरुद्धोऽभिधीयते ॥ ५९-

59.35

पुरि सन् सन् पुरीवायं पुरादूर्ध्वमुदैत् परात् ।
तदवस्थेन नाघ्रातमित्यर्थोऽयमिहोच्यते ॥ ५९-

59.36

पादोऽस्यैकांश एवेह चेतनाचेतनात्मकः ।
अन्तर्यामितया व्याप्तिस्तत्तन्नियमनेच्छया ॥ ५९-

59.37

एतदेव व्यनक्तीह ततो विष्वङ्ङिति त्वृचा ।
विष्वक् समन्ततो भूत्वा व्यक्रामत् प्राविशद् बहु ॥ ५९-

59.38

साशनानशने प्रोक्ते चेतनाचेतने उभे ।
तस्माद् विराडिति प्रोक्ता विराड् विद्या पराह्वया ॥ ५९-

59.39

हिरण्यगर्भो विश्वात्मा स पूरुष इहोच्यते ।
अवशिष्टानां चतुर्दशमन्त्राणामर्थस्य लोकतो
ज्ञेयत्वकथनपूर्वकं पुरुषसूक्तार्थनिगमनम्
शेषं तु लोकतः सिद्धमित्ययं सूक्त ईदृशः ॥ ५९-

59.40

तन्त्रान्तरे विस्तरेण निरूपितस्य श्रीसूक्तार्थस्यातिसंक्षेपेण सूचनम्
हिरण्यवर्णां श्रीसूक्तं कृतोऽन्यत्रास्य विस्तरः ।
वर्णो वरयते रूपं वर्णो वर उदीरितः ॥ ५९-

59.41

हितश्च रमणीयश्च यस्या वर्ण इति स्थितिः ।
प्. ६०२) हिरण्यवर्णा सा देवी श्रीशक्तिः परमामृता ॥ ५९-

59.42

तदेतत् सूक्तमित्युक्तं मिथुनं परचिह्नितम् ।
आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकम् ॥ ५९-

59.43

नियमपूर्वकं यथोक्तसूक्तद्वयनिष्ठस्य मोक्षप्राप्तिः फलम्
नियतो नियताहारो निरतो नियतेन्द्रियः ।
भजन् सूक्तद्वयं याति तद्विष्णोः परमं पदम् ॥ ५९-

59.44

वराहमन्त्रे स्थूलार्थस्य लोकतो ज्ञेयत्वकथनम्
वाराहो नाम यो मन्त्रो ह्यत्यनुष्टुबितीरितः ।
तस्य सांसर्गिकी मुद्रा विदिता लोकतस्तव ॥ ५९-

59.45

तस्यैव संक्षेपतः सूक्ष्मार्थनिरूपणम्
अस्य प्रतिपदार्थो यो मत्तस्तं त्वं निशामय ।
वराहादावभिव्यक्तं यस्य रूपं सनातनम् ॥ ५९-

59.46

वराहरूपो भगवान् वसुधाहरणोद्यतः ।
संसारो रात्रिरुद्दिष्टो मोक्षो वरमहः स्मृतः ॥ ५९-

59.47

वराहरूप उद्दिष्टो वरस्याह्नो निरूपणात् ।
तस्यैव परार्थनिरूपणम्
अशेषभुवनाधारो गोपनश्चैव सर्वदा ॥ ५९-

59.48

प्रज्ञानामपि चाधारो रक्षोदैत्यदवानलः ।
प्. ६०३) पवित्रः सर्वलोकानामप्रमेयः सनातनः ॥ ५९-

59.49

परमात्मा वराहोऽभूदित्थं स पर ईरितः ।
दिगियं दर्शिता सम्यगेषा मन्त्रान्तरे गतिः ॥ ५९-

59.50

न्यायेनानेन मन्त्राणां गतिं पिण्डं निरूपय ।
शास्त्रार्थमुपसंहर्तुं संक्षेपतः सुदर्शनगतिनिरूपणम्
भूयश्च शृणु संक्षेपात् सुदर्शनगतिं प्रति ॥ ५९-

59.51

निमिषच्चोन्मिषच्चैव चरं चाचरमेव च ।
दिव्यं च प्राकृतं चैव सूक्ष्मं च स्थूलमेव च ॥ ५९-

59.52

ह्रस्वं दीर्घं च यत् किंचिदीशितव्यमथेश्वरम् ।
विज्ञानं यदविज्ञानं सुखं वा यदि वासुखम् ॥ ५९-

59.53

इति द्वन्द्वपदाद्यैर्यद् वस्तु किंचिद् विकल्प्यते ।
सुदर्शनसमुन्मेषं तत्तद् विद्धि मुनीश्वर ॥ ५९-

59.54

शास्त्रार्थसंक्षेपः
लेशतो भगवानुक्तः स्वरूपगुणवैभवैः ।
तद्धर्मधर्मिणी शक्तिस्तस्य तत्त्वेन वर्णिता ॥ ५९-

59.55

तस्या अत्यल्प उन्मेषो भूतिर्भाव्या त ईरिता ।
शुद्धाशुद्धमयी व्यक्तिस्तस्यास्तत्त्वेन वर्णिता ॥ ५९-

59.56

भावकश्चापि शक्त्यंशः संकल्पो वैष्णवः परः ।
रूपतो वर्णितः सम्यक् सुदर्शनपराह्वयः ॥ ५९-

59.57

देशकालादिका व्याप्तिस्तस्य तत्त्वेन वर्णिता ।
प्. ६०४) प्राणक्रिया बलं तेजः संकल्पो वैष्णवं यशः ॥ ५९-

59.58

सुदर्शनं परोद्योगः प्राणो विष्णुसमुद्यमः ।
अव्याहतो महायोगो योगात्मा योगभावनः ॥ ५९-

59.59

इत्यादिभिर्महाशब्दैस्तत्तदर्णविगाहिभिः ।
क्रियाशक्तिः परा विष्णोः शास्त्रे शास्त्रे निगद्यते ॥ ५९-

59.60

यथा कारणतां याति यथैवाधारतामपि ।
यथा प्रमाणतां याति यथा याति तदर्थताम् ॥ ५९-

59.61

यथा याति विधायाभिस्तत्तदर्थाधिकारिताम् ।
निष्कलेन स्वरूपेण यथा दिव्योऽभवद्विधिः ॥ ५९-

59.62

यथा च मध्यमं रूपं यन्त्रं तदुभयात्मकम् ।
सकलं यच्च तद्रूपं शस्त्रास्त्रमयमुज्ज्वलम् ॥ ५९-

59.63

दिव्याः सौदर्शना व्यूहा वैश्वरूप्यं च तन्महत् ।
राज्ञोऽपि विजयः सर्वो रोदसीविजयस्तथा ॥ ५९-

59.64

कृत्स्नो योगविधिश्चैव न्यासयोगविधिस्तथा ।
नानोपद्रवशान्तिश्च व्यवस्था योगगोचरा ॥ ५९-

59.65

ब्रह्मास्त्रादिस्वरूपं च तत्तन्मन्त्रविधिस्तथा ।
महाभिषेचनविधिरस्त्रयोगविधिस्तथा ॥ ५९-

59.66

ध्वजादिमन्त्रयोगाश्च सेतिहासविनिश्चयाः ।
स्थूलसूक्ष्मपरात्मानो दिव्यमन्त्रविनिश्चयाः ॥ ५९-

59.67

इति ते निखिलेनार्था दर्शितास्ते मुनीश्वर ।
प्. ६०५) निधाय हृदये तत्त्वं स्वस्थो भव निरामयः ॥ ५९-

59.68

व्याकृताः संशयाः सर्वे नारदर्षे मनःस्थिताः ।
करामलकवच्चैव दिव्या सौदर्शनी गतिः ॥ ५९-

59.69

आदर्शनस्वरूपेण गुणैः सफलवैभवैः ।
संहितेयं समाख्याता नानाशास्त्रावगाहिनी ॥ ५९-

59.70

एतत्संहितोपदेशानर्हजनपरिगणनम्
पञ्चरात्रमयी दिव्या सांख्ययोगादिसंमिता ।
संहितेयं महागुह्या नानामन्त्रमयी परा ॥ ५९-

59.71

नावासुदेवभक्ताय त्वया देया कथंचन ।
नास्तिके भिन्नमर्यादे कृतघ्नेऽनृतवादके ॥ ५९-

59.72

निःस्वाध्यायवषट्कारे देवब्राह्मणदूषके ।
ब्रह्मचर्यव्रतभ्रष्टे पञ्चयज्ञपराङ्मुखे ॥ ५९-

59.73

दूषणेऽपि च वेदानां ब्राह्मणे मन्त्रवर्जिते ।
योग्याधिकारिपरिगणनम्
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमेधिनि ॥ ५९-

59.74

ब्रह्मचारिणि वा सम्यग् गुरुस्वाध्यायतत्परे ।
वनस्थे वा व्रतोपेते भिक्षौ वा तत्त्ववित्परे ॥ ५९-

59.75

कर्मणा मनसा वाचा भक्ते देवे जनार्दने ।
पञ्चरात्रप्रिये नित्यं वेदविद्यासुनिष्ठिते ॥ ५९-

59.76

वक्तव्येयं परा विद्या सर्ववेदान्तबृंहणी ।
प्. ६०६) मङ्गलाचरणव्याजेन
शास्त्रप्रमेयसारानुवादपूर्वकं शास्त्रसमापनम्
समस्तजगदुत्पत्तिस्थितिसंहारहेतवे ।
सुदर्शनाभिधानायै नमः शक्त्यै क्रियात्मने ॥ ५९-

59.77

नारदः -
अज्ञानतिमिरध्वंसभास्करायादिवेधसे ।
शिवंकराय भूतानां नमः शान्ताय तेजसे ॥ ५९-

59.59

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणं नाम
एकोनषष्टितमोऽध्यायः

59.3853

आदितः श्लोकाः

मूल पाठ: ahirbudhnasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc