अहिर्बुध्नसंहिता · अध्याय 57
ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
प्रथमं गायत्त्र्यर्थप्रपञ्चने तच्छब्दस्य
भगवत्संकल्परूपसुदर्शनपरत्वनिरूपणम्
अहिर्बुध्न्यः -
यत्तु ज्योतिस्त्रयं पूर्वं ज्योतिश्चक्रे निदर्शितम् (१) ।
सावित्रं नाम यज्ज्योतिस्तत् सावित्रीसमाह्वयम् ॥ ५७-
तस्य व्याख्यामिमां सम्यग् गदतो मे निशामय ।
संकल्पः कथितो यः स सुदर्शनसमाह्वयः ॥ ५७-
या सा भूतिर्महाशक्तेर्वैष्णव्याः कोटिभागजा ।
शुद्धाशुद्धमयैर्भावैस्तनुते विस्तृणाति ताम् ॥ ५७-
प्रतिसंचरवेलायां तामयत्येव तां पुनः ।
तायते तत्र तत्रैव भूत्यंशे धारकात्मना ॥ ५७-
प्रमाणत्वेन भूयश्च तत्तदर्थतया पुनः ।
१ त्रयोविंशेऽध्याये चतुश्चत्वारिंशश्लोकस्योत्तरार्धमारम्य
एकोनसप्ततिश्लोकपूर्वार्धान्तैः पञ्चविंशत्या
श्लोकैर्निदर्शितमिदं ज्योतिश्चक्रम् ।
प्. ५७२) अतस्तदिति संकल्पः प्रोच्यते वैष्णवः परः ॥ ५७-
सवितृशब्दस्य
जगत्कारणत्वभोगमोक्षप्रदत्वादिगुणविशिष्टपरमपुरुषपरत्वम्
प्रसौति सकलाश्चेष्टाः प्रसूते सकलं जगत् ।
अवतेर्गतिकान्त्यर्थात् तरतेर्दानकर्मणः ॥ ५७-
गतो ह्यवति सर्वत्र षड्भिः कान्तो गुणैः परः ।
भोगापवर्गयोर्दाता सवितेति निरुच्यते ॥ ५७-
वरेण्यशब्दस्योपास्यत्वपरत्वम्
वरैर्नेयं वरेण्यं तु वराः ख्यातार ईरिताः ।
वरणीयं वरेण्यं वा वरं नयति तत्परम् ॥ ५७-
भर्गःशब्दस्य तच्छब्दविवक्षितसुदर्शनगुणविशेषपरत्वम्
भर्गस्तेजः समाख्यातं प्रभावः कर्तृरूपता ।
भरतीदं जगत् कृत्स्नं संभरत्यपि चेश्वरान् ॥ ५७-
रमयत्यपि तत् सर्वं राति चार्थमभीप्सितम् ।
गमयत्यपि तन्नाशं स्यति बन्धमशेषतः ॥ ५७-
भर्जयत्यखिलं कष्टं भ्रस्जतेऽनेहसं तथा ।
अतो भर्गः परं विष्णोः संकल्पं विदुरद्भुतम् ॥ ५७-
प्. ५७३) देवशब्दस्य द्योतनत्वादिगुणविशिष्टपरमात्मपरत्वम्
द्योतनः सर्वभावानां द्योतमानः स्वयं सदा ।
अज्ञानमखिलं चान्यच्छोधयत्यखिलं जगत् ॥ ५७-
अतः सकलमेवेदं तत्रौतं मणिसूत्रवत् ।
इत ईरण ईड्यश्च वनितः सकलं वियत् ॥ ५७-
देव इत्युदितो विष्णु परमात्मा सनातनः ।
धीमहीत्यस्योपासनात्मकज्ञानविशेषपरत्वम्
धीमहीत्यत्र धीर्ज्ञानं मननं भावनं तथा ॥ ५७-
तृतीयपादार्थनिरूपणपूर्वकं गायत्त्र्याः
संपिण्डितवाक्यार्थनिरूपणम्
धियो धीपूर्विकाश्चेष्टाः प्रेरणं तु प्रचोदनम् ।
यः सर्वशक्तिः सविता देवं संविन्मयश्च यः ॥ ५७-
यश्च सर्वविदीशानो धियस्तास्ताः प्रचोदयात् ।
सृष्टिस्थितिलयत्राणक्रियाकारणमव्ययम् ॥ ५७-
तस्य देवस्य संकल्पं भर्गः संज्ञमुपास्महे ।
गायन्तं त्रायमाणाया गायत्त्र्या अर्थ ईदृशः ॥ ५७-
संक्षेपतो गायत्त्रीमहिमवर्णनम्
संध्ययोरुभयोर्युक्तो ब्राह्मण्यं लभते परम् ।
बहिः सहस्रमभ्यस्ता मासमात्रेण साधिनः ॥ ५७-
प्. ५७४) त्रायते महतः पापात् सर्वस्मादपि चाहंसः ।
ओंकारपूरिकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥ ५७-
त्रिपदा चेयमित्येतत् त्रितयं पावनं परम् ।
व्याहृतित्रयस्वरूपनिरूपणपूर्वकं सग्रहेण तदर्थप्रकाशनम्
या सत्ता सर्वभूतानां विष्णुशक्तिः परावरा ॥ ५७-
सा भूरिति समाख्याता भवतीदं जगत् स्वयम् ।
भूत्वशक्तिं समास्थाय यावतीदं जगत् स्वयम् ॥ ५७-
सा भुवः कथिता सद्भिरवन्ती भावितं जगत् ।
वसीयो भोगमोक्षाख्यं सूते या सततं सताम् ॥ ५७-
सा स्रुवः कथिता सद्भिर्व्याहृतिर्वाङ्मयी ततः ।
गायत्त्रीमन्त्रनिगूढानां ब्रह्मशिरःप्रभृतीनामस्त्राणां
दिङ्मात्रपरदर्शनम्
पादशो ब्रह्मदण्डास्त्रं प्रतिलोमस्तदित्यृ च ॥ ५७-
अस्त्रं ब्रह्मशिरो नाम पदशः परिगीयते ।
वर्णशो ब्राह्ममस्त्रं स्यात् तत्स्वरप्रतिलोमजम् ॥ ५७-
सुब्रह्मास्त्रमिति प्रोक्तं सर्वास्त्रविनिर्बर्हणम् ।
आनन्दो वरुणस्तद्वान्वरुणः सचतुर्गतिः ॥ ५७-
साप्रमेयस्तृतीयः स्याच्छङ्खस्थो व्यापकस्तथा ।
सानन्दो वरुणश्चैव साप्रमेयश्चतुर्गतिः ॥ ५७-
शाङ्खद्वयं सदा देवमस्त्रं सप्ताक्षरं परम् ।
प्. ५७५) अतिब्राह्मं समुद्दिष्टमस्य स्वरविलोमजम् ॥ ५७-
आनन्दः केवलस्तत्तु दिव्यमेकाक्षरं स्मृतम् ।
तदित्यृचोऽस्याः सावित्र्या इयती दर्शिता भिदा ॥ ५७-
जातवेदसे इति त्रिष्टुभोऽर्थनिरूपणे जातवेदःशब्दस्य सोमशब्दस्य
चार्थवर्णनम्
जातवेदस इत्यस्यास्त्रिष्टुभोऽर्थं निशामय ।
जातजातं हि यो वेत्ति भूते भूतेऽखिलं सदा ॥ ५७-
जातं स्वभावसंसिद्धं विज्ञानं तस्य सर्वदा ।
वेदः सत्ता महाशक्तिरानन्दस्पन्दलक्षणा ॥ ५७-
प्रादुर्भूता सदा यस्य सा देवी जगतां गतिः ।
वेदो विचारणं प्रोक्तं विचारो विविधा क्रिया ॥ ५७-
प्रादुर्भूता क्रिया यस्य विष्णोः सा सर्वकर्तृता ।
सर्वज्ञः सर्वशक्तिश्च सर्वकृत् पुरुषोत्तमः ॥ ५७-
जातवेदाः समुद्दिष्ट आत्मा सोमः समीरितः ।
स ह्यविद्यावशात् सर्वयोनिस्थः सूयते सदा ॥ ५७-
सुनवामेति पदस्य बद्धात्मनि भगवच्छेषत्वयोग्यतापादनपरत्वम्
योग्यतापादनं तस्य प्रोच्यतेऽत्र सुनोतिना ।
योग्यतापादनस्य प्रकृत्यात्मविवेकरूपतां वक्तुं विवक्षितार्थस्य
सोमपदगम्ये दृष्टान्ते शिक्षणम्
पृथक्कारो हि सोमस्य स्वरसस्य सुनोतिजः ॥ ५७-
प्. ५७६) रसीभूतेन सोमेन यागः कर्तुं स शक्यते ।
उपमागर्भ एवायं वाक्यार्थः पूर्वपादजः ॥ ५७-
दृष्टान्ते शिक्षितस्यार्थस्य दार्ष्टान्तिके उपपादनम्
सोमं यथाभिषुण्वन्ति ह्यध्वरे जातवेदसे ।
दित्समानस्तथात्मानमृषिः स्वं परमात्मने ॥ ५७-
देहेन्द्रियमनःप्राणधीगुणेभ्यः स्वरूपतः ।
विविनक्ति प्रसंख्यानैः साम्यवैषम्यहेतुजैः ॥ ५७-
यथोक्तात्महविर्याजिनः स्वेन रूपेणाभिनिष्पत्तिरूपो
गुणाष्टकाविर्भावः फलम्
एवं विविच्य दत्त्वास्मै स्मात्मानं जातवेदसे ।
तत्स्थः स तन्मना भूत्वा स्वेनाथो संविवित्सते ॥ ५७-
भङ्ग्यन्तरेण नमःशब्दार्थस्यैवात्र प्रथमपादे
विवक्षितत्वसूचनम्
नमःशब्दार्थ एवायं प्रकारान्तरदर्शितः ।
द्वितीयपादेन परमपुरुषस्य स्वप्राप्तिप्रतिबन्धकप्रकृतिसंबन्ध-
रूपबन्धनिवर्तकत्वप्रदर्शनम्
अर्थं द्वितीयपादस्य प्रोच्यमानं निबोध मे ॥ ५७-
अरातीयान् स तु प्रोक्तो यो ह्यरातिवदाचरेत् ।
स च बन्धः समाख्यातो मिथ्याज्ञाननिबन्धनः ॥ ५७-
तस्य वेदः स्मृता सत्ता गुणसक्तिरनादिका ।
प्. ५७७) स्वीकर्तुं स सुतं सोमं जातवेदाः सनातनः ॥ ५७-
तत्प्रतिद्वन्द्विनीं बन्धसत्तां विदहतु स्वयम् ।
उत्तरार्धे सदृष्टान्तं पूर्वोक्तार्थोपपादनम्
बद्ध्वा स नितरां सत्तां गुणसङ्गस्वरूपिणीम् ॥ ५७-
हेयतत्त्वानि दुर्गाणि पारयत्यखिलानि नः ।
उत्तरार्थगतस्याग्निशब्दस्य परमपुरुषपरत्वसमर्थनम्
जातवेदाः स चात्रापि ह्यग्नि शब्देन वर्ण्यते ॥ ५७-
अङ्गीकारं समीपं स्वमागतं निखिलं जगत् ।
नयत्यात्मानमित्येवमग्निशब्दो निरुच्यते ॥ ५७-
स्वात्मोपसर्पिणं जीवं नेताग्निः स्वं परं पदम् ।
जातवेदाः स दुर्गाणि पारयत्यखिलानि नः ॥ ५७-
दृष्टान्तपरस्य चतुर्थपादस्य वाक्यार्थवर्णनम्
अत्र नावेति दृष्टान्तः सिन्धुर्नाम महोदधिः ।
तं यथा नाविको नावा नौस्थितं पारयेन्नरम् ॥ ५७-
दुरितादिपदद्वन्द्वात् पारणे दुरितात्ययः ।
दुरितं गदितं दौःस्थ्यं वातवर्षादिसंभवम् ॥ ५७-
अतीत्यतीत्य दुरिता दिरितानीति वर्णयते ।
दुरितं वातवर्षाद्यं परिहृत्य यथाखिलम् ॥ ५७-
नाविकः पारयेन्नावा सागरं नौस्थितं नरम् ।
प्. ५७८) तस्यार्थस्य दार्ष्टान्तिके उपपादनम्
एवं स भगवानग्निर्जातवेदा हरिः स्वयम् ॥ ५७-
दुरितं क्लेशसंघातमपवर्गविघातकम् ।
सर्वं परिहरन् दुर्गं पारयेत् तत्त्वपद्धतिम् ॥ ५७-
अत्र नावेति दृष्टान्तादुपायस्थानमेव तु ।
नरेण कृत्यमन्यत्तु नाविकस्येव तद्धरेः ॥ ५७-
अस्मिन् मन्त्रे निगूढानां पावकाद्यस्त्राणां संक्षेपतः
स्वरूपसूचनम्
पादशः प्रतिलोमः स पावकास्त्रं निगद्यते ।
पादशो जातवेदःस्थमाग्नेयं वर्णशस्तु तत् ॥ ५७-
स्वरशः प्रतिलोमोऽयमत्याग्नेयं निगद्यते ।
चतुर्गतिः साप्रमेयः सोदयोऽथ चतुर्गतिः ॥ ५७-
प्. ५७९) सूक्ष्मद्वयं साप्रमेयं साप्रमेयश्चतुर्गतिः ।
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ॥ ५७-
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ।
चतुर्गतिः साप्रमेयः सादिदेवश्चतुर्गतिः ॥ ५७-
उत्तरार्थविलोमोऽयमथ पूर्वार्धजं शृणु ।
आनन्दः केवलः सूक्ष्मद्वययुक् चाप्रमेयतः ॥ ५७-
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ।
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ॥ ५७-
चतुर्गतिः सादिदेवः सानन्दो वरुणस्तथा ।
चतुर्गतिः सादिदेव इति पूर्वार्धजा स्थितिः ॥ ५७-
हनद्वयं वर्म सास्त्रमग्निजाया तथान्ततः ।
स्वरशः प्रतिलोमोऽयं स्मृतं पञ्चदशाक्षरम् ॥ ५७-
हनाद्यष्टाक्षरं चान्ते यः स्वरः प्रतिलोमजः ।
त्र्यक्षरः स तु विज्ञेयो द्विवर्णश्चोर्ध्वभाग्भवेत् ॥ ५७-
एकार्णश्चैव पूर्वार्धे तयो रूपे पुनः शृणु ।
अप्रमेयोऽथ सानन्दो वरुणो द्व्यक्षरो मनुः ॥ ५७-
आनन्द एकः पूर्वार्धे संहत्या यत् त्रिवर्णकम् ।
तस्यापि प्रतिलोमोऽयमानन्दः केवलः स्मृतः ॥ ५७-
प्रतिलोमाविमौ सर्वशान्तिस्वस्त्ययनात्मकौ ।
प्. ५८०) इत्येषा त्रिष्टुभो रीतिर्लेशतस्ते निदर्शिता ॥ ५७-
त्रियम्बकम् इत्यनुष्टुभोऽर्थवर्णने त्रियम्बकशब्दस्य
ज्ञानशक्तिक्रियान्वितपरमपुरुषपरत्वकथनम्
अधुनानुष्टुभो रीतिं शृणु त्वं पावनीं पराम् ।
इच्छा ज्ञप्तिः क्रिया चेति तिस्रो लोकस्य मातरः ॥ ५७-
तिस्रस्तु यस्य विद्यन्ते जगद्भाविन्य ऊर्जिताः ।
त्र्यम्बकः स तु विज्ञेयो ज्ञानशक्तिक्रियान्वितः ॥ ५७-
यजामहे इति पदार्थनिरूपणम्
यजतिर्द्रव्यसंत्यागः कांचिदुद्दिश्य देवताम् ।
सुगन्धिशब्दार्थनिरूपणम्
शोभनो यस्य गन्धोऽस्ति स सुगन्धिरितीर्यते ॥ ५७-
शोभनं सूचयन् सर्वः सुगन्धिरिति शब्द्यते ।
यः यष्टु सर्वतत्त्वानि गन्धयत्यात्मतेजसा ॥ ५७-
गन्धयत्यनुवेधेन स्वस्वरूपीकरोति यः ।
गन्धादीनि पृथिव्यादिभूतान्येवाखिलानि च ॥ ५७-
शोभनं यस्य तिष्ठन्ति वशे देवस्य शासितुः ।
स सुगन्धिः समाख्यातो ज्ञानात्मा सर्वविद्वशी ॥ ५७-
पुष्टिवर्धनशब्दार्थनिरूपणम्
पुष्टिर्भूतिः समाख्याता या सा सदसदात्मिका ।
प्. ५८१) शक्तिर्विष्णुमयी विष्णोः स तां वर्धयति स्वयम् ॥ ५७-
संकल्पेन समुद्भाव्य वितत्य विविधात्मना ।
संधार्य संनियम्याथ प्रतिसंहरते च ताम् ॥ ५७-
ततोऽसौ भगवान् विष्णुः कथ्यते पुष्टिवर्धनः ।
वाक्यार्थवर्णनमुखेन पूर्वार्धस्य भगवति
स्यात्महविःसमर्पणपरत्वप्रदर्शनम्
इच्छाज्ञानक्रियाकारं शोभनाख्यं जगत्प्रियम् ॥ ५७-
स्वाकारज्ञापितैश्वर्यं शुद्धं संविन्मयं परम् ।
ईशानं सर्वलोकानां पुरुषं पुष्करेक्षणम् ॥ ५७-
देवतां स्वां समुद्दिश्य स्वात्माख्यद्रव्यमुत्तमम् ।
यजाम इति मन्त्रस्य पूर्वभागार्थ ईदृशः ॥ ५७-
उत्तरार्धस्य वाक्यार्थनिरूपणम्
निरुक्तो मृत्युशब्दोऽत्र मृत्युमृत्युनिरूपणे ।
स्वात्मस्वात्मीयसंन्यासी देवेऽद्य परमात्मनि ॥ ५७-
मृत्योर्मुच्येय संसारान्नानादुःखमहोदधेः ।
उर्वारुकं यथा पक्वमक्लेशेन स्वबन्धनात् ॥ ५७-
मुच्यते मृत्युतस्तद्वदहं मुच्येय बन्धनात् ।
संन्यासे स्थैर्यमाशास्ते कृतेऽस्मिन् मामृतादिति ॥ ५७-
अमृताद् ब्रह्मणस्तस्माद्यस्मै मां दत्तवानहम् ।
जातुचिन्मा स्व मुच्येय क्षेमी भावो भवेन्मम ॥ ५७-
प्. ५८२) प्रपत्तुर्ब्रह्मसाधर्म्यापत्तिलक्षणस्य फलस्य तात्पर्यगत्या
मन्त्रे विवक्षितत्वप्रदर्शनम्
इत्यर्थोऽनुष्टुभः प्रोक्तो ब्रह्मभावमयः शुभः ।
ज्योतिस्त्रयं निरुक्तं तु तदिदं छन्दसां त्रयम् ॥ ५७-
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः
आदितः श्लोकाः
मूल पाठ: ahirbudhnasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0