भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 322

322.001

:ए इत्य् आग्नेये महापुराणे
पाशुपतशान्तिर्नामैकविंशत्यधिकत्रिशततमो ऽध्यायः
:न्
1 असाध्यमपीति ख..
:प् 170
% छप्तेर् {322}
:श् अथ द्वाविंशत्यधिकत्रिशततमो ऽध्यायः
षडङ्गान्यघोरास्त्राणि
ईश्वर उवाच
ओं ह्रूं हंस+इति मन्त्रेण मृत्युरोगादि शास्यति ।अप्_322.001अब्।
लक्षाहुतिभिर्दूर्वाभिः शान्तिं पुष्टिं प्रसाधयेत्

322.002

अथ वा प्रणवेनैव मायया वा षडानन ।अप्_322.002अब्।
दिव्यान्तरीक्षभौमानां शान्तिरुत्पातवृक्षके

322.003

ओं नमो भगवति गन्ङे कालि 2 महाकालि 2 मांसशोणितभोजने
रक्तकृष्णमुखि वशमानय मानुषान् स्वाहा ॥
ओं लक्षं जप्त्वा दशांशेन हुत्वा स्यात् सर्वकर्मकृत् ।अप्_322.003अब्।
वशं नयति शक्रादीन्मानुषेष्वेषु क कथा

322.004

अन्तर्धानकरी विद्या मोहनी जृम्भनी तथा ।अप्_322.004अब्।
वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी

322.005

कामधेनुरियं विद्या सप्तधा परिकीर्तिता ।अप्_322.005अब्।
मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम्

322.006

महाभयेषु सर्वेषु स्मर्तव्यं हरपूजितं ।अप्_322.006अब्।
लक्षं जप्त्वा तिलैर् होमः सिद्ध्येदुद्धरकं शृणु

322.007

ओं हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां
वाचेश्वराय स्वाहा ॥
दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता ।अप्_322.007अब्।
ओं चण्डकपालिनि दन्तान् किटि 2 क्षिटि 2 गुह्ये फट् ह्रीं
अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान्

322.008

:प् 171
त्रिंशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् ।अप्_322.008अब्।
दन्तैश्चूर्णानि शुक्लानि पतितानि हि शुद्धये

322.009

ओं ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर 2
दर 2 भ्रम 2 आकट्ट 2 तोटय 2 मोटय 2 दह 2 पच 2 एवं
सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गलोकं देवलोकं वा
आरामविहाराचलं तथापि तमावर्तयिष्यामि वलिं गृह्ण 2
ददामि ते स्वहेति
क्षेत्रपालबलिं दत्वा ग्रहो न्यासाध्रदं व्रजेत् ।अप्_322.009अब्।
शत्रवो नाशमायान्ति रणे वैरगणक्षयः

322.010

हंसबीजन्तु विन्यस्य विषन्तु(1) त्रिविधं हरेत् ।अप्_322.010अब्।
अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम्

322.011

नखं वै देवदारुञ्च समं कृत्वाथ दूपकः ।अप्_322.011अब्।
माक्षिकेन समायुक्तो देहवस्त्रादिधूपनात्

322.012

विवादे मोहने स्त्रीणां भण्डने कलहे शुभः ।अप्_322.012अब्।
कन्याया वरणे भाग्येमायामन्त्रेण मन्त्रितः

322.013

ह्रीं रोचनानागपुष्पाणि कुङ्कुमञ्च महःशिला ।अप्_322.013अब्।
ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत्

322.014

शतावर्यास्तु चूर्णन्तु दुग्धपीतञ्च पुत्रकृत् ।अप्_322.014अब्।
नागकेशरचूर्णन्तु घृतपक्वन्तु पुत्रकृत्

322.015

पालाशवीजपानेन लमेत पुत्रकन्तथा ।अप्_322.015अब्।
ओं उत्तिष्ठ चामुण्डे जम्भय 2 मोहय 2 अमुकं वशमानय 2
स्वाहा
:न्
1 निघ्नान्त्वति ख.. , छ.. च
:प् 172
षड्विंशा सिद्धविद्या सा नदीतीरमृदा स्त्रियम्

322.016

कृत्वोन्मत्तरसेनैव नामालिख्यार्कपत्रके ।अप्_322.016अब्।
मूत्रोत्सर्गन्ततः कृत्वा जपेत्तामानयेत्स्त्रियम्

322.017

ओं क्षुंसः वषट्
महामृत्युञ्जयो मन्त्रो जप्याद्धोमाच्च पुष्टिकृत् ।अप्_322.017अब्।
ओं हंसः ह्रूं हूं स ह्रः सौंः
मृतसञ्जीवनी विद्यां अष्टार्णा जयकृद्रणे

322.018

मन्त्रा ईशानमुख्याश् च धर्मकामादिदायकाः ।अप्_322.018अब्।
ईशानः सर्वविद्यानामीश्वरःसर्वभूतानां

322.019

ब्रह्मणश्चाधिपतिर्ब्रह्म शिवो मे ऽस्तु सदाशिवः ।अप्_322.019अब्।
ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः
प्रचोदयात्
ओं अघोरेभ्यो ऽथ घोरेभ्यो धोरहरेभ्यस्तु सर्वतः

322.020

सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः । ओं वामदेवाय नमो ज्येष्ठाय
नमः रुद्राय नमः । कालाय नमः कलविकरणाय नमो
बलविकरणाय नमो बलप्रमथनाय नमः । सर्वभूतदमनाय
नमो मनोन्मानाय नमः
ओं सद्योजातं प्रवक्ष्यामि सद्योजाताय वै नमः ।अप्_322.020अब्।
भवे भवे ऽनादिभवे भजस्व मां भवोद्भव

322.021

पञ्चब्रह्माङ्गषट्कञ्च(1) वक्ष्ये ऽहं भुक्तिमुक्तिदं ।अप्_322.021अब्।
ओं नमः परमात्मने पराय कामदाय परमेश्वराय योगाय
योगसम्भवाय सर्वकराय कुरु 2 सत्य 2 भव 2 भवोद्भव वामदेव
सर्वकार्यकर पापप्रशमन सदाशिव प्रसन्न नमो ऽस्तु ते स्वाहा
॥
:न्
1 पञ्चब्रह्माङ्गफट्कारमिति ञ..
:प् 173
हृदयं सर्वार्थदन्तु सप्तत्यक्षरसंयुतं ।अप्_322.021च्द्।
ओं शिवः शिवाय नमः शिवः । ओं हृदये ज्वालिनि स्वाहा
शिखा । ओं शिवात्मक महातेजः सर्वज्ञ प्रभुरावर्तय
महाघोर कवच पिङ्गल नमः । महाकवच शिवाज्ञया हृदयं
बन्ध 2 घूर्णय 2 चूर्णय 2 सूक्ष्मवज्रधर वज्रपाश
धनुर्वज्राशनिवज्रशरीर मम शरीरमनुप्रविश्य सर्वदुष्टान्
स्तम्भय 2 हूं
अक्षराणान्तु कवचं शतं पञ्चाक्षराधिकम्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc