अग्नि पुराण · अध्याय 187
दिशश् च काञ्चनीर्दद्याद्ब्राह्मणाधिपतिर्भवेत् ।अप्_186.002अब्।
:ए इत्य् आग्नेये महापुराणे दशमीव्रतानि नाम
षडशीत्यधिकशततमो ऽध्यायः ॥
:न्
1 महाकौशिकं मण्डपे इति घ.. , ञ.. च
2 पिष्टमयं हुनोदिति ख.. , छ.. च
:प् 215
% छप्तेर् {187}
:श् अथ सप्ताशीत्यधिकशततमो ऽध्यायः
एकादशीव्रतं
अग्निर् उवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।अप्_187.001अब्।
दशम्यान्नियताहारो मांसमैथुनवर्जितः(1)
एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।अप्_187.002अब्।
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः
तत्र(2) क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ।अप्_187.003अब्।
एकादशी कला यत्र परतो द्वादशो गता(3)
तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।अप्_187.004अब्।
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा
एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि ।अप्_187.005अब्।
भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत
एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।अप्_187.006अब्।
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी
एकादशी द्वादशी या श्रवणेन च संयुता ।अप्_187.007अब्।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा
एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता ।अप्_187.008अब्।
:न्
1 मधुमांसैर् विवर्जित इति ग..
2 अत्रेति ख.. , छ.. , ज.. च
3 द्वादशी मतेति घ.. , ञ.. च । द्वादशी भवेदिति ङ.. , झ.. च
:प् 216
विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा(1)
एकादश्यां विष्णुपूजा(2) कार्या सर्वोपकारिणी(3) ।अप्_187.009अब्।
धनवान् पुत्रवान् लोके विष्णुलोके महीयते
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0