अग्नि पुराण · अध्याय 182
अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् ।अप्_181.003अब्।
:ए इत्य् आग्नेये महापुराणे षष्ठीव्रतानि नाम
एकाशीत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {182}
:श् अथ द्व्यशीत्यधिकशततमो ऽध्यायः ॥
सप्तमीव्रतानि
अग्निर् उवाच
सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं(2) ।अप्_182.001अब्।
माघमासे ऽब्जके शुक्ले सूर्यं प्रार्च्य विशोकभाक्
सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रे ऽर्कपूजनात् ।अप्_182.002अब्।
पौषे मासि सिते ऽनश्नन् प्रार्च्यार्कं पापनाशनं
कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी ।अप्_182.003अब्।
फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात्
मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता ।अप्_182.004अब्।
मार्गशीर्षे सिते चाव्दं पुत्रीया सप्तमी स्त्रियाः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0