अग्नि पुराण · अध्याय 112
:ए इत्य् आग्नेये महापुराणे प्रयागमाहात्म्यं नाम
एकादशाधिकशततमो ऽध्यायः ॥
% छप्तेर् {112}
:श् अथ द्वादशाधिकशततमो ऽध्यायः
वाराणसीमाहात्म्यम्
अग्निर् उवाच
वाराणसी(3) परं तीर्थं गौर्यै प्राह महेश्वरः ।अप्_112.001अब्।
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं(4)
रुद्र उवाच
गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं ।अप्_112.002अब्।
:न्
1 अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
2 तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च
3 वाराणसीमिति ख.. , घ.. च
4 वसतां शृणुतां हरिमिति ग.. , घ.. , ङ.. च
:प् 377
जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं
अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्(1) ।अप्_112.003अब्।
हरिश् चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं(2)
जप्येश्वरं परं गुह्यं(3) गुह्यं श्रीपर्वतं तथा ।अप्_112.004अब्।
महालयं(4) परं गुह्यं भृगुश् चण्डेश्वरं(5) तथा
केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ।अप्_112.005अब्।
गुह्यानां परमं गुह्यमविमुक्तं परं मम
द्वियोजनन्तु पूर्वं स्याद् योजनार्धं तदन्यथा(6) ।अप्_112.006अब्।
वरणा च नदी चासीत् तयोर्मध्ये(7) वाराणसी
अत्र स्नानं जपो होमो मरणं देवपूजनं ।अप्_112.007अब्।
श्राद्धं दानं निवासश् च यद्यत् स्याद्भुक्तिमुक्तिदं(8)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0