भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 111

111.001

:ए इत्य् आग्नेये महापुराणे गङ्गामाहात्म्यं नाम
दशाधिकशततमो ऽध्यायः
% छप्तेर् {111}
:श् अथ एकादशाधिकशततमो ऽध्यायः
प्रयागमाहात्म्यं
अग्निर् उवाच
वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं(7) ।अप्_111.001अब्।
प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः

111.002

:न्
1 गतिर्गङ्गा हीति ग.. , ज.. च
2 गतिर्गतिमतामिति झ..
3 गङ्गा पावयते इति झ..
4 पतितादयस्तु इति झ..
5 गच्छन्ति साम्यतामिति घ.. , झ.. च
6 गङ्गातीरसमुद्भूतमृद्धारो सो ऽघहार्कवदिति ख.. , ग.. , झ.. च ।
गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति
रूपं सोर्कस्य तमोनाशाय केवलमिति ङ..
7 भक्तिमुक्तिफलप्रदमिति ग.. । भुक्तिमुक्तिप्रदायकमिति झ..
:प् 375
सरितः सागराः सिद्धा गन्धर्वसराप्सस् तथा ।अप्_111.002अब्।
तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी

111.003

वेगेन समतिक्रान्ता सर्वतीर्थतिरस्कृता ।अप्_111.003अब्।
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता

111.004

गङ्गायमुनयोर्मध्यं(1) पृथिव्या जघनं स्मृतं ।अप्_111.004अब्।
प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः(2)

111.005

प्रयागं सप्रतिष्ठानम् कम्बलाश्वतरावुभौ ।अप्_111.005अब्।
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः

111.006

तत्र वेदाश् च यज्ञाश् च मूर्तिमन्तः प्रयागके ।अप्_111.006अब्।
स्तवनादस्य(3) तीर्थस्य नामसङ्किर्तनादपि

111.007

मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते ।अप्_111.007अब्।
प्रयागे सङ्गते दानं श्राद्धं जप्यादि चाक्षयं(4)

111.008

न देववचनाद्विप्र न लोकवचनादपि ।अप्_111.008अब्।
मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति

111.009

दशतीर्थसहस्राणि षष्टिकोट्यस् तथापराः ।अप्_111.009अब्।
तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः

111.010

वासुकेर्भोगवत्यत्र हंसप्रपतनं परं ।अप्_111.010अब्।
गवां कोटिप्रदानाद्यत् त्र्यहं स्नानस्य(5) तत्फलं

111.011

प्रयागे माघमासे तु एवमाहुर्मनीषिणः ।अप्_111.011अब्।
:न्
1 गङायमुनयोर्मध्ये इति ख..
2 सरितः सागरा इत्य् आदिः, उपस्थमृषयो विदुरित्यन्तः पाठो
ग.. पुस्तके नास्ति
3 श्रवणादस्येति ख.. , ग.. , घ.. , ङ.. , ज.. च
4 श्राद्धद्रव्यादि चाक्षयमिति घ..
5 त्र्यहं स्नातस्येति घ..
:प् 376
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा

111.012

गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।अप्_111.012अब्।
अत्र दानाद्दिवं(1) याति राजेन्द्रो जायते ऽत्र च

111.013

वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत् ।अप्_111.013अब्।
उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावतस् तथा

111.014

कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं ।अप्_111.014अब्।
मानसं रजसा हीनं तीर्थं वासरकं परं(2)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc