भाषा

ENहिગુ
ग्रंथ पाठ

Advayasiddhi · श्लोक 21-36

21

गम्यागम्यविकल्पं तु भक्ष्याभक्ष्यं तथैव च ।
पेयापेयं तथा मन्त्री कुर्यान् नैव समाहितः ॥

22

वैरोचनसमुद्भूतान् सर्वप्राण्यङ्गसम्भवान् ।
प्राणकान् गुह्यतत्त्वज्ञो भक्षयेत् सिद्धिहेतुना ॥

23

सर्ववर्णसमुद्भूता जुगुप्स्या नैव योषितः ।
सैव भगवती प्रज्ञा संवृत्या रूपम् आश्रित्या ॥

24

न तिथिर् न च नक्षत्रं नोपवासो विधीयते ।
अद्वयज्ञानयुक्तस्य सिद्धिर् भवति सौगती ॥

25

बहुनात्र किम् उक्तेन यद् भवेद् उपलब्धिकम् ।
तत् सर्वं तत्त्वयोगेन द्रष्टव्यं तत्त्ववेदिना ॥

26

हस्त्यश्वखरगावोष्ट्रप्रदीपं श्वानसम्भवम् ।
महाप्रदीपसंमिश्रं भक्षयेद् योगवित् सदा ॥

27

न चाध्यासक्तिं कुर्वीत एकस्मिन्न् अपि योगवित् ।
समताचित्तयोगेन भावनीयो भवार्णवः ॥

28

उत्पत्तिस्थितिनिरोधं चासम्पृक्तं पृथग्जनैः ।
तस्य भावे तु संसारो नान्यत्र प्रलयोद्भवः ॥

29

दिनं तु भगवान् वज्री नक्तं प्रज्ञा विधीयते ।
एवं तु भावयेद् योगी लघु सिद्धिम् अवाप्नुयात् ॥

30

यत् तद् अव्यक्तरूपं तु सर्वसत्त्वेषु संस्थितम् ।
गुरुवक्त्रात् परं तत्त्वं प्राप्यते नात्र सम्शयः ॥

31

अप्रतिष्ठितनिर्वाणं निर्निमित्तं निरालयम् ।
व्यापकं सर्वसत्त्वेषु संबोधिः परमं पदम् ॥

32

एवं मत्वा तु वै योगी यो ऽभ्यसेद् बुद्धिमान् सदा ।
स सिद्ध्यति न सन्देहो मन्दपुण्यो ऽपि मानवः ॥

33

आचार्यात् परतरं नास्ति त्रैलोक्ये सचराचरे ।
यस्य प्रसादात् प्राप्यन्ते सिद्धयो ऽनेकधा बुधैः ॥

34

वज्रसत्त्वः स वै ज्ञेयः सर्वबुद्धैर् नमस्कृतः ।
आचार्यः परमो देवः पूजनीयः प्रयत्नतः ॥

35

स एव तथतारूपी लोकानुग्रहहेतुना ।
रूपम् आश्रित्य संवृत्या संस्थितो योगपीठके ॥

36

मृत्युर् एष विकल्पो यं न भावः सर्ववस्तुषु ।
हन्यते स्वविकल्पेन पृथग्जनविजृम्भितैः ॥

मूल पाठ: Advayasiddhi · Edition: Yoginī Lakṣmīṅkarā Advayasiddhi Samdhong Rinpoche Vrajvallabh Dwivedi Guhyādi-aṣṭasiddhisaṅgraha Sarnath, Varanasi Central Institute of Higher Tibetan Studies 161-164 Rare Buddhist texts series 1 · Data entry Peter Gäng · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc