भाषा

ENहिગુ
ग्रंथ पाठ

Advayasiddhi · श्लोक 1-20

1

प्रकृतिप्रभास्वरं नाथं सर्वज्ञं त्रिभवोद्भवम् ।
प्रणम्य शिरसा वज्रम् ईप्सितार्थफलप्रदम् ॥

2

देशकालतिथिवारनक्षत्रैर् मण्डलैर् विना ।
वक्ष्ये हं वज्रसत्त्वस्य संक्षेपात् साधनं परम् ॥

3

नियमव्रतोपवासैर् अक्षरोच्चारणभावनैः ।
अतत्त्वयोगो अतत्त्वयोगी न सिद्ध्येत् कल्पकोटिशतैर् अपि ॥

4

विड्वज्रोदकबीजाद्यैर् नासिकाभ्यन्तरोद्भवैः ।
पूजयेद् सततं मन्त्री आत्मानं तत्त्वभावनैः ॥

5

जननीं भगिनीश् चैव दुहितृभागिनेयिकान् ।
प्रज्ञ्नोपायविधानेन पूजयेद् योगवित् सदा ॥

6

एकाङ्गविकलां हीनां शिल्पनीं श्वपचीं तथा ।
योषितां पूजयेन् नित्यं ज्ञानवज्रप्रभावनैः ॥

7

येन येन हि बद्ध्यन्ते जन्तवो रौद्रकर्मणा ।
सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ॥

8

समयान् अहरहः कुर्याद् दिव्यान् पञ्चकुलोद्भवान् ।
पूजयेच् च प्रदीपाद्यैः सक्षीरैर् विश्वसम्भवैः ॥

9

प्रोत्फुल्लनयनो मन्त्री नित्यं प्रहसिताननः ।
चित्तम् आरोप्य संबोधौ भावयेज् ज्ञानसागरम् ॥

10

यावत् स्थिरचला भावा सन्त्य् अत्र त्रिभवालये ।
सर्वे ते तत्त्वयोगेन द्रष्टव्या वज्रधृग् यथा ॥

11

परवादिनश् च केचिल् लिन्गभेदैर् व्यवस्तिताः ।
ते ऽप्य् अत्र नावमन्तव्या वज्रसत्त्वविकुर्वितैः ॥

12

सर्वान् समरसीक्र्त्य भावान् नैरात्म्यनिःसृतान् ।
भावयेत् सततं मन्त्री देहं प्रकृतिनिर्मलम् ॥

13

गन्धमाल्यादिभिर् वस्त्रैर् धूपनैवेद्यकैस् तथा ।
गीतवाद्यैस् तथा नृत्यैः सोपायैर् भजते विभुः ॥

14

न कष्टकल्पनां कुर्यान् नोपवासं न च क्रियाम् ।
स्नानं शौचं न चैवात्र ग्रामधर्मविवर्जनं ॥

15

न चापि वन्दयेद् देवान् काष्ठपाषाणमृण्मयान् ।
पूजाम् अस्यैव कायस्य कुर्वान् नित्यं स्माहितः ॥

16

मक्षिकाच्छर्दिसंमिश्रैर् विण्मूत्राद्यैश् च भावितैः ।
पञ्चप्रदीपसंयुक्तैः पूजयेद् वज्रधारिणम् ॥

17

अबला स्वयम्भुकुसुमैः सक्षीरैर् विश्वसम्भवैः ।
पूजयेद् देवतां तेन देहस्थां तत्त्वभावनैः ॥

18

परस्वहरणं कुर्यात् परदारनिषेवनम् ।
वक्तव्यं च मृषावाक्यं सर्वबुद्धांश् च घातयेत् ॥

19

शैलमृण्मयचैत्यादीन् न कुर्यात् पुस्तके रतिम् ।
न मण्डलानि स्वप्ने ऽपि कायवाक्चित्तकर्मणा ॥

20

जुगुप्सां नैव कुर्वीत सर्ववस्तुषु मन्त्रवित् ।
वज्रसत्त्वः स्वयं तत्र साक्षाद् रूपेण संस्थितः ॥

मूल पाठ: Advayasiddhi · Edition: Yoginī Lakṣmīṅkarā Advayasiddhi Samdhong Rinpoche Vrajvallabh Dwivedi Guhyādi-aṣṭasiddhisaṅgraha Sarnath, Varanasi Central Institute of Higher Tibetan Studies 161-164 Rare Buddhist texts series 1 · Data entry Peter Gäng · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc