अभिसमयालंकारविवरण · भाग 2124
एतासु कल्पनात्मिका विप्रतिपत्तयो मुख्याः, याश्च प्रसङ्गमुखेनोक्तास्ता गौणा इति मन्तव्याः ।
एताः षोडशापि विप्रतिपत्तयो कल्पनात्मिका शब्दात्मिका चेति द्वयोरन्तर्भवन्ति ।
द्वयोः सत्ययोरेकमालम्ब्य यदपरं निराकरोति तद् अभिनिवेशात्मकं ज्ञानमेव कल्पनात्मिका विप्रतिपत्तिः ।
द्वयोः सत्ययोरेकं निमित्तीकृत्य या अपरं निराकरोति सा वाक् शब्दात्मिका विप्रतिपत्तिअरवसेया ।
(ग) अवधिः
मार्गे ऽप्रवेशादारभ्य अशुद्धसप्तभूमिपर्यन्तमासां विप्रतिपत्तीनां सीमा भवतीति ।
॥ इति मूर्धाभिसमयोपलक्षका अष्टौ धर्माः ॥
(इ) आनुपूर्विकाभिसमयोपलक्षकाः त्रयोदश धर्माः
आनुपूर्विकाभिसमयस्य स्वरूपनिर्देशः अभिसमयालङ्कारे संक्षेपतः कारिकाशेन कृतः । तथा हि -
त्रेधा दशधा चानुपूर्विकः
विस्तरतस्तु तस्य लक्षणादिकमनया एकया कारिकयोपन्यस्तम् । तथा हि -
दानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा ।
धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥
(क) लक्षणम्
सर्वाकारज्ञतादित्रिसर्वज्ञताकारान् अधिगतान् अनुपूर्वीकृत्य प्रज्ञाभावनयोपात्तः सत्त्वयोगः आनुपूर्विकप्रयोग इति लक्षणम् ।
(ख) भेदः
दानादिषट्पारमितापरिपूरणेन (षट्), बुद्ध-धर्म-संघ-शील-त्याग-देवता-नामनुस्मरणेन (षट्) , रूपादिसर्वधर्माभावे स्वभावावबोधेन (एकः) यो ऽधिगमः स आनुपूर्विकाभिसमयस्त्रयोदशविध इत्यस्य त्रयोदश भेदा भवन्ति ।
(ग) अवधिः
सम्भारमार्गमारभ्य एकक्षणाभिसम्बोधात् समनन्तरपूर्वक्षणपर्यन्तमस्य सीमा भवतीति ।
॥ इति आनुपूर्विकाभिसमयोपलक्षकाः त्रयोदशः धर्माः ॥
(ई) एकक्षणाभिसम्बोधाभिसमयोपलक्षकाः चत्वारो धर्माः
एकक्षणाभिसम्बोधस्य स्वरूपनिर्देशः अभिसमयालङ्कारे कारिकार्धेन संक्षेपतः कृतः । तथा हि -
एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥
विस्तरतस्तु सप्तमाधिकारे द्रष्टव्यः ।
(क) लक्षणम्
अधिगतत्रिसर्वज्ञताकारेषु स्वभ्यस्तस्तेषामेव क्षणेनैकेनाधिगमरूपः पर्यन्तयोगः एकक्षणाभिसम्बोध इति लक्षणम् ।
एकक्षणप्रयोगः, अन्तिमक्षणबोधिसत्त्वीयज्ञानम्, आनन्तर्यमूर्धप्रयोगः इत्यनर्थान्तरम् ।
(ख) भेदः
स्वरूपतः एकविध एव एकक्षणाभिसम्बोधो लक्षणेन (व्यावृत्या) चतुर्विधो भवति, यथा - अविपाकलक्षणः, विपाकलक्षणः अलक्षणलक्षणः, अद्वयलक्षणश्चेति ।
(य) अविपाकलक्षणः
अस्य सर्वं स्वरूपम् अभिसमयालङ्कारे एकया कारिकया परीदीपितम् । तथा हि -
अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् ।
एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः ॥
(क) लक्षणम्
एकक्षणदानादिज्ञानेन अनास्रवदानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण बोधिसत्त्वस्य अवबोधरूपः पर्यन्तयोगः अविपाकानास्रवसर्वधर्मैकक्षणलक्षणो भवतीति लक्षणम् ।
(र) विपाकलक्षणः
अस्य सर्वं स्वरूपम् अभिसमयालङ्कारे एकया कारिकया सम्यगभिहितम् । तथा हि -
विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥
(क) लक्षणम्
यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षकलङ्कापगमेन सकलव्यवदानपक्षविपाकधर्मतावस्था शुक्लस्वभावा जाता, तदा एकस्मिन्नेव क्षणे विपाकावस्थाप्राप्तानाम् अनास्रवधर्माणां बोधात् ज्ञानं (प्रज्ञापारमिता) विपाकधर्मतावस्थानास्रवधर्मैकक्षणलक्षणो भवति, इत्येवक्षणाभिसम्बोधो द्वितीयः । अयं विपाकः अष्टमभूमेरूर्ध्वं भवतीति ज्ञेयम् ।
(ल) अलक्षणलक्षणः
अस्य स्वरूपादिकं सर्वम् अभिसमयालङ्कारे एकया कारिकया सुस्पष्टमुपवर्णितम् । तथा हि -
स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ।
(क) लक्षणम्
पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां सर्वधर्माणामेकेनैव क्षणेन अलक्षणत्वं जानाति, इत्येवम् अलक्षण सर्वधर्मैकक्षणलक्षणो भवतीति एकक्षणाभिसम्बोधस्तृतीयः ।
(व) अद्वयलक्षणः
अस्याद्वयलक्षणस्य स्वरूपम् अभिसमयालङ्कारे एकया कारिकया स्पष्टमुपदर्शितम् । तथा हि -
स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते ।
धर्माणामद्वयै तत्त्वं क्षणेनैकेन पश्यति ॥
(क) लक्षणम्
निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावाद् उन्मीलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदर्शिनं ग्राहकं नेक्षते, तदा सर्वे ऽप्येवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वमेकेनैव क्षणेन पश्यति, इत्येवम् अद्वयलक्षणसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधश्चतुर्थः ।
(ख) निर्वचनम्
एक इत्यन्तिमः, क्षणमिति समयः, अभिरित्याभिमुख्यम्, समिति सम्यक्, अय इत्यधिगम इत्येवं अन्तिमकाले दानादिसर्वानास्रवधर्माणामविपरीतः सम्यक् प्रतिवेधः एकक्षणाभिसम्बोध इत्युच्यते ।
(ग) अवधिः
समस्तानां चतुर्लक्षणानामवधिः अन्तिमक्षणस्थबोधिसत्त्वीयावस्थायामेव भवति ।
॥ इति एकक्षणाभिसम्बोधाभिसमयस्य अष्टौ धर्माः ॥
3. धर्मकायोपलक्षकाश्चत्वारो धर्माः
विपाकभूतस्य धर्मकायस्य संक्षिप्तनिर्देशः अभिसमयालङ्कारे एकया कारिकया परिदीपितः । तथा हि -
स्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथाः ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥
विस्तृतनिर्देशस्तु अष्टमाधिकारे चत्वारिंशत्कारिकाभिर्विहितः । तत्र धर्मकायस्य लक्षणादिकं सर्वं स्वरूपमुपवर्णितम् ।
(क) लक्षणम्
सम्भारद्वयसंचयबलेन प्राप्ताः पर्यन्तगुणा एव फलभूतो धर्मकाय इति लक्षणम् ।
(ख) भेदः
चत्वारो ऽस्य भेदा भवन्ति, यथा - स्वभावकायः, ज्ञानधर्मकायः, सम्भोगकायः, निर्माणकायश्चेति चत्वारः ।
1. स्वभावकायः
अस्य स्वाभाविककायस्योपपादनम् अभिसमयालङ्कारे एकया कारिकया कृतम् । तथा हि -
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥
(क) लक्षणम्
प्रकृत्यागन्तुकमलविशुद्धिद्वयलक्षणः पर्यन्तधातुरनुत्पादरूपः स्वभावकाय इति लक्षणम् ।
(ख) भेदः
प्रकृतिविशुद्धः आगन्तुकविशुद्धश्चेति द्वौ भेदौ ।
(ग) अवधिः
स्वभावकायः केवलं बुद्धभूमावेव भवति ।
2. ज्ञानधर्मकायः
अस्य ज्ञानकायस्य स्वरूपम् अभिसमयालङ्कारे पञ्चभिः कारिकाभिरुपदर्शितम् ।
(क) लक्षणम्
यावज्ज्ञानं यथावज्ज्ञानं चापेक्ष्य साक्षात्कारि पर्यन्तज्ञान ज्ञानधर्मकाय इति लक्षणम् । ज्ञानधर्मकायः सर्वज्ञज्ञानं चेत्यनर्थान्तरम् ।
(ख) भेदः
बुद्धभूमौ अनास्रवज्ञानानामेकविंशतिः ज्ञानवर्गा एवास्य एकविंशतिः प्रभेदाः । तथा हि -
(1) स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता सप्तत्रिंशद् बोधिपक्षाः, (2) चत्वार्यप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः, (3) अष्टौ विमोक्षाः, (4) नवसमापत्तयः, (5) कृत्स्नायतनानि दश (6) अष्टौ अभिभ्वायतनानि, (7) अरणासमाधिः, (8) प्रणिधिज्ञानम्, (9) षडभिज्ञाः, (10)चतस्रः प्रतिसंविदः, (11) आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतश्रः शुद्धयः, (12) दश वशिताः, (13) दश बलानि, (14) चत्वारि वैशारद्यानि, (15) त्रीणि अरक्षणानि, (16) त्रीणि स्मृत्युपस्थानानि, (17) असम्मोषधर्मता, (18) क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणात् वासनासमुद्घातः, (19) सकलजनहिताशयता महाकरुणा, (20) अष्टादशावेणिका बुद्धधर्माः, (21) सर्वाकारज्ञतादित्रिसर्वज्ञता ।
तथा चोक्तम् अभिसमयालङ्कारे -
बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः ।
नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् ॥
अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥
सर्वाकाराश्चतस्रो ऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥
त्रिविधं स्मृत्युपस्थानं त्रिधा ऽसंमोषधर्मता ।
वासनायाः समुद्घातो महती करुणा जने ॥
आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्माकायो ऽभिधीयते ॥
(ग) अवधिः
बुद्धभूमावेव ज्ञानधर्मकायो भवति ।
3. सम्भोगकायः
सम्भोगकायस्य स्वरूपवर्णनम् अभिसमयालङ्कारे एकया कारिकया कृतम् । तथा हि -
द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
साम्भोगिको मतः कायो महायानोपभोगतः ॥
(क) लक्षणम्
स्थानकायपरिवारधर्मकालाख्यैः पञ्चभिर्विनियतैर्विर्शिष्टः कायः सम्भोगकाय इति लक्षणम् ।
(ख) भेदः
महासम्भोगकायः कनिष्ठसम्भोगकायश्चेति भेदद्वयमभिधानदृष्ट्या कर्तुं शक्यते । तत्र महासम्भोगकायः अकनिष्ठभौमिकः सम्भोगकाय इत्यनर्थान्तरम् । तथैव कनिष्ठसम्भोगकायः अकनिष्ठभौमिकौ निर्माणकायश्चेत्यनर्थान्तरम् ।
(ग) अवधिः
अयं सम्भोगकायो बुद्धभूमौ अकनिष्ठघनव्यूहक्षेत्रे एव केवलं भवति ।
4. निर्माणकायः
कायस्यास्य नैर्माणिकस्य स्वरूपम् अभिसमयालङ्कारे कारिकया एकया सम्यगुपवर्णितम् । तथा हि -
करोति येन चित्राणि हितानि जगतः समम् ।
आ भवात् सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥
(क) लक्षणम्
पञ्चभिर्विनियतैर्विरहितः पर्यन्तरूपकायो निर्माणकाय इति लक्षणम् ।
येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थो ऽवसातव्यः ।
(ख) भेदः
निर्माणकायस्य त्रयो भेदा भवन्ति, यथा - उत्तमनिर्माणकायः, शैल्पिकनिर्माणकायः, नैर्याणिकनिर्माणकायश्चेति ।
बुद्धकारित्राणि
इमानि भगवतो विचित्राणि कारित्राणि अभिसमयालङ्कारे सप्तभिः कारिकाभिर्विस्तरशो निर्दिष्टानि ।
(क) लक्षणम्
स्वसन्ततिस्थसर्वाकारज्ञताधिपत्येनोदयमासादिताः शुक्ला गुणा एव बुद्धकारित्राणीति लक्षणम् ।
(ख) भेदः
गतिप्रशमनकारित्रत आरभ्य निर्वाणनिवेशनपर्यन्तं सप्तविंशतिः कर्माण्येवास्य सप्तविंशतिः प्रभेदा भवन्ति । यथोक्तमभिसमयालङ्कारे सप्तविंशतिः करित्राणि -
तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते ।
गतीनां शमनं कर्मं संग्रहे च चतुर्विधे ॥
निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥
बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेते ऽनुपलम्भे च परिपाके च देहिनाम् ॥
बोधिसत्त्वस्य मार्गो ऽभिनिवेशस्य निवारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥
अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥
विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥
व्यतिभेदापरिज्ञाने निर्वाणे व निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥
(ग) अवधिः
मार्गे ऽप्रवेशादारभ्य बुद्धभूमिपर्यन्तमस्यावधिर्भवति ।
(घ) वैशिष्ट्यम्
विनेयजनकर्मानुसारं भगवतः कायवाङ्मनःकारित्राणि आकाशवद् अत्युदाराणि, नदीधारावद् अविच्छिन्नानि, समुद्रतरङ्गवत् कालानतिक्रमणलक्षणानि, चिन्तामणिकल्पवृक्षादिवद् अनाभोगरूपाणि भवन्ति ।
(ङ) अवधिः
विनेयजनप्रतिभासभाक् सप्तविंशतिप्रकारं कर्म अविच्छिन्नतया आसंसारं प्रवर्तते ।
॥ इति धर्मकायोपक्षकाश्चत्वारो धर्माः ॥
परिणामना
प्रज्ञापारमितोपलक्षकाणां सर्वाकारज्ञाताद्यष्टानाम्, अष्टपदार्थोपलक्षकाणां च सप्ततेः पदार्थानां प्रकाशकमिदं सुभाषितं जगद्गुरोः मैत्रेयनाथस्य मुखान्निः-सृतस्यागमस्य चतुर्दिक्षुः प्रसाराय लोकस्य च सन्मार्गारोहणाय प्रभवेदिति परिणामना । आचार्यहरिभद्रवचनेन तु -
तथ्यातथ्यविभागयुक्तिविकलज्ञानोदयात्संवृतौ
संसारार्णवपङ्कमग्नमनसी जाताः सदा देहिनः । सर्वे ऽमी जननीनिबन्धनकृताद् बीजान्मयाप्ताच्छुभात् सर्वाकारवरा भवन्तु नियतं कायत्रयप्रापिणः ॥
इति शम् ओम्
मूल पाठ: Abhisamayālaṃkāravivaraṇa · Edition: Ram Shankar Tripathi: Abhisamayalankarantah patinam. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 1-67 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0