भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 8

8.1

॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे
एकक्षणाभिसमयाधिकारः सप्तमः ॥
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविकोमुनेः कायस्तेशां प्रकृतिलक्षणः

8.2

बोधिपक्षाप्रमाणानि विमोक्षा अनूपुर्वशः ।
नवात्मिका समापत्तिः कृत्स्नं दशविधात्मिकम्

8.3

अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः

8.4

सर्वाकाराश्चतस्नो ऽथशुद्धयो वशिता दश ॥
बलानि दश चत्वारि वैशारद्यान्यारक्षणम्

8.5

त्रिविधं स्मृत्युपस्थानं त्रिधासंमोषधर्मता ।
वासनायाः समुद्धातो महति करूणा जने

8.6

आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते

8.7

श्रवकस्यारणादृष्टेर्नृक्लेशपरिहारिता ।
तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा

8.8

अनाभोगमनासङ्मव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद्वौद्धं प्रणिधिज्ञानमिष्यते

8.9

परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्तव्यं प्रथते तस्य तस्य सः

8.10

वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति ।
समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्रुते

8.11

इति कारित्रवैपुल्यात् बुद्धो व्यापी निरूच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते

8.12

द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
सांभोगिको मतः कायो महायानोपभोगतः

8.13

चक्राङ्कहस्तः क्राकुर्मपादो जालावाद्धाङ्गुलिपाणिपादः ।
करौ सपादौ तरूणौ मृदू च ममुत्सदैः सप्तभिराश्रयो ऽस्य

8.14

दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजुच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरूबाहुः कोशावनद्धोत्तमबस्तिगुह्यः

8.15

सुवर्णवर्ण्ः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजात्रोमा ।
ऊऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः

8.16

हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्माण्डलतुल्यमूर्तिः ।
उषीषमूर्धा पृथुचारूजिह्वो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः

8.17

तुल्याः प्रमाणे ऽविरलास्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः ।
नीलेक्शणे गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि

8.18

यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणः

8.19

गुरूणामनुयानादिर्दृढता संवरं प्रति ।
संग्रहासेवनं दानं प्रणितस्य च वस्तुनः

8.20

वध्यमोक्षसमादानां विव्र्6इद्धिः कुशलस्य च ।
इत्यादिको यथासुत्रं हेतुर्लक्षणसाधकः

8.21

ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः ।
वृत्ताश्चितानुपूर्वाश्च गुढा निर्ग्रन्थ्यः शिराः

8.22

गुढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारूगमनमृजुवृत्तता

8.23

मृष्टानुपूर्ते मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्णव्यञ्जनता चारुपृथुमण्डलगारता

8.24

समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोस्सदगात्रत्वे सुसंहतनगात्रता

8.25

सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षामकुक्षिताश्च गभिरता

8.26

दक्षिणावर्तता नाभेः समन्तद्दर्शनीयता ।
समाचारः शुचिः कालतिलकापगता तनुः

8.27

करौ तुलमृदूस्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बोपमौष्ठता

8.28

मृद्वी तन्वी च रक्ता च जिह्वा जिमूतघोषता ।
चारूमञ्जस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः

8.29

अनुपुर्वी गतास्तुङ्गा नासिका परं शुचिः ।
विशले नयने पक्ष्मचितं पद्मदलाक्षिता

8.30

आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ

8.31

ललाटमपरिम्लानं प्रृथुपूर्णोत्तमाङ्गता ।
भ्रमराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः

8.32

केशा अपरुषाः पुंसां सौरभ्यान्यपहारिणः ।
श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम्

8.33

करोति येन चित्राणि हितानि जगतः समम् ।
आ भवात्सो ऽनुपच्छिन्नः कयो नैर्माणिको मुनेः

8.34

तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते ।
गतीनां शमनं कर्म संग्रहे च चतुर्विधे

8.35

निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च

8.36

बुद्धमार्गे प्रकृत्यैवशुन्यतायां द्वयक्षये ।
संकेते ऽनुपलम्भे च परिपाके च हेहिनाम्

8.37

बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे ।
बोधिप्राप्तु जिनक्षेत्रविशुद्धौ नियतिं प्रति

8.38

अप्रमेये च सत्त्वर्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने

8.39

विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने ससंभारे संस्कृतासंस्कृते प्रति

8.40

व्यतिभेदापरिज्ञाने विर्नाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविम्शतिधा मतम्

मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc