ग्रंथ पाठ
अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 7
7.1
॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे
अनुपुर्वाभिसमयाधिकारः षष्ठः ॥
अनूस्रवाणां सर्वेषामेकैकेनापि संग्रहात् ।
एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः
7.2
अरधट्टं यथैकापि पदिका पुरूषेरिता ।
सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा
7.3
विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा
7.4
स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्या ।
अलक्षत्वं धर्माणां क्षणेनैकेन विन्दति
7.5
स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते ।
धर्माणामद्वयं तत्त्वं क्षणेनैकेनपष्यति
मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0