भाषा

ENहिગુ
ग्रंथ पाठ

अभिलाषाष्टकम् · अध्याय 1

1

कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टाङ्गं गगनरुचमापीतवसनम् ।
गदाशङ्खाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम्

2

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिङ्गिततनुम् ।
स्तुतं देवैर्नित्यं मुनिवरकदम्बैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम्

3

कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गङ्गातटगिरिगुहावाससहनम् ।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः

4

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम्

5

कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम्

6

कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
सदोङ्कारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम्

7

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।
वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम्

8

कदा हित्वा जीर्णां त्वचमिव भुजङ्गस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यान्तिकमखिलदुःखान्तकमिति

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
अभिलाषाष्टकं सम्पूर्णम् ॥

मूल पाठ: abhilāṣāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc