108 Buddhist stotras · अध्याय 97
वज्रसत्त्वं भुवनवरगुरुं सर्वबुद्धं भवन्तं नानारूपं जिनेन्द्रं तिमिरभयहरं निर्मितं मेरुशान्तम् ।
धर्माधारं मुनीनां जिनगुणशुभदं मण्डलं वज्रधातुं सर्वानन्दैकरूपं परमसुखमयं देहिनां मोक्षहेतुम् ॥
अज्ञानगाढतिमिरार्णवमग्नसत्त्वमोहान्धकारतमवारणचन्द्ररश्मिः ।
ज्ञानं प्रकाश्य परिपूरितवीर्यध्यानं श्रीवज्रसत्त्वमसमं शिरसा नमामि ॥
यस्मिन् सुरासुरसुरेन्द्रनरेन्द्रवृन्दास्त्वत्पादपद्मपतिता भ्रमराः शिरोभिः ।
तत्सिद्धिसाधनपयोधिमहानिधानं श्रीलोकनाथचरणं शरणं प्रयामि ॥
बुद्धं त्रैलोक्यनाथं सुरवरनमितं पारसंसारतीर्णं धीरं गाम्भीर्यवन्तं सकलगुणनिधिं धर्मराजाभिषिक्तम् ।
तृष्णामोहान्धकारं कलिकलुषहरं कामलोभादवन्तं तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि ॥
ह्रींकारसंभवं नाथं करुणास्निग्धमानसम् ।
अमोघपाशनामानं लोकनाथं नमाम्यहम् ॥
मामकी लोचना तारा पद्मिनी जिनधातवे ।
सर्वबुद्धालयं चैत्यं धर्मधातुं नमामि तम् ॥
नमस्तारे तुरे वीरे तुत्तारे भयनाशिनि ।
तुरे सर्वातुरे काले स्वाहाकारं नमाम्यहम् ॥
सद्धर्मपुण्डरीकाक्षं सर्वज्ञगुणसागरम् ।
समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0