भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 8

8.1

सुखदचक्रचारुचूडामणिरुचिरमरीचिसंचय प्रचुरशिखाप्रचारपरिचुम्बितचर्चितचरणचन्द्रके ।
जगति चराचरे ऽपि साचीकृतचकितकृपालुलोचने स्तुतिवचनोपचारमुचिताचरतिं रचयामि देवि ते ॥

8.2

नखरकठोरकोटिकुट्टितकरिकटतटपाटनोत्कटाः प्रविकटरुधिरपटलपटपालिता अटवीविलुण्ठकाः ।
विकटसटाट्टहासघटितावटतटघटानोद्भटास्त्वज्जुषि झटिति यान्ति सटिनः कुण्ठादपि कुण्ठशक्तिताम् ॥

8.3

मलिनमहाकपोलतलविगलितमदजलमलनविह्वलाः स्खलदलिजालबहलकोलाहललितविलासलासिनः ।
विचलितकर्णतालपवनाहतललितविलेपधूलयः पथि न गजाश्चलन्ति कुलशैलतुलास्तव ला(ना)मलालिताः ॥

8.4

मारुतघातजातरभसोच्छलदनलशिखाकदम्बक प्रतिहतपुरपुरन्ध्रिहाहारवत्वरितदिगन्तभैरवः ।
उद्धतधूम्रधूमधूलिधुतबद्धघनान्धकारकं त्वन्नतिनीतिगतिरेति शमं बहुशो हुताशनः ॥

8.5

चलितलतावितानकुटिलोद्गमदुर्गमगहनवर्तिन सपदि पुरो नरस्य तारेति मनागपि नामधारिणः ।
स्फीतफणौघघोरफूत्कारपरिस्फुरतानलस्फुट स्फुरदुरुविस्फुलिङ्गविस्फारिणि फणिनि विषं विनश्यति ॥

8.6

क्षणकृतकोपकम्पकरकर्षितखरकरवालनिर्मल व्यतिकरकरकरवालविकरालमहाबलभुजार्गलः ।
प्रस्थितपथिकनिकटकटविघटनपटुरतिनिष्ठुराशयो भगवति भक्तिवन्तुमुपसर्पति तव न वने ऽपि तस्करः ॥

8.7

यो ऽपि नरेन्द्रवीरहुङ्कारकचग्रहनिग्रह् ग्रहग्रस्त इव रज्जुहिञ्जीरवजर्जरिताङ्गपञ्जरः ।
प्रतिपदखनखनायमानमुखरीकृतखरखरशृङ्खलावलि स्त्वच्चरणारविन्दमभिवन्द्य स नन्दति मुक्तबन्धनः ॥

8.8

कलकलकलिललोलकल्लोलजलोल्ललत्कालिकानिला स्फालितविपुलबहलवेलाकुलकूलतमालपल्लवात् ।
सरभसमकरनिकरखरनखरसुदुस्तरतो ऽपि सागरात् तारिणि तरलतारतरतारकमातुरमेत्य रक्षसि ॥

8.9

सूक्ष्मविरावसारसरघोत्करनिर्भरघोरघर्घरघ्राणा घृणाङघ्रिपाण्यस्रविस्रीकृतक्वथितशरीरपञ्जरा ।
यत्क्षणमहाप्रसादावेशत्वत्प्रणता तारिणि कामरूपिणा तत्क्षणलब्धलोलकिरणमणिकुण्डलमण्डितगण्डमण्डला ॥

8.10

यूकविकीर्णशीर्णपटकर्पटकटितटवेष्टनोद्भटः संकटपेट्टपूरमात्रार्जनपरपुरपिण्डतर्कणः ।
यदि तव नामकं हृदि करोति हि राक्षसैककः प्रौढवधूविधूतचामीकरखचितविचित्रचामरम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc