108 Buddhist stotras · अध्याय 7
श्रीमत्पोतलके रम्ये नानाधातुविराजिते ।
नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥
नानानिर्झरभाङ्कारैर्नानामृगसमाकुले ।
नानाकुसुमजातीभिः समन्तादधिवासिते ॥
नानाहृद्यफलोपेतषट्पदोद्गीतनिःस्वनैः ।
किन्नरैर्मधुरोद्गीतैर्मत्तरवारणसंकुलैः ॥
सिद्धविद्याधरगणैर्गन्धर्वैश्च निनादिते ।
मुनिभिर्वीतरागैश्च सततं सुनिषेविते ॥
बोधिसत्त्वगणैश्चान्यैर्दशभूमीश्वरैरपि ।
आर्यतारादिभिर्देवैर्विद्याराज्ञीसहस्रकैः ॥
क्रोधराजगणैश्चान्यैर्हयग्रीवादिभिर्वृते ।
सर्वसत्त्वहिते युक्तो भगवानवलोकितः ॥
व्याजहार ततः श्रीमान् पद्मगर्भासने स्थितः ।
महता तपसा युक्तो मैत्र्या च कृपयान्वितः ॥
धर्मं दिदेश तस्यां च महत्यां देवपर्षदि ।
तत्रापविद्धमागम्य वज्रपाणिर्महाबलः ॥
परया कृपया युक्तः पप्रच्छ चावलोकितम् ।
तस्करोरगसिंहोग्रगजव्याघ्रादिसंकुले ॥
सीदन्त्यमी मुने सत्त्वा मग्नाः संसारसागरे ।
बद्धाः सांसारिकैः पाशै रागद्वेषतमोमयैः ॥
मुच्यन्ते येन सत्त्वास्ते तन्मे ब्रूहि महामुने ।
एवमुक्तो जगन्नाथः स श्रीमानवलोकितः ॥
उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनीम् ।
शृणु गुह्यकराजेन्द्र अमिताभस्य तायणीः(णीम्) ॥
प्रणिधानवशोत्पन्नां ममाज्ञां लोकमातरम् ।
महाकरुणयोपेतां जगदुद्धरणोद्धृताम् ॥
उदितादित्यसंकाशां पुर्णेन्दुवदनप्रभाम् ।
भाषयन्तीमिमां तारां सदेवासुरमानुषान् ॥
कम्पयन्तीं च त्रीन् लोकान् त्रासयन्तीं यक्षराक्षसान् ।
नीलोत्पलकरां देवीं मा भैर्मा भैरिति ब्रुवन् ॥
जगत्संरक्षणार्थयाहमुत्पादिता जिनैः ।
कान्तारे शस्त्रसंपाते नानाभयसमाकुले ॥
स्मरणादेव नामानि सत्त्वान् रक्षाम्यहं सदा ।
तारयिष्याम्यहं सत्त्वान् नानाभयमहार्णवात् ॥
तेन तारेति मां लोके गायन्ति मुनिपुंगवाः ।
कृताञ्जलिपुटो भूत्वा ततः सादरसाध्वसः ॥
ज्वलयत्यन्तरिक्षे तामिदं वचनमब्रवीत् ।
नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जनैः ॥
दशभूमीश्वरैर्नाथैर्बोधिसत्त्वैर्महर्द्धिकैः ।
सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्द्धनम् ॥
धनधान्यकरं चैव आरोग्यं पुष्टिवर्धनम् ।
आयुरारोग्यजनकं सर्वसत्त्वसुखावहम् ॥
लक्ष्म्याः श्रियः स्थापकं च सर्वसत्त्वविवर्द्धनम् ।
मैत्रीमालम्ब्य सत्त्वानां तत्कीर्तय महामुने ॥
एवमुक्ते जगन्नाथः प्रहसन्नवलोकितः ।
व्यवलोक्य दिशः सर्वा मैत्रीस्फरणया दृशा ॥
दक्षिणं करमुद्धृत्य पुण्यलक्षणमण्डितम् ।
तमुवाच महाप्राज्ञः साधु साधु महातप ॥
नामानि शृणु महाभाग सर्वसत्त्वैकवत्सरे ।
यानि संकीर्त्य मनुजा सम्पदा स्युर्धनेश्वराः ॥
सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः ।
अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् ॥
तान्यहं सम्प्रवक्ष्यामि देवसंघाः शृणुत मे ।
अनुमोदध्वमेतद्वा भविष्यध्वं सुनिर्वृताः ॥
मैत्रीहृदये निर्मले श्यामे श्यामरूपि महाप्राज्ञे प्रबलवरभूषिते ।
अपराजिता महारौद्री विश्वरूपी महाबला । ओम् सुश्रिये ॥
ओम् कल्याणी महातेजा लोकधात्री महायशाः ।
सरस्वती विशालाक्षी प्रज्ञा श्रीर्बुद्धिवर्धिनी ॥
धृतिदा पुष्टिदा स्वाहा ओम्कारा कामरूपिणी ।
सर्वसत्त्वहितोद्युक्ता संग्रामोत्तारिणी जया ॥
प्रज्ञापारमिता देवी आर्यतारा मनोरमा ।
दुन्दुभी शङ्खिनी पूर्णा विद्याराज्ञी प्रियम्वदा ॥
चन्द्रानना महागौरी अजिता पीतवाससा ।
महामाया महाश्वेता महाबलपराक्रमा ॥
महारौद्री महाचण्डी दुष्टसत्त्वनिषूदिनी ।
प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा ॥
विद्युन्मारी ध्वजी खङ्गी चक्री चापोद्यतायुधा ।
जम्भनो स्तम्भनी काली कालरात्रिर्निशाचरी ॥
रक्षणी मोहनी शान्ता कान्तारी द्रावणी शुभा ।
ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी ॥
माङ्गल्या शाङ्करी सौम्या जातवेदा मनोजवा ।
कपालिनी महावेगा सन्ध्या सत्या ऽपराजिता ॥
सार्थवाहकृपादृष्टिर्नष्टमार्गप्रदर्शिनी ।
वरदा शासनी शास्त्री सुरूपा ऽमृतविक्रमा ॥
शर्वरी योगिनी सिद्धा चण्डारी(ली)अमृता ध्रुवा ।
धन्या पुण्या महाभागा शुभगा प्रियदर्शना ॥
कृतान्तत्रासिनी भीमा उग्रा उग्रमहातपा ।
जगद्धिते सदोद्युक्ता शरण्या भक्तवत्सला ॥
वागीश्वरी शिवा सूक्ष्मा नित्या सर्वक्रमानुगा ।
सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनप्रदा ॥
अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा ।
तारानामगुणानन्ता सर्वाशापरिपूरका ॥
ओम् तारे कृपावरे श्रीक्लेशश्रवणीये स्वाहा ।
नाम्नामष्टोत्तरशतं ह्येतद्यत्कीर्तितं मया ।
रहस्यभूतं गुह्यं च देवानामपि दुर्लभम् ॥
सौभाग्यभोगकरणं सर्वकिल्विषनाशनम् ।
सर्वव्याधिप्रशमनं सर्वसत्त्वसुखावहम् ॥
त्रिकालं यः पठेद्धीमान् शुचिस्थाने समाहितः ।
सो ऽचिरेणैव कालेन राज्यश्रियमवाप्नुयात् ॥
दुःखी स्यात्तु सुखी नित्यं दरिद्रो धनवान् भवेत् ।
पुत्रो भवेन्महाप्राज्ञो मेधावी च न संशयः ॥
बन्धनान्मुच्यते बद्धो व्यवहारे जयोअ भवेत् ।
शत्रवो मित्रतां यान्ति शृङ्गिणः शुनका अपि ॥
संग्रामे संकटे दुर्गे नानाभयसमुच्छ्रिते ।
स्मरणादेव नामानि सर्वान्भयानपोहति ॥
नाकालमृत्युर्भवति प्राप्नोति विपुलाशयम् ।
मानुष्ये सफलं जन्म तस्यैकस्य महात्मनः ॥
यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति ।
स दीर्घकालमायुष्मान् श्रियं च लभते नरः ॥
देवा नागास्तथा यक्षा गन्धर्वा कठपूतनाः ।
पिशाचा राक्षसा भूता मातरो रौद्रतेजसाः ॥
डाकिन्यस्तारकाः प्रेताः स्कन्दोमाद्या महाग्रहाः ।
छायापस्मारकाश्चैव खेटका खार्दकादयः ॥
वेतालाश्चिंचका प्रेष्या ये चान्ये दुष्टचेतसः ।
छायामपि न लङ्घन्ति किं पुनस्तस्य विग्रहम् ॥
दुष्टसत्त्वा न बाधन्ते व्याधयो नाक्रमन्ति च ।
सर्वैश्वर्यगुणैर्युक्तो वंशवृद्धिश्च जायते ॥
जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः ।
प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः ॥
कल्याणमित्रसंसेवी बोधिचित्तविभूषितः ।
सदा ऽविरहितो बुद्धैर्यत्र यत्रोपपद्यते ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0