भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 75

75.1

अमितरुचिशिरःस्थं पद्मपत्रायताक्षं दुरितकृतविनाशं मोहमाया ऽहिताक्षम् ।
करधृतकनकाब्जं लोकपालैकदक्षं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.2

अरुणवरुणशोभाबोधिविज्ञानहेतुं मणिमयमुकुटं संसारकाम्भोधिसेतुम् ।
कृतमनसिजनाशं बोधिसत्त्वादिकेतुं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.3

सरसिजकृतवासं दूरकन्दर्पपाशं सुरनरदनुजाशं पूर्णचन्द्रप्रकाशम् ।
सुकृतजनविलासं कोटिसूर्यावभासं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.4

उरसि विहितनागं मोचिताशेषरागं भवजलधिविभागं मोक्षसौख्यैकमार्गम् ।
प्रतपितकनकाङ्गं बोधिबोधैकरागं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.5

जिनवरसुतराजं मुक्तिमालाविराजं सुललितफणिराजं कीर्णिताचाभिराजम् ।
प्रमुदितवलिराजं पालितामर्त्यराजं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.6

धृतमधुकररूपं क्षुप्तिपासान्तकूपं सुचरितहयरूपं सिंहलादन्तभूपम् ।
अगुरुसुरभिधूपं धारिताशेषरूपं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.7

त्रिविधविधृतपापं मे हरन्तं त्रितापं प्रतिदिनमितिजापं देवचक्रे विलापम् ।
निरयभयकलापं भेदकाज्ञानचापं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.8

विहितशुभजनानां मुक्तितापोद्यतानां विगलितकलुषाणां भक्तिपूजारतानाम् ।
वरकुशलसमूहं संप्रपेदे स्वभक्त्या प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.9

दशबलकृतसिद्धिं संवधे बुद्धबोधिं जननमरणभीतं मारपाशाभिनीतम् ।
मनसि मलिनवृत्ते पूरिताज्ञानवित्ते प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.10

प्रवरसुगतरत्नं धर्मकायं संसंघं क्षरणमिह प्रयामि कारितानङ्गभङ्गम् ।
प्रमुदितमनसाप्तं बोधिलाभैकयत्नं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् ॥

75.11

श्रीलोकनाथचरणाम्बुजभक्तिपद्म पीयूषनन्दरचितानतिविस्तराढ्यम् ।
यत्सप्तधार्चनयुतं सरसातिहृद्यं सौख्यावतीगमनमार्गकरं तु सद्यः ॥

75.12

स्तुत्वा लोकगुरुं मुनीश्वरमिमं सर्वार्थसिद्धिप्रदं यत्पुण्यं समुपार्जितं व्रजतु तत्पुण्येन सौख्यावतीम् ।
श्रीलोकेश्वरपादपङ्कजरसोल्लासैकहर्षोदितं लोकक्लेशहरं सुदुर्जयवरं जित्वा प्रमुक्तामलम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc