भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 64

64.1

निर्विकल्पे नमस्तुभ्यं प्रज्ञापारमिते ऽमिते ।
या त्वं सर्वानवद्याङ्गि निरवद्यैर्निरीक्ष्यसे ॥

64.2

आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम् ।
यस्त्वां पश्यति भावेन स पश्यति तथागतम् ॥

64.3

तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः ।
न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव ॥

64.4

कृपात्मकां प्रपद्य त्वां बुद्धधर्मपुरस्सराम् ।
सुखेनायान्ति माहात्म्यमतुलं भक्तवत्सले ॥

64.5

सकृदप्याशये शुद्धे यस्त्वां विधिवदीक्ष्यते ।
तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने ॥

64.6

सर्वेषामपि वीराणां परार्थे नियतात्मनाम् ।
व्यापिका जगतीमेनां माता त्वमसि वत्सला ॥

64.7

ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः ।
तेन त्वमसि कल्याणि सर्वसत्त्वपितामही ॥

64.8

सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिता ।
चन्द्रलेखेव ताराभिरनुप्रोता ऽसि सर्वतः ॥

64.9

विनेयजनमासाद्य तत्र तत्र तथागतैः ।
बहुरूपा त्वमेवैका नानानामभिरीक्ष्यसे ॥

64.10

प्रभां प्राप्येव दीप्तांशोरवश्यायोदविन्दवः ।
त्वां प्राप्य प्रलयं यान्ति दोषावादाश्च वादिनाम् ॥

64.11

त्वमेव त्रासजननी बालानां भीमदर्शना ।
आश्वासजननी चापि विदुषां सौम्यदर्शना ॥

64.12

यस्य त्वय्यप्यभिष्वङ्गस्त्वन्नाथस्य न विद्यते ।
तस्याम्ब! कथमन्यत्र रागद्वेषौ भविष्यतः ॥

64.13

नागच्छसि कुतश्चित्त्वं कुत्रचिन्न च गच्छसि ।
स्थानेष्वपि च सर्वेषु विद्वद्भिर्नोपलभ्यसे ॥

64.14

ये त्वामेव न पश्यन्ति प्रपद्यन्ते च भावतः ।
प्रपद्य च विमुच्यन्ते तदिदं महदद्भुतम् ॥

64.15

त्वामेव बध्यते पश्यन्नपश्यन्न विबध्यते ।
त्वामेव मुच्यते पश्यन्नपश्यन्न विमुच्यते ॥

64.16

अहो विस्मयनीयासि गम्भीरासि यशस्विनी ।
सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे ॥

64.17

बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविते ।
मार्गस्त्वमेको मोक्षस्य नास्त्यन्य इति निश्चयः ॥

64.18

व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थ शरीरिणाम् ।
कृपया लोकनाथैस्त्वमुच्यसे च न चोच्यसे ॥

64.19

शक्तः कस्त्वामिह स्तोतुं निर्निमित्तां निरञ्जनाम् ।
सर्वेषां विषयातीता या त्वं क्वचिदनिश्रिता ॥

64.20

सत्येवमपि संवृत्या वाक्यार्थैर्वयमीदृशैः ।
त्वामस्तुत्यामपि स्तुत्वा तुष्टुवन्तः सुनिर्वृताः ॥

64.21

प्रज्ञापारमितां स्तुत्वा यन्मयोपचितं शुभम् ।
तेनास्त्वाशु जगत् कृत्स्नं प्रज्ञापारपरायणम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc