भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 62

62.1

ब्रह्माणी तत्त्वरूपा विविधघनरवा घोरचण्डी च रौद्री कौमारी कीर्तिकामा पिबति मधुमदं वैष्णवी गायमाना ।
वाराही वादयन्ती पटुतरपटहान् नृत्यमाना तथैन्द्री चामुण्डा चापि लक्ष्मीर्हरगणसहिता मातरो वः पुनन्तु ॥

62.2

गणपतिं च हेरम्बं विघ्नराजं विनायकम् ।
देवपुत्रं महावीर्यं महाबलपराक्रमम् ॥

62.3

महोदरं महाकायमेकदन्तं गजाननम् ।
श्वेतवर्णं महादीप्तिं त्रिनेत्रं गणनायकम् ॥

62.4

अक्षमाला(च) वरदं दक्षिणकरसंस्थितम् ।
परशुर्मुण्डपात्रं च वामहस्तविधारणम् ॥

62.5

नानापुष्परतं देवं नानागन्धावलेपनम् ।
नागयज्ञोपवीताङ्गं नानाविघ्नविनाशनम् ॥

62.6

देवासुरमनुष्यैश्च सिद्धगन्धर्वकिन्नरैः ।
पूजितं विघ्नहन्तारं मूषकाटं नमाम्यहम् ॥

62.7

ब्रह्माणी ब्रह्मसावित्री ब्रह्मतत्त्वविवेदिनी ।
चतुर्भुजा चतुर्वक्त्रा चतुर्देवपरायणा ॥

62.8

चतुर्देशे चिरं व्यापी चतुर्युगोपकारिणी ।
हंसयुक्तविमानस्था सौम्यरूपा पितामही ॥

62.9

पुस्तकं पुष्पमालां च वरदाभयधारिणी ।
पीतपुष्परता देवी पीताङ्गा पीतसन्निभा ॥

62.10

पीतोपहारसंयुक्ता पीतगन्धानुलेपिनी ।
उदुम्बरद्रुमस्था च प्रयागक्षेत्रवासिनी ॥

62.11

पूर्वपीठे स्थिता नित्यं ब्रह्मशक्तिर्नमो ऽस्तु ते ।
माहेश्वरी महादेवी मोहमायानिरंज(कृंत) नी ॥

62.12

महावृषसमारूढा महाहुंकारनादिनी ।
हेममुक्त(क्ता)निभदेहा कपालशशिशेखरा ॥

62.13

त्रिलोचना त्रिशुली च अक्षसूत्रकमण्डलू ।
नानालङ्कारसर्वाङ्गी दक्षिणेन वरप्रदा ॥

62.14

सृष्टिस्थितिविनाशानां सर्वथापीश्वरेश्वरी ।
श्वेतपुष्परता देवी श्वेतगन्धानुलेपिनी ॥

62.15

श्वेतवस्त्रपरीधाना मुद्राभरणभूषिता ।
वाराणस्यां महाक्षेत्रे तार(ल)वृक्षनिवासिनी ॥

62.16

उत्तरे संस्थिता पीठे माहेश्वरी नमो ऽस्तु ते ।
बालभावे महारौद्री कौमारी रक्तलोचनी ॥

62.17

रक्तवर्णधरा देवी सिन्दूरारूणविग्रहा ।
चतुर्भुजा शक्तिसूत्रसिद्धपात्रधरा शुभा ॥

62.18

कौमारी परमा शक्तिर्मयूरवरवाहिनी ।
रक्तवस्त्रपरीधाना रक्तमांसावसायिनी ॥

62.19

कोलापुरमहाक्षेत्रे वटवृक्षनिवासिनी ।
अग्निपीठस्थिता नित्यं कौमारी ते नमो नमः ॥

62.20

वैष्णवी विष्णुमाया च दैत्यदुर्दान्तनाशिनी ।
हरितश्यामवर्णाङ्गी गरुडोपरि संस्थिता ॥

62.21

शङ्खचक्रगदाहस्ता चतुर्बाहुविभूषिता ।
रक्तज्वाला महाक्रीडा नानाभरणभूषिता ॥

62.22

हरितपुष्पगन्धा च हरितवस्त्रधारिणी ।
अट्टहासे महाक्षेत्रे कदम्बवृक्षवासिनी ॥

62.23

स्वर्गे मर्त्ये च पाताले स्थितिरूपेण संस्थिता ।
तिष्ठन्ती पीठनैरॄत्ये नारायणी नमो ऽस्तु ते ॥

62.24

वाराही घोररक्ताङ्गी रक्तकेशी महोदरी ।
दंष्ट्रावादिनी गम्भीरा रक्तनेत्रा त्रिलोचनी ॥

62.25

कपालमालिका माला विचित्रपुष्पशोभिता ।
महाशूकसमारूढा ज्वलिताग्निसमप्रभा ॥

62.26

अङ्कुशकर्तिकादण्डहाडाभरणभूषिता ।
त्रिनेत्रा ज्वलितदेहा च दुष्टदर्पविनाशिनी ॥

62.27

जयन्तीक्षेत्रसंस्थाना निम्बवृक्षसमाश्रिता ।
याम्यपीठे स्थिता नित्यं कोलरूपी नमो ऽस्तु ते ॥

62.28

शक्रेश्वरी सहस्राक्षो कुङ्कुमारुणविग्रहा ।
सुरेश्वरी देवदेवी सर्वालङ्कारभूषिता ॥

62.29

चतुर्भुजा विशालाक्षी छत्रघण्टाविधारणी ।
महावज्रधरा देवी स्थिता चैरावते गजे ॥

62.30

नानापुष्परता देवी नानारत्नविभूषिणी ।
नानागन्धविलिप्ताङ्गी नानावस्त्रविराजिनी ॥

62.31

चीर(न)क्षेत्रे महाक्षेत्रे करञ्जवृक्षसंस्थिता ।
नागपीठस्थिता नित्यं शक्रेश्वरि नमो ऽस्तु ते ॥

62.32

चामुण्डा चण्डिका चण्डी प्रचण्डसुरसुन्दरी ।
चण्डाट्टहासा चण्डाक्षी प्रचण्डचण्डनाशिनी ॥

62.33

दंष्ट्राकराला रक्ताङ्गी कपिलकेशी महोदरी ।
कृषा(पा)णी भीषणी रौद्री जिह्वाललनभीषणा ॥

62.34

महाप्रेतासनारूढा भुजाष्टकसुशोभिनी ।
असिचर्मयुता हस्तैः डमरुखट्वाङ्गधारिणी ॥

62.35

कर्तिकपालहस्ता च वरदाभयभूषिता ।
हाडालङ्कारसर्वाङ्गी अरिप्रत्यसुदा प्रिया ॥

62.36

सहस्रसूर्यसंकाशा रोपकूपं प्रति प्रति ।
ज्वालामालाकुला देहे(सूर्य)कोटिसमप्रभा ॥

62.37

भूतवेतालडाकिन्यः परिवाराश्च राक्षसाः ।
एकमक्षमहाक्षेत्रे अश्वत्थवृक्षवासिनी ।
पीठे मरुतसंस्थाने चामुण्डायै नमो ऽस्तु ते ॥

62.38

महालक्ष्मीर्महादेवी भोगाढ्या गुणसुन्दरी ।
वैदूर्यपादुकारूढा सिंहासनस्थिता सुधीः ॥

62.39

चतुर्भुजा विशालाक्षी खड्गखेटकधारिणो ।
पात्रबिन्दुधरा देवी हार्धयुक्(हारार्धयुग)कुण्डली ॥

62.40

रत्नखचितसर्वाङ्गी चूडामणिविभूषिता ।
विचित्रपुष्परत्ना च वस्त्रगन्धानुलेपना ॥

62.41

त्रैलोक्यव्यापिनी देवी सर्वस्था सचराचरा ।
सिद्धगन्धर्वनमिता विद्याधरसुरार्चिता ॥

62.42

देवीकोटमहाक्षेत्रे प्लक्षसंस्था वरा बला ।
ईशानपीठसंस्थाना महालक्ष्मीः नमो ऽस्तु ते ॥

62.43

जननी सर्बबुद्धानां सर्वसन्तोषकारिणी ।
त्वमेव सर्वरूपा च त्वमेव विश्वरूपिणी ॥

62.44

भैरवं भीषणं रौद्रं घोरगम्भोररूपिणम् ।
निरञ्जननिभं देहं सर्वकाममहोत्सवम् ॥

62.45

नानाभुजसमाकीर्णा नानावस्त्रधरा शुभा ।
बभ्रुरर्धशिरोरूहा दावाग्निसमतेजसा ॥

62.46

त्रिलोचना महातेजा अग्निसूर्यसमप्रभा ।
त्रिशूलं मुण्डं खट्वाङ्गं डमरुं तर्जनीं ध्वजम् ॥

62.47

प्रज्ञां तत्पुस्तकं चैव खड्गचर्मधरा शुभा ।
पाशाङ्कुशधरं देवं वज्रसूचीमहाधरम् ॥

62.48

कपालकर्तिकं चक्रं गजचर्मावगुण्ठितम् ।
दंष्ट्राकरालवदनं व्याघ्रचर्मकटीवृतम् ॥

62.49

सालङ्कारेण सर्वाङ्गं नरास्थिपुष्पशोभितम् ।
शीर्षमालाधरा देवी कापालिकोटरं शुभम् ॥

62.50

चूडामणिं महातेजं कपालं चन्द्रभूषितम् ।
महाप्रेतासनं नित्यं नीयमाना सदा प्रिया ॥

62.51

सहस्रसूर्यसंकाशा छत्रबिन्दुसमन्विता ।
चतुष्पीठस्थिता नित्यम् अष्टक्षेत्रनिवासिनी ॥

62.52

अष्टमूर्तिस्थिता देवी अष्टकयोगिनीप्रिया ।
भद्रपीठे स्थिता नित्यं भद्रकालीसमावृता ॥

62.53

भद्रकारणकर्ता त्वं वीरभद्र नमो ऽस्तु ते ।
असिताङ्गो रुरुश्चैव चण्डो ऽथ क्रोधभैरवः ॥

62.54

उन्मत्तभैरवश्चैव कपाली भीषणस्तथा ।
संहारभैरवञ्चाष्टभैरवाय नमो ऽस्तु ते ॥

62.55

स्वस्थाना स्वाधिकारा च स्वस्वरूपा स्ववीरका ।
स्वस्वच्छवृक्षतानं न दिव्याक्षं चैव भूमिगाः ॥

62.56

दशदिक्क्षेत्रपालं च क्षेत्राणि च चतुर्दश ।
पञ्चाशक्षेत्रपालं च क्षेत्रपाल नमो ऽस्तु ते ॥

62.57

नाथनाथ महानाथ आदिनाथ महामते ।
श्रीनाथ सिद्धनाथ मीननाथ नमो ऽस्तु ते ॥

62.58

क्षेत्रनाथ पीठनाथ द्वीपनाथ महात्मने ।
प्रेतनाथ भूतनाथ बढनाथ नमो ऽस्तु ते ॥

62.59

त्रिनाथं नवनाथं च षोडशनाथमुत्तमम् ।
सप्तविंशतिपञ्चाशचतुरशीति नमो ऽस्तु ते ॥

62.60

सर्वेषां नाथसिद्धानां मतं चक्षुस्त्वमव्ययम् ।
पोतसद्म तथा वीरस्ततः सर्व नमो ऽस्तु ते ॥

62.61

एकवारं द्विवारं च त्रिवारं यः पठेन्नरः ।
शतमावर्तयेद् येन प्राप्नोति फलमुत्तमम् ॥

62.62

नाशयेच्छोकचिन्तादि नाशयेद् विघ्नमण्डलम् ।
नाशेयेद् रोगकलहान् नाशयेद् दुःखदुष्करम् ॥

62.63

नाशयेद् भयदारिद्रयं नाशयेद् रिपुजं भयम् ।
नाशयेदग्निचौरादि नाशयेद् राजकोपजम् ॥

62.64

नाशयेद् विग्रहं घोरं परकृताभिचारकम् ।
नाशयेद् द्वेषरागादि नाशयेत् सर्वपातकम् ॥

62.65

आयुरारोग्यमैश्वर्यधनधान्यप्रवर्धनम् ।
धर्मार्थकाममोक्षाणां यशःसौभाग्यवर्धनम् ॥

62.66

ऋद्धिं सिद्धिं श्रियं लक्ष्मीं विद्यां ज्ञानं सुतादि च ।
बुद्धिं प्रजां सुमित्राणि वर्धयेच्च दिने दिने ॥

62.67

नाकाले मरणं चैव उत्पातं नाशयेत् सदा ।
सर्वे रोगाः प्रशाम्यन्ति दीर्घमायुरवाप्यते ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc