भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 61

61.1

कथं स्तोष्यामि ते(तं) नाथमनुत्पन्नमनालयम् ।
लोकोपमामतिक्रान्तं वाक्पथातीतगोचरम् ॥

61.2

तथापि यादृशो वा ऽसि तथतार्थेषु गोचरः ।
लोकप्रज्ञप्तिमागम्य स्तोष्ये ऽहं भक्तितो गुरुम् ॥

61.3

अनुत्पन्नस्वभावेन उत्पादस्ते न विद्यते ।
न गतिर्नागतिर्नाथ अभावाय नमो ऽस्तु ते ॥

61.4

न भावो नाप्यभावो ऽसि नोच्छेदो नापि शाश्वतः ।
न नित्यो नाप्यनित्यस्त्वमद्वयाय नमो ऽस्तु ते ॥

61.5

न ह्येको हरितमाञ्जिष्ठो वर्णस्ते नोपलभ्यते ।
न पीतः शुक्लः कृष्णो वा अवर्णाय नमो ऽस्तु ते ॥

61.6

न महान् नापि ह्रस्वो ऽसि न दीर्घः परिमण्डलः ।
अप्रमाणगतिं प्राप्तो ऽप्रमाणाय नमो ऽस्तु ते ॥

61.7

न दूरे नापि वासन्ने नाकाशे नापि वा क्षितौ ।
न संसारे न निर्वाणे अस्थिताय नमो ऽस्तु ते ॥

61.8

अस्थितः सर्वधर्मेषु धर्मधातुगतिं गतः ।
परां गम्भीरतां प्राप्तो गम्भीराय नमो ऽस्तु ते ॥

61.9

एवं स्तुते स्तुतो भूयादथवा किं वत स्तुतः ।
शून्येषु सर्वधर्मेषु कः स्तुतः केन वा स्तुतः ॥

61.10

कस्त्वां शक्नोति संस्तोतुमुत्पादव्ययवर्जितम् ।
यस्य नान्तो न मध्यं वा ग्राह्यग्राहो न विद्यते ॥

61.11

न गतं नागतं स्तुत्वा सुगतं गतिवर्जितम् ।
तेन पुण्येन लोको ऽयं व्रजतां सौगतीं गतिम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc