108 Buddhist stotras · अध्याय 58
तथागताद्यास्तथतां तत्त्वमापुर्महत्तरम् ।
धारणीधारणाद्यस्याः प्रतिसरां नमामि ताम् ॥
रणे शक्रो ऽजयद्दैत्यान् धारणीध्वजधृग् बहून् ।
संग्रामजयदां भीमां प्रतिसरां नमामि ताम् ॥
यत्प्रभावाद् ब्रह्मदत्तो ऽलभद् राज्यमकण्टकम् ।
सार्वभौमप्रदां देवीं प्रतिसरां नमामि ताम् ॥
बह्वपराधो ऽपि यद्भक्तो राज्याधिकारमाप्तवान् ।
शस्त्रादिभीतिसंहत्रीं प्रतिसरां नमामि ताम् ॥
रत्नान्यवापुर्वणिजो यां स्मृत्वोदधिनिर्गताः ।
सर्वबाधाप्रशमनीं प्रतिसरां नमामि ताम् ॥
बुद्धाधिष्ठानतो बुद्धाभयदां भयनाशिनीम् ।
भवाम्बुधिनिमग्नानां नमो मन्त्रानुसारिणीम् ॥
यन्मन्त्रोच्चारणादेव षडीतयः सुदारुणाः ।
नाशं प्रयान्ति वरदां नमो मन्त्रामुसारिणीम् ॥
मन्त्रानुसारिणो लोकान् नान्ये मन्त्रादयो ग्रहाः ।
पीडयन्ति प्रियांश्चापि नमो मन्त्रानुसारिणीम् ॥
बुद्धो ऽभ्यभाषद् गाथास्ता यन्मन्त्रकथनान्तरम् ।
याभिः सर्वत्र स्वस्ति स्यान्नमो मन्त्रानुसारिणीम् ॥
कलौ बुद्धविहीने ऽस्मिन् लोकानां हितमाचरेत् ।
पापोत्पातप्रशमनीं नमो मन्त्रानुसारिणीम् ॥
दुष्टं कृष्णभुजङ्गं च नरः स्वान्तिकं पालयेत् ।
यस्या मन्त्रानुभावेन मायूरीं प्रणमामि ताम् ॥
ब्रह्मादयो लोकपाला यद्धारण्या समाप्नुवन् ।
स्वानि स्वान्यधिकाराणि मायूरीं प्रणमामि ताम् ॥
स्वर्णावभासं शिखिनं नालभज्जपिनं कुधीः ।
अमोघेनापि पाशेन मायूरीं प्रणमामि ताम् ॥
यन्मन्त्रजपतो जीवाः प्राजीवञ्छुष्कपादपाः ।
मृतसंजीविनीं देवीं मायूरीं प्रणमामि ताम् ॥
यन्मन्त्रिसङ्गात् पवनो महोपद्रवशान्तिकृत् ।
बुद्धानां बोधिदां नित्यं मायूरीं प्रणमामि ताम् ॥
यद्धारणीमनुजपन् राहुलो भद्रमाप्तवान् ।
विहेठितो ग्रहैः सर्वैः शीतवतीं नमाम्यहम् ॥
पापतापे शीतकरीं शीतलाद्युपसर्गतः ।
शीतोष्णदुःखशमनीं शीतवतीं नमाम्यहम् ॥
मन्त्रग्रन्थितसूत्राणां धारणाल्लक्षयोजनम् ।
पथिकानां पालयित्रीं शीतवतीं नमाम्यहम् ॥
श्मशानस्थेन मुनिना या समुच्चारिता पुरा ।
ग्रहोपद्रवशान्त्यर्थं शीतवतीं नमाम्यहम् ॥
ग्रहाभिभूतवातानां ग्रन्थिपदविधारिणाम् ।
ग्रहभीतिप्रशमनीं शीतवतीं नमाम्यहम् ॥
महासाहस्रिके लोके साहस्रहितकारिणाम् ।
सहस्रसत्त्वजननीं नौमि साहस्रमर्दिनीम् ॥
सोपद्रवायां वैशाल्यां महोत्सवो यतः सदा ।
महोपसर्गशमनीं नौमि साहस्रमर्दिनीम् ॥
यक्षराक्षसभूतानां दमनीं दुष्टचेतसाम् ।
दुरितोपद्रवहतां नौमि साहस्रमर्दिनीम् ॥
यद्धारणीपठनतो रक्षितः शाक्यकेशरी ।
विषतो विषदिग्धां तां नौमि साहस्रमर्दिनीम् ॥
मधुमिश्रितभैषज्यं सर्वरोगनिवारणम् ।
मृतसञ्जीवनं लोके नौमि साहस्रमर्दिनीम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0