भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 5

5.1

नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे ।
त्रैलोक्यनाथवक्त्राब्जविकसत्कमलोद्भवे ॥

5.2

नमः शतशरच्चन्द्रसंपूर्णेव वरानने ।
तारासहस्रकिरणैः प्रहसत्किरणोज्ज्वले ॥

5.3

नमः कनकनीलाब्जपाणिपद्मविभूषिते ।
दानवीर्यतपःशा(क्षा)न्तितितिक्षाध्यानगोचरे ॥

5.4

नमस्तथागतोष्णीषविजयानन्तचारिणि ।
शेषपारमिताप्राप्तजिनपुत्रनिषेविते ॥

5.5

नमस्तुतारहुंकारपूरिताशादिगन्तरे ।
सप्तलोकक्रमाक्रा[न्ते] अशेषकरुणा(णे)क्षणे ॥

5.6

नमः शक्रानलब्रह्ममरुद्विश्वेश्वरार्चिते ।
भूतवेतालगन्धर्वगणयक्षपुरस्कृते ॥

5.7

नमः स्त्रदिति फट्कार परजत्र(यन्त्र)प्रमर्दिनि ।
प्रत्यालीढपदन्यासे शिखी(खि)ज्वालाकुलोज्ज्वले ॥

5.8

नमस्तुरे महाघोरे मालवीरविनाशिनि ।
भृकुटीकृतवक्त्राब्जसर्वशत्रुनिसुन्दनी(षूदिनि) ॥

5.9

नमः स्त्रीरत्नमुद्राङ्कहृदयाङ्गुलिभूषिते ।
भूषिताशेषदिक्चक्रनिकरस्वकराकुले ॥

5.10

नमः प्रमुदिताशेषमुक्ताक्षीरप्रसारिणि ।
हसत्प्रहसतुत्तारे मारलोलवशङ्करि ॥

5.11

नमः समन्तभूपालपत(ट)लाकर्षण(णे)क्षणे ।
चरभृकुटिहूंकारसर्वापदविमोचनी(चिनि) ॥

5.12

नमः श्रीखण्डखण्डेन्दु[सु]मुक्ताभरण(णो)ज्ज्वले ।
अमिताभजिताभारभासुरे किरणोद्ध्रुवे(द्धुरे) ॥

5.13

नमः कल्पान्तहुतभुगज्वालामालान्तरे(र)स्थिते ।
आलीढमुदि(द्रि)ताबद्धरिपुचक्रविनाशिनी(नि) ॥

5.14

नमः करतरा(ला)घाट(त)चरणाहतभूतले ।
भृकुटीकृतहुंकारसप्तपातालभेदिनी(नि) ॥

5.15

नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे ।
स्वाहाप्रणवसंयुक्ते महापातकनाशनी(शिनि) ॥

5.16

नमः प्रमुदिताबद्धरिगात्रप्रभेदिनि ।
दशाक्षरपदन्यासे विद्याहुंकारदीपिते ॥

5.17

नम[स्तारे] तुरे पादघातहुंकारवीजिते ।
मेरुमण्डलकैलाशभुवनत्रयचारिणी(णि) ॥

5.18

नमः सुरे स(श)राकारहरिणाङ्ककरे(र)स्थिते ।
हरिद्विरुक्तफट्कार(रे) अशेषविषनाशिणी(नि) ॥

5.19

नमः सुरासुरगणयक्षकिन्नरसेविते ।
अबुद्धमुदिताभोगकरी(रि) दुःस्वप्ननाशिनी(नि) ॥

5.20

नमश्चन्द्रार्कसम्पूर्णनयनद्युतिभास्वरे ।
ताराद्विरुक्ततुत्तारे विषमज्वल(र)नाशिनि ॥

5.21

नमः स्त्रीतत्त्वविन्यासे शिवशक्तिसमन्विते ।
ग्रहवेतार(ल)यक्षोष्मनाशिनि प्रवरे तुरे ॥

5.22

मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशतिः(ति) ।
यः पठेत्प्रातः(पठेत् प्रयतः) धीमान् देव्याभक्तिसमन्विते(तः) ॥

5.23

सायं वा प्रातरुत्थाय स्मरेत् सर्वाभयप्रदम् ।
सर्वपापप्रशमनं सर्वदुर्गतिनाशनम् ॥

5.24

अभिषिक्तो भवेत् तूर्णं सप्तभिर्जिनकोटिभिः ।
मासमात्रेण चैवासौ सुखं बौद्धपदं व्रजेत् ॥

5.25

विषं तस्य महाघोरं स्थावरं चाथ जङ्गमम् ।
स्मरणान्न पदं याति खादितं पि(पी)तमेव वा ॥

5.26

ग्रहजो(जा)लविषार्तानां परस्त्रीविषनाशनम् ।
अन्येषां चैव सत्त्वानां द्विसप्तमभिवर्तितम् ॥

5.27

पुत्रकामो लभेत् पुत्रं घनकामो लभेद्धनम् ।
सर्वकामानवाप्नोति न विघ्नैः प्रतिहन्यते ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc