108 Buddhist stotras · अध्याय 4
प्रणिपत्य मुनिं मूर्ध्ना सुप्रसन्नेन चेतसा ।
वक्ष्याम्यद्य च नामानि संबुद्धैरनुवर्णितम् ॥
सुरुपो रूपधारी च सर्वरूपो ह्यनुत्तरः ।
सर्वलक्षणसम्पूर्णो मञ्जुश्रीरुत्तमः श्रिया ॥
अचिन्त्यश्चिन्त्यविगतो ऽचिन्त्यो ऽद्भुतविक्रमः ।
अचिन्त्यः सर्वधर्माणामचिन्त्यो मनसस्तथा ॥
शून्यताभावितात्माकः शून्यधर्मसमन्वितः ।
शून्यस्त्वमधिमुक्तिश्च शून्यत्रिभवदेशकः ॥
सर्वज्ञः सर्वदर्शी च सर्वभूमिपतिर्विभुः ।
मञ्जुश्रीवशवर्ती च पद्माक्षः पद्मसंभवः ॥
पद्मकिञ्जल्कवर्णश्च पद्मपर्यङ्कवासनः ।
नीलोत्पलधरः पूतः पवित्रः शान्तमानसः ॥
प्रत्येकबुद्धो बुद्धस्त्वमादिबुद्धो निरुच्यसे ।
ऋद्धिमान् वशिताप्राप्तश्चतुःसत्योपदेशकः ॥
लोकपालः सहस्राक्ष ईश्वरस्त्वं प्रजापतिः ।
शिवस्त्वं सर्वभूतानां त्वं विभुर्गुणसागरः ॥
ऋषिस्त्वं पुण्यः श्रेष्ठश्च ज्येष्ठो जातिस्मरस्तथा ।
विनायको विनेता च जिनपुत्रो जिनात्मजः ॥
भानुः सहस्ररश्मिमस्त्वं सोमस्त्वं च बृहस्पतिः ।
धनदो वरुणश्चैव त्वं विष्णुस्त्वं महेश्वरः ॥
अनन्तो नागराजस्त्वं स्कन्दः सेनापतिस्तथा ।
वेमचित्रासुरेन्द्रस्त्वं भौमः शुक्रो बुधस्तथा ॥
सर्वदेवमयो वीरः सर्वदेवैर्नमस्कृतः ।
लोकधर्ममलातीतस्त्वं लोके चाग्रपुद्गलः ॥
लोकज्ञो लोकविज्ञातो ज्ञानिनां प्रवरो वरः ।
वरदो लयनं त्राणमधृष्यो मारकर्मिणाम् ॥
गम्भीरश्चानवद्यश्च कल्याणमित्रसंपदः ।
वैद्यस्त्वं शल्यहर्ता न नरदम्यः सुसारथिः ॥
मतिमान् गतिमांश्चैव बुद्धिमांश्च विचक्षणः ।
पुण्यवान् कल्पवृक्षश्च बोध्यङ्गपुष्पमण्डितः ॥
विमुक्तिफलसंपन्न आश्रयः सर्वदेहिनाम् ।
मनोहरो मनोज्ञश्च अनघो ब्रह्मचारिणाम् ॥
केतुस्त्वं ग्रहश्रेष्ठश्च ऋषिभिर्मुनिपुङ्गवः ।
युवराज्ञाभिषिक्तस्त्त्वं दशभूमीश्वरः प्रभुः ॥
सार्थवाहो गणश्रेष्ठो निर्वाणोत्तमदेशकः ।
खसमो मध्यकल्पस्त्वं त्वं तेजो वायुरेव च ॥
चिन्तामणिस्त्वं सत्त्वानां सर्वाशापरिपूरकः ।
नमो ऽस्तु ते महाविद्य सर्वभूतनमस्कृत ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0