भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 46

46.1

यस्याः स्मरणमात्रेण सर्वे पापाः क्षयं गताः ।
यया युक्तो वज्रकायो नमस्तस्यै नमो नमः ॥

46.2

यां स्मरन् राक्षसः क्रूरो माठरं कुक्षिसंस्थितम् ।
प्राक्षिपद् गोविषं नद्यां नमस्तस्यै नमो नमः ॥

46.3

या ऽरक्षत् वणिजः पुत्रं क्रूरसर्पाद् वधोद्यतात् ।
विषदाहमुमूर्षुं च नमस्तस्यै नमो नमः ॥

46.4

ब्रह्मदत्तो महाराजो यया रक्षितमस्तकः ।
रिपुं जित्वा विराजो ऽभून्नमस्तस्यै नमो नमः ॥

46.5

भिक्षुर्दुःशीलको रोगी यया कण्ठे प्रबन्धितः ।
प्राणान्मुक्त्वा ययौ स्वर्गं नमस्तस्यै नमो नमः ॥

46.6

समुद्रे पोतसंक्षुब्धे वणिजां प्राणरक्षकः ।
यां स्मरन् सार्थवाहो ऽभून्नमस्तस्यै नमो नमः ॥

46.7

यस्यां च प्रतिबद्धायां भार्यायां सुतमाप्तवान् ।
प्रसारितभुजो राजा नमस्तस्यै नमो नमः ॥

46.8

दरिद्रो यां प्रति स्मृत्वा दीनारान् प्रददौ जिने ।
राजा ऽभीष्टप्रदाता ऽभून्नमस्तस्यै नमो नमः ॥

46.9

यां प्रबद्ध्वा ऽसुरैर्युद्धं शक्रश्चूडामणौ प्रभुः ।
लब्धवान् विजयं वज्री नमस्तस्यै नमो नमः ॥

46.10

यस्या मन्त्रबलेनैव पूर्य पारमिताश्च षट् ।
मारा जिता जिनैर्बुद्धैर्नमस्तस्यै नमो नमः ॥

46.11

अपधीरो वधार्हो ऽपि प्रक्षिप्तः सर्वसङ्कटे ।
यां स्मृत्वा परिमुक्तो ऽभून्नमस्तस्यै नमो नमः ॥

46.12

यया बन्धितकण्ठश्च मुक्तो ऽभूत् पापसङ्कटात् ।
नगरे नायको ऽभूच्च नमस्तस्यै नमो नमः ॥

46.13

या चा ऽपराजिता विद्या सर्वबुद्धैश्च धारिता ।
मुद्रिता भाषिता नित्यं पठिता परिदेशिता ॥

46.14

लिखिता मोदिता सत्त्वहिताय पूजिता सदा ।
स्मृता कायगता कृत्वा नमस्तस्यै नमो नमः ॥

46.15

यस्याः स्मरणमात्रान्न दुर्लभं भुवनत्रये ।
पाठस्वाध्यायनाद्वापि नमस्तस्यै नमो नमः ॥

46.16

या विद्या दुर्लभा बुद्धैर्व्याकृता सुप्तशंसिता ।
महती धारणी ख्याता सर्वपापक्षयङ्करी ॥

46.17

महाबला महावीर्या महातेजा महत्प्रभा ।
महागुणवती विद्या सर्वभारविदारणी ॥

46.18

पापसन्धिसमुद्घाती मारबन्धप्रमोचनी ।
जननी बोधिसत्त्वानां सर्वदुष्टविनाशिनी ॥

46.19

रक्षणी पोषणी धात्री परमन्त्रविघातिनी ।
कार्खोदविषयोगानां विध्वंसनकरी शिवा ॥

46.20

महाध्यानरतानां च गृह्णतां लिखतां सदा ।
पाठाध्ययनकृतां नित्यं दधतां शृण्वतां तथा ॥

46.21

परेभ्यो देशिता चैव नित्यं मनसि भाविता ।
सा पुस्तकगतां कृत्वा पूज्यमाना नमस्कृता ॥

46.22

सर्वपापहरी भद्रा बोधिसंभारपूरिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

46.23

यस्या मन्त्रप्रभावेण सर्वभयान्युपद्रवाः ।
दुष्टाः सुरमनुष्याश्च दैत्यगन्धर्वराक्षसाः ॥

46.24

ग्रहाः स्कन्दा अपस्माराः पिशाचा यक्षकिन्नराः ।
डाकिन्यः शाकिनीसंघा नागा कार्खोदव्याधयः ॥

46.25

ज्वराश्च विविधा रोगाः परकर्मकृतास्तथा ।
विषाग्निशस्त्रमन्त्राणि विद्युतः कालवायवः ॥

46.26

अतिवृष्टिरनावृष्टिः सर्वशत्रुभयानि च ।
तथान्ये पापसर्गा वा विनश्यन्ति न संशयः ॥

46.27

सर्वकार्याणि सिद्ध्यन्ति नमस्तस्यै नमो नमः ।
यश्चैतां धारयेद्विद्यां कण्ठे बाहौ च मस्तके ॥

46.28

नित्यं रक्षन्ति देवास्तं दैत्या नागाश्च मानुषाः ।
गन्धर्वाः किन्नरा यक्षा भूतप्रेतपिशाचकाः ॥

46.29

डाकिन्यो राक्षसा दूत्यः कूष्माण्डाः कठपूतनाः ।
त्रिसन्ध्यं यः पठेन्नित्यं बुद्धा रक्षन्ति तं सदा ॥

46.30

प्रत्येकाः श्रावकाश्चैव बोधिसत्त्वा महर्धिकाः ।
योगिनः सिद्धमन्त्राश्च महावीर्या महर्षयः ॥

46.31

वज्रपाणिश्च यक्षेन्द्रः शक्रश्च त्रिदशैः सह ।
चत्वारश्च महाराजा ब्रह्मविष्णुमहेश्वराः ॥

46.32

नन्दिकृष्णो महाकालः कार्तिकेयो गणेश्वरः ।
भैरवा मातृका दुर्गास्तथा ऽन्ये मारकायिकाः ॥

46.33

विद्यादेव्यो महावीर्या महाबलपराक्रमाः ।
मामकी भृकुटी तारा चाङ्कुशी वज्रशृङ्खला ॥

46.34

महाश्वेता महाकाली वज्रदूती सुपाशिका ।
वज्रमाला महाविद्या सुवीर्या ऽमृतकुण्डली ॥

46.35

वज्रा ऽपराजिता चण्डी कालकर्णी महाबला ।
तथा धन्या महाभागा पद्मकुण्डलिरेव च ॥

46.36

मणिचूडा पुष्पदन्ती स्वर्णकेशी च पिङ्गला ।
एकजटा महादेवी धन्या विद्युन्मालिनी ॥

46.37

कपालिनी च लङ्केशी ब्रह्मक्षितिकनायिका ।
हारीती पाञ्चिकाश्चैव शङ्खिनी कूटदन्तिनी ॥

46.38

श्रीः सरस्वती लक्ष्मीः सिद्धेश्वरी सदानुगा ।
तमेवा ऽन्ये ऽपि रक्षन्ति यस्य विद्या करे स्थिता ॥

46.39

स भवेत् सर्वसत्त्वानां मोक्षार्थं च समुद्यतः ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc