भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 45

45.1

नमस्यामि महाकालं सर्वसम्पत्तिदायकम् ।
खर्वं लम्बोदरं नीलमष्टनागविभूषितम् ॥

45.2

द्विभुजैकमुखं वीरं कपालकृतशेखरम् ।
व्याघ्रचर्मकटीवेष्टं शतार्धमुण्डमालिनम् ॥

45.3

भावाभावपरिच्छिन्नं जगत्संबोधकारकम् ।
सर्वभावात्मकं नाथं जगन्नाथ नमो ऽस्तु ते ॥

45.4

कृष्णवर्णं महातेजं सिद्धसाधकरक्षकम् ।
कर्तिकपालिनं नाथं महाकाल नमो ऽस्तु ते ॥

45.5

व्याघ्रचर्माम्बरधरं महाक्रोधस्वरूपिणम् ।
द्वादशादित्यसंकाशं महाकाल नमो ऽस्तु ते ॥

45.6

महादंष्ट्राकरालास्यं ललज्जिह्वं सभैरवम् ।
महारक्ताभनयनं महाकाल नमो ऽस्तु ते ॥

45.7

विभ्रन्नरशिरोमालां नागराजविभूषितम् ।
श्मश्रुतुन्दिलकं वन्द्यं महाकाल नमो ऽस्तु ते ॥

45.8

सभ्रूभङ्गं त्रिनेत्रं चैवोर्ध्वपिङ्गोर्ध्वकेसरम् ।
युगान्तानलपुञ्जाभं महाकाल नमो ऽस्तु ते ॥

45.9

त्रासकं सर्वदैत्याना(मस्थ्य)सृङ्मांसभक्षकम् ।
रक्षितारं भक्तिमतां महाकाल नमो ऽस्तु ते ॥

45.10

सिद्धिसाधनमन्त्रस्य विहेठीज्यनराशनम् ।
युग्मस्याश्वासदातारं महाकाल नमो ऽस्तु ते ॥

45.11

संसारजलधेः पारं नौका यानैकगामिनी ।
नौकायाने स्वतेजास्त्वं महाकाल नमो ऽस्तु ते ॥

45.12

महाकालस्तवं चैतद् यः पठेद् भक्तिमान् नरः ।
भयार्तो मुच्यते भीतेररिचिन्ता निवर्तते ॥

45.13

महाकालं नमस्कृत्य यथोक्तकुलजन्मतः ।
तेन सुजन्मा भवति सर्वसिद्धिपरायणः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc