भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 39

39.1

भास्वन्माणिक्यभासो मुकुटभृति नमन्नाकनाथोत्तमाङ्गे भक्तिप्रह्वे सरोजासनशिरसि हसन्मालतीमालिकाभः ।
मौलौ मीलन्मृगाङ्गामकृशकपिशतां शाम्भवे शातयन्त्यो लोके लोकेशपादामलनखशशभृत्कान्तयः सन्तु शान्त्यै ॥

39.2

निर्धूता धूर्जटीन्दोर्न खलु पटु जटापिङ्गमासङ्गशारैः सारैरारान्मयूखैर्न च हरिमुकुटामन्दमाणिक्यभाभिः ।
कालिम्नो नापि लीना विबुधगणललत्कुन्तलालीनलीनाल् लोकेश्वर्यो ऽनिवार्याश्चरणनखरुचः सन्तु वो ध्वान्तशान्त्यै ॥

39.3

पर्याप्तोदारकोषस्फुटतरकमलाभोगसंपत्तिहेतुर् दूरीभूतप्रियाणामपहृतविषमातङ्कशङ्का जनानाम् ।
न क्षिप्तालङ्घनैरप्युपशमिततमोदुर्ग्रहोद्भूतभीतिर् लोकेशाङ्घ्र्योरपूर्वा नखशिशिररूचां चन्द्रिका वः पुनातु ॥

39.4

निःशेषं क्लेशराशीन्धनदहनमहापावकोच्चैः शिखा वो लीलालोकास्त्रिलोक्यामपहृतगहनाबद्धमोहान्धकाराः ।
वह्निस्कन्धेष्वबन्ध्या नरकभुवि सुधावारिविस्तारधाराः संसारीं संहरन्तां नखनिवहरुचः पद्मभृत्पादजाताः ॥

39.5

स्वच्छन्दच्छेदिवाञ्च्छावितरणचतुराचिन्त्यचिन्तामणीनाम् उद्गाढातङ्कशङ्कोद्गमशमनमनोहारिणी हारभासाम् ।
स्पष्टाविर्भूतनानागुणनिवहधृतादर्शबिम्बच्छवीनां छाया वः पातु लोकेश्वरचरणभुवामुन्मयूउखा नखानाम् ॥

39.6

नाथस्योदञ्चदुच्चामितरुचिरुचिभी रोचमानोरुचूडा रोचिष्णोरुच्चकासच्चरणनखरुचां संचयो ऽसौ चिरं वः ।
अत्युच्चीयात् तदर्चाचतुरसुरशिरश्चारुरत्नोच्चयोच्चैर् नानानिश्चारिरोचिश्चयरचितशचीरुच्यचापोपचारः ॥

39.7

श्रीमद्भोगोन्नतीनामभिमतविषयप्राप्तिदानादहीनां सेवाभाजां समन्तादविचलितरुचः प्रीतिमुत्पादयन्तः ।
वैमल्यातुल्यबिम्बोपहसितशशिनः शातितध्वान्तदोषास् तोषं माणिक्यदीपा इव ददतु नखाः पद्मपाणेः पदोर्वः ॥

39.8

राजद्राजीवपाणेर्नखनिवहरुचां पादपद्मोद्भवानाम् उद्भेदो भेदको ऽसौ भवतु भवभियां निर्भराणां भरं वः ।
जातस्तद्देहभूमेचविरतकरुणावारिदत्तोपकारो यो ऽनल्पः कल्पवृक्षाङ्कुरनिकर इवोपात्तविज्ञानबीजः ॥

39.9

लोकेशस्याङ्घ्रिपद्मप्रभवनखरुचो दत्तमारारिसेना संत्रासाः शोणतूणोन्मुखनिहितफलामोघबाणांशुशोभाः ।
शश्वत्संसारघोरावटपतितजनोत्तारणासज्जरज्जु प्रारोहा रोहयन्तां दुरधिगममहासंपदुच्चैः पदं वः ॥

39.10

भास्वन्तः क्लेशकर्मश्रमविवशजगत्तापविच्छेदशूरां दूराद्दोषोपलब्धेः पटुबुधगुरवस्तारका ये जनस्य ।
सान्द्रानन्दं ददानाः सकलशशधरश्रीभृतो निष्कलङ्कास् ते वश्चिन्तामचिन्त्याः कमलकरनखाः पादजाता जयन्तु ॥

39.11

भास्वत्खण्डेन्दुखण्डैरपचितिरचना किं कृता शम्भुनेयं न्यस्ता रत्नावली वा किमु निरतिशयोत्कण्ठया बोधिलक्ष्म्या ।
देवैर्दिव्याद्भुतानामसमसुमनसां लम्बिता मालिका नु प्रीयात्पङ्क्तिर्नखानामिति जनितमतिर्लोकनाथाङ्घ्रिजा वः ॥

39.12

क्वायं राजीवजन्मा नमदमरशिरस्तुङ्गमाणिक्यशय्या शश्वत्सुप्ताङ्घ्रिरेणुः क्व च धरणितलालम्बमौलिप्रणामः ।
इत्थं संजातहासा इव रुचिनिचयैर्दन्तुरा ये दुरन्ता ध्वान्तच्छेदाय लोकेश्वरचरणभवास्ते नखा वो भवन्तु ॥

39.13

शूरास्तापापहारे शिशिरतरसुधाशीकरासारकाराः प्राकाराः क्रूरदूरप्रसरदुरुशरासारमारापकारे ।
संसाराकारकारागृहबृहदुदरोदारदुःखप्रकारं घोरं वः संहरन्तां चरणनखरुचः श्रीकराः पद्मपाणेः ॥

39.14

भासो लोकेशपादप्रभवनखभुवां दूरदुर्वारमार व्यामुक्तव्यापिबाणावरणजवनिकाभ्रान्तिमुत्पादयन्त्यः ।
संक्लेशानीकनाशस्फुटपिशुनमहाकेतुसंघातकल्पास् त्रैलोक्याशक्यशक्तित्रिभवजयबृहद्वैजयन्त्यो जयन्ति ॥

39.15

सम्यक्संबोधिचेतः शशिन इव समुद्भासिभासां समूहो निर्दग्धक्लेशभूतिप्रचय इव बृहन्मुक्तिमार्गानिलास्तः ।
विन्यस्तादभ्रशुभ्रोपलफलक इव क्रूरमारैरभेद्यः पायादुत्प्रेक्षितो वो नखरुचिनिकरः पादजः पद्मपाणेः ॥

39.16

वैलक्ष्येणेक्षणीयाः क्षणमसमतमःक्षेपदक्षाः क्षपाणा नाथेनाक्षुण्णपक्षक्षतिनिजविपदा निष्कलङ्काक्षया ये ।
अक्षीणारातिपक्षक्षपणपटुजगद्रक्षणाक्षुण्णदीक्षा रक्षा रक्षन्तु लोकेश्वरचरणनखास्ते ऽक्षणक्षेपतो वः ॥

39.17

सत्संपत्साधनस्य प्रवरकमलभृत्पाददुर्गाश्रयस्य त्रैलोक्यश्रीजिगीषोर्नखरुचिनिवहस्यातुलो ऽभ्युच्चयो वः ।
मित्रेणाप्तोदयेन स्फुटमनुवलतालम्भितात्यन्तवृद्धेः पायात् सापायसर्वव्यसनरिपुमहायानसंसिद्धिहेतुः ॥

39.18

अव्रीडश्चूडया ऽसौ वहति पशुपतिः काममर्धेन्दुभूषां शौरेः शोभाभिलाषः कथमपि कृतिनः कौस्तुभेनास्तमेति ।
दृष्टे ऽस्मिन् सो ऽपि मोघो मघवमणिमहामौलिरित्याप्तचित्तैर् यत्कान्त्याचिन्ति लोकैश्चरणनखगणः पद्मपाणेः स जीयात् ॥

39.19

आरादुच्चैरुदञ्चत्कृतविततिरधस्तारको नारकाणाम् । उद्यन्नीहाररोचिः शुचिररिवदनश्यामतापातहेतुः ।
दुर्विज्ञेयानुभावो निखिलजगदतिस्पष्टदृष्टिप्रकाशः पादाम्भोजावलम्बी नखकिरणचयः पातु वो बुद्धमौलेः ॥

39.20

दृष्टो हृष्टामरेशार्चनचतुरवधूमुक्तकर्पूरपांशु प्रोद्भासो भक्तिभारप्रवणहरजटाभूतिविभ्रान्तभूमिः ।
पूजाविक्षिप्तलक्ष्मीकरकमलगलत्केशराग्राणुरेणु च्छायः पायादपायान्नखकरविसरः पद्महस्ताङ्घ्रिजो वः ॥

39.21

मेरौ निष्पीतपीतद्युतिरमरकरिस्फारसिन्दूरधूली शोणश्रीशान्तशूरो हरितहरिहयाहीनहारित्यहारी ।
मीलन्नीलावभासो नखरुचिविसरः पद्मभृत्पादपद्माद् उद्यद्दुग्धाब्धिवृद्धित्रसदमरवधूवीक्षितो रक्षताद् वः ॥

39.22

शोभा संभाव्यते ऽस्मिन् हिमकरधवलैर्नामरैश्चामरैर्वा भक्त्यारम्भेण रम्भे परिकिरसि मुधा किं नु कर्पूरधूलीः ।
किं ते पुष्पैः प्रकीर्णैः शचिशुचिभिरिति स्वामिना स्वर्भुवां वः पूजायामब्जपाणेर्नखरुचिनिवहः पादजो वर्णितो ऽव्यात् ॥

39.23

कैलासोद्भासिविन्ध्ये कवलितबलिजित्कायकालिम्नि काली लीलालावण्यलेपे विहतहरितिमश्वेतपूषाश्वरश्मौ ।
लोकेशाङ्घ्रेर्नखानामुरुकरनिकरे किं मयेतीव शीर्णं शीतांशोः पातु पूजाचतुरसुरजनाकीर्णकुण्डच्छलाद् वः ॥

39.24

पादाः पादोद्भवानामतिविततिभृतां बुद्धमौलेर्नखाना पारे संसारयादःपतिगमनमहासेतुबन्धायमानाः ।
उद्यद्दुर्वारदुःखानलशमनमहापुण्यसंभारवारि स्वच्छन्दाच्छच्छटाभा झटिति विघटनं कुर्वतां वो भवस्य ॥

39.25

कालीकान्तेन्दुकान्तेः परिभवविधृतिर्भूरिकैलासभूभृद् भासां हासावगीतिर्हतिरपि हिमवद्गौरतागौरवस्य ।
क्षीराकूपारपूरप्लुतिरपि ककुभां नाकनागीयदन्त च्छेदच्छायाक्षतिर्वो नखरुचिविततिः पातु लोकेश्वराङ्घ्र्योः ॥

39.26

यत्पूजापारिजाते वलितमलिकुलं मीलति श्रीसरोजे सेवासक्तः स्वयंभूर्मुकुलितनलिनाद् दुःस्थितो यत्र तस्थौ ।
येनाश्यामा दिनश्रीः शमितसुरवधूक्लान्तिदोषा निशा ऽभूत् पादो ऽसौ पद्मपाणेर्नखविधुविलसच्चन्द्रिकः पातु युष्मान् ॥

39.27

कान्तो विभ्रान्तकान्तामरयुवतिजनैरर्चितो दृष्टिपातैः शुभ्रं विभ्राण्मृणालीनिकरमिव नखोद्योतनोद्भूतशोभः ।
कामीवानल्पकामप्रसरपरवशानेकचर्याप्रवृत्तः पादो वः पद्मपाणेरवतु सुरपुरीचन्दनामन्दचर्चः ॥

39.28

आनन्दामन्दभारोल्लसदमरकरैः पारिजाते विकीर्णे कालीयः कालकूटोत्कटपटल इव प्रोल्लसद्भृङ्गसार्थे ।
श्रेयो वः श्रीर्विधत्तामलममलनखद्योतदुग्धाब्धिमध्याद् उद्यन्ती पद्मपाणेश्चरणसरसिजस्याच्युतप्रीतिहेतोः ॥

39.29

वाञ्छाविच्छित्तिखेदोच्छलदनलशिखाछेदकच्छोच्छ्र्यो वः पद्मच्छायानुकारच्छलितमधुकराच्छादनाच्छादितश्रीः ।
स्वच्छन्दानच्छमूर्छच्छुचिनखकिरणोच्छूनगुच्छैरतुच्छो देयात् पादो ऽब्जकान्तिच्छुरितकररूचो ऽच्छिन्नमिच्छामकृच्छ्रात् ॥

39.30

उद्भूतोद्भासिचक्रद्युतिरमलनखैरद्वितीयोदितश्रीर् बिभ्राणो लक्षणानां गणमतुलगुणागण्यपुण्योपनीतम् ।
निःशेषद्वीपदीपप्रभवदतिमहद्वैभवो बुद्धमौलेः पायात् पादो नमस्यद्भुवनपतिशिरश्चक्रवर्ती चिरं वः ॥

39.31

कीर्णैराकाशगङ्गाकनककमलिनीकुड्मलैः को गुणो ऽस्मिन् किं गीतैर्गीतमेव स्फुटसरसिरूहभ्रान्तिभृङ्गावलीभिः ।
शक्यं माणिक्यदाम्नामिह रूचिरनखे शोभितुं नेत्यवादीद् यत्पूजायां सुरेशः स जयति चरणो वारिजव्यग्रपाणेः ॥

39.32

यो नाथस्यैव नासीदपि खलु सुगतेः कारणं जन्मभाजां यस्मिन् पद्माभिलाषी न मधुपनिवहः पक्षपाती जनो ऽपि ।
येनोर्वी नातिगुर्वी नतिमतिगुरुणा लम्भितापि त्रिलोकी लोकं पादः स पायात् सुगतशशधरद्योतविद्योतमौलेः ॥

39.33

यो ऽलीनां पानदानादकृत धृतमुदं संहतिं सेवकानां यस्मिन्नालं विहीनं न खलु हरिततात्यन्तशोभोपधानम् ।
देयाद्वो लौकनाथिश्चिरममरशिरःशायिरेणूत्करो ऽसौ श्रेयः श्रीवासभूमिर्नखकिरणहसत्केशरः पादपद्मः ॥

39.34

देहद्रोहावहोग्राहितहतिविहितो देहिनां हेतिरीहा सिद्धेराहूतिराहो हृतिरतिमहतो बृंहतांहोमहिम्नः ।
क्लेशव्यूहाहितेहाहुतिविहितबृहद्द्रोहिदुःखाग्निदाह व्यापोहा वाहिनी स्ताद्वहुविहितहिता पद्महस्ताङघ्रिभावः ॥

39.35

बुद्धालंकारमौलेरविकलकमलभ्रान्तिभृद्भृङ्गमाला वाचाला निर्विचारा रचयतु चरणोत्सर्पिणी संपदं वः ।
सत्त्वत्राणैककार्या स्थिरतरसुचिरावस्थितिस्थापनार्थं विन्यस्ता शृङ्खलेव प्रचुरकरुणया स्थूलकालायसस्य ॥

39.36

राजीवान्तःपलाशावलिरुचिरमृदुर्वज्रसारो विसारो क्रुध्यद्वैरिप्रमुक्तप्रहरणनिवहस्योद्भवद्भङ्गभूमिः ।
रक्तो रागोपशान्तेरतिशयबलवत्कारणं तारणायां संसाराम्भोनिधेर्वः सुगतशशिभृतो ऽपास्तखेदो ऽस्तु पादः ॥

39.37

जम्भारेर्जृम्भिताम्भोरुहरुचिरचये चापलेनाप्यलीन् नालं लोलापि लोला हरकरविहितानन्दकुन्दोत्करे ऽपि ।
भ्राजिष्णौ विष्णुकीर्णे परिमलिनि पुरः पारिजाते ऽप्यजात प्रीतिर्यत्रालिमाला रमति जिनभृतः सो ऽङघ्रिपद्मो ऽवताद् वः ॥

39.38

भूयादुद्भूतभूरिद्युतिनिवहलसत्केशरोद्भासुरो वो रक्तच्छायानुविद्धोन्मुखनखदशनोद्भासिकान्त्या करालः ।
त्रस्यद्दुर्वृत्तवैरिद्विपतरलचलल्लोचनालोकनीयो लोकेशस्याङघ्रिसिंहः कमलभवजटारण्यशायी शिवाय ॥

39.39

अच्छीयानप्यनच्छो लघुरपि न लघुर्लङ्घने दिङ्मुखानां त्रैलोक्यानन्दनो ऽपि प्रबलपरपुरव्यापिसन्तापहेतुः ।
लावण्यालेपलिप्तो ऽप्यतिशयमधुरो वैधुराधेर्निरोद्धा पादोद्द्योतः क्रियाद् वो जिनरूचिविकसन्मालिकाशेखरस्य ॥

39.40

राजीवै राजराजो हरिरपि हरितैर्हारिभिः पारिजातैः कुन्दैः सानन्दमिन्दुर्बहुवसुविसरैर्वासवो भासमानैः ।
प्रीतः पाशी पलाशैरिति विबुधजनः प्राज्यपूजाविशेषं यत्रानुप्रासकाव्यायितमतत स वः पातु पादो ऽब्जपाणेः ॥

39.41

भानुर्भासां विकाशे नुतिमकृत नखेषून्मुखो नाकनाथः शर्वः शाखाग्रपर्वण्यविचलनयनो ऽप्यन्तकः प्रान्तकान्तौ ।
यस्यासामान्यशोभाविषयमतिशयं द्रष्टुमासीदनीशो निःशेषं दिव्यलोकः स जयति चरणो बुद्धबिम्बाङ्कमौलेः ॥

39.42

सम्यक्संबुद्धभानुस्फुटविकटजटापुञ्जकुञ्जोरुमूर्तेः संसाराम्भोधिमज्जद्गुरुतरजनतामेदिनीस्तम्भनस्य ।
भूयाद् भद्राय पादः कमलधरगिरेः सेवितः सिद्धसार्थैः पर्यन्तोद्वान्तकान्तिस्रवदरुणमहाधातुमन्निर्झरो वः ॥

39.43

संसाराध्वप्रबन्धश्रमसकलजगत्क्लान्तिसंशान्तिहेतु च्छायस्येच्छाफलस्य स्फुटनखकुसुमोद्भासिशाखाभृतो वः ।
लोकेशाङघ्रिद्रुमस्य प्रणतसुरजनैर्मौलिमालालवाले मूले संपादितो ऽव्यान्मणिकलशभृतः स्वच्छधामाम्बुसेकः ॥

39.44

संमूलक्लेशजालप्रबलरिपुबलोन्मूलनस्थूललाभा ल्लब्धोल्लासो विलासी बलविजयिलसन्मौलिलीलालयो वः ।
पाद पायादतुल्यामलकमलभृतो ऽलीकफुल्लाब्जलोभ व्यालोलानल्पलापोल्लसदलिपटलाल्लुप्तसंगीतिलोलः ॥

39.45

त्रैलोक्यैश्वर्यलक्ष्मीचपलकरिवधूसंयमालानदण्डः कष्टक्लेशाहिदष्टस्खलदखिलजगत्पालने दक्षतर्क्षः ।
दुर्वारान्तःप्रवेशाकृशनरकपुरे द्वारगाढार्गलो वो भूत्यै लोकेशपादो भवजलधिसमुल्लङ्घनैकप्लवो ऽस्तु ॥

39.46

इति पादुकादेशना वृत्तो नृत्तप्रकारः सपदि विघटिता वाद्यविद्यानवद्या नो गीतं नावगीतं कृतरसरचनैर्नैव भावैरभावि ।
इत्यन्तः स्मेरशाक्रे सदसि न शकिता यत्र पूजाप्सरोभिः कर्तुं भावातुराभिः स जयति जनितातृप्तिरूपः सरोजी ॥

39.47

उद्दामस्थामवामक्रमविषममिलन्मारमानप्रमाथी मध्यादुन्माथिमोहोद्गमममितमहोमौलिरायामभीमम् ।
श्रीमन्निःसीमभूमासममहिममहाकामधामातिभूमौ सत्त्वप्रेमप्रकामप्रथितमृदुमना निर्विरामाश्रयो वः ॥

39.48

सारप्राकारघोरावरणनिवरणो बन्धनक्रूरदूर स्फारावारातिरौद्रे नरकनगरिकाकारधारिण्यरीणाम् ।
कारागारोदरे यः स्मरणशरणतां कारणाकातराणां यातः सत्कारकारी गुरुतरकरुणः पातु लोकेश्वरो वः ॥

39.49

कल्पान्तोल्लासिहेलाचलदनिलचलोल्लोलकल्लोलमाला वाचाले नक्रजालाकुलकलिलजले वारिधावुल्ललन्तः ।
आलम्बे यस्य नीलोत्पलविमलमहाकुट्टिमालीनलीलाम् आलीयन्ते लधीयः स जगति कमली पालनायाल मस्तु ॥

39.50

धूमौघोबन्धबन्धीकृतविधुरविधुब्रध्ननिर्बन्धधामा नीरोधोद्भेदबाधाबुधविबुधवधूधीरतोद्धारधुर्यः ।
यन्नामाधीतिधाराधरविधृतिकृतामेति धूमध्वजो ऽपि प्रध्वंसं साधु धेयान्निरवधि स विधिं बुद्धधारो धृतेर्वः ॥

39.51

क्रोधादुत्क्षिप्तकालायुधकरनिकरः क्रूरसूत्कारकारी दानक्लिद्यत्कपोलाकुलमधुपकुलाकाण्डकालोरुकायः ।
क्रान्तो यन्नामकष्टाङ्कुशहतिकृपणः कातरेण करीन्द्रो लोकेशः स प्रकामोपकरणकरुणः कामकृत्यं क्रियाद् वः ॥

39.52

सूत्कारिश्वासपोषाकृशविषवमथुप्लोषिरोषाश्रयाशा दंशाशादर्शितास्या भृशततशिरसो नाशने दन्दशूकाः ।
यन्नामाशीविषेशद्विषि विशति विषां धीषु नश्यन्त्यनीशा लोकेशः सो ऽस्तु विश्वश्रयदतिविषमक्लेशराशेः शमाय ॥

39.53

गन्धोद्गारोरुगर्वग्रहणगजगणग्रासगीतोग्रवेगः सावेगोदग्रगामी गलगहनगुहागाढगम्भीरगर्जः ।
योगैर्युग्योपयोगानगमि मृगपतिर्यद्गणोद्गीतियोगाद् दुर्योगं वः स योगी स्थगयतु सुगतासङ्गितुङ्गोत्तमाङ्गः ॥

39.54

भूयो ऽपायानुमेयः क्षतदयहृदयो भीविधायी विहाय स्थेयान् शैलोपमेयः श्रयदलिगवयच्छायकायो निकायः ।
सद्योगोपायमायामय इव विलयं यातवान् यातवीर्यो यत्पादध्यायिनेयः स सुगतनिलयो जायतां वो जयाय ॥

39.55

संत्रासावासभूमिं कलिविसरसरद्यादसं भास्वरासि प्रासप्रोल्लासिभङ्गं प्रसृतसितलसत्केतुसत्फेनहास्याम् ।
यत्सेवासाधुनावा द्विषदसमसमित्सारसेनास्रवन्तीं सोत्साहाः संचरन्ते सुखमसुखमसौ संह्रियाद् वः सरोजी ॥

39.56

भूभृत्संभारभेदप्रभुकरविभवो भूरिभूभोगभीमं बिभ्राणश्चित्रभानुं भवदतिभरभीसंभ्रमोद्भ्रान्तिभूतः ।
दम्भोलिर्भीतिभाजामभवदभिपतन्नाशुनाभावभूमिर् भक्तेर्यस्य प्रभावात् स भवतु भवभिद्वो भृताम्भोजशोभी ॥

39.57

आबाधाधूतधैर्यश्च्युतिविधिसविधो दुर्विधक्रोधवेध् बाधादुःसाधरोधोद्धुरबहुविविधव्याधिसंबाधदेहः ।
यस्य ध्यानावधानादधिकधृतिसुधाधानसंधारितासु र्धीमान्नाधेर्विधेयो धियमवतु स वो बोधये बुद्धमूर्धा ॥

39.58

आरादाहूतियातृक्षितिपतिरतुलारातिशातिप्रताप प्रोद्गीतिर्दण्डनीतिप्रथितपितृपतिख्यातिजिद्दण्डनीतिः ।
यत्पादाधीतिशक्तेः कुपितमतिरतिप्रीतिमायाति भूतेर् व्याघातोद्भूतिहेतुर्जिनवृषवसतिः संह्रियाद् वः स भीतिम् ॥

39.59

ब्रह्मा जिह्मायितो ऽभूदगुरुरपि गुरुः खण्डिताखण्डलोक्तिर् विष्णुस्तूष्णीमधृष्टो वचनविरचने वीतगर्वो ऽपि शर्वः ।
तुष्टास्तुष्टूषवो ऽपि स्फुटमिति विबुधा नो बुधा यद्गुणोक्तौ स श्रीमानब्जपाणिर्जयति जिनमनोगोचरान्तर्गुणौघः ॥

39.60

धात्रा चित्रं चरित्रं सुररिपुरिपुणा सत्रिनेत्रेण नेत्र् गोत्रामित्रेण गोत्रं गतिरपि गुरुणा रात्रिपेणापि गात्रम् ।
मैत्रं मित्रेण पुत्रीयितसकलजगत्प्रेम पुत्रेण चात्रे र्यत्रेदं स्तोत्रपात्रं स्तुतमवतु स वो ऽमात्रसत्तो ऽब्जपाणिः ॥

39.61

यस्मिन् ब्रह्मा बहुत्वं बहुबहुमतवानाननानां निजाना स्कन्दो ऽप्यानन्दगर्भं नुतिषु नतिकृतौ नागनाथो ऽपि मूर्ध्नः ।
शक्रः श्लाघ्यामनैषीन्नयनदशशतां यं विलोक्य त्रिलोकी लोकेशो निर्विरामानतिनयनरतिस्तोत्रपात्रं स पायात् ॥

39.62

खेदी खे दीप्तरश्मिः किल विफलमसावध्वनीनोध्वनीनो लोकालोकार्थमास्ते ननु कमलभृतो दीप्ततापः प्रतापः ।
धीरैर्धीरैरकारि स्तुतिरिति विहितोल्लासभासां सभासां यस्यार्यस्यास्तु तस्माज्जगति कृतरिपुक्षिप्रसादः प्रसादः ॥

39.63

न्यस्ता यस्मिन्नमस्ये नतिरपि नितरामुन्नतिः पुण्यधाम्नां निःसामान्यैकमान्ये ऽपचितिरुपचितिर्भूयसी भक्तिभाजाम् ।
ध्यानस्थानस्य यस्य स्मृतिरपि सहसा विस्मृतिर्भूतभीतेः सो ऽनन्ताचिन्त्यलोके विहितहितपथो लोकनाथो ऽवताद्वः ॥

39.64

दम्भो दम्भोलिरैन्द्रः क्वचिदकृत सुरारातिशातो ऽतिशात् हारी हारीरणासौ बलवति विफलाभीषु राजीषु राजी ।
चक्रे चक्रेण नार्थं हरिरिति जनता नूनमाहेति हेति व्यासव्यासक्तिमुक्तान् जयति रिपुजनोल्लासरोजी सरोजी ॥

39.65

लोकातोतं दधानः सुखमपि जगतां तीव्रदुःखेन दुःखी नित्यं नित्यानुरक्तो ऽप्यशरणकृपणप्राणभृद्योगयुक्तः ।
त्रैलोक्यस्यैकनाथो ऽप्यसमरुचिजनाराधनाबन्धुरो यः सो ऽव्यात् संबुद्धमौलिर्विहितविसदृशाचिन्त्यचर्यश्चिरं वः ॥

39.66

निर्विच्छेदत्रिलोकीनिहितनिरुपमस्नेहयोगानुयोगा निर्वाणो न प्रकम्प्यो बलवदलघुभिस्तीर्थिकोन्मत्तवातैः ।
जीयाल्लोकेशदीपः स भुवनभवनोद्भूतमोहान्धकार ध्वंसो ऽविध्वंसधामा परहितकरणोद्योगसंवृत्तवर्त्तिः ॥

39.67

क्वासौ सर्वत्र मैत्री क्व विषमबहलक्लेशविद्वेषिदाहः क्व प्रौढा मुक्तिशक्तिः क्व च दृढकरुणापाशनिष्पन्दबन्धः ।
क्वोपेक्षापक्षपातः क्वपरहितकृतिव्यग्रता तद्विचित्रं चित्रं राजीवपाणेश्चरितमतिजगज्जायतां ज्योतिजिद्वः ॥

39.68

सर्वाग्रः सर्वरूपप्रथनपृथुनयः सर्वदा सर्वनाथः सर्वेषां सर्वथा यो विनयविधिमहासर्वगुर्वर्थसिद्ध्यै ।
सर्वैः सातोतगर्वैर्गुरुमहिमगुणैः खर्वयन् सर्वगर्वान् सर्वः सर्वप्रदो वः सफलयतु रूचीः सर्वविन्मौलिरुर्वीः ॥

39.69

ईशः स्वामी प्रजानां पतिरमरगुरुर्लोकपालो महेन्द्रो भास्वान् दत्तारिदण्डः परजयबलिजिद् वित्तदो जैत्रपाशः ।
इत्यन्तर्हासगर्भं भणति परिजने ऽन्वर्थनाम्नां निजानां पात्रे यत्रानुलज्जैर्नतममरगणैरब्जपाणिः स जीयात् ॥

39.70

वर्यार्याणां वरेण्यो वरपरविधुरोत्सारणा संवरो व् दुर्वारैः सारमारैरमितकरधरो दुर्धरो वैरिवीरैः ।
वीरो वीरारिवारी प्रचुरतरवरोदारसंभारवारि स्फारासारोरुधाराविसरवितरणाधीरधाराधरः स्यात् ॥

39.71

नित्योद्युक्ते ऽतिशक्ते प्रभवति नलिनोद्भासि हस्ते समस्तो नाथी संसारयादःपतिपथपथको लोक इत्याकलय्य ।
यस्मिन् विन्यस्य भारं लघुरलघुकृपो विश्वदीपं प्रपेदे बुद्धो ऽवन्ध्यप्रतिज्ञाकृतधृतिविधृतिर्निर्वृतिं सो ऽवताद्वः ॥

39.72

उच्चैरूढो गरीयान् सुगत इव जगत्कार्यसंभारभारो न्यस्ता हस्ते प्रशस्ता निज इव कमलालंकृतिर्भक्तिभाजाम् ।
निर्वाणं नारकाग्नेर्निचय इव चिरं प्रापितः सत्त्वसार्थः तीव्रक्लेशप्रबन्धो जन इव शमितो येन पायात् स युष्मान् ॥

39.73

यो नानानन्तरूपप्रकटनपटिमख्यातमायो ऽप्यमायः संशान्ताशेषभीरप्यतिकरुणतया कातराचारकारी ।
वीतक्रोधो ऽपि दुष्टाशयदमनबुधक्रोधनित्यानुबन्धः संबुद्धोद्भासिमौलिः स जयति महतां चिन्तनीयो ऽप्यचिन्त्यः ॥

39.74

धत्ते नैवोत्तमाङ्गं परमपितु वपुर्यो ऽमिताभाभिरामं सन्नालं नारविन्दं गुरुभयविधुरा वैरिसेनापि यस्य ।
येनाबद्धा जटा नो जगदहितहतिव्यापृतेनापि कक्षा दक्षो ऽसौ रक्षताद्वः कुपितयममुखालोकनाल्लोकनाथः ॥

39.75

शेषाशङ्की चकम्पे भवसलिलनिधिः क्लेशसार्थैः प्रलीन विश्रान्तं बोधिसत्त्वैर्मुनिरपि शुशुभे श्लाघ्यनिर्वाणलीलः ।
यस्मिन्नाबद्धकक्षे प्रसरति परितो ऽशेषसत्त्वार्थकार्य व्यायामे स प्रकामं शमयतु सुगतावासमौलिर्मलं वः ॥

39.76

प्रत्यूहव्यूहबाधाविघटनविषमे मानसस्याप्यभूमौ कर्मण्येकान्तशर्मच्छिदि जगदहितोच्छित्तये पद्मपाणिः ।
निघ्नः क्रीतो ऽथ भीतो बलवदिव यया निर्विकारो नियुक्तः सा नाथस्यातिगुर्वी प्रभुरवतु कृपा निष्कृपादन्तकाद्वः ॥

39.77

भूमिर्नैवाभिभूतेर्मृदुतरमपि यल्लोकधातूननन्तान् अत्यन्तावीर्यवीर्यं युगपदपि भृशं भासयंस्त्रासशान्त्यै ।
खद्योतोद्योतलेशानुकृतिविलिसिताशेषतेजस्वितेजस् तेजो लोकेश्वरं वो हरतु हृदि भवद्भूरिमोहान्धकारम् ॥

39.78

निःशेषाकाशधातुर्जन इव जनितापूरिताशः समन्तात् प्रारब्धः सर्वभासामिव निरतिशयापायराशेर्विलोपः ।
सार्धं सान्द्रान्धकारैः शममगमि महानृद्धिमान्मानिमारो येनोद्भासः स भूयात् सरसिरूहभृतो भूतये जायतां वः ॥

39.79

ईशो ऽन्यद्योतनाशो बलभिदितरभादुःशमध्वान्तराशेः सत्त्वद्रोहाशयानामनुपमतपनो यो ऽच्युतश्चित्रभानुः ।
नानानन्ताचलादिव्यवहितविषयोद्भासने शक्तिधारी लोकेशोद्भास एकोप्यमरगणनिभो भीभिदे वः स भूयात् ॥

39.80

संपन्नाशेषसत्त्वप्रचुरजलचरेच्छासुखं यत्र दूरं दुर्लङ्घये यान्त्यधस्ताद् गिरय इव जनानर्थदुस्तीर्थ्यसार्थाः ।
दुर्वारो ऽसौ समन्तात् पृथुभवभुवनाभावसंरम्भजृम्भी भीदावाग्निप्रशान्त्यै करकमलविभाम्भोनिधिर्जृम्भताद्वः ॥

39.81

निर्वाणो नारकाग्निः किमिति यदि विनेयेषु धर्मामृतौघो राशिर्बद्धो जटानां यदि गतिरहितः किं समहो रिपूणाम् ।
मर्धागारे गरीयान् यदि वसति जिनो बन्धुरा किं त्रिलोकी नाथस्येत्थं विचित्रा व्यवहृतिरहितं हन्तु वो लोकबन्धोः ॥

39.82

मूर्च्छत्येकापि सत्त्वाशयवशविहिताकारभेदाभिराम् दुर्भेदाभूतकल्पा चलदचलमहारम्भदम्भोलिकोटिः ।
लौकेशी सन्मनीषाकुमुदशशिरुचिस्तीर्थिकानर्थकोटि ध्वान्तान्तर्धानभानुर्भवतु भवभिदे देशना शासनी वः ॥

39.83

दुर्वादोन्मादनादिप्रचुरमदकणादाक्षपादादिवादि प्रोद्यन्नानाविवादास्पदमदसदसां सापवादो विवादः ।
उत्सादः सप्रमादोन्मदजनविपदां कोविदानां प्रसादो भावानुत्पादवादो जयति जिनवपुः पादसंपादमौलेः ॥

39.84

त्रस्तव्यस्तारिशस्त्रं त्रयि जगति चकास्ति स्तुतो यद्गभस्ति स्तोमो विस्तीर्णतोयं मरुनिलयसदां विस्तरध्वस्ततापः ।
स स्तादस्ताहितास्त्रो बलिवलिकुलिशः पद्महस्तस्य हस्तो ऽनापास्त्यैः वं समस्तत्रिभुवनविकसत्साध्वसापास्तिशस्तः ॥

39.85

संवर्तोद्वृत्तवातव्यतिकरविषयोत्तुङ्गशैलद्रुमाली निर्मूलोन्मूलनाय प्रभुररिकरिणां शातितानल्पदर्पः ।
भद्रो लोकेश्वरस्य प्रणयिमधुकराकर्षदानौघवर्षी हस्तस्तम्बेरमो वो भवरिपुनगरीभञ्जनायालमस्तु ॥

39.86

सत्कोषं सन्निधानं घनरुचिजिनतावाञ्छिताच्छेदसिद्धौ यद्यातं शातकोटिमनुकृतिमहितत्रासिसत्पत्रकोटि ।
सम्यक्संबोधिलक्ष्मीकृतवसतिगुणश्लाघयैवाविमुक्तं मुक्तेस्तत्कारणं वः करकमलमलं लोकनाथस्य भूयात् ॥

39.87

शश्वद्वर्धिष्णुतृष्णाविकलगलदरीविह्वलप्रेतराशेर् आह्लादोत्पादि सत्यं कमलमधिवसद्बोधिलक्ष्मीकमब्जम् ।
सत्पद्मं भूतिवाञ्च्छाविनिहितमनसां साधुसेवापदं यत् तल्लोकेशस्य युष्मान् पटुरुचिपटलीराजिराजीवमव्यात् ॥

39.88

नानादुःखप्रतानां तनुकिरणघनोत्तापनक्लेशभानु म्लानं दीनाननं यज्जनमनुजनयत्यातपत्रोपमानम् ।
ग्लानिं मा गादहीनं तदखिलभुवनान्यूनभानूद्वितानं लीनं लोकेशपाणौ नलिनममलिनं म्लानिमेनो नयेद्वः ॥

39.89

स्थाम्नः स्थानं महिम्नो महदुदयपदं धामधाम्नां प्रथिम्नस् त्रासावासो रिपूणां दुरभिभवभवाद्भीभिदोद्भूतिभूमिः ।
कान्तं शोभानिशान्तं वसतिरतिजगद्वीर्यविस्तारिराशेर् लोकेशस्यास्तु बाहुर्बहुजगदहितोच्छेदनाचण्डदण्डः ॥

39.90

यल्लावण्यामृतौघं क्षरदपि जनितातङ्कमेवाहितानां तृप्तिं नैव प्रयच्छत्यथ पुनरतनुप्रीणनं लोचनानाम् ।
शोभागारं विशोभीकृतसकलजगद्भूषणं भूषणानां तद्भुयादेकचीरं सुखमसुखनुदे भास्वदम्भोजिनो वः ॥

39.91

म्लानं रूपाभिमानैर्जगति सफलतां लोचनैः पुण्यभाजां यातं घातं तु तृष्णाततितरलतरैर्यत्र लावण्यसिन्धौ ।
मन्ये ऽसंख्यैः शशाङ्कप्रभृतिभिरतुलं कान्तिमद्भिः कृतं स्याद् एकं यद्यास्यमस्याप्यतिजयि जयतां तन्मुखं पद्मपाणेः ॥

39.92

यस्मिन् विद्वेषभाजामविरतविलसत्कान्तितोयौघमेघैः संवृत्तं दाहदायि स्फुटतरमसकृद्दुर्दिनं देहिनां तु ।
धौता ध्वस्तानुबन्धा बहुलमलमषीपङ्कलेपप्रबन्धाः तद्बुद्धागारमूर्द्धामुखमतिसुखदं स्ताद्विचित्रक्रियं वं ॥

39.93

इष्टाब्जाक्लिष्टपाणेः स्फुटविकटकुटीकुट्टिमान्तोपविष्ट स्पष्टश्लिष्टामिताभद्युतिपटुपटलापाटलाभापटिम्नः ।
शोभाविष्टैरदृष्टोपरिघनघटनस्योत्कटाटोपबन्धः कूटस्याव्याज्जटानां कटुरकटसुहृत्संकटात्कङ्कटो वः ॥

39.94

अत्यन्ताह्लादहेतोरविरतविस्तृतस्यामिताभप्रभाम्भ संभारस्यैव सेकान् निरतिशयमृजासुन्दरो लब्धवृद्धिः ।
उद्दामामोदिदिव्याद्भुतकुसुमचयैरर्चितश्चिन्तितार्थ प्राप्तेः संपत्तये स्तान्नलिनधरजटाकल्पवल्लीचयो वः ॥

39.95

यासां बद्धो विमुक्तिं गमयति नियतामुज्झितान्याधिवासो निःसामान्यां विभूषां जनयति वपुषा यासु नाथो ऽमिताभः ।
सर्वामोदच्छिदो या निरुपमवहलामोदलिप्ताखिलाशा लौकेश्यो ऽवश्यलभ्यां मृतिमतिविकटास्ता जटा वो हरन्तु ॥

39.96

संघातो नो जटानामखिलजनमनोबन्धने पाशराशिर् लावण्यं नापि दुःखानलविकलजगज्जीवनीयो ऽमृतौघः ।
नाम्भोजं दुष्टदम्यान्तकतुरगकशाक्लेशदोषातिमोषः प्रत्याशा पोषसिद्धिं दिशतु जिनशशिश्लेषिकेशः श्रियो वः ॥

39.97

उद्दामापिङ्गतेजःप्रसरविरचिताशेषदिग्दाहमोह त्रस्तात्राणात्रिलोकीकवलनरभसोल्लासिकालाग्निकल्पम् ।
दष्टौष्ठं दुष्टदृष्टिज्वलितमनुहयग्रीवमाबद्धलक्ष्म्या जाता लोकेश्वरी वः क्षणमतुलकृपाकातरा दृष्टिरव्यात् ॥

39.98

लोपं लोकः प्रयाति स्फुटमखिलमहाभूभृतामद्य तूर्ण चूर्णीभावो धराणामपि जलनिधयः शोषमायान्त्यनन्ताः ।
इत्थं यस्यान्तकोपभ्रुकुटिभरभवद्भङ्गभीमाल्ललाटा न्निर्यान्तीं वीक्ष्य देवीमतुलभुजबलैस्त्रस्तमब्जी स जीयात् ॥

39.99

स्तुत्यैः स्तुत्या गुरूणामपि जगति गुरुर्वन्दिता वन्दनीयैर् मूर्तेवानल्पकल्पार्जितसकलजगत्त्राणनिर्व्याजशक्तिः ।
लोकस्यार्तिच्छिदा यैः स्वयमतुलकृपैवाब्जिनो निर्गता स्तात् तारा संसारकारोदरगुरुविलसत्कारणाहारिणी वः ॥

39.100

गीर्वाणग्रामगीतो गुरुगणनगुणो गीष्पतेरग्रगाभिर् ग्राह्योनुद्गाढवर्गस्फुटगतिगहनो हंसगाम्युग्रगाभिः ।
गम्भीरोद्गारिणीभिर्निगदितगरिमागेयपूगाल्पभागः सम्यग्गम्यः समग्रो ऽवतु सुगतगिरामब्जिनो वो गुणौघः ॥

39.101

कविरपि जन्मनि जन्मनि भक्तश्चरणे ऽवलोकितेश्वरस्य ।
प्रकृतिशरणगोत्तरधीः परहितगुरुकार्यकार्यः स्याम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc