108 Buddhist stotras · अध्याय 37
कल्पादिके भवसि को हि ममागभाव सर्वस्वसार करुणामय विश्वमूर्ते ।
कार्यादिके प्रणमतीति समन्तकं त्वां श्रीलोकनाथ तव पादयुगं नमे ऽहम् ॥
आकृष्णकेन रजसा विनिवर्तमानश्चायासि सौम्य सकलः प्रतिवासरे च ।
हेमस्वरूपरथकेन समुज्ज्वलेन श्रीलोकनाथ तव पादयुगं नमे ऽहम् ॥
ब्रह्मा त्वमेव हि स विप्रकुलप्रसिद्धो विष्णुश्च वैष्णवमते वरधर्मकेतुः ।
सर्वज्ञको ऽसि विमते प्रभवो ऽव्ययश्च श्रीलोकनाथ तव पादयुगं नमे ऽहम् ॥
बौद्धान्वये भवसि वज्रकसूर्यरूपो योगेश्वरो हि शुभयोगकमार्गकेषु ।
गङ्गाधरो भवभयस्य विनाशकारि श्रीलोकनाथ तव पादयुगं नमे ऽहम् ॥
कारुण्यभावहृदयः सहजः सरोचिर्विच्छिन्नकल्मषचयो गुणसागरश्च ।
चिन्तामणिस्त्वमसि लोकगुरुः कृपेश श्रीलोकनाथ तव पादयुगं नमे ऽहम् ॥
बन्धूकवर्ण बहुरूप विशालनेत्र सर्वप्रसूतिकृतनिष्कृतिकः सुदन्त ।
त्वं पद्मपाणि विमलोत्तम मित्ररूपः श्रीलोकनाथ तव पादयुगं नमे ऽहम् ॥
तव बहुलचरित्रं कः समर्थो ऽस्ति वक्तुं तदपि मुखरभावैः स्तूयसे त्वं मयात्र ।
यदपि पदमशुद्धं सर्वमेतत् क्षमस्व स्तुतिरिति कुसुमस्रक् भक्तिमात्रार्चनं स्यात् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0