108 Buddhist stotras · अध्याय 36
ये जिनपूर्वकाये भवन्ति ये च ध्रियन्ति दशदिशि लोके ।
तान् हि जिनांश्च करोमि प्रणामं तं जिनसंघमहं प्रभिजष्ये ॥
शान्तप्रशान्तविशुद्धमुनीन्द्रं स्वर्णसुवर्णप्रभासितगात्रम् ।
सर्वसुरासुरसुस्वरघोषं ब्रह्मरुतस्वरगर्जितघोषम् ॥
षट्पदभौंरमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् ।
शङ्खतुषारसुपाण्डरदन्तं हेमविराजितभाषितनाभम् ॥
नीलविशालविशुद्धसुनेत्रं नीलमिवोत्पलफुल्लितक्षेत्रम् ।
पद्मसुवर्णविभान्तसुजिह्वं पद्मप्रभाषितपद्मसुखाभम् ॥
शङ्खमृणालनिभं सुखतार्णं दक्षिणवर्तितवेडुलितर्णम् ।
सूक्ष्मनिशाकरक्षीणशशीव मात्रसुमन्त्रसरोजसुनाभम् ॥
काञ्चनकोटिसुवर्णसुनासमुन्नतमृदुतरपादपपत्रम् ।
अग्रधराग्रविशिष्टनासाग्रं मृदुकरसर्वजिनं सततं तम् ॥
एकसमेकतरोममुखाग्रं बालसुरोमप्रदक्षिणवर्तम् ।
नीलनिभोज्ज्वलकुण्डलजातं नीलविराजितमौलसुग्रीवम् ॥
जातसमानप्रभाषितगात्रं पूजितसर्वदशदिशि लोके ।
दुःखमनन्तं प्रशमितलोकं सर्वसुखेन च तर्पितलोकम् ॥
नरकस्थासु च तिर्यग्गतिषु प्रेतसुरासुरमनुजगतीषु ।
सर्वपिशाचसुखार्पितसत्त्वं सर्वप्रशान्तमपायगतीषु ॥
वर्णसुवर्णं कनकनिभासं काञ्चनतप्तप्रभासितगात्रम् ।
सौम्यशशाङ्कसुविमलवक्त्रं विकसितराजितसुविमलवदनम् ॥
तरुणरुहाग्रककोमलगात्रं सिंहविवादकविक्रमनादम् ।
लम्बितहस्तप्रलम्बितबाहुं मारुतप्रेरितसाललजिह्वम् ॥
व्योमप्रभोज्ज्वलमुंचितरश्मिं सूर्यमिव प्रभया प्रतपन्तम् ।
निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासितक्षेत्रमनन्तम् ॥
चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रगतेषु ।
ते ऽपि च निश्चितसर्वि बभूव बुद्धप्रभासविरोचनतायै ॥
बुद्धदिवाकरलोकप्रदीपं बुद्धदिवाकररश्मिसहस्रम् ।
क्षेत्रमनन्तसहस्रगतेषु पश्यतु लोकतथागतसूर्यम् ॥
पुण्यशतानि सहस्र च कृत्वा सर्वगुणेभिरलंकृतगात्रम् ।
सौरगजेन्द्रनिभं जितबाहुं विमलरक्षितमण्डितबाहुम् ॥
भूमितलोपम शालिततुल्यं सूक्ष्मरजोपममागतबुद्धाः ।
सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये तिष्ठन्ति ॥
तांश्च जिनान् प्रकरोमि प्रणामं कायेन वाचा मनसा प्रसन्ना ।
पुष्पप्रदान सुगन्धप्रदानैर्वर्णशतेन शुचिश्च स्मरामि ॥
जिह्वशतैरपि बुद्धगुणानां कल्पसहस्रशतेन हि वक्तुम् ।
ये च सुनिर्वृतसाधुजिनानां सा च ललाट विचित्र अनेकैः ॥
एकजिनस्य गुणान् नहि शक्यो जिह्वसहस्रेण भाषितु किंचित् ।
काममशक्ति हि सर्वजिनानां एकगुणस्य हि विस्तरवक्तुम् ॥
सर्व सदेवकुलोक्तसमूहः सर्वभवाग्र भवजलपूर्णान् ।
ये जलग्रहणतु शक्यप्रमाणं नैव तु एकगुणा सुगतान्तम् ॥
वर्णितु सुस्तुतमज्जिनसर्वं कायतु वाच प्रसन्नमनेन ।
प्रमेय संचित पुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम् ॥
एव तु विश्वं नरपतिबुद्धं एव करोमि नृपःप्रणिधानम् ।
यत्र च कुत्र चि मभ्यभवेत जाति अनागत कल्पमनन्ता ॥
ईदृशभेरी पश्यमि स्वप्ने ईदृशनादं तत्र शृणोमि ।
ईदृश जिनस्तुति कमलाकरेण जाति जरास्मर तत्र लभेयम् ॥
बुद्धगुणानि अनन्तमतुल्यं ये ऽपि च दुर्लभ कल्पसहस्रम् ।
अनुश्रुत ये च स्वप्नगते ऽपि तेषु च देशयि दिवसगतो ऽपि ॥
दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभिः पारमिताभिः ।
बोधिमनुत्तर पुण्य लभेयं क्षत्रभवेत्तमभासमपत्थ्या ॥
भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः ।
संमुखपश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् ॥
यौ इम दारकद्वौ मम पुत्रौ कनकेन्द्र कनकप्रभाश्वरौ ।
तौ उभि दारक तत्र लभेयं बोधिमनुत्तरव्याकरणं च ॥
ये पि च सत्त्व अनेकमनन्ता शरणविहीना व्यसनगताश्च ।
तेषु भवेय अनागत सर्वत्राणपरायण शरणप्रदश्च ॥
दुःखसमुद्भव संक्षयकर्ता सर्वसुखस्य च आकरभंत ।
कल्प अनागत बोधि चरेयं यत्तहु पूर्वं कोटि गताश्च ॥
स्वर्णप्रभासोत्तमदेशनताय पापसमुद्रं शोषतु मह्यम् ।
कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विछिद्यतु मह्यम् ॥
पुण्यसमुद्रं पूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् ।
विमलज्ञान प्रभासवरेण काम प्रभा च भविष्यतु मह्यम् ॥
पुण्यप्रभास विलोचनता च सर्वत्रिलोकि विशिष्ट भवेयम् ।
पुण्यवरेण समन्वित नित्यं दुःखसमुद्र उत्तारयिता च ॥
सर्वसुखस्य च सागरकल्पं कल्पमनागत बोधि चरेयम् ।
यत्नत पूर्वक कोटिगताया ईदृशक्षत्रविशिष्ट त्रिलोके ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0