108 Buddhist stotras · अध्याय 28
मञ्जुश्रियं महावीरं सर्वमारविनाशनम् ।
सर्वसिद्धीश्वरं नाथं वागीश्वरं नमाम्यहम् ॥
मञ्जुघोषं महावीरं सर्वमारविनाशनम् ।
सर्वाकारप्रदातारं धर्मधातुं नमाम्यहम् ॥
महोष्णीषं सितच्छत्रं तेजोराशिं जयोदितम् ।
विकिरणोद्गतं चैव महोग्रतेजसं नमे ॥
अक्षोभ्यं च महाबोधिं वज्रसत्त्वं नमाम्यहम् ।
वज्रराजं वज्ररागं वज्रसाधुं नमाम्यहम् ॥
श्रीरत्नसम्भवं नाथं वज्ररत्नं नमाम्यहम् ।
वज्रसूर्यं वज्रकेतुं वज्रहासं नमे सदा ॥
अमिताभं महाराजं वज्रधर्मं नमाम्यहम् ।
वज्रतीक्ष्णं महाकेतुं वज्रभाषं नमे नमे ॥
अमोघसिद्धिं सिद्धेशं वज्रकर्म नमाम्यहम् ।
वज्ररक्षं वज्रयक्षं वज्रसन्धिं नमे सदा ॥
लोचनाख्यां महादेवीं पाण्डराख्यां नमाम्यहम् ।
मामकीं चैव देवीं तां तारादेवीं नमे नमे ॥
वज्राङ्कुशं महावीरं वज्रपाशं महत्प्रभम् ।
वज्रस्फोटः महानाथं वज्रावेशं नमे नमे ॥
अधिमुक्तीश्वरीं भूमिं प्रमुदितां नमाम्यहम् ।
विमलाख्यां महाभूमिं प्रभाकरीं नमे नमे ॥
अर्चिष्मतीं सुदुर्जयां चाभिमुखीं नमाम्यहम् ।
दूरङ्गमामचलाख्यां साधुमतीश्वरीं नमे ॥
धर्ममेघां महामेघां समताख्यां प्रभां नमे ।
रत्नपारमितां देवीं दानपारमितां नमे ॥
शीलपारमितां देवीं क्षान्तिपारमितां नमे ।
वीर्यपारमितां देवीं ध्यानपारमितां श्रये ॥
प्रज्ञापारमितां देवीम् उपायाख्यं नमाम्यहम् ।
प्रणिधानबलं चैव ज्ञानपारमितां सदा ॥
कर्मपारमितां देवीं नमामि सततं तथा ।
आयुश्चित्तपरिष्कारं कर्मोपपत्तिकां नमे ॥
ऋद्ध्याख्यामधिमुक्तिं च प्रणिधानां नमाम्यहम् ।
ज्ञानाख्यवशितां देवीं धर्माख्यवशितां नमे ॥
तथतां च महादेवीं बुद्धबोधिं नमाम्यहम् ।
वसुमतीं महालक्ष्मीं रत्नज्वालां नमे नमे ॥
उष्णीषविजयां देवीं मारीचीं पर्णशाबरीम् ।
जाङ्गुलिं धारणीं वन्दे अनन्तमुखधारणीम् ॥
चुन्दां प्रज्ञां च पद्मां च सर्वावरणशोधनीम् ।
अक्षयज्ञानकारण्डं धर्मकायवतीं नमे ॥
धर्मप्रतिविदं देवमर्थं च प्रतिसंविदम् ।
निरुक्तिसंविदं देवं प्रतिभानाख्यसंविदम् ॥
वज्रलास्यां वज्रमालां वज्रगीतां नमे सदा ।
वज्रनृत्यां महादेवीं नमामि सततं मुदा ॥
समन्तभद्रं बोधीशमक्षयतां मतिं नमे ।
क्षितिगर्भं खगर्भं च बोधिसत्त्वं नमाम्यहम् ॥
गगणगञ्जनाथेशं रत्नपाणिं नमे नमे ।
सागरमतिं बोधीशं वज्रगर्भं नमाम्यहम् ॥
लोकेश्वरं महासत्वं स्थानप्राप्तं नमाम्यहम् ।
चन्द्रप्रभं महातेजं वन्दे ऽहं जालिनीप्रभम् ॥
अमितप्रभबोधोशं श्रीपतिं भानुकूटकम् ।
सर्वशोकतमोद्घाटविष्कम्भिनं नमाम्यहम् ॥
यमान्तकं महावीरं प्रज्ञान्तकं नमे नमे ।
पद्मान्तकं महावीरं विघ्नान्तकं नमाम्यहम् ॥
त्रैलोक्यविजयं वीरं वज्रज्वालां नमाम्यहम् ।
हेरुकं वज्रवीरेशं परमेशं नमाम्यहम् ॥
चक्रवर्त्तीश्वरं वन्दे सुम्भराजं नमाम्यहम् ।
पुष्पां धूपां महादीपां गन्धां देवीं नमाम्यहम् ॥
वज्ररूपां वज्रशब्दां रसवज्रां नमाम्यहम् ।
वज्रस्पर्शां महादेवीं विश्ववर्णां नमे सदा ॥
इन्द्रयमजलेशांश्च कुबेरमीश्वरं नमः ।
अग्निं नैरृत्यनाथं च वायुराजं नमाम्यहम् ॥
ब्रह्माणं विष्णुदेवं च महेश्वरं कुमारकम् ।
ब्रह्माणीं च महादेवीं रुद्राणीं वैष्णवीं नमे ॥
कौमारीं रक्तवर्णां च महेन्द्राणीं नमाम्यहम् ।
वाराहीं कालिकां चण्डीं भृङ्गिणं गणनायकम् ॥
महाकालं महाभीमं नन्दिकेशं रविं नमे ।
चन्द्रं भौमं बुधं वन्दे गुरुं शुक्रं शनैश्चरम् ॥
राहुं केतुं बलभद्रं जयकरं नमे सदा ।
मधुकरं वसन्तं च अनन्तं वासुकिं नमे ॥
तक्षं कर्कोटकं पद्मं महापद्मं नमाम्यहम् ।
शङ्खपालं च कुलिकं वेमचित्रं वलिं नमे ॥
प्रह्लादं च महादैत्यं वैरोचनं नमे सदा ।
गुरुडेन्द्र सुम्भराजं पंचशिखं नमाम्यहम् ॥
सर्वार्थसिद्धिं विघ्नेशं पूर्णभद्रं नमाम्यहम् ।
मणिभद्रं महायक्षं धनदं च महेश्वरम् ॥
वैश्रवणं महावीरं चिविकुण्डलिनं नमाम्यहम् ।
केलिमालिं सुखेन्द्रं च चलेन्द्रं च नमाम्यहम् ॥
हारतीं यक्षिणीं देवीं बहुपुत्रवतीं नमे ।
अश्विनीं भरणीं तारां कृत्तिकां रोहणीं तथा ॥
मृगशीर्षां तथैवार्द्रां पुनर्वसुं नमाम्यहम् ।
पुष्यमाश्लेषकातारां मघां च पूर्वाफाल्गुनीम् ॥
उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् ।
अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् ॥
पूर्वाषाढोत्तराषाढां श्रवणां च नमाम्यहम् ।
धनिष्ठां शतभिषां च पूर्वोत्तराभाद्रपदाम् ॥
रेवतीं च महाताराम् अभिजितं नमाम्यहम् ।
वज्राङ्कुशं महावीरं वज्रपाशं नमाम्यहम् ॥
वज्रस्फोटं महाभीमं वज्रांशं वै नमे नमे ।
वागीश्वरं महाबोधिं सर्वविघ्नविनाशकम् ॥
सर्वज्ञं ज्ञानदातारं धर्मधातुं नमाम्यहम् ।
मञ्जुश्रियं महाज्ञानं सर्वविद्याप्रदेश्वरम् ।
सर्वाकारस्वरूपं च वादिराजं नमाम्यहम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0