भाषा

ENहिગુ
ग्रंथ पाठ

युक्तिषष्टिककारिका · भाग 14

अथ युक्तिषष्टिकारिका नाम
मञ्जुश्रिकुमारभुताय नमः
नमस्तस्मै मुनीन्द्राय प्रतीत्योपाददेशिने ।
येनानेना विधानेन निषिद्धावुदयव्ययौ ॥
भावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता ।
तैर्गम्भीरो निरलम्बः प्रत्ययार्थः प्रतीयते ॥ युक्ति_1
सर्वदोषाकरस्तावदभावो विनिवारितः ।
निर्वर्त्यते यथा युक्तया भावो ऽपि श्र्ववणं कुरु ॥ युक्ति_2
भावो यदि भवेत्सत्य् यथा बालैर्विकल्पितः ।
विमोक्षस्तदभावेन को नेच्छेत् किम् न कार्नात् ॥ युक्ति_3
विमोक्षो नास्ति भावेन भावो नास्ति ह्यभावतः ।
भावाभावपरिज्ञानान्महात्मा ऽपि विमुच्यते ॥ युक्ति_4
निर्वाणम् चैव लोकं च मन्यन्ते तत्त्वदर्शिनः ।
नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिनः ॥ युक्ति_5
निर्वानं च भवश्चैव द्वयमेव न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥ युक्ति_6
सम्भवविभवे भावे निरोधः कल्पितो यथा ।
मायाकृतो निरोधो ऽयम् सद्भिस्तथैवमिष्यते ॥ युक्ति_7
सम्स्कृतो न परिज्ञातो निरोधो विभवे सति ।
प्रत्यक्षम् भूयते कस्मिन् विभवो ज्ञायते कथम् ॥ युक्ति_8
यदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षयः ।
यदा चायं निरुद्धः स्यात्तदा मोक्षो भविस्यति ॥ युक्ति_9
अविद्या प्रत्ययोत्पन्नम् सम्यग्ज्ञानेन पश्यतः ।
नोत्पादश्च निरोधस्च युक्तः को ऽप्युपलभ्यते ॥ युक्ति_10
एवम् पश्यति धर्मः यो निर्वानम् वा कतम् तथा ।
धर्मज्ञानम् परं यत्र भेदस्तु तत्र विद्यते ॥ युक्ति_11
अतिसुक्ष्मस्य भावस्य जातिर्येन विकल्पिता ।
प्रत्ययोद्भवमर्थम् न पश्यति सो ऽविचक्षणः ॥ युक्ति_12
सम्क्लेसक्षीनभिक्षूणाम् सम्साराच्चेन्निवार्यते ।
कुतः सम्पन्नबुद्धैश्च तस्यारम्भो न भाषितः ॥ युक्ति_13
आरम्भे सति चैकान्ते भवेदृष्टिपरिग्रः ।
यः प्रतीत्यसमुत्पादस्तस्य पुर्वं परं वा किम् ॥ युक्ति_14
समुत्पन्नं कथं पुर्वं पश्चात् पुनर्निवार्यते ।
पुर्वापरान्तविहीनो मोक्षः ख्यातिर्मायोपमः ॥ युक्ति_15
भवतीदम् यदा माया नम्क्ष्यतीति तदैव हि ।
मायाज्ञानपराभूतो मायाज्ञानेन मोहितः ॥ युक्ति_16
यथा मरीचिका माया भवम् बुद्धया हि पश्यति ।
पुर्वान्तम् वापरान्तम् वा न दृष्टया परिक्लिश्यते ॥ युक्ति_17
सम्स्कृतम् ये हि मन्यन्ते भन्गोत्पादविकल्पितम् ।
प्रतीत्योत्पादचक्रेण विजानन्ति न ते जगत् ॥ युक्ति_18

तदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि ।
स्वयम् यदा यदुत्पन्नमुत्पन्नम् नाम तत् कथम् ॥ युक्ति_19
शान्तम् हेतुक्षयादेव क्षीणम् नामावबुध्यते ।
स्वभावेन हि यत्क्षीणम् तत् क्षीणमुच्यते कथम् ॥ युक्ति_20
न कश्चिदनुत्पन्नम् निरोधो ऽपि न वै तथा ।
उत्पादभन्गकर्मणाभिप्रायार्थः प्रदर्शितः ॥ युक्ति_21
उत्पादज्ञानतो भङ्गो भङ्गज्ञानादनित्यता ।
अनित्यत्वावबोधाच्च सद्धर्मो हि विबोधितः ॥ युक्ति_22
यः प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम् ।
परिजानाति तेनैवनुत्तीर्यत भवाबुधिः ॥ युक्ति_23
सदसद्भिर्विपर्यस्ता आत्मभावाः पृथग्जनाः ।
क्लेशवम्शगताः सत्त्वा आत्मचिन्त्तेन वञ्चिताः ॥ युक्ति_24
विवुधैर्भाव्यते भावेह् शुन्यो ऽनित्यो ऽनात्मकः ।
मोषधर्मचयश्चैव विविक्त इति दृश्यते ॥ युक्ति_25
अमूलत्वात् स्थितिर्नैव निरालम्बो निराश्रयः ।
अविद्याहेतुसम्भूत आदिमध्यान्तवर्जितः ॥ युक्ति_26
कदलीवसारम् यद्गन्धर्वनगरम् यथा ।
मोहपुर्यामिविवन्नौ यो मायावत् पश्यति जगत् । 27
अत्र ब्रह्मादिलोको वै सत्य इवावभासने ।
सत्यन्मृषेत्युक्तमार्येन तत्र का शिष्यते परा ॥ युक्ति_28
लोको ऽविद्यान्धभूतो ऽसौ तृष्नास्त्रोतसा चालितः ।
तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुतः ॥ युक्ति_29
आदौ तत्त्वमिदं दृष्टम् सर्वम्स्तीति कथ्यते ।
जानन्नर्थान्नसक्तो ऽपि पश्चान्नुनम् विविच्यते ॥ युक्ति_30
न जानाति विविक्तार्थ श्रुतिमात्रम् प्रवर्तते ।
येषाम् पुण्यमविच्छिन्नमुत्सन्ना इतरे जनाः ॥ युक्ति_31
कर्मानि फलयुक्तानि प्रोक्तम् सम्यगिदम् जगत् ।
तत्स्वभावपरिज्ञानमनुत्पन्नम् हि देसितम् ॥ युक्ति_32
अहम् ममेति कथितम् यथाकर्यवशाज्जनैः ।
तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः ॥ युक्ति_33
महाभूतादय ख्याता विज्ञाने निचयस्तथा ।
तज्ज्ञानेन वियुक्त्तेन मृषैव न विकल्पितम् ॥ युक्ति_34
निर्वानम् सत्यमेकम् हि जिनैर्यदभिधीयते ।
नाव शिष्टम् तदा सत्यमेवम् विज्ञेन कल्पितम् ॥ युक्ति_35
यावचित्तस्य विक्षेपस्तावन्मारस्य गोचरः ।
एवम्भूतो भवेद्यत्र ना दोषो जायते कथं ॥ युक्ति_36
अविद्याप्रत्ययो लोको यस्माद्बुद्धैः प्रकीर्तितः ।
विकल्पस्तेन लोको ऽयमिति किम् नोपपद्यते ॥ युक्ति_37
अविद्यायाम् निरुद्धायाम् निरोधो जायते यथा ।
अज्ञानतो हि सम्कल्प इति किम् न विधीयते ॥ युक्ति_38

हेतुतः सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना ।
विगमः प्रत्ययाभावात् सो ऽस्तीत्यवगतः कुतः ॥ युक्ति_39
परमम् भावामश्रित्य स्थितिश्चेद्भाववादिनः ।
तदैव हि स्थिता मार्गे न कश्चिदितस्मयस्ततः ॥ युक्ति_40
बुद्धमार्गे श्रिताः सर्वे ऽनित्यमिति वादिनः ।
केन वादेन गृह्यन्ते भावाः सन्ति परा इति ॥ युक्ति_41
एष वासाविति यत्र विमर्शो नोपलभ्यते ।
इदम् सत्यमदो वेति पण्डितैः कथमुच्यतै ॥ युक्ति_42
नानुपादाय तैश्चापि लोको वात्माभिकाङ्क्षते ।
नित्यानित्यादेरूत्पादह् मिथ्यादृष्ट्या तु हारितः ॥ युक्ति_43
येषाम् भावास्मुपादाय तत्त्वा स्तेषाम् प्रसादिताः ।
तत्र लिङ्गादयो दोषाः प्रजायन्ते न वा कथं ॥ युक्ति_44
यान् हि धर्मानुपादाय दृष्टश्चन्द्रो जले यथा ।
तत्र सत्यम् मृषा नैव कामं दृष्ट्या न हारितः ॥ युक्ति_45
रागद्वेषोद्भवस्तीव्र-दुष्टदृष्टिपरिग्रः ।
विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति ॥ युक्ति_46
स हेतुः सर्वदृष्टीनाम् क्लेशोत्पत्ति र्न तम् विना ।
तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः ॥ युक्ति_47
परिज्ञाञ्च केनेति प्रतीत्योत्पाददर्शनात् ।
प्रतीत्य जातञ्चऽजातमाह तत्त्वविदाम् वरः ॥ युक्ति_48
मिथ्याज्ञाने परिभूय यो ऽसत्ये सत्यधारकः ।
परिग्रहो वितर्कादेः क्रमाद्रागक्रिया मता ॥ युक्ति_49
महात्मनाम् न पक्षो वा वितर्को वा न विद्यते ।
येषाम् न विद्यते पक्षेः परपक्षः कुतस्तेषाम् ॥ युक्ति_50
यस्मिन्नेव समाश्रितो दष्टः क्लेशविषधरैह् ।
चलं वानिष्ठितम् चित्तं न तिष्ठत्यनाश्रितम् ॥ युक्ति_51
साश्रय चित्तवान सत्त्वेः क्लेशोद्भूतो विषो महान् ।
सदा पृथगजनो हीनः क्लेशसर्पेन गृहीतः ॥ युक्ति_52
प्रतिविम्बे यथा रागो लोके च मोहवन्धनात् ।
विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया ॥ युक्ति_53
चक्षुर्भ्याम् विषयान्नाम विम्बज्ञानेन पश्यति ।
कर्मपङ्केष्वनासक्तो भावो यथा महात्मनः ॥ युक्ति_54
रूपासक्ता जना मुढा मध्यमा रागवर्जिताः ।
रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् परः ॥ युक्ति_55
विवृत्य सुखचिन्तायाः वीतरागविवर्जितः ।
मायापुम्वद्विपश्यनान्निवृतः स भविष्यति ॥ युक्ति_56
मिथ्याज्ञानभितप्तो यः क्लेशसम्दोषभाग्भावेत् ।
भावाभावौ विकल्पनादर्थज्ञानम् न जायते ॥ युक्ति_57
नाश्रय्ः वीतरागा वै भवन्ति रागवर्जिताः ।
अरागे रागवर्धास्ते न साश्रया महात्मनः ॥ युक्ति_58

येषाम् विविक्तचेतसाम् चलम् चित्तम् चञ्चलम् ।
क्लेशसर्पेर्मथितो ऽपि तीणो ऽखिन्नो भवाम्बुद्धेः ॥ युक्ति_59
शास्त्रेणानेन जनानाम् पुन्यम् ज्ञानम् च सन्चितम् ।
पुन्यज्ञानक्रियोद्भूतम् द्वावाप्तोतु परम् तथा ॥ युक्ति_60
इति युक्तिषष्टिकारिका समाप्ता ।
आर्यनागार्जुनमुखनिः सतम्, शास्त्रमिदं
भारतीयपण्डित मुदितश्रिपण्डिताच्छुर्तम्
च भोटवासिना पात्छव प्रान्तीय सुर्यकीर्तिर्नाम
भोटपण्डितेन लिखितं भोटभाषायमिति ॥
शुभमस्तु ।

मूल पाठ: Yuktiṣaṣṭikakārikā Sanskrit reconstruction · Edition: B. Kumar: "The Critical Edition of Yuktiṣaṣṭika-Kārikā of Nāgārjuna", The Tibet Journal 18.3 (1993), pp. 3-16. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc