भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 16

16.1

अत्र ध्वजप्रहरणान्य् अभिमन्त्रितानि कुर्वन्ति शत्रुकदन रिपुवाहिनीनाम्।
मन्त्रं जगाद भगवान् उशनाः स्वशास्त्रे यल् लिख्यते स इह पूर्वविधिक्रमेण॥

16.2

<ओं इन्द्रो ऽग्निर् इन्द्रवज्रधरो ऽयं हरिणो ऽभिनिर्याय परं हन हन दह दह स्वाहा>।
प्रचलितगजवाजिशूरयोधं समभिमुखोद्यतशस्त्रम् अभ्युपेतम्।
अभिमुखदिनकृत्प्रभञ्जनं च स्थिरहृदयो ऽरिबल सुखं निहन्यात्॥

16.3

अशुभखगमृगं च दक्षिणे निपतति केतुपताकभेव वा।
परुषविषममन्दजर्जरो यदि खलु तूर्यरवो ऽस्य वामतः॥

16.4

यत् पृष्ठतः सेषुगजाश्वयोधम् निष्ठितव्यूहमरातिसैन्यम्।
यस्येन्द्रचापं च ललाटसंस्थ तत् पृष्ठभागः कुशलो ऽभिहन्यात्॥

16.5

नार्त्ता न भीता न तृणाननाश् च विमुक्तशस्त्राः प्रपलयमानाः।
क्षीणायुधा वाजिगजावतीर्णा ह्य् एते न बध्या न च पीडनीयाः॥

16.6

कुलैकतन्तुः शरणागतो वा कृताञ्जलिर्यश् च वदेत् तव ऽस्मि।
अयुध्यमानान् अवगम्य हन्याश् न पालकान् स्त्रीपरिरक्षितांश् च॥

16.7

दिग्दाहक्षितिजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनादिवैकृतैश् च।
युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जये ऽपि पार्थिवस्य॥

16.8

शुभा मृगपतत्रिणो मृदुसमीरणोह्लादकृद् ग्रहाः स्फुटमरीचयो विगतरेणुदिग्मण्डलम्।
यद् अन्यम् अपि वैकृतन् न विजयावसाने यदा तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः॥

16.9

परविषयपुराप्तौ साधुदेवद्विजस्वं कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात्।
जनपदहितयुक्तान् पूजयेत् पौरमुख्यान् शुभतिथिकरणर्क्षे हृष्टसैन्यो विशोच् च॥

16.10

दृति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि।
स सकलमहिमण्डलाधिपत्यं व्रजति दिवीव पुरन्दरो ऽचिरेण॥

16.11

अलब्धलिप्सा प्रथमं नृपस्य लब्धस्य संरक्षणसम्प्रवृद्धी।
सम्यक् प्रवृद्धस्य च लाभको ऽयं तीर्थेषु सम्यक् पतिपादनानि॥

16.12

केन्द्रेषु सौम्यैर् गुरुशुक्रलग्ने पापेषु केन्द्राष्टमवर्जितेसु।
प्राम्ये स्थिरे वा ऽनिधने च लग्ने गृहं विशेच् छ्रीतकरे ऽनुकूले।

16.13

पौष्णे धनिष्ठास्व् अथ वारुणेषु स्वायम्भुवर्क्षेषु त्रिषूत्तरासु।
अक्षीणचन्द्रे शुभवासरे च तिथाव् अरिक्ते च गृहप्रवेशः॥

16.14

धर्मेण पृथ्वीं किल पालयित्वा जलाशयारामसुरालयाढ्याम्।
कृत्वा सकूपां चितिभिश् चिताञ् च जयन्ति लोकान् अमरेश्वरस्य॥

16.15

स्वविषयम् उपगम्य मानवेन्द्रो वल्लिम् उपयाचितकानि चाधिकानि।
निगदितविधिनैव सम्प्रदद्यात् प्रमथगणासुरभूतदेवताभ्यः॥

16.16

यात्रावतार आदाव् आचारश् वाभियोज्यको देशः।
योगाध्यायो भिषकबल्युपहारौ तथा स्नानम्॥

16.17

अग्निनिमित्तं नक्षत्रकैन्दुभं लक्षणं तथा वार्याः।
शालाविधिर् गजेङ्गितमदकरणं वाजिचेष्टा च॥

16.18

खड्गविधिः प्रस्थानं शाकुनम् उत्साहपुरनिवेशश् च।
अध्यायसंप्रहो ऽयं समासतश् चात्र निर्दिष्टः॥ए18

मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc