भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 14

14.1

पृष्टव्यो दैवविदा विश्रब्धम् उपह्वरे नराधिपतिः।
रिपुनिधनप्रणिधानं प्रति भवतः किं मनः कुरुते॥

14.2

ब्रूयात् स चेन् मम मनः प्रोत्सहते हर्षयेत् ततश् चैवम्।
चित्तानुकूलता सिद्धिलक्षणं तत्र च श्लोकाः॥

14.3

शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः।
एकतश् च मनश्शुद्धिस् तद् धि शुद्धं जयावहम्॥

14.4

कियच् चिरं न लभ्येत निमित्तं गमनानुगम्।
न त्व् एव तु मनो ऽनर्थं चिरेणाप्य् अनुमन्यते॥

14.5

निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम्।
तेजो ह्य् एतच् छरीरस्थं त्रिकालफलदं नृणाम्॥

14.6

प्रीयते न मनो ऽनर्थैर् नासिद्धाव् अभिनन्दति।
तस्मात् सर्वात्मना यातुर् अनुमेयं सदा मनः॥ए6

मूल पाठ: Yogayātrā · Edition: of Pingree, David (ed.): Brhadyatra, Government of Tamil Nadu, 1972. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc