योगावतार · भाग 11
योगावतारः
नमस्तारायै
श्रुत्वा शास्त्रमुदारं निश्चित्य पारमार्थिकं तत्त्वम् ।
मृद्वासनोपविष्टः सश्रद्धो योगमारभेद् [योगी] ॥ 1 ॥
ग्राह्यग्राहकमुभयं नोभयमहमेव निर्वृतिर्मग्न इति ।
बहुविधविकल्पजालं प्रविज्ञाय मनःसमापत्तिः ॥ 2 ॥
ज्ञेयं विलोक्य सकलं मा योगमेव निर्भासम् ।
प्रविवाच्ये देहे यत् तत्तथताज्ञानवज्रेण ॥ 3 ॥
सर्वाकारविवर्जितमाद्यन्तविभागरहितमविकल्पम् ।
निमर्लसहस्रदीधितिनिर्भिन्नमेति सर्वं गगनमिव ॥ 4 ॥
स्वाकारमात्रशेषं पश्यति चित्तं स्वमाद्यनुत्पन्नम् ।
येनापि पश्यतीदं तदपि तथैवावलोकयति ॥ 5 ॥
सो ऽनुपलम्भो ऽचित्तं तथताज्ञानं तत्कोटिञ्च ।
एवं तमसो ऽभ्यासात् प्रज्ञावेदितनिरोधमाप्नोति ॥ 6 ॥
ताभिर्युक्तो योगी सत्त्वार्थमनेकधा कुरुते ।
अस्मिन् परिनिष्पन्ने तिष्ठति योगी सदार्यमध्वानम् ॥ 7 ॥
............दनघवायौ निष्कम्प्यं क्लेशमाराद्यैः ।
प्रज्ञापारमितां वास्मिन् सर्वदा प्रवृत्तस्य ॥ 8 ॥
सिद्ध्यन्त्यन्ये बहवः समाधियोगदानरागाद्याः ॥ 9 ॥
॥ योगावतारः समाप्तः ॥
॥ कृतिरियमार्यदिग् नागपादानामिति ॥
मूल पाठ: Yogāvatāra · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0