भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.58-2

6.58-2.58

अष्टपञ्चाशः सर्गः

6.58-2.1

अर्जुन उवाच ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव

6.58-2.2

श्रीभगवानुवाच ।
वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् ।
तच्चित्तं शान्तमेवान्तर्विद्धि सत्त्वमुपागतम्

6.58-2.3

अत्र तच्चेत्यरहितं प्रत्यक्चेतननामकम् ।
यत्त्वशेषविनिर्मुक्तं यत्सर्वं सर्वतश्च यत्

6.58-2.4

न केचन विदन्त्येते तत्पदं जागतादयः ।
भूतलाद्गगनोड्डीनं विहंगममिवोन्नतम्

6.58-2.5

प्रत्यक्चेतनमाभासं शुद्धं संकल्पवर्जितम् ।
अगम्यमेनमात्मानं विद्धि दूरं दृशामिव

6.58-2.6

सर्वातीतं यदत्यच्छं विना शुद्धं स्ववासना ।
न शक्नोति पदं द्रष्टुं जनदृष्टिरणूनिव

6.58-2.7

यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः ।
वराकी वासना तत्र किं करोतु परे पदे

6.58-2.8

यथाऽनलगिरिं प्राप्य हिमलेशो विलीयते ।
शुद्धमासाद्य चित्तत्त्वमविद्या लीयते तथा

6.58-2.9

क्व वराकी रजस्तुच्छा वासना भोगबन्धनम् ।
क्व पूरितजगज्जालश्चित्तत्त्वविपुलानिलः

6.58-2.10

तावत्स्फुरत्यविद्येयं नानाकारविकारिणी ।
यावन्न संपरिज्ञातः शुद्धः स्वात्माऽयमात्मना

6.58-2.11

सर्वा दृश्यदृशः क्षीणाः स्वच्छतैवोदिता तथा ।
नभसीव पदे तस्मिन्स्वात्मन्यखिलपूरणे

6.58-2.12

समग्राकाररूपं तत्समग्राकारवर्जितम् ।
वागतीतं परं वस्तु केन नामोपमीयते

6.58-2.13

विषयविषविषूचिकामतस्त्वं
निपुणमहंस्थितिवासनामपास्य ।
अभिमतपरिहारमन्त्रयुक्त्या
भव विभवो भगवान्भियामभूमिः

6.58-2.14

श्रीवसिष्ठ उवाच ।
इति गदितवति त्रिलोकनाथे
क्षणमिव मौनमुपस्थिते पुरस्तात् ।
अथ मधुप इवाऽसिताब्जखण्डे
वचनमुपैष्यति तत्र पाण्डुपुत्रः

6.58-2.15

अर्जुन उवाच ।
परिगलितसमस्तशोकभारा
परमुदयं भगवन्मतिर्गतेयम् ।
मम तव वचनेन लोकभर्तु-
र्दिनपतिना परिबोधिताब्जिनीव

6.58-2.16

इत्युक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः ।
अर्जुनो गतसंदेहो रणलीलां करिष्यति

6.58-2.17

करिष्यति क्षतगजवाजिसारथि-
द्रुतक्षरद्रुधिरमहानदीं भुवम् ।
शरोत्करप्रसरमहारजःस्थली-
तिरोहितद्युमणिविलोचनां दिवम्

6.58-2.58

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनकृतार्थता नामाष्टपञ्चाशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc