भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.122

6.122.122

द्वाविंशत्यधिकशततमः सर्गः

6.122.1

श्रीवसिष्ठ उवाच ।
ततः प्रभाते प्रसभं पृथिव्याः
कृत्वा यथाशास्त्रमलं व्यवस्थाम् ।
आविष्टदेहा इव ते रसेन
निषेध्यमाना इव मन्त्रिमुख्यैः

6.122.2

निवार्य सर्वं परिवारमात्र-
माक्रन्दमानं वदनै रुदद्भिः ।
निरस्य चास्नेहतयाभिमान-
मात्सर्यलोभाभिभवैषणादि

6.122.3

दिगन्तमालोक्य समुद्रपारे
क्षणात्समायाम इति ब्रुवन्तः ।
स्वमन्त्रशक्त्योत्तमतां गतैस्तै-
रब्धिः पदैरेव तदा प्रविष्टः

6.122.4

विपश्चितस्ते दिशि दिश्यनल्पै-
र्भृत्यैः समुद्रं प्रविशद्भिरेव ।
भृत्यैश्च कैश्चित्त्वनुगम्यमाना
ययुर्यथा वारिणि पद्भिरेव

6.122.5

तरङ्गजालेषु पदानि कृत्वा
पृष्ठे स्थलस्येव जलस्य चान्तः ।
चत्वार एकैकतयैव युक्ता
भृशं वियुक्ता निजसेनया ते

6.122.6

पदक्रमेणैव महार्णवान्त-
स्तावत्प्रविष्टा अवलोकितास्ते ।
तटस्थितैर्यावददृश्यभावं
शरन्नभोमेघलवा इवापुः

6.122.7

तमध्वानमथोहुस्ते जलधौ पादचारिणः ।
वितताध्यवसायेन बद्धकक्षाहरा इव

6.122.8

उन्नतावनतामद्रिसमारोहावरोहणैः ।
श्रियं वारितरङ्गाणां हरन्तो हरिमूर्तयः

6.122.9

आवर्तेषु तृणानीव भ्रान्ता विगतसंभ्रमम् ।
चिरं चञ्चलमत्ताभ्रचन्द्रमण्डलशोभिषु

6.122.10

मन्त्रविद्याबलौजोभिर्दुर्जयाः शस्त्रपाणयः ।
क्वचित्प्रमत्तैर्मकरैर्निगीर्णोद्गीर्णदेहकाः

6.122.11

जलकल्लोलविश्रान्तवातोत्सारितमूर्तयः ।
नीतानीताः क्षणेनैव योजनानां शतं शतम्

6.122.12

जलकल्लोलमातङ्गतुङ्गिताङ्गतया तया ।
दधाना निजराज्येभपृष्ठरोहस्थितिश्रियम्

6.122.13

विस्तीर्णोर्मिघटापट्टपाटपट्टनपाटवैः ।
दर्शयन्तो जलाम्भोदनिष्क्रान्तिं मारुता इव

6.122.14

तरत्तरलमातङ्गतरङ्गौघविघट्टिताः ।
अत्यजन्तो निजं धैर्यं वेलावरतटा इव

6.122.15

महोर्मिमुक्तामाणिक्यमण्डलप्रतिबिम्बिताः ।
एकाकिनोऽपि परितः पौरुषेयवृता इव

6.122.16

पाण्डुडिण्डीरपिण्डेषु कुर्वन्तो लाघवात्पदम् ।
श्वेतपद्मपरिक्रान्तराजहंसश्रियं दधुः

6.122.17

घननिर्घातनिर्घोषभीषणार्णवघुंघुमात् ।
न भीता भूभृतस्तत्र वेलावलनजृम्भितात्

6.122.18

अभ्रंलिहजलाद्रीन्द्रपातोत्पातविघट्टिताः ।
क्षणं पातालमाजग्मुः क्षणमर्कास्पदं ययुः

6.122.19

अशङ्कितोत्पतद्वारिपूरपातपटावृताः ।
उत्पातपातनिपतद्वितानकवृता इव

6.122.20

प्रक्रान्तास्तेम्बुराशौ सहचरमकराः शूरनक्रैः कुलीरै-
र्व्याप्तावर्ताविवृत्ताः सलिलतरुलतासीकरैरन्तरालैः
कुर्वन्तः कान्तियुक्तं वपुरिव कुसुमैर्भ्रान्तमाणिक्यमुक्तै-
र्व्यक्ताव्यक्तांशुजालैः प्रतिपदमितरैरभ्ररूपैरदभ्रैः

6.122.122

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो नाम द्वाविंशाधिकशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc