भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.69

5.69.69

एकोनसप्ततितमः सर्गः

5.69.1

श्रीवसिष्ठ उवाच ।
सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता ।
सर्वकर्मरतेनापि मनः कार्यं विजानता

5.69.2

न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु ।
नाकाशे नाप्यधो नाग्रे न दिक्षु न लतासु च

5.69.3

न बहिर्विपुलाभोगे न चैवेन्द्रियवृत्तिषु ।
नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि

5.69.4

न भ्रूमध्ये न नासान्ते न मुखे न च तारके ।
नान्धकारे न चाभासे न चास्मिन्हृदयाम्बरे

5.69.5

न जाग्रति न च स्वप्ने न सुषुप्ते न निर्मले ।
नासिते न च वा पीतरक्तादौ शबले न च

5.69.6

न चले न स्थिरे नादौ न मध्ये नेतरत्र च ।
न दूरे नान्तिके नाग्रे न पदार्थे न चात्मनि

5.69.7

न शब्दस्पर्शरूपेषु न मोहानन्दवृत्तिषु ।
न गमागमचेष्टासु न कालकलनासु च

5.69.8

केवलं चिति विश्रम्य किंचिच्चेत्यावलम्बिनि ।
सर्वत्र नीरसमिव तिष्ठत्वात्मरसं मनः

5.69.9

तत्रस्थो विगतासङ्गो जीवोऽजीवत्वमागतः ।
व्यवहारमिमं सर्वं मा करोतु करोतु वा

5.69.10

अकुर्वन्नपि कुर्वाणो जीवः स्वात्मरतिः क्रियाः ।
क्रियाफलैर्न संबन्धमायाति खमिवाम्बुदैः

5.69.11

अथवा तमपि त्यक्त्वा चेत्यांशं शान्तचिद्धनः ।
जीवस्तिष्ठतु संशान्तो ज्वलन्मणिरिवात्मनि

5.69.12

निर्वाणमात्मनि गतः सततोदितात्मा
जीवोऽरुचिर्व्यवहरन्नपि रामभद्र ।
नो सङ्गमेति गतसङ्गतया फलेन
कर्मोद्भवेन सहतीव च देहभारम्

5.69.69

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे शान्तिसमायातयोगोपदेशो नामैकोनसप्ततितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc