योगवासिष्ठ · अध्याय 4.58
अष्टपञ्चाशः सर्गः
श्रीवसिष्ठ उवाच ।
अत्रैव वस्तुन्युदिता श्रृणु राघव पूर्वजाः ।
कचेन गाथा या गीता बार्हस्पत्येन पावनाः
कस्मिंश्चिन्मेरुगहनेऽतिष्ठन्सुरगुरोः सुतः ।
कदाचिदभ्यासवशाद्विश्रान्तिं प्राप चात्मनि
सम्यग्ज्ञानामृतापूर्णा मतिर्नारमतास्य सा ।
पञ्चभूतमयेऽमान्ये दृश्येऽस्मिन्पेलवात्मनि
स तेन निर्विण्ण इव सदात्मत्वादृते पदम् ।
अपश्यन्समुवाचेदमेको गद्गदया गिरा
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम्।
आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा
दुःखमात्मा सुखं चैव खमाशासुमहत्तया ।
सर्वमात्ममयं ज्ञातं नष्टकष्टोऽहमात्मना
सबाह्याभ्यन्तरे देहे अधश्चोर्ध्वं च दिक्षु च ।
इत आत्मा ततश्चात्मा नास्त्यनात्ममयं क्वचित्
सर्वत्रैव स्थितो ह्यात्मा सर्वमात्ममयं स्थितम् ।
सर्वमेवेदमात्मैवमात्मन्येव भवाम्यहम्
यन्नाम नाम तत्किंचित्सर्वमेवाहमान्तरः ।θ
आपूरितापारनभाः सर्वत्र सन्मयः स्थितः
पूर्णस्तिष्ठामि मोदात्मा सुखमेकार्णवोपमः ।
इत्येवं भावयंस्तत्र कनकाचलकुञ्जके
उच्चारयन्नोङ्कारं च घण्टास्वनमिव क्रमात् ।
ओंकारस्य कलामात्रं पाश्चात्यं वालकोमलम् ।
नान्तरस्थो न बाह्यस्थो भावयन्परमे हृदि
व्यपगतकलनाकलङ्कशुद्धो
हृदयनिरन्तरलीनवातवृत्तिः ।
गतघनशरदाशयोपमानः
स्थित इति राम कचः स गायमानः
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे कचगाथानामाष्टपञ्चाशः सर्गः
मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0