भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 1.13

1.13.1

त्रयोदशः सर्गः
श्रीराम उवाच ।
इयमस्मिन्स्थितोदारा संसारे परिकल्पिता ।
श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा

1.13.3

उल्लासबहुलानन्तकल्लोलानलमाकुलान् ।
जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥
चिन्तादुहितरो बह्वयो भूरिदुर्ललितैधिताः ।
चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा

1.13.4

एषा हि पदमेकत्र न निबध्नाति दुर्भगा ।
दग्धेवानियताचारमितश्चेतश्च धावति

1.13.5

जनयन्ती परं दाहं परामृष्टाङ्गिका सती ।
विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम्

1.13.6

गुणागुणविचारेण विनैव किल पार्श्वगम् ।
राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते

1.13.7

कर्मणा तेनतेनैषा विस्तारमनुगच्छति ।
दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते

1.13.8

तावच्छीतमृदुस्पर्शाः परे स्वे च जने जनाः ।
वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः

1.13.9

प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये ।
पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः

1.13.10

न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते ।
गुप्ता विनाशनं धत्ते मृतिं विषलता यथा

1.13.11

श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।
समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः

1.13.12

एषा हि विषमा दुःखभोगिनां गहना गुहा ।
घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी

1.13.13

सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।
सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी

1.13.14

संभ्रमाभ्रादिपदवी विषादविषवर्धिनी ।
केदारिका विकल्पानां खेदायभयभोगिनी

1.13.15

हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।
राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका

1.13.16

इन्द्रायुधवदालोलनानारागमनोहरा ।
लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया

1.13.17

चापलावजितारण्य नकुली नकुलीनजा ।
विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका

1.13.18

लहरीवैकरूपेण पदं क्षणमकुर्वती ।
चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा

1.13.19

सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी । ।
खड्गधारेव शिशिरा तीक्ष्णतीक्ष्णाशयाश्रया

1.13.20

नानयापहृतार्थिन्या दुराधिपरिलीनया ।
पश्याम्यभव्यया लक्ष्म्या किंचिद्दुःखादृते सुखम्

1.13.21

दूरेणोत्सारिताऽलक्ष्म्या पुनरेव समादरात् ।
अहो बताश्लिष्यतीव निर्लज्जा दुर्जना सदा

1.13.22

मनोरमा कर्षति चित्तवृत्तिं
कदर्थसाध्या क्षणभङ्गुरा च ।
व्यालावलीगात्रविवृत्तदेहा
श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः

1.13.13

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc