भाषा

ENहिગુ
ग्रंथ पाठ

याज्ञवल्क्यस्मृति · अध्याय 3

3.1

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः ।
आश्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥

3.2

यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना ।
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥

3.3

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्युपयन्त्य् अपः ।
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥

3.4

एवं मातामहाचार्य प्रेतानाम् उदकक्रिया ।
कामोदकं सखिप्रत्ता स्वस्रीयश्वशुरर्त्विजाम् ॥

3.5

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः ।
न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥

3.6

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥

3.7

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥

3.8

मानुष्ये कदलीस्तम्भ निःसारे सारमार्गणम् ।
करोति यः स सम्मूढो जलबुद्बुदसंनिभे ॥

3.9

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥

3.10

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥

3.11

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥

3.12

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥

3.13

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥

3.14

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि ।
इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमान् ॥

3.15

आचार्यपितृउपाध्यायान् निर्हृत्यापि व्रती व्रती ।
संकटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥

3.16

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥

3.17

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये ।
वैतानाउपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥

3.18

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥

3.19

पित्रोस् तु सूतकं मातुस् तद् असृग्दर्शनाद् ध्रुवम् ।
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥

3.20

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ॥

3.21

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् ।
प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥

3.22

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥

3.23

आदन्तजन्मनः सद्या अचूडान् नैशिकी स्मृता ।
त्रिरात्रम् आव्रतादेशाद् दशरात्रम् अतः परम् ॥

3.24

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्वन्तेवास्यनूचानम् आतुलश्रोत्रियेषु च ॥

3.25

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।
निवासराजनि प्रेते तद् अहः शुद्धिकारणम् ॥

3.26

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥

3.27

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥

3.28

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारि दातृब्रह्मविदां तथा ॥

3.29

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥

3.30

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ।
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥

3.31

कालो ऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् ।
पश्चात् तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥

3.32

अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् ।
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम् ॥

3.33

तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते ॥

3.34

भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥

3.35

क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः ।
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥

3.36

फलोपलक्षौमसोम मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥

3.37

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः ॥

3.38

कौशेयनीललवण मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक पशुगन्धांस् तथैव च ॥

3.39

वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥

3.40

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥

3.41

आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस् ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥

3.42

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु ॥

3.43

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् हरेत् ।
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥

3.44

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥

3.45

सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥

3.46

अफालकृष्तेनाग्नींश् च पितॄन् देवातिथीन् अपि ।
भृत्यांश् च तर्पयेत् श्मश्रु जटालोमभृद् आत्मवान् ॥

3.47

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥

3.48

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् ।
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥

3.49

दन्तोलूखलिकः काल पक्वाशी वाश्मकुट्टकः ।
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः ॥

3.50

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा ।
पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते ॥

3.51

स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत् ।
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥

3.52

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥

3.53

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिंपति ।
अक्रुद्धो ऽपरितुष्टश् च समस्तस्य च तस्य च ॥

3.54

अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥

3.55

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः ।
वायुभक्षः प्रागुदीचीं गच्छेद् वावर्ष्मसंक्षयात् ॥

3.56

वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥

3.57

अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् ।
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥

3.58

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥

3.59

अप्रमत्तश् चरेद् भैक्षं सायाह्ने ऽनभिलक्षितः ।
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥

3.60

यतिपात्राणि मृद्वेणु दार्वलाबुमयानि च ।
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥

3.61

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाम् अमृतीभवति द्विजः ॥

3.62

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥

3.63

अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा ।
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥

3.64

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।
ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥

3.65

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् हि सः ।
अतो यद् आत्मनो ऽपथ्यं परेषां न तद् आचरेत् ॥

3.66

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥

3.67

निःसरन्ति यथा लोह पिण्डात् तप्तात् स्फुलिङ्गकाः ।
सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि ॥

3.68

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः ।
करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥

3.69

निमित्तम् अक्षरः कर्ता बोद्धा गुणी वशी ।
अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥

3.70

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् ।
सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥

3.71

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः ।
तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति ॥

3.72

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥

3.73

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः ।
धारणा प्रेरणं दुःखम् इच्छाहंकार एव च ॥

3.74

प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥

3.75

प्रथमे मासि संक्लेद भूतो धातुविमूर्च्छितः ।
मास्य् अर्बुदं द्वितीये तु तृतीये ऽङ्गेन्द्रियैर् युतः ॥

3.76

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च ॥

3.77

पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम् ।
रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥

3.78

भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च ।
आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः ॥

3.79

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥

3.80

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥

3.81

मनश्चैतन्ययुक्तो ऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि ॥

3.82

पुनर् धात्रीं पुनर् घर्मम् ओजस् तस्य प्रधावति ।
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते ॥

3.83

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥

3.84

तस्य षोढा शरीराणि शट् त्वचो धारयन्ति च ।
सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥

3.85

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः ।
पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम् ॥

3.86

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम् ।
चत्वार्यरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥

3.87

द्वे द्वे जानुकपोलोरु फलकांससमुद्भवे ।
अक्षतालूषके श्रोणी फलके च विनिर्दिशेत् ॥

3.88

भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च ।
ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः ॥

3.89

तन्मूले द्वे ललाटाक्षि गण्डे नासा घनास्थिका ।
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥

3.90

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥

3.91

गन्धरूपरसस्पर्श शब्दाश् च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक् श्रोत्रं च इन्द्रियाणि च ॥

3.92

हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥

3.93

नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥

3.94

वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च ॥

3.95

आमाशयो ऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ कोष्ठ्यौ विस्तारो ऽयम् उदाहृतः ॥

3.96

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्त वेष्टाव् ओष्ठौ ककुन्दरे ॥

3.97

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥

3.98

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥

3.99

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु ॥

3.100

शिराः शतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥

3.101

एकोनत्रिंशल्लक्षाणि तथा नव शतानि च ।
षट्पञ्चाशच् च जानीत शिरा धमनिसंज्ञिताः ॥

3.102

त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥

3.103

रोम्णां कोट्यस् तु पञ्चाशच् चतस्रः कोट्य एव च ।
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥

3.104

वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः ।
यद्य् अप्य् एको ऽनुवेत्त्य् एषां भावनां चैव संस्थितिम् ॥

3.105

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥

3.106

षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके ॥

3.107

श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु ।
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥

3.108

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः ।
हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥

3.109

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥

3.110

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥

3.111

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ॥

3.112

यथाविधानेन पठन् सामगायम् अविच्युतम् ।
सावधानस् तद् अभ्यासात् परं ब्रह्माधिगच्छति ॥

3.113

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च ॥

3.114

ऋग्गाथा पाणिका दक्ष विहिता ब्रह्मगीतिका ।
गेयम् एतत् तदभ्यास करणान् मोक्षसंज्ञितम् ॥

3.115

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥

3.116

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥

3.117

अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम् ।
आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः ॥

3.118

कथम् एतद् विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः ॥

3.119

मोहजालम् अपास्येह पुरुषो दृश्यते हि यः ।
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥

3.120

स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः ।
विराजः सो ऽन्नरूपेण यज्ञत्वम् उपगच्छति ॥

3.121

यो द्रव्यदेवतात्याग संभूतो रस उत्तमः ।
देवान् संतर्प्य स रसो यजमानं फलेन च ॥

3.122

संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः ।
ऋग्यजुः सामविहितं सौरं धामोपनीयते ॥

3.123

खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् ।
यज् जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥

3.124

तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः ।
एवम् एतद् अनाद्यन्तं चक्रं संपरिवर्तते ॥

3.125

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥

3.126

सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम् ॥

3.127

पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत ।
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच् छिखी ॥

3.128

मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः ।
जघनाद् अन्तरिक्षं च जगच् च सचराचरम् ॥

3.129

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते ।
ईश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यते ॥

3.130

करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम् ॥

3.131

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवो ऽयं भवं योनिशतेषु च ॥

3.132

अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥

3.133

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते ।
इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम् ॥

3.134

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायते ऽन्यासु योनिषु ॥

3.135

पुरुषो ऽनृतवादी च पिशुनः परुषस् तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥

3.136

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥

3.137

आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः ।
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥

3.138

असत्कार्यरतो ऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥

3.139

निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा ।
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥

3.140

रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह ।
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥

3.141

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥

3.142

कट्वेर् वारौ यथापक्वे मधुरः सन् रसो ऽपि न ।
प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥

3.143

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥

3.144

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥

3.145

ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः ।
इमे लोका एष चात्मा तस्माच् च सचराचरम् ॥

3.146

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥

3.147

हेममात्रम् उपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात् कोशं वा कोशकारकः ॥

3.148

कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु ।
सृजत्य् आत्मानम् आत्मा च संभूय करणानि च ॥

3.149

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
को ऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥

3.150

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥

3.151

जातिरूपवयोवृत्त विद्यादिभिर् अहंकृतः ।
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥

3.152

स संदिग्धमतिः कर्म फलम् अस्ति न वेति वा ।
विप्लुतः सिद्धम् आत्मानम् असिद्धो ऽपि हि मन्यते ॥

3.153

मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः ।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥

3.154

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकानलाघात जलप्रपतनोद्यमी ॥

3.155

एवंवृत्तो ऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥

3.156

आचार्योपासनं वेद शास्त्रार्थेषु विवेकिता ।
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥

3.157

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥

3.158

विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥

3.159

नीरजस्तमसा सत्त्व शुद्धिर् निःस्पृहता शमः ।
एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृती भवेत् ॥

3.160

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् ।
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते ॥

3.161

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् ।
अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात् ॥

3.162

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् ।
नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ॥

3.163

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च ।
गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः ॥

3.164

अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥

3.165

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥

3.166

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि ।
सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥

3.167

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥

3.168

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते ॥

3.169

ये ऽनेकरूपाश् चाधस्ताद् रश्मयो ऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सो ऽवशः ॥

3.170

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च ।
आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥

3.171

श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः ।
निमित्तशाकुनज्ञान ग्रहसंयोगजैः फलैः ॥

3.172

तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि ।
आकाशपवनज्योतिर् जलभूतिमिरैस् तथा ॥

3.173

मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥

3.174

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥

3.175

स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः ।
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥

3.176

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥

3.177

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥

3.178

अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्रवः सर्वभूतस्थः सन्न् असन् सद् असच् च यः ॥

3.179

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततो ऽहंकारसंभवः ।
तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च ॥

3.180

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः ।
यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥

3.181

यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया ।
विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरो ऽपि सन् ॥

3.182

सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः ।
रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ ॥

3.183

अनादिर् आदिमांश् चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥

3.184

पितृयानो ऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥

3.185

ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः ।
ते ऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥

3.186

तत्राष्टाशीतिसाहस्र मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीज भूता धर्मप्रवर्तकाः ॥

3.187

सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥

3.188

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम् ॥

3.189

यतो वेदाः पुराणानि विद्योपनिषदस् तथा ।
श्लोका सूत्राणि भाष्याणि यच् च किंचन वाङ्मयम् ॥

3.190

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥

3.191

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु ।
द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥

3.192

य एनम् एवं विन्दन्ति य वारण्यकम् आश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥

3.193

क्रमात् ते संभवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् ॥

3.194

ततस् तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस् तेषाम् इह न विद्यते ॥

3.195

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥

3.196

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।
क्रमात् ते संभवन्तीह पुनर् एव व्रजन्ति च ॥

3.197

एतद् यो न विजानाति मार्गद्वितयम् आत्मवान् ।
दन्दशूकः पतङ्गो वा भवेत् कीटो ऽथ वा कृमिः ॥

3.198

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।
उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा ॥

3.199

निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् ।
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥

3.200

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥

3.201

ततो ध्येयः स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ।
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥

3.202

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥

3.203

अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम् ।
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥

3.204

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥

3.205

न्यायागतधनस् तत्त्व ज्ञाननिष्ठो ऽतिथिप्रियः ।
श्राधकृत् सत्यवादी च गृहस्थो ऽपि हि मुच्यते ॥

3.206

महापातकजान् घोरान् नरकान् प्राप्य दारुणान् ।
कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह ॥

3.207

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति ।
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥

3.208

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥

3.209

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥

3.210

यो येन संवसत्य् एषां स तल्लिङ्गो ऽभिजायते ।
अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥

3.211

धान्यमिश्रो ऽतिरिक्ताञ्गः पिशुनः पूतिनासिकः ।
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥

3.212

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥

3.213

हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥

3.214

मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम् ।
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥

3.215

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा ।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥

3.216

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥

3.217

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥

3.218

ततो निष्कल्मषीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥

3.219

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् ।
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥

3.220

तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये ।
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥

3.221

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥

3.222

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
रौरवं कुड्मलं पूति मृत्तिकं कालसूत्रकम् ॥

3.223

संघातं लोहितोदं च सविषं संप्रपातनम् ।
महानरककाकोलं संजीवनमहापथम् ॥

3.224

अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तापनं चैकविंशकम् ॥

3.225

महापातकजैर् घोरैर् उपपातकजैस् तथा ।
अन्विता यान्त्य् अचरित प्रायश्चित्ता नराधमाः ॥

3.226

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥

3.227

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् च तैः सह संवसेत् ॥

3.228

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥

3.229

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचो ऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥

3.230

अश्वरत्नमनुष्यस्त्री भूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम् ॥

3.231

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम् ॥

3.232

पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥

3.233

आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥

3.234

गोवधो व्रात्यता स्तेयम् ऋणानां चानपाक्रिया ।
अनाहिताग्नितापण्य विक्रयः परिदेवनम् ॥

3.235

भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥

3.236

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥

3.237

धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस् तडागारामविक्रयः ॥

3.238

कन्यासंदूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥

3.239

आत्मनो ऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥

3.240

इन्धनार्थं द्रुमछेदः स्त्रीहिंसाउषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥

3.241

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥

3.242

असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता ।
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥

3.243

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥

3.244

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च ।
तथाश्वमेधावभृथ स्नानाद् वा शुद्धिम् आप्नुयात् ॥

3.245

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥

3.246

आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥

3.247

लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् ।
मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥

3.248

संग्रामे वा हतो लक्ष्य भूतः शुद्धिम् अवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥

3.249

अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम् ।
शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम् ॥

3.250

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात् ।
आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता ॥

3.251

यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम् ।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥

3.252

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥

3.253

सुराम्बुघृतगोमूत्र पयसाम् अग्निसंनिभम् ।
सुरापो ऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥

3.254

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥

3.255

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥

3.256

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥

3.257

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् ।
स्वकर्म व्याख्यायंस् तेन हतो मुक्तो ऽपि वाशुचिः ॥

3.258

अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन् ।
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥

3.259

तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्त्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥

3.260

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् ॥

3.261

एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः ।
कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥

3.262

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु ।
शूद्रो ऽधिकारहीनोपि कालेनानेन शुध्यति ॥

3.263

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥

3.264

कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः ।
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥

3.265

उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथ वा पुनः ॥

3.266

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥

3.267

वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् ।
षण्मासाच् छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा ॥

3.268

दुर्वृत्तब्रह्मविट्क्षत्र शूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥

3.269

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥

3.270

मार्जारगोधानकुल मण्डूकांश् च पतत्रिणः ।
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥

3.271

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥

3.272

हंसश्येनकपिक्रव्याज् जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम् ॥

3.273

उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हये ऽंशुकम् ॥

3.274

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् ।
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥

3.275

फलपुष्पान्नरसज सत्त्वघाते घृताशनम् ।
किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ॥

3.276

वृक्षगुल्मलतावीरु च्छेदने जप्यम् ऋक्शतम् ।
स्याद् ओषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥

3.277

पुंश्चलीवानरखरैर् दष्टश्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥

3.278

यन् मे ऽद्य रेत इत्याभ्यां स्कन्नं रेतो ऽभिमन्त्रयेत् ।
स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत् ॥

3.279

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृते ऽपि च ॥

3.280

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥

3.281

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः ।
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥

3.282

उपस्थानं ततः कुर्यात् सं मा सिंचन्त्व् अनेन तु ।
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥

3.283

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।
कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि ॥

3.2831

क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥

3.284

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ।
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥

3.285

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥

3.286

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा ।
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा ॥

3.287

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥

3.288

त्रीन् कृच्छ्रान् आचरेद् व्रात्य याजको ऽभिचरन्न् अपि ।
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥

3.289

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् ।
गायत्रीजप्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ॥

3.290

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥

3.291

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥

3.292

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ऽभ्यन्तरशोणिते ॥

3.293

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥

3.294

दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥

3.295

चरितव्रत आयाते निनयेरन् नवं घटम् ।
जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः ॥

3.296

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः ।
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम् ॥

3.297

नीचाभिगमनं गर्भ पातनं भर्तृहिंसनम् ।
विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥

3.298

शरणागतबालस्त्री हिंसकान् संवसेन् न तु ।
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥

3.299

घटे ऽपवर्जिते ज्ञाति मध्यस्थो यवसं गवाम् ।
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥

3.300

विख्यातदोषः कुर्वीत पर्षदो ऽनुमतं व्रतम् ।
अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥

3.301

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥

3.302

लोमभ्यः स्वाहेत्य् अथ वा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाच् चत्वारिंशद्घृताहुतीः ॥

3.303

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः ।
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥

3.304

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।
गौर् देया कर्मणो ऽस्यान्ते पृथग् एभिः पयस्विनी ॥

3.305

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥

3.306

ओंकाराभिष्टुतं सोम सलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्र प्राशनं तु द्विजोत्तमः ॥

3.307

निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥

3.308

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः ।
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥

3.309

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा ॥

3.310

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥

3.311

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥

3.312

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता ।
अहिंसा स्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥

3.313

स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥

3.314

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परे ऽह्न्य् उपवसेत् कृच्छ्रं सान्तपनं चरेत् ॥

3.315

पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रो ऽयं महासान्तपनः स्मृतः ॥

3.316

पर्णोदुम्बरराजीव बिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥

3.317

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥

3.318

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥

3.319

यथाकथंचित् त्रिगुणः प्राजापत्यो ऽयम् उच्यते ।
अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः ॥

3.320

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥

3.321

पिण्याकाचामतक्राम्बु सक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश् च कृच्छ्रः सौम्यो ऽयम् उच्यते ॥

3.322

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् ।
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः ॥

3.323

तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मितान् ।
एकैकं ह्रासयेत् कृष्ने पिण्डं चान्द्रायणं चरन् ॥

3.324

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥

3.325

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥

3.326

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन च ।
धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम् ॥

3.327

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥

3.328

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् ।
इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम् ॥

3.329

य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥

3.330

विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा ।
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥

3.331

श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः ॥

3.332

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥

3.333

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥

3.334

श्रुत्वैतद् याज्ञवक्ल्यो ऽपि प्रीतात्मा मुनिभाषितम् ।
एवम् अस्त्व् इति होवाच नमस्कृत्य स्वयंभुवे ॥

मूल पाठ: Yājñavalkyasmṛti · Edition: Narayan Ram Acharya Yajnavalkyasmrti of Yogisvara Yajnavalkya. With the commentary Mitaksara of Vijñanesvara, Notes, Variant readings, etc Bombay Nirnayasagara Press · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc