व्यक्तिविवेकव्याख्या · भाग 16
रुय्यक [राजानक]: व्यक्तिविवेकव्याख्या, 2न्द् विमर्श
[पगे 15]
अथ द्वितीयो विमर्शः ।
एवं तावत् प्रथमे विमर्शे ध्वनिलक्षणं दूषयित्वा ध्वनिशास्त्रगतं ग्रन्थान्तरं दूषयितुं सामान्येन तावत् काव्यगतम् अनौचित्योल्लासरूपं दूषणप्रपञ्चम् उपपादयितुम् आह - [37] इह खल्व् इत्यादिना । उक्तम् इति सहृदयैः । अन्तरङ्गम् इति साक्षाद् रसविषयत्वात् । आद्यैर् इति ध्वनिकारप्रभृतिभिः । तद् उक्तम् -
अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम् ।
प्रसिद्धौचित्यबन्धस् तु रसस्योपनिषत् परा ॥
इत्यादिना । बहिरङ्गम् इति वाच्यमुखेन रसे पर्यवसानाद् विधेयः प्राधान्येन प्रतिपिपादयिषितो यो ऽर्थस् तस्य अविमर्शो ऽननुसंधानम् उपसर्जनीकरणात् । प्रक्रमः कस्य चिद् वस्तुनो निर्वाहायारम्भस् तस्य भेदो मध्ये ऽन्यथीकरणम् अन्यथानिर्वाहश् च । क्रमस्य परिपाट्या भेद उल्लङ्घनं व्युत्क्रम इति यावत् । पौनरुक्त्यं पुनःप्रतिपादनम् । वाच्यस्य वक्तव्यस्य अवचनम् अनुक्तिः । एता अवान्तरभेदभिन्नाः पञ्च दूषनजातयः ।
यद् एतद् इहग्रन्थकृता विचारसरणिम् आश्रित्य विधेयाविमर्शादिदोषपञ्चकम् उद्भावितं, न तत्राद्यतनपुरुषमात्रबुद्धिप्रणयनासूययानादरः करणीयः । पूर्वैर् एवंविधदोषोद्भावनरूपस्य विचारस्य प्रणीतत्वात् । तथा हि । "दास्याः पुत्र" इत्यादाव् आक्रोशे षष्ठ्या अलुकं प्रतिपादयता सूत्रकृता (प्स्_6,3.21) विधेयाविमर्शः सूचित एव । तथा "स्वामीश्वराधिपतिदायादेत्य्" (प्स्_2,3.39) अत्र सूत्रे न हि भवति "गवां स्वामी अश्वेषु च" इति वदता भाष्यकृता स्पष्टम् एव प्रक्रमभेदः प्रतिपादितः । तथा "कृञ्चानुप्रयुज्यते लिटि" (प्स्_3,1.40) इय् अत्रानुप्रयोगस्यानुशब्दपर्यालोचनया व्यवहितपूर्वप्रयोगं "तं पातयां प्रथमम् आस" इत्यादौ निषेधता चादीनां च न हि भवति "च वृक्षः" इत्यादिना प्रयोगनियमख्यापनेन द्योतकत्वं कथयता अस्थानप्रयोगलक्षणः क्रमभेदः कटाक्षित एव । तथा "कर्मधारयमत्वर्थीयाभ्यां बहुव्रीहिर् लघुत्वात् स्याद्" इति वृत्तिलाघवं चिन्तयता कात्यायनेन पौनरुक्त्यम् अपि प्रकाशितम् एव । तथा "ईषद् असमाप्तौ" (प्स्_5,3.67) इत्य् अत्र प्रतिज्ञानसमधिगम्यं सूत्रकारोक्तं रूपकलक्षणम् अर्थं दूषयता "प्रकृत्यर्थसदृशे कल्पवादिविधानम्" इति प्रतिज्ञानसमधिगम्यार्थभूताम् उपमां व्यवस्थापयतोपमाश्रयेण [पगे 16] वाच्यावचनम् अपि द्योतितम् एव । एतेन रूपकाश्रयेणावाच्यवचनम् अपि द्योतितम् एव । तद् एवं महाविदुषां मार्गम् अनुसृत्य सहृदयशिक्षादराय विचारय(न्दरं?)तो ऽस्य महामतेर् न कश् चित् पर्यनुयोगलेशस्याप्य् अवसर इत्य् अलम् अतिप्रसङ्गेन ।
एतस्य चेति सामान्येनानौचित्यस्य । दोषा इति काव्यस्य विकृतत्वापादनाद् दूषणाद् दोषा इति । मुग्ध इति पृष्टस्याप्रतिविकृतत्वे त्रीणि कारणानि । प्रतिवचनाप्रतिभानलक्षणं मौग्ध्यं प्रतिभाने ऽप्य् अप्रौढरूपत्वम् असह्यत्वम् । प्रौढत्वे ऽपि गुणासहिष्णुत्वलक्षणं मात्सर्यम् । तान्य् अत्र संदिह्यमानतया क्रमेणोक्तानि । यः किलेत्य् अत्रैव च्छेदः । छात्राभ्यर्थनयेति प्रष्टृत्वस्याङ्गीकृतम् इति प्रतिवक्तृत्वस्य च निर्देशः । पौरोभाग्यं दोषैकग्राहित्वम् । ननु यदि परकीये काव्ये परिहाराय दोषाणां विचारः क्रियते, तत् किं निजकाव्ये न तेषां परिहारः । तथा च "भजते मात्सर्यमौनं नु किम्" इत्य् अतो ऽनन्तरम् "इति पृष्ट" इत्य् एवं क्रमेणेतिशब्दो निर्देश्यः क्रमान्तरेण निर्देशात् क्रमभेदो न युज्यते । एवम् अन्यत् (शोकापदानादौ?) ज्ञेयम् । तदर्थम् आह - स्वकृतिष्व् इति कृतिः काव्यम् ।
संरम्भ इति कुत्सिताः करिणः करिकीटाः "कुत्सितानि कुत्सनैः" (प्स्_2,1.53) इति समासः । करिकीटानाम् आशाद्विरदैः प्रतिनिर्देशः । मेघशकलानां तु कल्पान्ततोयदैः य इत्य् अत्रैव च्छेदः । अयं श्लोको वक्रोक्तिजीविते वितत्य व्याख्यात इति तत एवावधार्यः । [38] तावच्छब्दो विधेयाविमर्शत्रयस्यैतच्छ्लोकगतस्योपक्रमद्योतकः । संबन्धोपपत्तेर् इति । अयं भावः - "समर्थः पदविधिः" (प्स्_2,1.1) इति वचनात् समासः सामर्थ्यनिमित्तकः । सामर्थ्यं च सङ्गतार्थत्वं, सङ्गतत्वं च संबन्धः । स चात्र विशेषणविशेष्यभावः । पर्युदासस्यैव विशेषणं नञा अब्राह्मण इति यथा । न चात्र वक्ष्यमाणन्यायेन पर्युदासो घटत इति । नन्व् अब्राह्मण इत्यादौ नञ् कथं विशेषणम् । विशेषणं हि विशेष्यस्योपरञ्जकं भवति । न च नञ्शब्दो विरुद्धत्वाद् विधिम् उपरञ्जयति । तत् कथम् अस्य विशेषणत्वम् । नैतत् । अब्राह्मण इत्यादौ ब्राह्मणशब्दो ब्राह्मणसदृशे क्षत्रियादौ वर्तते । सा चाक्षत्रियादौ ब्राह्मणशब्दस्य वृत्तिर् नञा द्योत्यते । तद् उक्तम् - "नञ् इवयुक्तम् अन्यसदृशाधिकरणे तथ ह्य् अर्थ" इति । तत्र च शब्दशक्तिस्वाभाव्यं कारणम् । यथा चैतत् तथा नञ्सूत्रभाष्याद् अवसेयम् ।
प्रधानत्वम् इति । यत्र विधेः प्राधान्यं प्रतिषेधस्याप्राधान्यं नञ उत्तरपदेन संबन्धः समर्थसमास एकवाक्यत्वं च तत्र पर्युदासः "किं चिद् वर्जयित्वा कस्य चिद् उपदेशो निरास" इति निगमनात् । तत्र कारिकायां त्रयं निर्दिष्टं द्वयं चाक्षिप्यते । जुगोपेति । अत्र नञर्थविशिष्टस्योत्तरपदार्थस्य विधिर् न त्रस्तत्वादिनिषेधः । तत्राप्य् अत्रस्तत्वादेः सिद्धत्वात् तदनुवादेन गोपनादि विधीयत इति पर्युदासत्वम् । अप्राधान्यम् इति । यत्र प्रतिषेधस्य प्राधान्यं विधेर् अप्राधान्य्यं नञः क्रियापदेन संबन्धो ऽसमर्थसमासः वाक्यभेदश् च, तत्र प्रसज्य प्रापय्य प्रतिषेध इति प्रसज्यप्रतिषेधः । अत्र कारिकायां त्रये निर्दिष्टे ऽन्यद् द्वयम् आक्षिप्तम् । न वेति । अत्र दृप्तनिशाचरं प्रति निषेधः प्रतीयते, न त्व् अदृप्तनिशाचरविधिर् इति प्रसज्यप्रतिषेधता । संरम्भवत्प्रतिषेधो ह्य् अत्रेति । संरब्धवान् यः पुरुषस् तद्गता येयं संरब्धता संरम्भणक्रिया तस्या वक्ष्यमाणन्यायेन प्रतिषेध इत्य् अर्थः । असंरधवद्विधिर् इति संरब्धवत्सदृशस्य संरम्भसदृशक्रियाकर्त्तुर् उदासीनप्रायस्य विधिर् इत्य् अर्थः । यद् उक्तं "नञ् इव युक्तम्" इत्यादि । तत्रेति संरब्दहवत्प्रतिषेधे । न चासाव् इति प्रति [पगे 17] षेधति । तत्सिद्धिपक्ष इति विवक्षितो यः प्रधानभूतनिषेधलक्षणो ऽर्थस्य सिद्धिपक्ष इत्य् अर्थः । अस्य विध्यनुवादभावस्येति । नञर्थस्य विधिर् उत्तरपदार्थस्यानुवाद इत्य् अस्य । समासे हि नञर्थोपसर्जन उत्तरपदार्थः प्राधान्येन प्रतीयते । काव्यार्थेति । अत्र व्यवच्छेद्यं प्रसज्यप्रतिषेधं प्रदर्श्य परिच्छेद्यं पर्युदासम् उदाहरति ।
ननु प्रसज्यप्रतिषेधे नञः क्रियान्वये ऽसंरब्दहवान् इत्य् अत्र संरम्भक्रियानिषेधो भविष्यति । तत् को ऽत्र दोष इत्य् आह: क्रियाकर्त्रंशभाग् इति । अयं भावः: असंरब्धवान् इत्य् अत्र द्वाव् अंशौ क्रियांशः कारकांशश् च । तत्रोभयांशभागर्थनिषेधे शब्दशक्तिस्वाभाव्याद् वाक्ये क्रियांशनिषेधस् तस्य प्राधान्येन विवक्षितस्यापरामर्शो (...म् अनुक्ताद्?)विधेयाविमर्शः । यथा च प्रसज्यप्रतिषेधे समासो नेष्टस् तथोक्तनयेन पर्युदासे ऽप्य् असमासो नेष्यत इत्य् आह [39] - ननु साध्व् इति अत्र "न कुर्वते"ति करणक्रियाकर्तृसदृशेन क्रियां प्रत्य् उदासीनप्रायेणेत्य् अर्थः । अकुर्वतेति वाच्ये न कुर्वतेति क्रियांशनिषेधः प्रतीतेर् वैपरीत्यकारी । एवं नोचितम् अपीत्य् उचितत्वमात्रनिषेधः प्रतीतेर् वैपरीत्यकृद् एव । तच्छ्रवणं क्रियाश्रवणम् । तयोर् इति सिद्धार्था वृत्तिः । साध्यार्थं वाक्यम् । असूर्यंपश्यादिष्व् इति । अत्रापि नञः सूर्येणोत्तरपदाथन ⟨चोर्र्. इन्तो °पदार्थेन⟩ नाभिसंबन्धः, अपि तु तद्द्रष्ट्रर्थेनैव । तत्रापि कर्त्रंशः प्रधानं न क्रियांशः कर्त्तरि खशो विधानाद् इति पूर्ववद् अवसेयम् । भुङ्क्त इति अत्र हि वाक्यस्य क्रियाप्राधान्यं प्रतीयमानभवत्यादिक्रियापेक्षे नञः समन्वये श्राद्धभोजी न भवतीति वाक्यार्थः । अश्राद्धभोजीत्य् अत्र तु नञा भोक्तुस् समन्वये श्राद्धभोक्तृव्यतिरिक्तो ऽपि विघसाश्या+इ++ प्रतीयते । यतश् चात्राश्राद्धभोजीत्यादौ समासे प्रतिषेधो नेष्टः, तत एव समर्थसमासस् तद्विपर्ययेणासमर्थसमासश् च कारिकाद्वयेनोक्तः । वाक्यभेदाभेदयोस् तु सामर्थ्यात् प्रतीतिर् इत्य् अवचनम् ।
एवकेमं ⟨सिच्⟩ विधेयाविमर्शं विचार्य द्वितीयम् उदाहरति - यो ऽसाव् इत्य् अत्रेति तच्छब्दं प्रत्य् आकाङ्क्षायाः केनाप्य् अनिवर्त्तनात् । [40] एकतरेति क्वचिद् यच्छब्देनोपक्रमे तच्छब्देनोपसंहारः । क्व चित् तच्छब्देनोपक्रमे यच्छब्देनोपसंहारः प्रसज्यते । एतच् च द्वयं शाब्दोपक्रमोपसंहारक्रमेणोदाहरिष्यति । तयोर् अपीति । अपिशब्दो नञर्थं समुच्चिनोति । प्रसज्यप्रतिषेधे हि नञर्थो विधेयो निषेध्यो ऽर्थो ऽनुवाद्यः । पर्युदासे तु विपर्यय इत्य् उक्तं प्राग् । अनुवाद्यविधेयेति । यत्तदोर् नित्याभिसंबन्धे ऽपि शब्दशक्तिस्वाभाव्याद् यदो ऽनुवाद्यविषयत्वं तदो विधेयविषयत्वम् । नित्यत्वाद् इति । अपेक्षाप्राणतयावस्थानात् । शाब्द इति शब्देनोभयोः संस्पर्शाद् । उभयोः संस्पर्शाभाव आर्थत्वम् । तत्र द्वयी गतिः - अन्यतरानुपादानं द्वयोर् अनुपादानं वा । अन्यतरानुपादनम् अपि यत्तदाश्रयभावेन द्विधा । क्रमेण चैतद् उदाहरिष्यति । उपकल्पितो नित्यसापेक्षत्वाद् उपस्थापितः । अत्र च प्रसिद्धादिविषयत्वं यदा निर्दिष्टम् । सा कला या प्रसिद्धेति स्फुटत्वेन प्रतीतेः । क्व चित् तदो ऽपि व्यपदिश्यते, तस्य यच्छब्देनैकविषयत्वात् । ते इति ये मयैवानुभूते इत्य् अर्थः । अन्वियेष स इति । अत्र स इति यः प्रक्रान्त इत्य् अर्थः । उपात्तवस्त्व् इति वक्ष्यमाणश्लोके को ऽपीति यद् उपात्तं वस्तु तद्विषयत्वेनेत्य् अर्थः । अस्य उपक्रमोपसंहारस्य प्रक्रान्तवस्तुविषयस्य ।
तच्छब्दात् प्रयोगातिप्रसङ्गनियमं प्रकाशयन् परिहार्यं विषयं प्रदर्शयति । - [41] यस् त्व् एकवाक्य इति ⟨वर्. fन्. - यश् चैकवाक्य इति मूलकोशयोः पाठः⟩ । एकवाक्यग्रहणेन पराममृश्यस्य प्रत्यक्षायमाणतोक्ता । ततश् च वाक्यभेदे न दोषः । कर्तृत्वेनेति प्राधान्यं सूचयति अप्राधान्यस्य परामर्शो न दुष्यतीति ख्यापनार्थम् । स इत्य् अर्थः [पगे 18] परामृष्टः । तेभ्य इति कर्तृत्ववाचकाद् इदमादिभ्यश् च । असौ तच्छब्दः । असमन्वयाद् इति तच्छब्दस्य परोक्षार्थप्रतिपादकत्वे संबन्धविरोधाद् इत्य् अर्थः । तादात्म्यायेति । शशिकलामौलिस्वरूपत्वायेत्य् अर्थः । आर्थ इति उपक्रमोपसंहारक्रमा निर्दिष्टः । कल्पिततत्क्रमादीति । कल्पितं तद् यच् छब्दनिर्दिष्टं कर्मादि विषयो ऽस्येति यच्छब्दार्थः कर्मकरणादितया विषयत्वेनास्य कल्पित इत्य् अर्थः । संबन्धद्वैविध्येति शाब्दार्थभेदेन द्वैविध्यम् । यत्तद् इति । यच्छब्दसमीपे समानाधिकरणस् तच्छब्द उपादीयमानः शब्दशक्तिस्वाभाव्यात् प्रसिद्धवस्तुविषयं यच्छबम् आकाङ्क्षति । वैयधिकरण्येन व्यवधानेन च निर्देशे तु निर्दिष्टेनैव यदा समन्वयं भजते । "न केवलं यो महतो ऽपभाषते, शृणोति तस्माद् अपि यः स पापभाग्" इत्य् अत्र यद्य् अपि यः स इति यत्तदोर् नैरन्तर्येण सामानाधिकरण्येन च निर्देशः, तथापि न "यत् तद् ऊर्जितम्" इति न्यायेन (यदि तच्छब्दानन्तरं प्रत्य् अपेक्षायाम्?) ⟨चोन्ज्. fन्. - तच्छब्दो यच्छब्दान्तरं प्रत्य् अपेक्षायाम्⟩ इह यदि तच्छब्दो निरन्तरोपात्तयच्छब्दापेक्षयैव प्रयुज्यते, तदा स्याद् एष दोषः, यावता "न केवलं य" इत्य् अत्र यच्छब्दापेक्षया व्यवधानेन प्राधान्यात् प्रयुक्तस् तच्छब्दान्तरानाकाङ्क्षः प्रसङ्गेन निरन्तरनिर्दिष्टयच्छब्दान्वयं भजमानः पूर्वसंस्कारेण न तच्छब्दान्तरम् आकाङ्क्षतीत्य् अनवद्यम् एतत् । तद् इत्थं यत्तदोर् उपक्रमोपसंहारक्रमो द्विविधः परिघटितः । स चात्र श्लोके न युज्यत इत्य् आह - एवं चेति । तदुपादान इति । (यच्छब्दो नात्र तद् एति प्रक्रान्तस् तच्छब्दः परामृश्यते तत्संबन्धप्रतीताव् इत्य् अर्थः?).
ननु प्रयोगदर्शनम् एवात्र समर्थकं भविष्यतीत्य् आशङ्क्य प्रयोगस्य प्रामादिकपाठविपर्यासहेतुकत्वम् आह - मीलितम् इति । तदभिन्नार्थः तच्छब्दाभिन्नार्थः । तस्य अदश्शब्दस्य । तच्छब्दाभिन्नार्थत्वे ऽदश्शब्दस्य दूषणद्वयम् उक्तम् । केवलादश्शब्दप्र्योगे "असौ मरुद्" इत्यादौ यच्छब्दाकाङ्क्षा स्याद् इत्य् एकं यच्छब्दसहायस्यादश्शब्दस्य प्रयोगे "यो ऽसौ जगत्त्रये"त्यादौ प्रयुक्ततच्छब्दाकाङ्क्षा न स्याद् इति द्वितीयम् । अत्र यस्य प्रकोपेत्यदश्शब्दरहितयच्छब्दप्रयोगो दृष्टान्तत्वेनोक्तो यथास्य केवलस्य तच्छब्दाकाङ्क्षा तथादश्शब्दयुक्तस्या(पी)त्य् अर्थः । (परिकल्प्यत इति?) [42] तस्य यथोक्तवस्त्व् इति यथा अविगानेन शिष्टप्रसिद्धिपारंपर्येणोक्तं वस्तु तच्छब्दार्थविविक्तो विषयस् तस्य तन्मते असंभवः । त्वया ह्य् अदश्शब्दस्य तच्छब्दार्थत्वम् उच्यते तत्र यच्छब्दपरामर्शापेक्षाप्रसङ्गः इत्य् अर्थः । परिकल्प्यत इति प्रयोगप्रवाहप्रामाण्यान्यथानुपपत्त्या(वा?)यातयार्थापत्त्येत्य् अर्थः । तम् अन्तरेणेति । तच्छब्देन प्रयोगप्रवाहः परामृष्टः । तदतदर्थत्वनिश्चयो विवक्षिताविवक्षितार्थत्वनिश्चयः । यदि तु ताम् इति तदभिन्नार्थतानुपपत्तिः परामृष्टा । गते ऽनुगतं यस्य स गतानुगतिकः । मत्वर्थीयो ऽत्र ठन्प्रत्ययः । येनैव पथा एको गच्छति तेनैवाविचारितेनैव यो गच्छति स इत्य् अर्थः । ततो भावप्रत्ययः । अविकल्पम् इत्य् अकारप्रश्लेषः । निश्शङ्कम् इत्य् अर्थः । यद् वा न विकल्पमात्रेण, अपि तु साक्षाद् इत्य् अर्थः । स्मृतिभूः कामः । द्वितीयः स्मृतिभूशब्दः स्मरणविषये प्रयुक्तः । दग्धत्वात् स्मृतिमात्रशेष इत्य् अर्थः । क्षतात् वधात् । व्यवहितानाम् एवेति यथा "यो ऽविकल्पम्" इत्यादौ । अव्यवहितत्वे वेति । यथा "स्मृतिभूर्" इत्यादौ । एतदर्थम् एवोदाहरणद्वयम् उक्तम् ।
[पगे 19] तत्र हीति इदमादिसहितप्रयोगे । तयोर् इति यत्तदोः । तदितरेति यदृच्छयैकतरप्रयोगे अन्यतरापेक्षेत्य् अर्थः । सुतराम् इति इदमादिसाहित्येन प्रयुक्तो यच्छब्दः स्वभावतो विकासितास्य एव तच्छब्दं प्रतीक्षते, एवं तच्छब्दो ऽपि यच्छब्दम् इति ज्ञेयम् । एतच् च क्रमेणोदाहृतं यद् एतद् इति, सो ऽयम् इति च । (तद् अन्येन ग्रन्थेन प्रदर्शक उपयुज्यते?) तद्वद् अस्य यच्छब्दस्य न प्रक्रान्तपरामर्शे संबन्धो, नापि प्रक्रंस्यमानवस्तुसमन्वयमार्गोपदेशे तच्छब्दाध्याहारः शरणम् । स च सत्काव्यकलङ्कायमानो हेय एव [43] अनुक्त्वैवेति यत्तदोर् मध्ये परामृश्यम् अनुक्त्वा यत्र निरन्तरः प्रयोगः यथा "यत् तद् ऊर्जितम्" इत्यादौ तत्र तयोर् यत्तदोर् यथायोगं पुनः प्रयोगो न दुष्यति यथ "नूनं तद् अपि हारितम्" इत्यादौ । तथा तयोर् यत्तदोः । निरन्तरनिर्दिष्टेष्व् इदमादिषु सत्सु तयोर् यत्तदोः तेषाम् इदमादीनां च सङ्घटितत्वेन स्थितानां यथायोगं यत्तदोः प्रत्यवेक्षा न निवर्त्तते यथा अप्रयुक्तेष्व् इदमादिषु केवलयोः पृथगवस्थितयोर् अपेक्षा न निवर्त्तते तद्वत् प्रयुक्तेष्व् अपीत्य् अर्थः यथा "यद् एतच् चन्द्रान्तर्" इति, "सो ऽयं पट" इति च । एवं प्रकृते ऽपि "यो ऽसाव्" इति । तत्साङ्कर्येति । यच्छब्दस्य पृथग् इदमादिसाहित्ये तच्छब्दस्य च पृथग् इदमादिसाहित्ये यत्तदोः परस्परसाहित्ये च बहवो भेदाः, तेषाम् उदाहरणेषु दिङ्मात्रं दर्शितम् ।
संप्रति प्रायेण वाक्यार्थसमन्वयव्यापिनोर् यत्तदोर् यो ऽयं नित्याभिसंबन्धत्वेनोपक्रमोपसंहारक्रमः, स प्रसङ्गाद् विचार्यते । स च पुष्टापुष्टदुष्टभेदेन त्रिविधः । पुष्टो ऽपि प्रथमं शाब्दत्वार्थत्वभेदेन द्विविधः । शाब्दो ऽपि यच्छब्दोपक्रमस् तच्छब्दोपक्रमश् चेति द्विविधः । आर्थो ऽपि यच्छब्दमात्रानुपादाने तच्छब्दस्योपात्तस्य प्रसिद्धानुभूतप्रक्रान्तविषयेण यदाभिसंबन्धात् त्रिविधः । यच्छब्दस्य च तच्छब्दानुपादाने केवलम् उपात्तस्य प्रक्रान्तविषयेण कल्पिततत्कर्मादिविषयेण च तदाभिसंबन्धाद् द्विविधः । उभयानुपादाने तु द्वयोर् उपात्तवस्तुविषयताकल्पन एक एव भेदः । एवं शाब्दो द्विविध आर्थः षड्भेद इत्य् अष्टविधो यत्तदोर् उपक्रमोपसंहारक्रमः पुष्टः । तच् चैतच् चेह ग्रन्थकृतोदाहृतम् । "यत् तदूर्जितम्" इत्यादौ तु शाब्दस्यार्थस्य चोपसंहारक्रमस्य सङ्कीर्णत्वम् इति नास्य पृथग्भावः । अपुष्टस्य दुष्टमध्ये प्रसङ्गेन वर्णयिष्यमाणत्वाद् इदानीं दुष्टो व्याक्रियते । तत्र यत्तदोः स्थाने तच्छब्दयच्छब्दनैरन्तर्येण सामानाधिकरण्येन चेदमादीनं दुष्टतैव तेषाम् अतदर्थत्वात् तन्निकटे च प्रयुज्यमानानां प्रसिद्धिमात्रपरामर्शकत्वाद्, यथा "यो ऽसौ कुत्र चमत्कृतेर्" इति । एवं तच्छब्दसाचिव्येनेदमादीनाम् उदाहरणम् ऊह्यम् । विप्रकृष्टत्वेन सन्निकृष्टत्वे ऽपि वैयधिकरण्येन वा तेषाम् प्रयोगे न दुष्टं नादुष्टम् इत्य् अपुष्टत्वम् एव यथा "यो ऽविकल्पम्" इति "स्मृतिभूः स्मृतिभूर्" इति च । एवं तच्छब्दोपक्रम उदाहर्त्त्वयम् । तथा तच्छब्दस्य परोक्षायमाणार्थप्रत्यवमर्शित्वाद् एकवाक्यस्थप्रत्यक्षायमाणप्रधानभूतार्थप्रत्यवमर्शे दुष्टत्वं, यथा "स वः शशिकलामौलिर्" इत्यादौ । प्रधानग्रहणेन न कर्तृमात्रं निर्दिष्टम्, अपि तु कारकान्तरम् अपि प्राधान्येन विवक्षितत्वात् प्रत्यक्षायमाणम् । तेन
"स मेदिनीं विनिर्जित्य चतुर्जलधिमेखलाम् ।
सचिवार्पिततद्भारस् तस्याम् आस्त यथासुखम्" ॥
इति मेदिन्यास् तच्छब्दपरामर्शो न सुन्दर इत्य् आहुः । यथा यत्तदोः पदार्थवाक्यार्थगतत्वेन द्विविधावस्थाने यद् एकस्य पदार्थनिष्ठत्वाद् अन्यस्य वाक्यार्थविषयत्वं तद् भिन्नविषयत्वेन नित्याभिसंबन्धपरिपन्थि दुष्टम् एव । यथा
[पगे 20]
"हेम्रां भारशतानि वा मदमुचां बृन्दानि वा दन्तिनां
श्रीहर्षेण यद् अर्पितानि गुणिने बाणाय कुत्राद्य तत् ।
या बाणेन तु तस्य सूक्तिविसरैर् उट्टङ्किताः कीर्त्तयस्
तत् कल्पप्रलये ऽपि यान्ति न मनाङ् मन्ये परिम्लानताम् ॥"
इति । या इति पदार्थविषयत्वम् अनिपातस्य तच्छब्दस्य । तद् इति तु वाक्यार्थविषयस् तच्छब्दः । पदार्थविषये ता इति स्यात् । अत्रैव "यद् बाणेन तु तस्ये"ति "ताः कल्पप्रलये ऽपि" इति च पाठे यदो वाक्यार्थविषयत्वे तदः पदार्थनिष्ठत्व उदाहरणं देयम् । तस्माद् या बाणेन त्व् इति ताः कल्पप्रलये ऽपीति च पठनीयम् । इह तु
"इन्दीवरं यदतसीकुसुमस्य वृत्त्या यत् केतकं जरढभूर्जदलानुवृत्त्या ।
यन् मन्यसे च वकुलं करवीरवृत्त्या सा साम्प्रतं मधुप हन्त तवैव हानिः ॥"
इति न केवलं यच्छब्दो वाक्यार्थविषये, यावत् तच्छब्दो ऽपि । यदि परं स वाक्यार्थो हानिपदेन पिण्डीकृत्य प्रकाशितस् तच्छब्देन परामृष्टः । अत एवात्र तच्छब्दस्य विधेयपदार्थाभिप्रायेण स्त्रीलिङ्गत्वम् । अनुवाद्याभिप्रायेण तु तत् साम्प्रतम् इति । उभयथापि लिङ्गपरिग्रहः शिष्टप्रवाहे स्थितः ।
किं च यत्तदोर् नित्याभिसंबन्धाद् गुणप्रधानयोश् च संबन्धार्हत्वात् परामृश्य एकत्र यच्छब्दवाक्ये तच्छब्दवाक्ये वा निर्दिष्ट इतरवाक्ये तदा यदा वा प्रत्यवमृश्यते । यच्छब्दवाक्ये तु निर्दिष्टेन यच्छब्दान्तरेण गुणानां प्रधानानां च परस्परम् अभिसंबन्धात् । एवं च तथा परामर्शे द्वौ दुष्टाभेदौ । यथा:
"येषां तास् त्रिदशेभदानसरितः पीताः प्रतापोष्मभिर्
लीलापानभुवश् च नन्दनतरुच्छायासु यैः कल्पिताः ।
येषां हुङ्कृतयः कृतामरपुरक्षोभाः ⟨°पुर° एद्: °पति° वर् (एद्)⟩ क्षपाचारिणां
किं तैस् त्वत्परितोषकारि विहितं किं चित् प्रवादोचितम् ॥"
इति । क्षपाचारिणाम् इति षष्ठ्यन्तं यच्छब्देन संबद्धं यच्छद्बान्तरेण पर्त्यवमृष्टम् । क्षपाचारिभिर् इति पाठो न्याय्यः । एवं तच्छब्दवाक्ये निर्दिष्टं यच्छब्दैः परामृश्यमानं न दुष्यति, यथा च:
"पुण्ड्रेक्षोः परिपाकपाण्डुनिबिडे यो मध्यमे पर्वणि
ख्यातः किं च रसः कषायमधुरो यो राजजम्बूफले ।
तस्यास्वाददशाविलुण्टनपटुर् येषां वचोविभ्रमः
सर्वत्रैव जयन्ति चित्रमतयस् ते भर्त्तृमेण्डादयः ॥"
इति । अत्र द्वितीये यच्छब्दवाक्ये रसः परामृश्यो निर्दिष्टस् तच्छब्देन परामृश्यते । प्रथमे यच्छब्दवाक्ये तु यच्छदपरामर्शो न युज्यते द्वयोर् असंबन्धाद्, यथा:
"नमो ऽस्तु ताभ्यो भुवने जयन्ति ताः सुधामुचस् ताश् च कवीन्द्रसूक्तयः ।
भवैकविच्छेदि कथाशरीरताम् उपैति यासां चरितं पिनाकिनः ॥"
इति कवीन्द्रसूक्तीनां तच्छब्दवति वाक्ये(न?) निर्दिष्टानां तच्छब्दान्तरेण परामर्शो न युक्तः । किं च यत्तच्छब्दयोः स्वभावेन वाक्यभेदोत्थापकत्वे यद् एकतरवाक्ये ऽन्यतरत् पदं (प्रयुज्यान्यतरत्?) प्रयुज्यते तद् अपि दुष्टम् एव । यथा:
"अप्राकृतस्य चरितातिशयैश् च दृष्टैर् अत्यद्भुतैर् अपहृतस्य तथापि नास्था ।
को ऽप्य् एष वीरशिशुकाकृतिर् अप्रमेयमाहात्म्यसारसम् उदायमयः पदार्थः ॥"
[पगे 21]
इत्य् अत्र यद्य् अपीत्य् अपेक्षितम् । न च तदेकवाक्यतायां संबन्धुं योग्यम् ।
एकत्रापि वाक्ये गुणक्रियादिगतं कल्पितं भेदम् आश्रित्य प्रक्रान्तवस्तुविषयतच्छब्दप्रयोगे प्रधानक्रियायां परामृश्यस्य प्रधानत्वाद् एव स्वरूपेण निर्देशे गुणक्रियादिविषये तु तच्छब्देन परामर्शे न्याय्ये यद्विपर्ययकरणं तद् दुष्टम् एव । यथा
"प्रजानाम् एव भूत्यर्थं स ताभ्यो बलिम् अग्रहीत् ।
सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥"
इति । "बलिं प्रजाभ्यो जग्राह स तासाम् एव भूतये" इति युक्तः पाठः । तथैकविषयत्वे यत्तदोर् एकस्य द्रव्यादिविषयत्वे ऽन्यस्य कालादिगोचरत्वे दुष्टम् एव । यथा:
"त्वम् एवं सौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमानं परम् इह युवाम् एव भजथः ।
अयि! द्वन्द्वं दिष्ट्या तद् इति सुभगे! संवदति वा-
मतः शेषं यत् स्याज् जितम् इह तदानीं गुणितया ॥"
अत्र "अतः शेषं चेत् स्याद्" इति पठनीयं चेच् छब्दस्य यदिशब्दार्थत्वात् । तथा प्रक्रान्तविषयत्वे तच्छब्दस्य व्यवस्थिते तद्विषये प्रक्रम्यमाणवस्तुगोचरत्वं दोष एव । यथा:
"ये संतोषसुखप्रबुद्धमनसस् तेषां न भिन्नो मदो
ये ऽप्य् एते धनलोभसंकुलधियस् तेषां तु दूरे नृणाम् ।
इत्थं कस्य कृते कृतः स विधिना तादृक् पदं संपदां
स्वात्मन्य् एव समाप्तहेममहिमा मेरुर् न मे रोचते ॥"
अत्र मेरुः प्रक्रम्यमाणः स इत्य् अनेन परामृष्टः । एतद् वाक्यभेद उदाहरणम् । एकवाक्ये तु:
"तीर्थे तदीये गजसेतुबन्धात् प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् ।"
इति देयम् । तथा निर्वीप्सेनैकेनोपक्रमे सवीप्सेनान्येन परामर्शो दुष्ट एव । यथा:
"यः कल्याणबहिर्भूतः स स दुर्गतिम् अश्नुते ।"
सवीप्सेन त्व् एकेन प्रक्रमे निर्वीप्सेनान्येनोपसंहारः सवीप्सस्य प्रत्यवमृष्टत्वाद् दुष्टो ऽन्वयः ⟨न दुष्टान्वयः चोन्ज् (एद्)⟩ किन् त्व् अपुष्ट एव । यथा:
"कल्याणानां त्वम् असि महसामीशिषे त्वं विधत्से
पुण्यां लक्ष्मीम् इह मयि चिरं धेहि देव! प्रसीद ।
यद् यत् प्रतिजहि जगन्नाथ! नम्रस्य तन् मे
भद्रं भद्रं वितर भगवन्! भूयसे मङ्गलाय ॥"
इति । अत्र यद् यद् इति निर्दिष्टं केवलेन तच्छब्देन परामृष्टम् । एतद् यच्छब्दस्य सवीप्सस्योदाहरणम् । तच्छब्दस्य तु सवीप्सस्य निर्वीप्सेन परामर्श उदाहरणं यथा:
"क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः
सोढो दुस्सहशीतवाततपनक्लेशो न तप्तं तपः ।
ध्यातं नित्यम् अहर् निशं नियमितप्राणैर् न शम्भोः ⟨वर्. शौरेः⟩ पदं
तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चिताः ॥"
[पगे 22]
इति । यत्र तु सवीप्सस्य प्रक्रमे सवीप्सेन प्रत्यवमर्शस् तत्र पुष्टत्वम् एव यथा
"यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुम् अदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुर् अधिकवया गर्भशय्यां गतो वा ।
यो यस् तत्कर्मसाक्षी चरति मयि रणे यश् च यश् च प्रदीप्तः
क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तको ऽहम् ॥"
इति । यत्र चानेकस्य सवीप्सस्य चानेकेन प्रत्यवमर्शस्, तत्रापि पुष्टत्वम् एव । यथा:
"यो यो यं यम् अवाप्नुयाद् अवयवोद्देशं स्पृशन् पाणिना
तत् तन्मात्रकम् एव यत्र स स ते रूपं परं मन्यते ।
तज्जात्यन्धपुरं ह हा करिपते! नीतो ऽसि दुर्वेधसा
को नामात्र भवेद् बताखिलभवन् माहात्म्यवेदी जनः ॥"
इति । यदि परं यं यम् इति प्रक्रमे तत् तन्मात्रकम् एवेति प्रत्यवमर्शे विधेयाविमर्शः सवीप्सस्य तदर्थस्य समासे गुणीभावात् । नैतत् । मात्रग्रहणेनावधारणम् उच्यते यथा - "प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे" इति । तच्चावधार्यमाणपरतन्त्रम् इत्य् अवधार्यमाणस्यैव सवीप्सस्य तदर्थस्योद्रेकात् प्राधान्यम् अखण्डितम् एव । पूर्वपदार्थप्राधान्येन क्व चित् सुप्सुपेति समासो दृश्यते, यथा:
"निर्वाणभूयिष्ठम् अथास्य वीर्यं सन्धुक्षयन्तीव वपुर् गुणेन ।
अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या ॥"
इति । अत्र हि भूयिष्ठं निर्वाणं निर्वाणभूयिष्ठम् इति समासे निर्वाणार्थस्यैव प्राधान्यं तस्य वीर्यविशेषणत्वेनावस्थितत्वाद् । न तद्वद् इह तत्तन्मात्रकम् इति तदर्थस्य प्राधान्यं भविष्यति । केवलं कृते ऽवधारणार्थे मात्रशब्दे किमर्थः कप्रत्ययः । तस्मिन्न् अपि वा कृते एवशब्दः किमर्थः । एवशब्द एव वा किं न क्रियते । नैतत् । कप्रत्ययस्य तावद् अत्र कुत्साप्रतिपादकत्वात् । न पौनरुक्त्यं तन् तमेवेति केवलैवशब्दप्रयोगे विक्षिप्त इव तदर्थः प्रतीयते । मात्रग्रहणे तु पिण्डितस्यैव तदर्थस्य प्रतीतिर् इत्य् अस्ति विशेषः । यदि परं द्वयोर् उपादानं लोकप्रतीत्यनुसरणेन दृढीकृतावधारणप्रतीत्यर्थम् । दृश्यते हीदृशेषु द्वयोर् अवधारणप्रतिपादकयोः प्रयोगः । यथा - "बाला केवलम् एव रोदिति गलल्लोलोदकैर् अश्रुभिः" । अत्रैव तद् इति निर्वीप्सेन तदा निर्दिष्टं जात्यन्धपुरं निर्वीप्सेनैव यदा प्रत्यवमृश्यते । ततश् चात्रानुगुणपरामर्शान् न दोषः कश् चित् ।
तथा (यत्र) पूर्ववाक्ये यच्छब्दो निर्दिष्ट उत्तरवाक्ये तु (न) तच्छब्दो निर्दिष्टः, तत्र साकाङ्क्षत्वाद् दुष्टैव यथा -
"मीलितं यद् अभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् ।"
इति । उत्तरवाक्यगतत्वेन तु यच्छब्दप्रयोगे पूर्ववाक्ये तच्छब्दप्रयोगे न दुष्टत्वम्, अपि तु प्राक्प्रतिपादितं पुष्टत्वम् एव सामान्येनोपक्रमात् पश्चाद् विशेषस्योत्थापनात् । एतदभिप्रायेण कल्पिततत्कर्मादिविषयत्वम् उक्तम् । उदाहरणं तु "साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके" इति पूर्वश्लोकार्धपाठविपर्यये यथा । यत्तच्छब्दयोर् अविशिष्टे ऽपि परामर्शकत्वे उत्तरवाक्ये निर्दिष्टो यच्छब्दः स्वभावत आविदूर्येण पूर्ववाक्यार्थाश्लिष्टतया वस्तु परामृशति, तच्छब्दस् तु परोक्षायमाणार्थनिष्ठत्वात् वैदूर्येण । आविदूर्यं च प्रकृतार्थं प्रकृष्टतां नयद् वाक्यार्थं श्लेषयति । ततश् च तथाभूते विषये यच्छब्दस्य प्रयोगार्हत्वे तच्छब्दस्य प्रयोगो ऽपुष्ट एव.
[पगे 23]
"तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतरेखयोर् या ।
तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यम् अदं मुमोच ॥"
अत्र "सा यां वीक्ष्ये"ति यत्तदौ विपर्ययेण पठनीयौ । यथा च:
"दृष्टिर् नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किं
नार्द्रार्द्रं हृदयं न चन्दनरसस्पर्शानि वाङ्गानि च ।
कस्मिन् लब्धपदेन ते कृतम् इदं क्रूरेण दग्धाग्निना
नूनं वज्रमयो ऽन्य एव दहनस् तस्येदम् आचेष्टितम् ॥"
अत्र यस्येति पठनीयम् । यथा च:
"आचार्यो मे स खलु भगवान् अस्मद्ग्राह्यनामा
तस्माद् एषा धनुर् उपनिषत् तत्प्रसादात् क्षमो ऽपि ।
अध्यासीनः कथम् अहम् अहो वर्त्म वैखानसानां
सीतापाणिग्रहणपणितं चापम् आरोपयामि ॥"
अत्र च "यस्माद् एषा धनुर् उपनिषद्" इति पठनीयम् । एवं च प्राग् उक्ते "हेम्नो भारतशतानी"त्यादौ "ता बाणेन तु तस्य सूक्तिविसरैर् उट्टङ्किताः कीर्तयो याः कल्पप्रलये ऽपि यान्ति न मनाङ् मन्ये परिम्लानताम्" इति पठनीयम् । अपि च परामृश्यम् अनुक्त्वा यच्छब्देन च वाक्यार्थोपक्रमे तच्छब्दवति परामृश्यनिर्देशे पूर्ववाक्यार्थे परामृश्यम् अस्पृशन्ती उपप्लवमाना प्रतीतिर् इति वाक्यार्थप्रतिपत्तिविप्रकर्षाद् अपुष्टत्वम् । यथा:
"पादाहतं यद् उत्थाय मूर्धानम् अधिरोहति ।
स्वस्थाद् एवावमानेन देहिनस् तद् वरं रजः ॥"
अत एवात्र श्लोकार्धयोर् विपर्ययपाठे पुष्टत्वम् एव । तथा पूर्ववाक्यार्थे निर्दिष्टस्यार्थस्योत्तरवाक्यार्थे सर्वनाममात्रेण परामर्शे न्याय्ये यः स्वशब्दसहितस्य सर्वनाम्नो निर्देशः स दुष्ट एव । यथा:
"उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावः स्फुरदवधिमुद्रामुकुलितः
सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥"
इति । अत्र "स च निधिर् अपाम्" इति सस्वशब्दः सर्वनाम्नो निर्देशः । एवं "रामगिर्याश्रमेष्व्" इति प्रकृते "तस्मिन्न् अद्रौ कति चिद्" इत्य् अत्र ज्ञेयम् । अत्र तु के चित् समर्थयन्ते - "रामगिर्याश्रमेष्व्" इति रामगिरिः समास उपसर्जनीभूतो बुद्धाव् उद्रेकेणानवभासात् कथं सर्वनाम्ना परामृश्यते "सर्वनाम्नानुसन्धिर् वृत्तिच्छन्नस्ये"ति प्रधानभूतपरामृश्याभिप्रायेण स्थितं यथा "सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् इति तद् व्युत्पाद्यते" इति । अत्राद्राव् इति निर्दिश्यमानम् अद्रिमात्रप्रतीतेर् न प्रकृतम् अद्रिं गमयेत् । तस्माद् उभयम् अत्रोपादेयं यथा "अथ शब्द्नानुशासनम् । केषां शब्दानाम्" इति । गिरिशब्देन गिरौ प्रक्रान्त अद्रिशब्देन पर्यायान्तरेण त्व् आगतम् आसमञ्जस्यं दुष्परिहरम् एवेति । उदन्वच्छिन्ना भूर् इत्य् अत्र तु उदन्वतः परामृश्यस्य नैकठ्याद् योग्यत्वाच् च भुवः स्त्रीत्वेन स इति परामर्शानर्हत्वाच् च सर्वनामपरामर्श एव युक्तो, न पुनः स्वशब्दगोचरत्वम् इत्य् अत्र दुष्टतैव । किं च समुदायस्य कस्य चित् केन चिद् वाक्येन निर्देशे वाक्यान्तरे तदवयवस्य निर्धारेण कर्त्तव्ये तस्य समुदायसय निर्धारणविषयप्रतीतये [पगे 24] यच्छब्देन निर्देशे कर्त्तव्ये निर्धार्यमाणस्यावयवस्य निर्देशो दुष्ट एव । यथा:
"तस्माद् अजायत मनुर् नवराजबीजं यस्यान्वये स सगरः स भगीरथश् च ।
एकेन येन जलधिः परिखानितो ऽयम् अन्येन सिद्धसरिता परिपूरितश् च ॥"
अत्र स सगरः स भगीरथश् चेति यन् निर्दिष्टं तस्यैकेत्यादिना निर्धारणं विहितम् । निर्धारणं च जातिगुणक्रियाभिः समुदायाद् एकदेशस्य पृथक् करणम् । न चात्र समुदायः केन चित् पदेन निर्दिष्टः । यच्चैकेनेति निर्दिष्टम्, तन् न समुदायः, अपि त्व् एकदेशः । ततश् च निर्देश्यानिर्देशाद् अनिर्देश्यनिर्देश्याच् चात्र दुष्टत्वम् । एवं च समुदायस्यैव निर्धारणविषयस्य यच्छब्देन निर्देशे कर्त्तव्ये "एको ययोर् जलनिधीन् निचखान सप्त गाङ्गैः पयोभिर् अभिवर्षितवान् द्वितीयः" इति पाठः श्रेयान् ।
क्व चिद् यत्तच्छब्दाव् अग्रहणेन विध्यनुवादभावेन वाक्यार्थप्रस्तावे यदन्तरान्यथाकरणं तत्र दुष्टत्वं यथा:
"यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तद् इन्दीवरम्"
इति । अत्र प्रथमतृतीययोः पादयोर् यत्तच्छब्दपरिग्रहेण विध्यनुवादभावेनोपनिबन्धः । द्वितीयपादगतत्वेन तदुल्लङ्घनं दोषः । इन्दीवराणां राजहंसानां च बहुत्वात् सीतासंबन्धिवस्तूपमितयोर् इन्दीवरराजहंसयोर् व्यावृत्त्यर्थं विध्यनुवादभावपरिग्रहः । चन्द्रस्य त्व् एकत्वात् तदकरणम् इति के चित् । तद् असत् । चन्द्रस्यापि द्वितीयाचन्द्रादिभेदेन बहुत्वसंभवात् तत्रापि विध्यनुवादभावो युक्तः । इन्दीवराणां व्यक्तिभेदेन मुख्यो भेदः । चन्द्रस्य पुनर् एकव्यक्तिरूपस्य कालभेदाद् अवस्थाभेदाच् च भिन्नत्वम् अमुख्यम् इति चेन् न । भिन्ना एव चन्द्रव्यक्तयः । अन्यो हि द्वितीयाचन्द्रो ऽन्यश् च पूर्णचन्द्रः । अतश् चैव द्वितीयाचन्द्रादिव्यावृत्त्या पूर्णचन्द्रप्रतीत्यर्थं मुखच्छायानुकारीति विशेषणं दत्तम् । न हि शशिशब्दः पूर्णचन्द्राभिधायी, तस्य चन्द्रमात्रवाचकत्वात् । सङ्ख्याव्यवहारेषु चन्द्रस्यैकत्वप्रतीतिर् इति चेत् । क्व चिज् जातिव्यवहारेष्व् अपीन्दीवरादीनाम् एकत्वं सिद्धम् । तस्मात् कविव्यवहारे चन्द्रगतत्वेनानेकत्वस्य व्यवहारात् तदाश्रयेणेह विध्यनुवादभावः श्रेयान् ।
किं चास्थानविनिवेशनं तच्छब्दस्य प्रतीतिविप्रकर्षायैव । यथा:
"मसृणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः"
इति । अत्र "विरचय सिचयान्तम्" इत्य् अत्र तच्छब्दो हेत्वर्थो विनिवेशयितव्यस् तृतीयपादादौ निवेशितः । न च तत्र तस्योपयोगः । कृतस् तत्र प्रतीतिकुण्ठत्वम् उत्पादयतीति । क्व चित् प्रधानक्रियायास् तदादिसर्वनाम्ना परामृष्टस्य गुणक्रियायां स्वशब्देनोपादानं दुष्टम् एव । यथा "प्रत्यासन्ने नभसि" इति । अत्र तस्मै इति सर्वनाम्ना पूर्वप्रक्रान्तो मेघः परामृश्यत उतैतच्छ्लोकगतो जीमूतः । तत्राद्ये पक्षे जीमूतग्रहणम् अनर्थकं प्रधानक्रियायां तदा परामृष्टस्य पूर्वप्रक्रान्तस्यैव मेघस्यार्थतः संबन्धयोग्यत्वात् । न हि यावतां येन संबन्धस् तावतां प्रत्येकं निर्देशः क्रियते । एकत्र कृतो ऽन्यत्राकाङ्क्षादिनोपजीव्यते । तस्माज् जीमूतग्रहणं न कर्त्तव्यं, कृतं प्रत्युत वस्त्वन्तरप्रतीतिं जनयद् वैरस्यम् आवहति । अथ तच्छब्देनैतच्छोकगतो जीमूतः प्रत्यवमृश्यते । तद् असत् । सर्वत्रात्र प्रकरणे पूर्वप्रक्रान्तस्यैव मेघस्य परामर्शः स्थित इतीहापि तथैव परामर्शो न्याय्य इति पुनर् अपि जीमूतग्रयणम् ⟨सिच्⟩ अनर्थकम् एव ।
इत्थं द्वितीयं विधेयाविमर्शं विविच्य तृतीयम् अप्य् अत्रैव श्लोके प्रपञ्चयितुम् उपक्रमते - [43] अपि चेत्यादिना । प्रायेणेति द्वन्द्वं वर्जयित्वा तत्र युगपदधुकरणवचनतया सामर्थ्यं प्रकारान्तरेण समर्थितम् । तत्राद्य इति "तत्पुरुषः समानाधिकरणः कर्मधारयः" इति (प्स्_1,2.42) वचनात् । "बहु [पगे 25] व्रीहिः समानाधिकरणानाम्" इति वचनात् प्रायेण बहुव्रीहिः समानाधिकरणविषय एव । सुसूक्ष्मजटकेशादौ तु व्यधिकरणानाम् अपीष्यते । तत्रैव समानाधिकरणे पदार्थे । यदा सङ्ख्याया इति (व्यधिकरण?) "सङ्ख्यापूर्वो द्विगुः" (प्स्_2,1.52) इति वचनात् । प्रतिषेधस्येति "नञ्" (प्स्_2,2.6) इति नञ्सूत्रारम्भात् । द्वितीय इति व्यधिकरणः । कारकाणाम् इति "कर्तृकरणे कृता बहुलम्" (प्स्_2,1.32) इत्यादिना । संबन्धस्येति "षष्ठी" (प्स्_2.3.50) इत्यादिना । तत्रापीति कारकसंबन्धयोगे अधिस्त्रि उपकुम्भम् इत्यादौ । स्वाश्रयो विशेष्यम् । विधेयधुराम् इति शब्दवृत्ते यो विधेयः तस्य कक्ष्यां वास्तवीं विधेयताम् इत्य् अर्थः । अनूद्यमानकल्पतयेति । शाब्दं प्राधान्यम् अनपेक्ष्य वास्तवेन प्राधान्येनेत्य् अर्थः । अस्तम् इयाद् इति एकार्थीभावाद् विभक्तत्वेनाप्रतीतेर् इत्य् अर्थः । एकत्रेति विधेयानुवाद्यगर्भत्वे । अन्यत्रेति संबन्धमात्रप्रतिपादने । विकल्येतेति ⟨सिच्⟩ ⟨उपकल्प्येत वर् (एद्)⟩ महाविभाषया व्यवस्थितविभाषात्वाद् इति भावः । एकस्यैवेति । विशेषणगतस्य प्राधान्यस्य अन्यस्य तद्गतस्यैवाप्राधान्यस्य । एकस्य हीति, अपरस्य पुनर् इति च । अत्र फलभेद इत्य् अत्र प्रक्रान्तं फलं संबन्धनीयम् । अत्र चोदयति विरोधस्योभयवस्तुनिष्ठत्वासिद्धेर् अत्राभाव उक्तः । तद् असत् । (तर्हि?) न हि सहानवस्थानलक्षणो वस्तुगत एक एव विरोध(ः?) भेदो, यः शीतोष्णादौ लब्धवृत्तिः । किं तर्हि परस्परपरिहारस्थिततालक्षणो वस्त्ववस्तुत्वाश्रयो द्वितीयो ऽप्य् अस्ति विरोधप्रकारः । तदा हि यदि वस्त्वाश्रयो न संभवति विरोधो वस्त्ववस्तुत्वाश्रयस् तु कथं न स्याद् । अतश् च स्यात् पूर्वपक्षवेलायां "भावाभावयोर् एवे"त्य् उक्तम् । नैष दोषः । वस्त्ववस्त्वाश्रयस्य विरोधस्य तादात्म्यनिषेधे व्यापारात् । यदि नाम प्राधान्यं, तस्याम् एव कक्ष्यायां स्वयम् अप्राधान्यं न स्याद्, अप्राधान्ये वा प्राधान्यम् । प्राधान्यविधेये पुनर् अपेक्षान्तरेणाप्राधान्यं कथं न स्यात् । न स्याद्, यदि शीतोष्णवद् द्वयोर् वस्तुत्वं स्यात् । न चात्रैतद् अस्ति वैवक्षिकस्यावस्तुत्वात् । यथा राजपुरुष इत्य् अत्र राज्ञो वैवक्षिकम् एव प्राधान्यं वास्तवं पुनर् अप्राधान्यम् एव तद्वद् अत्रापि द्रष्टव्यम् । तद् अयम् अत्र पिण्डार्थः संसर्गनिषेधो ऽत्र कर्तव्यः । स च वस्तुद्वयनिष्ठ इति द्वयोर् अत्राभावान् नैकेनापरत्र प्रतिषेध इति ।
[44] अन्येनेति विशेष्याभिधायिनेत्य् अर्थः । अन्योन्यम् इति । परस्परविशेषणानां यद्य् अपि "विशेषणं विशेष्येण" (प्स्_2,1.57) इति विशेषणस्य विशेष्येणैव समास उक्तः, तथापि "काणखञ्जादिषु सिद्धं विशेषणविशेष्ययोर् यथेष्टत्वाद्" इति वचनेनैकस्य विशेष्यत्वविवक्षाम् आश्रित्य परस्परं विशेषणानां समासः समर्थितः । तदभिप्रायेणान्योन्यम् इति संभावना । दारसुख इति दाराणां सुखेति तत्पुरुषः कर्तव्यः । बहुव्रीहौ "राजाहस्सखिभ्यः" (प्स्_5,4.91) इति टच् न स्यात् । हे हस्तेति । "मृतस्य शिशोर् द्विजस्य" इत्य् अत्र समासः शङ्कितः । "रामस्य पाणिर् असि" इति तु षष्ठीसमास उदाहरणम् । अत्र क्व चित् कर्तॄणाम् कर्मणां च प्रथमान्तानां क्वापि संबन्धिनां कर्मणां च षष्ठ्यन्तानां कुत्राप्य् आमन्त्रणानां समासः शङ्कितः । [45] वक्ष्यमाणनयेनेति । "व्यासः पाराशर्यः" इत्यादिविचारेषु । चापाचार्य इति । अत्र हि त्रिपुरविजयित्वाद्यनुवादेन चापाचार्यत्वादिविधिः । अनूद्यमानश् चार्थो विधेयस्योत्कर्षम् आवहन् प्रतीयते । न चैवम् इति उपेन्द्रवज्रस्थाने इन्द्रवज्रप्रयोगात् । उपगतम् अस्माभिर् इति । "दुःश्रवत्वम् अपि वृत्तस्य शब्दानौचित्यम् एव । तस्याप्य् अनुप्रासादेर् इवे"त्यादिवदद्भिः ⟨च्f. प्. 37⟩ । अत्र "यथा च कारणगुणे" इत्यादिग्रन्थः अन्तरश्लोकपर्यन्तः "प्रत्युदाहरणं यथा तं कृपामृदुर्" इत्य् अतः [पगे 26] पूर्वं पठितः सामञ्जस्यं भजते, प्रत्युदाहरणं चेति उदाहरणग्रन्थः समञ्जस एव स्यात् । दृश्यते च पुस्तकेष्व् एवं पाठः । तस्माद् अत्र जागरणीयम् । कारणम् अत्र पराशारो जमदग्निश् च । तदभावे हेतुर् इति तच्छब्देन समासः परामृष्टः । ततश् चात्र पाराशर्यादिपदं व्यासादाव् उत्कर्षम् अर्पयत् पुनर् उक्तम् । तक्षकसर्प इति तक्षकशब्देनैवात्र सर्पविशेषत्वात् सर्पत्वे प्रतीते सर्पपदम् उत्कर्षसमर्पणप्रवणम् एवेति तदर्थस्य विधेयत्वम् । [46] लोहितस् तक्षक इति यथा तक्षकशब्दाद् एव सर्पत्वजातिः प्रतीता तद्वल् लोहितलक्ष(णो गु)णो ऽपि तत एवाव्यभिचारात् प्रतीतः । ततस् तौ जातिगुणौ विधेयताभिप्रायेणोक्तौ न समास न्यग्भावनीयौ । उक्तन्यायाद् इति विधेयत्वान् न समासः प्रवर्तत इत्य् अर्थः । पक्षो न चास्त्य् अन्यस् तदत्यये इति । इह द्वौ पक्षाव् उल्लिखितौ तक्षकस्य स्वरूपमात्रप्रतिपादनं वा लोहिताख्यगुणविधिर् वा । उभयत्रापि कृता चर्चा । तदत्यये च कथितपक्षद्वयातिक्रमे चान्यस् तृतीयपक्षो नास्तीत्य् अर्थः ।
एवम् इयता कर्मधारयं विचार्य बहुव्रीहिनिरूपणायाह बहुव्रीहौ यथेति । ततस् तद् इति स्थलीकरणादि यद् विशेषणतयोपात्तं तत् परामृश्यते । तैर् विध्यादिभिः । तदप्रतीतिः उत्कर्षापकराप्रतीतिः । प्रतीतिभेदहेतौ समासासमासयोगे । प्रतीतिसामर्थ्ये कर्मधारयादिविषये । तदसंभवः प्रतीतिभेदासंभवः । अन्त्यावस्था प्राप्तकारणेषु युक्तैव कार्योत्पत्तिर् इत्य् अर्थः । एतदभ्युपगमे दृष्टविरोधम् आह । एवं हीति । नैव वेति न्यायाविशेषात् । अर्धजरतीयम् इति अर्धं जरत्या इति "समासाच् च तद्विषया" (प्स्_5,3.106) इति च्छप्रत्ययः । यथा जरत्या वराङ्गं कामयते मुखं न कामयते तद्वद् एवेत्य् अर्थः । [47] तत् तस्य ⟨ततास्य वर् (एद्)⟩ इति तद् इति तस्मात् । तौ सूर्यचन्द्रमसौ । तयोर् इति अनुवाद्ययोस् सूर्याचन्द्रमसोः । पारम्पर्येणेति विधेयताम् आह पितामहत्वद्वारेण । अत एव सूर्याचन्द्रमसाव् इति द्वन्द्वनिर्देशो द्वयोः स्पर्धितां प्रकाशयति । उर्वश्या च भुवा चेति समासाभावो वरणस्य मुख्यामुख्यत्वप्रदर्शनार्थम् एकस्य वास्तवत्वाद् अपरस्य कविप्रौढोक्तिनिष्पादितत्वात् । इह चेति प्रतीतिवैचित्र्यं स्पष्टतरम् एव धारयतु मतिमान् इति पाश्चात्य सन्बन्धनायं जनक इति । अत्र जनकाख्यराजर्षिप्रभृतयः पितृत्वादेर् उत्कर्षम् अर्पयन्ति ।
एवं बहुव्रीहिं विचार्य द्विगुं व्याचष्टे द्विगौ यथेति । निरवशेष इति सप्तत्वसङ्ख्यायां विधेयत्वेन संरम्भास्पदत्वं समासे तु न्यग्भावात् । दशस्व् इति दशत्वसङ्ख्याया विधेयत्वं रावणस्य परिभवातिशयं प्रकाशयति एकस्मिन्न् अपि मूर्धनि पदन्यासः परिभवास्पदं किं पुनर् दशास्व् इति । प्रत्युदाहरणं सप्ताङ्ग्याम् इह यस्य स इतीत्यादिपाठे । वैशसं बाधः । एवं द्विगुं व्याख्याय नञ्समासं व्याचष्टे नञ्समासेति । उपदर्शितम् इति असंरब्धवान् इत्य् अत्र विधेयाविमर्शविचारे अनुक्तवान् इति नोक्तवान् इति वाच्यम् । तत्पुरुषे कर्त्रादीनां षण्णां कारकाणां संबन्धस्य च क्रमेणोदाहरणान्य् आह देशेत्यादिना । सो ऽयम् इति । अत्र स एवायम् इति व्याख्या । अहितसंबन्धिनां शस्त्राणां घस्मराणि ग्रसनशीलानि अत एव गुरूणि । करणं प्रतीति क्रियां प्रतीत्य् अर्थः । तत् तस्येति प्रक्रान्तत्य ⟨रेअद् प्रक्रान्तस्य⟩ विशेष्यस्य करणस्य । तस्येति रामस्य । शौर्यं बलम् । निघ्नः परवशः । तेन तद् इति रामेणेति विशेषणम् ।
[48] अनेकेषाम् इति । अनेकशब्दस्य नञ्समासे उत्तरपदार्थप्राधान्याद् एकवचनप्रसङ्गः । सत्यम् किं तु नञ्प्रयोगविषये एकशब्दस्यैकव्यतिरिक्तवस्तुविषयत्वं यथा अब्राह्मण इत्य् अत्र ब्राह्मणशब्दस्य क्षत्रियादिगोचरत्वम् । एकव्यतिरिक्तं च वस्तु कदा चिद् एकत्वोपरक्तं प्रतीयते, कदा चिन् निजेनैव स्वरूपेण । आद्ये पक्षे अनेकम् इति भवति द्वितीये त्व् अनेकानीति । यथा च (पदमञ्जरिः?) पतञ्जलिः - [पगे 27] प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् (4पा. 5 सू.) इति । गुरुदत्तम् इति गुरुणा दत्तम् इति वाच्यम् । तत् तस्या इति सीताया विशेषणभूतायाः सीताकर्तृत्काया गमनक्रियाया इत्य् अर्थः । गुर्वर्थम् इति गुरवे इदं गुर्वर्थम् इति क्रियाविशेषणम् एतत् । क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गत्वं च । ईप्सिततमत्वे तु षष्ठी स्यात् । अर्थनक्रियामुखेनेति अर्थयत इति निगमनात् । तत् तस्येति तद् गुर्वर्थम् इति विशेषणम् । तस्यार्थिनः । अवमतताम् अनभिप्रेतताम् । अवमतत्वं गर्हितत्वम् । सुतनिर्विशेषम् इति । क्रियाविशेषणम् एव । प्रदक्षिणक्रियेत्य् अत्र प्रदक्षिणक्रियाया अत्ययक्रियाकर्मभूताया अन्तरायहेतुकोपनिमित्तत्वात् प्राधान्यम् । एवं प्रथमप्रबोधित इति प्राथम्यस्य । तथा यथाकामत्वयथाकालत्वयोर् ज्ञेयम् । यदवलोकनेति रूपसम्पत् परामृष्टा ।
[49] स्वहस्तेनेति करणपदम् । स्वहस्तलिखितानीति स्वहस्तशब्दो ऽत्रादरप्रतीतिहेतुकत्वेन लेखनं प्रत्य् उत्कर्षनिमित्तम् अपि समासे गुणीकृतः । पूर्ववद् इति कृतसमासवैशसम् । तच् च विप्रदत्तम् इति पाठे । पितामहपितामतयेति पितामहो ब्रह्मा पितामहः पूर्वपुरुषो यस्य । तयोर् जन्मनिधनयोः । तद्वतो जन्मनिधनवतः । ताभ्यां जन्मनिधनाभ्याम् । कृतान्ताधिकम् इति आसमुद्रात् ⟨क्टान्ताद् अधिकम् आसमुद्रात् चोन्ज् (एद्)⟩ क्षितीशानाम् इति च वाच्यम् । अपादानसमानन्यायत्वाद् अवधिर् अपि पञ्चम्यन्तो ऽत्र गृह्यत इति प्रत्युदाहरणोपपत्तिः । उपाग(ते?)मेति उपागता इति निर्दिष्टा उपागमक्रिया ।
[50] रणभूषित इति । अत्र रणभुवीति वाच्यम् । शोचनीयतागतिः क्रिया । तत्र समागमप्रार्थना हेतुत्वेनोपात्ता । तस्याः संबन्धिद्वारेण संबन्धित्वमुखेन कपालिन इति विशेषणम् । अत्र संबन्धिशब्दो भाववृत्तिः संबन्धित्वे वर्त्तते, यथा "द्व्येकयोर् द्विवचनैकवचने" (प्स्_1.4.22) इति, सुधीरम् उवाचेति । तत् तस्या इति । तद् विशेषणम् । तस्यास् समागमप्रार्थनायाः । तत्र शोचनीयतागतौ । सामर्थ्यम् अव्यभिचारेण सम्पादकत्वम् । तस्य सकलेति तच्छब्दः कपालिन इत्य् अस्य परामर्शकः । विशेष्येण समागमप्रार्थनयेत्य् अनेन । प्रत्यवरं गुणभूतम् । एवं तातस्येति, आर्यस्येति, स्कन्दस्येति, तवेति चेत्य् एषां विशेणणानाम् उत्कर्षसमर्पकत्वं ज्ञेयम् । तस्यैवेति ⟨तस्येति वर् (एद्)⟩ गौरवदुरारोपत्वनिबन्धनस्य हरस्य । तच्चेति प्राधान्यम् । तस्येति हरस्य । कल्पितार्थस्येति विस्तारितकृत्रिमत्वमात्रवाचिनो ऽधिज्यत्वमात्रलक्षणार्थारोपात् । अप्रयुक्तस्येति उक्तनयेनास्मिन्न् अर्थे कविभिर् अप्रयुज्यमानस्य । गुणान्तरलाभ इति वक्ष्यमाणलक्षणस्य वाच्यावचनस्य परिहारात् । (अत्रेति?) ⟨मात्रेति चोन्ज् (एद्)⟩ एवं कृतम् इत्य् अत्र करणम् । [51] निष्क आभरणविशेषः । विभक्त्यन्वयेति श्रूयमाणाया विभक्तेर् इत्य् अर्थः । तथा च "षष्ठ्या आक्रोशे" (प्स्_6.3.21) इति ज्ञापकम् (रूपकम् उपदेश इष्यत इति?) प्रमाणान्तरेण "लोको वेदस् तथाध्यात्मं प्रमाणं त्रिविधम्" इत्य् उक्तरूपेण सिद्धौ यौ स्वस्य विशेषणस्योत्कर्षापकर्षौ तदाधायिनाम् अर्थाद् विशेष्यं प्रतीत्य् अर्थः । आर्थं वास्तवम् । अलुकम् आह "षष्ठ्या आक्रोशे" (प्स्_6.3.21) इत्य् अनेन । चिन्त्यम् इति । एतदवगमाय विचार्यम् इत्य् अर्थः । समासे च विभक्तिलोपाद् इति । इह हि विभक्तिश्रवणाश्रवणे (वा?) अन्वयव्यतिरेकाभ्यां विशेषणगतयोर् वास्तवयोः प्रयोजकतां ⟨प्रशब्दात् प्राक् "प्राधान्यगुणभावयोः प्रयोजकतां" इति पूरणम् अपेक्षितं भाति⟩ भजेते । ते तु प्रायेण वाक्यसमासगतत्वेनोपलभ्यमाने समासस्य विभक्त्यश्रवणाद् विधेयाविमर्शताम् उत्पादयतः । अत एव समासे ऽपि यदि विभक्तिः श्रूयते, तदा न विधे [पगे 28] याविमर्शो यथा दास्याः कामुक इत्यादौ । समासस् तु तत्रैकपद्यादिप्रयोजनत्वेन कृतः । तन्निबन्धनेति उत्कर्षापकर्षनिबन्धना । एवं च विभक्त्यश्रवणान्वयव्यतिरेकानुविधायित्वं विधेयाविमर्शस्य व्याप्त्या प्रदर्शितं भवति ।
एवं च सप्तप्रकारं तत्पुरुषं निरूप्याव्ययीभावं निरूपयति - अव्ययीभाव इति । समापं विशेष्यं प्रति दयितस्येति यद् विशेषणं तत् तस्य समीपस्येति योजना । मध्येव्योमेति "पारे मध्ये षष्ठ्या वा" (प्स्_2,1.18) इत्य् अव्ययीभावः । स चेति प्रकर्षः । एवम् इयता द्वन्द्ववर्जं समासवृत्तिर् विचारिता । इदानीम् अतिदेशमुखेन कृत्तद्धितवृत्तिर् निरूप्यते अनेनैवेत्यादिना । विवक्षाविशेषाद् इत्य् अकारप्रश्लेषः । [52] सर्वं कषतीति "सर्वकूलाभ्रकरीरेषु कषः" (प्स्_3,2.42) इति खचो ऽयं विषयः । बिभर्त्ति यः इति "कुक्षिंभरिश् च" इति निपातितस्य कुक्षिम्भरिशब्दस्यायं गोचरः । विधुन् तुद् इति "विध्वरुषोस् तुद्" (प्स्_3,2.35) इति खश्प्रत्ययस्थानम् । शीर्षच्छेदम् इति "शीर्षच्छेदाद् यच् च" (प्स्_5,1.65) इति तद्धितस्य यत् प्रत्ययस्येदं पदम् । तैर् इति कषणादिभिः । सर्वार्थस्येति, कायोपलक्षणस्य कुक्षेर् इति, विधोश् चेति (व्यक्त स्थितः ?) उत्कर्षम् आदधतां प्राधान्येन विवक्षेत्य् अत्र सामस्त्येन योजनीयम् । शीर्षच्छेदस्य चेति उत्कर्षम् आदधतः प्राधान्येन विवक्षेति संबन्धनीयम् । पूर्वेभ्यो ऽस्य पृथङ्निर्देशस् तद्धितवृत्तिविषयत्वेन भिन्नजातीयत्वात् । अत्र च सर्वार्थादीनां चतुर्णाम् उत्कर्षाधाने समनन्तरनिर्दिष्ट भुवनाभयेत्यादिचतुष्टयं क्रमेण हेतुत्वेन द्रष्टव्यम् । तद् अपीति चरितम् । कषणादिकर्तृष्व् इति खलौदरिकराहुष्व् इत्य् अर्थः । रामो ऽस्मि सर्वं सह इति । "पूस्सर्वयोर् दारिसहोः" (प्स्_3,2.41) इति खचो ऽयं विषयः । दशरथस्य हि प्रसूतिर् असाव् इति ("तस्यापत्यम्" इति स्त्रच्प्रत्यये) ⟨तस्यापत्यम् अत इञ् (प्स्_4,1.95) इतीञ्प्रत्ययः एम् (एद्)⟩ तद्धिते कृते दाशरथिशब्दस्यायं गोचरः । वाक्ये तु यद्य् अपीति तद् उक्तम् - "क्रियाप्रधानं गुणवद् एकार्थं वाक्यम् इष्यते" इति । अन्य इति वक्ष्यमानन्यायेन शब्दकृतसामर्थ्योक्तिः । स इति प्रधानभावेनेत्य् अत्र निर्दिष्टः प्रधानभावः शब्दार्थसामर्थ्यविवक्षाकृतानां त्रयाणाम् अपीति शब्दकृतं शब्दसंस्कारमहिम्ना निष्पन्नं यथा कर्मधारयाद् उत्तरपदस्य । अर्थसामर्थ्यकृतं वस्तुवृत्तनिष्पादितं यथा "ग्रहं संमार्ष्टी"त्यादौ ग्रहादेः । तस्य संस्कार्यत्वेन वस्तुतः प्राधान्यम् । विवक्षाकृतं प्रयोक्तृयदृच्छाप्रतिपादितं यद् अन्यस्योत्कर्षापकर्षाधानतया विवक्षितं यथा "रामस्य पाणिर् असि" इत्यादौ रामादेः । तत्र त्रिषु प्राधान्येषु विवक्षाकृतम् एव ग्राधान्यं ⟨सिच्⟩ प्रधानम् ⟨सिच्⟩ । तत्कृतत्वात् काव्यार्थचमत्कारस्य । अत एवोक्तं तयोः समशीर्षिकाभावाद् इति । तयोर् इति शब्दार्थसामर्थ्यकृतयोः विवक्षाकृतेन सहेत्य् अर्थात् । ननु पूर्वं शाब्दस्यैव प्राधान्यस्य वैवक्षिकत्वम् उक्तम् अन्यस्य तु वास्तवत्वम् । तत् कथम् इह शाब्दवैवक्षिकयोर् अन्यत्वम् उच्यते । अन्यत्वे वा प्राधान्यत्रयप्रतिपादने ऽर्थसामर्थ्यकृतविवक्षाक्टयोः को विशेषः । शब्दकृताद् धि प्राधान्याद् अन्यदर्थसामरथ्यकृतम् उच्यते । तेन विवक्षाकृतस्य उक्तत्वात् । तत् किम् अर्थसामर्थ्यकृतम् अवशिष्यत इति । नैष दोषः । पूर्वं हि शाब्दिकैकगोचरस्य शाब्दिकविवक्षाकृतत्वाद् वैवक्षिकत्वम् । अन्यस्य तु कविगोचरस्य वास्तवत्वं तद् एवार्थत्वम् । इह पुनः सहृदयैकगोचरस्य कविविवक्षावशाद् वैवक्षिकत्वम् उच्यते । शाब्दिकैकविषयस्य शाब्दत्वम् इत्य् अपेक्षाभेदात् पूर्वस् तावन् न विरोधः । यद् अपि प्राधान्यत्रयप्रतिपादने ऽर्थसामर्थ्यविवक्षाकृतयोर् भेद उक्तस् तत्रायं भावः - इह शाब्दं वास्तवं चेति द्विविधम् एव प्राधान्यम् । वास्तवत्वस्य च विवक्षानपेक्षत्वेन वस्तुसामर्थ्यप्रयोजक+++दर्थसा [पगे 29] मर्थ्यकृतत्वम् उक्तम् । सत्य् अपि शब्दकृताद् अन्यत्व उत्कर्षापकर्षप्रतिपादनप्रयुक्तकविविवक्षाकृतत्वे वास्तवम् एव विवक्षाकृत प्रतिपादितम् । तथा च "ग्रहं संमार्ष्टी"ति वैदिकं विवक्षानपेक्षम् अर्थसामर्थ्यकृतस्योदाहरणं दत्तम् इति विषयविभागव्यवस्थितेर् न द्वितीयो ऽपि विरोध इति समञ्जसं सर्वम् । एवं कृत्तद्धितवृत्तिविषये आतिदेशिकं गुणप्रधानभावं विचार्य समा(स)गतत्वेनौपदेशिकं प्रकृतम् अनुसन्धत्ते तद् इदम् अत्रेति । सरूपाणाम् इति द्वन्द्वसमाससमानन्यायत्वाद् एकशेषवृत्तिर् अपि स्वीकृता । विशेषणविशेष्यभावाभावे ऽपीति समासोट्टङ्कनिकायां प्रायग्रहणप्रयोजनं प्रकाशयति । रूपं च कान्तिश् च विदग्धता चेति, अमृतेन विषेणेति चाभिहितानाभिहितकर्तृविभागेनोदाहरणद्वयम् । रूपम् इत्यादौ हि गम्यमानभवनक्रियापेक्षं रूपादीनां कर्तृत्वम् । एतेन तत्पुरुषस्य कर्त्रुदाहरणप्रस्तावे कर्त्रादीनां (कारकाणाम्) अनेके(षाम् इ)ति यद् उक्तं, तत् समीहितम्. [53] कश् च कश् चेति । अत्रैकशेषो न कृतः । कृतैकशेषम् इति काव् इति प्रयोगे । अधुना प्रधानेतरभावापत्तिं दर्शयति यत्र पुनर् इति । भवत इति रिपुस्त्रीणां संबन्धित्वेन, रिपुस्त्रीणाम् इति स्तनयुगस्य संबन्धित्वेनेति योजना । रिपुस्त्रीणाम् इति समासस्योदाहरणम् । न चात्र संबन्धमात्राद् अतिरिक्तं प्रतीयते । तदर्थम् एवेति उपमोत्प्रेक्षादयो ऽप्य् अलङ्काराः उपमोत्प्रेक्षादीनाम् उत्कर्षम् अपकर्षं वा प्रतिपादयितुं विधीयन्ते । अन्यथा तद्विरचनं निष्प्रयोजनं स्यात् । तौ विधेयेति । उत्कर्षापकर्षौ । (समास इति ?) सा समास इति विवक्षा परामृश्यते । वैदर्भीति यद्य् अपि वामनमते असमासा पाञ्चाली, मध्यमसमासा तु वैदर्भी, तथापि मतान्तरे विपर्ययः स्थित इति तदभिप्रायेणेहासमासा वैदर्भी कथिता । कारिकामध्य एव संबन्धमात्रप्रतीतौ समासस्योदाहरणम् । "ऊर्ध्वाक्षितापे"ति । अत्र चतुर्थपादैकशेष?(देश)युक्तस्य पादत्रयस्य समासे संबन्धमात्रं प्रतीयते, नोत्कर्षापकर्षौ । वाक्यात् तूभयम् इति उभयं संबन्धरूपम् उत्कर्षापकर्षरूपं च वस्त्व् इत्य् अर्थः । अत्रोदाहरणं [54] मे यदरय इति समासे हि मदरय इति स्यात् । न चास्माद् अतिशयः प्रतीतः । ननु पदाद् उत्तरपदयोर् युष्मदस्मदोः "तेमयाव् एकवचनस्य" (प्स्_8,9.22) इति तेमयाव् आदेशाव् उक्तौ । न चात्र पदात् परो ऽस्मच्छब्दः । एवशब्दः पदम् इति चेन् न । तत्प्रयोगे "नचवाहाहैवयुक्ते"(प्स्_8,1.24) इति निषेधाद् भिन्नवाक्यगतत्वाच् च । समानवाक्ये हि निघातयुष्मदस्मदादेशाः । (एतेनैव व्यतिरिक्तं पदान्तरं प्रत्युक्तम् । उत्कर्षमात्रम् एव शब्दादेशः?) अत्र के चिद् आहुः वाक्ये तावद् रसप्रतीतिर् निर्व्यूढा । ताम् अनुपमरदयन् काव्ये यद्य् असाधुशब्दो ऽपि स्यान् न तदा स्थूलः कश् चिद् दोषः । काव्ये हि रसप्रतीतिः प्रधानम् । तदनिर्वाहे काव्यम् एव न स्यात् । अपशब्दप्रयोगे तु लक्षणास्मरणमात्रम् । तद् उक्तं -
"नीरसस् तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः ।
स तेनाकविर् एव स्याद् अन्येनास्मृतलक्षणः ॥"
इति । अन्ये त्व् आहुः । भवतु रसापेक्षयापशब्दस्य स्वल्पदोषत्वं, तथापि महाकवीनाम् अपशब्दप्रयोगो महान् दोषः । तेनात्र "तेमेशब्दौ निपातेष्व्" इति तादृशो विभक्तिप्रतिरूपको मेशब्दो निपातो, यथा अहन्ता अहंयुर् इत्यादाव् अहंशब्दः । ततश् च नात्र कश् चिद् विशेष इति । किं सर्वात्मना करणस्य दुष्टत्वम् एव । नेत्य् आह किन् त्व् इति । एतस्य समासस्य । अन्तरेणेति वीररौद्रादेः समासेन प्रकाश्यत्वात् । वृत्तं वसन्ततिलकादि । वृत्तयः कैशिक्याद्याः उपनागरिकाद्याश् च । [पगे 30] काकुः काक्वध्यायलक्षितो (ना.शा. 17) ध्वनिविकाररूपो वा । वाचिकाभिनयो वाग्विकाररूपो ऽनुभावः । अर्धान्तावधिर् इति श्लोकापेक्षया अर्धम् अन्तावधिः । न्यूनेति पद्यापेक्षया न्यूनं रसाभिव्यक्तिहेतुत्वम् इत्य् अर्थः । यथा पूर्वोक्त ⟨यथानन्तरोक्त वर् (एद्)⟩ इति "ऊर्ध्वाक्षितापे"त्यादौ । समासो ऽर्धान्तावधिः कार्यो नाधिक इत्य् अनेन व्यावर्त्यस्याधिकस्य तद् उदाहरणम् । तस्येति पदार्थानां परस्परसंबन्धश् चेन् न च्छिद्यते ⟨सिच्⟩ तदा तस्य समासस्य मध्ये विच्छेदो न कार्य इत्य् अर्थः । अव्यभिचाराद् इति विधेयत्वं हि प्राधान्याविनाभावः । स्नेहम् इति । अत्र पानादीनाम् प्रकाशनस्य च (विध्यनुवादलोपित्वैककर्तृकाणां प्राधान्यभावो नापस्मृतम्?) अत्र च यो ऽयम् इति यच्छब्देन दीपस्य पदार्थस्य परामर्शोपक्रमे तत्तमस इति तच्छब्देन वाक्यार्थस्य परामर्शो दुष्ट इत्य् उपपादितं प्राक् । शक्तिः सामर्थ्यम् आयुधभेदश् च । तारकाः ज्योतींषि दैत्यविशेषश् च तारकः । अधो निस्तेजस्त्वेन वाहनत्वेन च । शिखीवह्निर् ⟨सिच्⟩ मयूरश् च । चन्द्रस्य सुवर्णस्य संबन्धी कान्तावभासो लसन् देदीप्यमानो यस्मिन् । चन्द्रकाणां मेचकानाम् अवभासो लसनं स्फुरद् यस्य । अन्धकारे तमसि अन्धकारेर् हरस्य । गुहः कुमारः । अपर इवेति अत्रापरशब्दसामर्थ्याद् भूपे द्वितीयगुहत्वप्रतीतौ वस्तुतस् तदसंभवे तत्संभावनायाम् उत्प्रेक्षा । अपरशब्दाभावे तु स्वस्वरूपस्थितस्यैव वास्तवस्य गुहस्य प्रतीताव् इयम् उपमा स्यात् । एवम् "अपर इव पाकशासनो", "मौर्वीं द्वितीयाम्" इत्यादौ च मन्तव्यम् । अहर्पतेर् इति । "अहरादीनां पत्यादिषु" इति वचनाद् रेफः । अत्र धारणादीनां गुणभावः । आधारस्य तु प्राधान्यम् । कर्त्ता हि गुणक्रिया निष्पादयन् प्रधानक्रियाम् ऐदम्पर्येण निष्पादयति, न तु तास्व् ऐदम्पर्यम् । यत्र सर्वास्व् ऐदम्पर्यं तत्र भवत्य् एव सर्वासाम् आख्यातवाच्यत्वम् । यथा [55] सौधाद् इत्यादि । इतरद् अप्राधान्यम् । आद्या प्रधानभूता । अपरा अप्राधान्यवती । बहुलग्रहणम् इति "विशेषणं विशेष्येण बहुलम्" (प्स्_2,1.57) इत्य् अत्र । क्व चिद् इत्यादि । "क्व चित् प्रवृत्तिः क्व चिद् अप्रवृत्तिर्" इति बहुलग्रहणप्रयोजनस्य व्यवस्थितत्वात् । उतर्गेति समासविधिः सामान्यरूपत्वाद् उत्सर्गः प्राधान्यादिविवक्षानिमित्तश् च तत्प्रतिषेधो विशेषरूपत्वाद् अपवादः । अपवादस्यैवेति । "अपवादविषयपरिहारेणोत्सर्गस्य प्रवृत्तिर्" इति न्यायात् । कर्तुम् अशक्य इति । अव्यवस्थितविषयत्वात् । यथा "उत्सर्गस्य घञ्य् अमनुष्ये बहुलम्" (प्स्_6,3.122) इत्य् अत्र । परिशब्दे त्व् अयं भवति । परिवादः परीवाद इति । विवाद इत्य् अत्र नैव भवति । तद्विषयः स्याद् इति "कृत्यल्युटो बहुलम्" (प्स्_3,3.113) इत्यादिगतस्य बहुलग्रहणस्य विध्यनुवादभावविषये सामर्थ्याभावात् समासाभाव इति भावः । तदभिप्रायम् इति आचार्याभिप्रायम् । सापेक्षता(मि)दीति । ऋद्धस्य राज्ञः पुरुष इत्यादौ । तत् समर्थग्रहणम् । एतद्व्यावृत्तीति एतच्छब्देन प्रधानेतरभावः परामृष्टः । तस्येहार्थत्वम् अपीति समर्थग्रहणं प्रधानेतरभावविषयनिवृत्त्यर्थम् अपीत्य् अर्थः । विधेयोद्देश्येति उद्देश्यो ऽत्रोर्ध्वनिर्देशार्हत्वाद् अनुवाद्यः । यत् तेनेति । यच्छब्दः पूर्वार्थसंबद्धः । तेनापारणेन । अनभिधानं वेति अभिधानलक्षणा हि कृत्तद्धितस्मासा इति । समर्थग्रहणं च वेति । चशब्दो ऽत्रातिरिक्तः, समुच्चयविकल्पयोर् विरोधात् । एवं च -
"दृष्टिर् नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न तन्
नार्द्रार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा"
[पगे 31]
इत्य् अत्र चवाशब्दद्वयं प्रत्युक्तं, चवाशब्दार्थयोर् एकत्र विरोधात् । खण्डिकेति खण्डो ग्रन्थसंबन्धी न तु समस्तो ग्रन्थः । स विद्यते येषाम् । अनवगततदभिप्रायैर् इति समर्थग्रहणं प्रत्य् आचार्यस्य हि तैर् अभिप्रायो नागतः । अभिधानाधानोद्धारेति । अभिधानानां शब्दानाम् आधानम् अभिनवानां न्यसनम् । उद्धारः पूर्वकाणाम् उद्धरणम् । शालीना अधृष्टा अविचारका इत्य् अर्थः । अपरम् अपीति पुनरुक्तादिकम् । तच्चिन्तेति । प्राधान्येतरभावेन समासासमासचिन्ता । [56] प्रकरणेति । यत्रार्थप्रकरणादिना शब्दस्य वाच्यो ऽर्थः प्रकर्षापकर्षादिकम् अर्थान्तरं प्रकाशयति, तत्राभिप्रेतार्थविनाशभयात् समासो न कर्त्तव्यः । यथा "रामस्य पाणिर् असि" इति । प्रकरणशब्दादिसख इति पाठे "शब्दस्यान्यस्य सन्निधिर्" इति स्वीकृतम् । यदा प्रकरणकाक्वादिसख इति पाठः, तदा काकुग्रहणेन स्वरविशेष उच्यते यः "कालो व्यक्तिस्वरादयः" इति काव्यगतत्वेन स्वीकृतः । एवं प्रसक्तानुप्रसक्तिकया समासगतत्वेन तदतिदेशेन समग्र(प्र?)वृत्तिगतत्वेनापि गुणप्रधानभावविवक्षां महता प्रपञ्चेन परिघटय्य प्रकृतोदारणे षष्ठीतत्पुरुषगतत्वेन योजयितुम् आह इत्थम् अवस्थित इति । अम्बिकाया उपादानम् इति संबन्धः । तत् किम् इति । विशेषणस्यान्यकेसरिव्यावृत्तिर् वा, केसरिगतप्रकर्षप्रतिपादनं वा फलम् । आद्ये पक्षे निर्दिष्टचमत्कारसम्भावना । द्वितीये तु समासानुपपत्तिर् इति तात्पर्यम् । विवक्षितपदं चमत्कारातिशयपदेन योजनीयम् । तस्या इत्य् अम्बिकायास् सकाशात् । जात्यन्तरं विशिष्टावान्तरकेसरिजातिः । तयावच्छिन्नो विशिष्टः । विशिष्ट एवेति लोकोत्तरः । मोहन्त्व् इति हरेर् विहङ्गमो गरुडः । मोहम् अज्ञानं हन्त्व् इत्य् अर्थः । गरुडजात्यवच्छिन्न इति । सौगतदृशा गरुडानां बहुत्वाद् इति भावः । विहङ्गमविशेषत्वं तु जात्यादिवैलक्षण्यात् । स्वाभिप्रायाविष्करणम् इति । सादृश्यमूलयाप्रस्तुतप्रशंसयेति भावः । तस्याश् चेति तच्छब्देन सरस्वती परामृष्टा । सरस्वत्या अम्बिका प्रतिबिम्बम् आत्मनश् च केसरीत्य् अर्थः । द्वितीयपक्ष इति । केसरिगतप्रकर्षप्रतिपादनपक्षे ।
[57] समासाद् असाव् इति अम्बिकाकेसरिशब्दाद् उन्मिषत्य् एव स चमत्कार इत्य् अर्थः । उदयास्तमयेति । वृत्तौ चमत्कारस्यातिशयो ⟨°अस्तमय चोन्ज् (एद्)⟩ वाक्ये उदय इति चूलिकाक्रमेण योगः । उपदर्शितम् एव प्राग् इति उदाहरणप्रत्युदाहरणप्रदर्शनद्वारेण । इष्टं हीति अभिप्रेतस्याप्राप्तिर् या, सा चोदनार्हा इष्टम् एतन् न सिध्यतीति । यत् तु नाभिप्रेतं तस्याप्राप्तिर् भूषणं, न तु दूषणम् इत्य् अर्थः । अस्माभिर् असाव् इति असौ चमत्कारः । सा भ्रान्तिर् एवेति निर्विकल्पविकल्पभेदेन द्विविधा भ्रान्तिः । तत्राद्या तिमिराद्युपप्लुतेन्द्रियस्य द्विचन्द्रादिप्रतीतिरूपा । द्वितीया त्व् अभिमानरूपा शुक्तिरजतादिप्रतीतिस्वरूपा । सेति चमत्कारावगतिः । व्याख्यावाक्याद् एवेति अम्बिकायाः केसरीति समासविवरणवाक्यात् । तेषाम् इति प्रतीतिवैचित्र्यानभ्युपगमवादिनाम् । तत्रारोपितेति तत्र समासे शुक्तिस्थानीये रजतम् इवारोपितावास्तवीत्य् अर्थः । उदयास्तमयपक्षौ क्रमाद् वाक्यसमासगतौ । उद्योग इति । संरम्भपदं निरस्योद्योगपदकरणं प्रक्रम्यमानोद्युक्तवत् पदक्रमाभेदाय । यो ऽसाव् इत्य् अदःशब्दः प्रसिद्धिपरामर्शकः यच्छब्दप्रतिनिर्देशस्य तच्छब्देन करिष्यमाणत्वात् । प्रतिपादितेति । आर्थो हि केवलतच्छब्दस्य प्रयोगनिबन्धन उपक्रमोपसंहारक्रमः प्रतिपादित [पगे 32] एव । रजश् छलेनेति । छलेवशब्दप्रयोगे सापह्नवेयम् उत्प्रेक्षा । केवलच्छलशब्दप्रयोगे ऽप्य् अपह्नुतिः । केवलेवशब्दप्रयोगे च सम्भावनप्रतीताव् उत्प्रेक्षा । द्वयप्रयोगे तु शबला प्रतीतिः । न चात्रापह्नुत्युत्प्रेक्षयोः सङ्करः । उत्प्रेक्षा ह्य् अपह्नुत्यविनाभाविनी । सो ऽपह्नवः क्व चिद् गर्भीकृतो यथा "नखक्षतानीव वनस्थलीनाम्" इत्य् अत्र, न पलाशानि, किन् तु सम्भावयामि नखक्षतानीति प्रतीतेः । क्व चित् तु शब्देन प्रतिपाद्यते यथा "अध्यारुरोहेवे"ति । एवं चास्या अपह्नुत्यविनाभाविन्या अपह्नुतिबाधकत्वं, न तया सह सङ्करः । भिन्नवाक्यतायाम् एवेति । तत्र हि विध्यनुवादभाव आञ्जस्येन क्रमेण प्रतीयते । तद् एव वेति विशेषणम् । तच् च विध्यनुवादभावविवक्षायां विधेयम् । अन्यत्रेति । उत्कर्षापर्षयोर् विधेयत्वस्य चाभावे । कामचार इति समासासमासयोः । तदर्थम् इति उत्कर्षादिविषये समासनिषेधार्थम् । [58] सापेक्षेति सापेक्षम् असमर्थं भवतीत्य् एतावन्मात्रप्रतीतये । पित्रोः स्वतेवेति यथा पितरौ वन्दनीयाव् इति नित्यसं(ब)न्धन्यायाद् निजाव् एव पितरौ प्रतीयेते, तद्वत् सापेक्षाणाम् अनभिधानाख्येन न्यायेन समासाभावः प्रत्येष्यते । स्वता आत्मीयत्वम् इव । (सा) दोषप्रकारनिवृत्तिः ।
अधुना स्वोत्कर्षशालिताप्रकटनार्थं स्वपरिश्रमं पिण्डीकृत्य श्लोकेन दर्शयितुम् आह काव्यकाञ्चनेति । काव्यम् एव परीक्षणीयत्वात् सुवर्णं तत्र परीक्षास्थानं निकषोपलम् आत्मानं मन्यते, न पुनर् उक्तक्रमेण परामर्थस् सन् निकषोपलः । अत एव कुन्तकेनेति ख्यातस्याप्य् उल्लुण्ठनवचनम् । श्लोक एष इति । यः सर्वसारतया प्रदर्शितस् तत्रेयती दूषणवृष्टिर् मुक्ता । तत्रान्यस्य ग्रन्थस्य का गणेनेति सूचितम् । निदर्शितः स्थालीपुलाकन्यायेनोदाहृतः । अत्र श्लोके वक्ष्यमाणैतदीयन्यायानुसारेण कषेण नियमेन काञ्चनाक्षेपात् काञ्चनपदं पौनरुक्त्यदोषदुष्टम् । निजकाव्यलक्ष्मणीत्य् अत्र निजार्थस्य संरम्भास्पदत्वेन विधेयत्वात् समासकरणं विधेयाविमर्शदूषितं के चिद् आचक्षते विचक्षणाः । तत्त्वेनैव ग्रन्थकृता "स्वकृतिष्व् अयन्त्रित" इत्यादिना दत्तोत्तरम् एव । अस्य च विधेयाविमर्शस्यानन्तेतरप्रसिद्धलक्ष्यपातित्वेनास्माभिर् नाटकमीमांसायां साहित्यमीमांसायां च तेषु तेषु स्थानेषु प्रपञ्चः प्रदर्शित इति ग्रन्थविस्तरभयाद् इत एवोपरम्यते ।
एवं विधेयाविमर्शं प्रकारवैचित्र्येण लक्षयित्वा प्रक्रमभेदं लक्षयितुम् आह - प्रक्रमभेदो ऽपीति । प्रतिपत्तृप्रतीतेर् इति रथस्थानीया प्रतिपत्तृप्रतीतिः । उत्खातो विषमोन्नतः प्रदेशः । एनम् इति शब्दार्थव्यवहारम् । तद्विषयभावः प्रक्रमभेदविषयत्वम् । अनभिभाषणं तत्कर्तृकभाषणाभावः । एवम् अनालपनं ज्ञेयम् । अनलम् असमर्था । विध्यनुवादभावप्रकारतोपगमाद् इति प्रकारः सादृश्यम् । उपक्रान्तं ह्य् अनुवादस्थानीयम् । निर्वाहकं च विधेयप्रख्यम् । तत्र स्पष्टं विधेयानुवाद्यप्रकारम् उदाहरति यथेति ।
"तदा जायन्ते गुणा यदा तैस् सहृदयैर् गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥"
"एवम् एव जनस् तस्या ददाति कपोलोपमायां शशिबिम्बम् ।
परमार्थविचारे पुनश् चन्द्रश् चन्द्र इव वराकः ॥"
उत्कर्षापकर्षमात्रेति कमलानाम् उत्कर्षविवक्षा । चन्द्रस्य पुनर् अपकर्षविवक्षा । अत एवोदाहरणद्वयं दत्तम् । प्रक्रमभेदप्रकार इति प्रकारो ऽत्र विशेषः । पर्यायप्रक्रमेति । चन्द्रशब्दार्थस्य शशिशब्देन पर्यायान्तरनिर्देशो न युक्तो वक्ष्यमाणप्रक्रमभेदप्रसङ्गात् । [59] न चै [पगे 33] वम् इति तेनैव शब्देनोपसंहार इत्य् अर्थः । तयोर् इति प्रक्रमभेदपुनरुक्तयोः । अस्येति प्रक्रमाभेदस्य परामर्शः । तत्र हि यथोद्देशं प्रतिनिर्देशे न पौनरुक्त्यम्, ऐकरस्येन प्रतीतिप्रसरणात् । उद्देश्यप्रतिनिर्देश्यभावो न पौनरुक्त्यस्य विषयः । यथा -
"क्षामाङ्ग्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैर् इव गलद्बाष्पाम्बुधौताननाः ।"
इति । अत्र गलच्छब्दद्वयं निर्दिष्टं यथोद्देशं प्रतिनिर्देशो ऽस्य विषय इति समञ्जसम् । [तयोर् इति प्रक्रमाभेदपौनरुक्त्ययोः । अस्येति प्रक्रमाभेदस्य परामर्शः ।] ननु "व्रजतः क्व तात! वजसी"त्य् अत्र व्रजिना प्रक्रमे वजिना च निर्वाहे कथं न प्रक्रमभेदः । वजतिर् अपि धातुर् अस्ति । "वज व्रज गताव्" इति पाठाद् इत्य् आशङ्क्योक्तं व्रजत इति । उदितं शिशुनेति उदितम् इत्य् अस्य विशेषणं परिचयगतार्थम् इति । अस्फुटम् इति च । भावे चात्र प्रत्ययः । कार्यार्थं पथि गच्छतः पश्चान् नामोदीरणं विरुद्धम् इति शिशुना ललितवचसा नामन्य् उदीरिते जनन्यास्य भर्त्सनं कृतम् इति ततो ऽस्य मन्युर् विवृद्ध इत्य् अत्र तात्पर्यार्थः । एवं धातुरूपायाः प्र्कृते प्रक्रमभेदं प्रदर्श्य संप्रति प्रातिपदिकरूपायास् तस्या मध्ये च सर्वनामादीनां प्रकारवैचित्र्येण तं दर्शयति सर्वनामेति । क्व चित् पुनः पुस्तकेषु प्रकृतिप्रक्रमभेदाद् अनन्तरं प्रत्ययप्रक्रमभेदोदाहरणं तत् पश्चात् सर्वनामप्रक्रमभेदनिर्देशो दृश्यते । तत्र च प्र्कृतेर् अनन्तरं प्रत्ययस्यैव निर्देश उचित इति स एव कथित इति सङ्गतिः । ततः परं प्रकृतिविशेषाणां प्रत्ययविशेषाणां तत्समुदायानां च तत्प्रक्रमभेदो निरूपयिष्यते । उक्तरीत्येति । "यस् त्व् एकवाक्ये कर्तृत्वेनोक्तो यश् चेदमादिभिर्" इत्य् अत्रोक्तेन क्रमेणेत्य् अर्थः । ननु यच्छब्देन प्रक्रमे तच्छब्देनेदमादिभिर् वा (प्रक्रमे यच्छब्देन वा?) कथम् उपसंहार इत्य् आह न चैवम् इति । अन्योन्यापेक्षे इति । यत्तदोर् नित्याभिसंबन्ध इत्य् उक्तम् । एवं तच्छब्दादूरविप्रकृष्टार्थेष्व् इदमादिषु प्राग् उक्ते "यो ऽविकल्पम्" इत्यादौ ज्ञेयम् । तेनेति प्रकृतोपसंहारः । इदमादीनां परस्परावान्तरवैचित्र्ये ऽपि स्थूलदृष्ट्या एकार्थत्वम् । अत्र हीति अत्र हि कर्तृविशेषणद्वारेणैकस्य हेतुत्वम् अपरस्य साक्षाद् इति प्रक्रमभेदः । यशोधिगन्तुम् इति अत्र हि तृतीयातुमुनोः प्रतीतिवैषम्यजनकत्वम् । वाशब्दस्येति । वक्ष्यति हि "तुल्यकक्ष्यतया यत्र पदार्थाः" इति । [60] अपत्यवतो ऽपीति युक्तः पाठ इति । अत्र के चित् समर्थयन्ते - (विशेषतः स्निह्यन्तो दृश्यन्ते?) तत् पुत्रशब्दस्यापत्यविशेषवाचित्वे अपत्यशब्दस्य च सामान्यवाचित्वे ऽपि सर्वनामवशाद् विशेषपर्यवसाने भवत्य् एव प्रकृतार्थपरिपोष इति । तद् एतद् अस्य ग्रन्थकारस्य हृदयम् अनालोक्यैव, यस्माद् दृष्टान्तदार्ष्टान्तिकभावेनात्र वाक्यार्थद्वयम् उपनिबद्धम् । तत्र च द्वयोर् बिम्बप्रतिबिम्बभावेन निर्देशो युज्यते । दृष्टान्ते चात्र सामान्योपक्रमः, विशेषोपसंहारः, पुष्पशब्दस्य सामान्यवाचित्वाच् चूतशब्दस्य विशेषाभिधायकत्वाद् । विशेषस्य चोत्कृष्टतयैवातृप्तिविषयत्वम् । दार्ष्टान्तिके (अकष्टं?) ⟨अनिष्टम् चोन्ज् (एद्)⟩ विशेषोपक्रमः । सामान्योपसंहारः । सर्वनामवशाद् वा विशेषान्तरनिर्देशो न्याय्यः । स्थितपाठे पुत्रशब्दस्य विशेषवाचित्वम् अपत्यशब्दस्य सामान्यवाचिनो विशेषपर्यवसानम् । यदा त्व् अपत्यवतो ऽपीति पाठस् तदास्य सामान्योपक्रमो विशेषोपसंहारः । द्वितीयस्यापत्यशब्दस्य सर्वनामसंबन्धेन विशेषपर्यवसानाद् यथैकीयमते "तस्मिन्न् अद्रौ कति चिद् बले"त्य् अत्र । (आदि) ⟨अपि चोन्ज् (एद्)⟩ शब्दस्यार्थसङ्गतिश् चेद् दृश्येव भ्राजते । यस्य नैवापत्यसंबन्धस् तस्य मा भूत् कन्यायाम् एकस्याम् अतृप्तिः यस्य त्व् अनेकापत्ययोगस् त [पगे 34] स्य कथम् एकस्मिन्न् अपत्ये स्निग्धत्वम् इति विस्मयः । एतदर्थ एवापिशब्दो जीवति । अतृप्तिकारणत्वं च कन्यायाः परसमर्पणीयत्वेन । गुणगौरवेण च स्नेहपात्रता । एतदर्थम् अस्याश् चूतेन प्रतिबिम्बनम् । तद् इत्थम् अपत्यवतो ऽपीत्य् एष एव पाठः श्रेयान् । समासानुपपत्तीति (अधिकरणसिद्धान्तन्यायेन?) ⟨अधिकं न तु तद्धानिर् इति न्यायेन चोन्ज् (एद्)⟩ गुणान्तरलाभ इत्य् अर्थः । वरं कृतेति । कृताः शिक्षिताः सन्तो ध्वस्ता नष्टा गुणा यस्य । अमणिर् अविद्यमानमणिर् अलङ्कारः । उपलशब्देनात्र मणिर् एव विवक्षितः । तन्नात्र मणिशब्दः प्रयुक्त इति पर्यायप्रक्रमभेदत्वम् । खम् इवेति । "हंसश् चन्द्र इव चन्द्र इव हंस" इति युक्तः पाठः । मघोन इन्द्रस्य सुते ऽर्जुने । वीर्यं च विद्वत्स्व् इति । वीर्यवेदनं चेत्य् एव हेतुत्वेन विवक्षितम् । समुच्चयो विकल्पो वेति । विकल्पो यशो ऽधिगन्तुम् इत्य् अत्रोदाहृतः । समुच्चयस्य त्व् इदं वीर्यं चेत्य् उदाहरणम् । "विद्वत्सु वीर्यं तनये" इति पाठे न वेदनं हेतुत्वेन विवक्षितम्, अपि तु वस्तुस्वरूपप्रतिपादनपरत्वेनेत्य् अयं मन्यते । एवं च विद्वत्स्व् इति विशेषणस्य नैरर्थक्यम् आपद्यत इति नानेन विचारितम् । [61] दुष्कूलभाव इति । सामानाधिकरण्येनोपक्रमे वैयधिकरण्येन प्रतिनिर्देशः प्रक्रमभेदावहः अत्र चतुर्थे पादे । "कपालम् एवामलशेखरश्रीर्" इत्य् अत्र कपालानां बहुत्वे वाच्ये यद् एकत्ववचनम् अमलशेखरश्रीर् इत्य् अत्र च शेखरमात्रे धर्मिणि वक्तव्ये यच्छेखरश्रीर् इति धर्मवचनं तद् अनुपपन्नम् एव गन्तव्यम् । एवं च पूर्वोक्तेषु वक्ष्यमाणेषु चोदाहरणेषु संभवन्न् अपि विचारो ग्रन्थविस्तरभयान् न निरवशेषतया कृत इति तत्रैवाभियोगः कर्तव्यः । तदुपेतम् इति । स्वशब्देन सर्वनाम्ना वा निर्देशस् तुल्यफल इति प्रतिपादयिष्यमाणत्वात् । भगवति युष्मत्प्रसादेनेति । (अनेन) न्यायेन "पश्यत मातः" इति वार्त्तिके धर्मकीर्तेः प्रयोगः प्रत्युक्तः । प्राधान्याभावाद् इत्य् उक्तम् इति । "यत्रैककर्तृकानेका प्राधान्येतरभाक् क्रिया" इत्य् अत्र । अनेनिजुर् अक्षालयन् । जक्षुर् अखादन् । बिसप्रसूनं पद्मम् । नेजनादाव् इति लिटा भूतानद्यतनपरोक्षप्रक्रमे अनेनिजुर् इति तु भूतानद्यतनेन निर्वाहः । तथा "धृतविकासी"त्य् अत्र भूतमात्रे क्तप्रत्यय इत्य् अत्रापि कालप्रक्रमभेदः । तत्रोपरि तिङन्तप्रक्रमभेदो द्वितीयो ऽत्र न स्थितः । एवं चेहादिग्रहणेन धृतविकासीति गृह्यते । [विकचम् अस्य दधुः प्रसूनम् इति । अनेनिजुर् इत्य् अत्र?] ⟨अनेनिजुर् इति अत्र विकचम् अस्य दधुः प्रसूनम् इति चोन्ज् (एद्)⟩ समाधानं न कृतं प्रकारान्तरेण समर्थयिष्यमाणत्वात् । यदि वेत्यादिनामुं प्रक्रमभेदं निराकरोति । अजयद् इति अत्र परोक्षो ऽपि जयो दर्शनार्हत्वात् परोक्षत्वेन न विवक्षित इति लिट्प्रयोगो न कृतः । विद्यमानस्यास्याविवक्षायां दृष्टान्तम् आह [62] अनुदरा कन्येति । न हि कस्याश् चित् कन्याया उदराभावः कृशत्वात् पुनस् तद् अपि विवक्ष्यते । एवं च -
"अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस् तपनद्युतिर् दितेः ।
यम् इन्द्रशब्दार्थनिषूदनं हरेर् हरिण्यपूर्वं कशिपुं प्रचक्षते ॥" इत्यादेः,
"तात त्वं निजतेजसैव गमितः स्वर्गं यदि स्वस्ति ते
किं त्व् अन्येन हृता वधूर् इति कथां मा सख्युर् अग्रे कृथाः ।
रामो ऽहं यदि राघवस् तद् अखिलं व्रीळानमत्कन्धरं
सार्धं बन्धुजनेन सेन्द्रविजयी वक्ता स्वयं रावणः ॥"
इत्यादेश् च महतः काव्यप्रवाहस्य न किं चिद् दुष्टत्वम् । अर्थस्येति तद्भावो ऽर्थत्वं सत्ता अतद्भाव असत्त्वम् । यत्रेति पूर्वार्धशेषः । यथेति । न प्रक्रमभेद इत्य् अन्वयः । तत्र कालविशेषो दर्शितः । [पगे 35] यथा भूतस्य भाविनश् च कालस्याद्यतनानद्यतनत्वे परोक्षापरोक्षत्वे च वैवक्षिके एवेति । (ते) शीलादयो ऽर्थाः "आ क्वेस् तच्छीलतद्धर्मतत्साधुकारिषु" (प्स्_3.2.135) इत्य् अत्र निर्दिष्टाः । तेषां च वैव्क्षिके सत्त्वासत्त्वे । एवं च क्व चित् ताच्छीलिकादिप्रत्ययप्रयोगे ऽप्य् अन्यत्र तदकरणम् अदुष्टम् । यथा -
"जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः ।
अगृध्नुर् आददे सो ऽर्थम् असक्तः सुखम् अन्वभूत् ॥"
इत्य् अत्रागृध्नुर् इति ताच्छील्याद्यर्थप्रत्ययप्रयोगे ऽप्य् अत्रस्त इत्य् अत्रात्रस्नुर् इत्य् अकरणे ऽपि न दुष्टत्वम् अत्रस्नुर् इति वा निर्देशे अगृध्नुर् इति निर्दोषम् एव । कर्तुः फलवत्ता कर्त्रभिप्रायत्वम् । तद् अपि वैवक्षिकम् एव । एवं च "दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता" इत्य् अत्र यदि कर्त्रभिप्रायत्वं क्रियाफलस्य, तदा ददातीति परस्मैपदानुपपत्तिः । न चेत् तदा कुरुत इत्य् अत्र परस्मैपदप्रसङ्ग इति प्रक्रमभेदपर्यनुयोगो निरवकाश एव । एवम् अन्यत्र बोद्धव्यम् । तेन ते इति । ते कालविशेषादयः तेन विवक्षाप्रयुक्तत्वेन कारणेन न दर्शिता इत्य् अर्थः । गाहन्ताम् इति । अत्र कर्तुर् आख्यातेनाभिधानं कर्मणश् चानभिधानं प्रक्रान्तं विस्रब्धैर् इत्य् अन्यथाकृतम् इति कारकप्रक्रमभेदः । विहृतिं विहरणं भङ्गिभाजनत्वम् इत्य् अर्थः । विवृतम् इति पाठे विस्तरशालित्वम् इत्य् अर्थः । रतौ विग्रहो विरोधः स्तनतैर् व्यवहितस् तत्प्रसादाद् विरोधस्य कर्तुम् अशक्यत्वात् । वितेने इति भावे प्रत्ययः । स्तनितानि विततीभूतानीत्य् अर्थः । शाब्दः प्रक्रमभेद इति शब्दविषयत्वाच् छाब्दः । शाब्दप्रक्रमभेद इति तु प्रकृतिप्रक्रमभेदस्यानुक्रमेण ये पठन्ति तैः शाब्दश् चार्थश् चोत्तरो ग्रन्थो नालोचित इत्य् उपेक्ष्यम् एतत् । सङ्गमभूषेति । अत्र बुहुव्रीहाव् अन्यपदार्थोपसर्जनेनार्थेन क्रमेणोपसंहृतम् इति । भिद्यमानशब्दविषयत्वाच् छाब्दः प्रक्रमभेदः । एवम् आर्थः प्रक्रमभेद इत्य् अत्र प्रथमप्रक्रान्तभिद्यमानार्थविषयत्वाद् आर्थ इति व्याख्येयम् । धृतविकासीति पूर्वं कालप्रकरणेनोदाहृतम्, संप्रति शाब्दविषयत्वेनोदाह्रियते, तिङन्तगतत्वेनाप्य् ऊह्यते । (न हीयम्?) आर्थः प्रक्रमभेद इति अत्रोदाहरणद्वितयं दत्तं मत्ततेति समतयेति । तत्र मत्ततेत्य् अत्र सङ्गमभूषेत्य् आर्थेन क्रमेण प्रक्रमः, भूषयतीत्य् अत्र तु शाब्दरूपतया प्रतिनिर्देश इत्य् आर्थः प्रक्रमभेदः । किं तु तद्वपुस् तद् अपि चारुतरत्वम् इति पाठः स्थितपरिपाठ्यानुगुण्याभावान् न न्याय्यः । "चारुता स खलु सापि शरीरम्" इति तु पाठः श्रेयान् । एवं च दयितसङ्गतिर् एषेत्य् एतच्छब्दः पठनीयः, न पुनर् आसाम् इति पाठः । तत्र हि मत्तता केन शब्देन परामृश्यते । "समतये"त्य् एतत् प्रायेणादर्शेषु शाब्दप्रक्रमभेदे उदाहरणतया दृश्यते । आर्थ प्रक्रमभेदप्रस्तावे (वा? च) "अनन्तरोदाहरणयोर् आद्यम् आहितविपर्ययम्" इति पाठः । एतच् चायुक्तं योजनग्रन्थे वरुणस्यार्थप्रक्रम इति ग्रन्थविरोधात् । किं तु नियमयन्न् इति विदग्धमन्यतया दत्तो ऽपि नो हृदयङ्गमः पाठः, वरुणेनैव तत् संबद्धम् इत्य् अत्र प्रमाणाभावात् । न हि वरुणस्यान्योपसर्जनत्वेन स्थितस्य स्वातन्त्र्यम् अस्ति । तस्य नैवंविधसंबन्धः पुष्टत्वं धत्ते । आर्थप्रक्रमभेदप्रस्तावे इदम् एवोदाहरणम् आहितविपर्ययम् इति पाठः श्रेयान् । [63] परिहृतौ भवत इति । विभक्तिप्रक्रमभेदचशब्दयोर् द्वित्वाद् द्विवचनम् । चशब्दस्योभयथा दुष्टता च । चशब्दस्य च समुच्चयो विषयः । तद्भावः (उक्तः । येन तुल्यकक्ष्यत्वाभावाक्यत्वेन?) निवारितः । प्रक्रमभेदस् त्व् असताम् इत्य् असमुच्चेतव्यनि [पगे 36] कटप्रयोगात् । स हि "नियमनाद्" इत्य् अस्यानन्तरं पठनीयः । लोष्टसंचार एकैकस्य भेदस्य भेदान्तरैः सह संयोजनप्रकाराख्यो गणनाविशेषः । प्रकृतिप्रत्यययोर् इति लघुशब्दः प्रकृतिः । तस्यां गुरुशब्देन भेदः । गुरुशब्दे चेयसुन्न् अधिकः प्रयुक्तो, यो लघुशब्दे न प्रयुक्तः । तत्प्रत्ययस्य च प्रतिनिर्देशो न कृत इति प्रत्ययप्रक्रमभेदो ऽपि । अभिनवपाठे तु तत्प्रत्ययरहितस्यैव लघुशब्दस्य प्रतिनिर्देशः कृतः । क्रमेति य उद्देशक्रमः प्रक्रान्तः, सो ऽनुदेशे वैपरीत्याद् न कृत इति प्रतीतेर् ऐक्यस्य विगमाद् दुष्टत्वम् । तव कुसुमशरत्वम् इति । इदं क्रमप्रक्रमभेदोदाहरणं न युक्तं चूलिकाक्रमस्यैवात्रोचितत्वम् । तथा ह्य् उद्देशः । स्मरं प्रति सांमुख्येनाभिधानं विहाय नेन्दुं प्रासङ्गिकं प्रत्ययथार्थज्ञानम् उचितम् इति स्मरस्य तावत् प्रथमनिर्देशो न्याय्यः । (अनिर्देशे) ⟨अनुदेशे चोन्ज् (एद्)⟩ त्व् इदं विषयं त्यक्त्वा न प्रासङ्गिकेन वाक्यार्थपरिसमाप्तिः शोभते इति पार्यवसानिकेन स्मरेणैव संमुखीक्रियमाणेन वाक्यार्थः परिसमपनीय इति पाठक्रमापेक्षया चूलिकाक्रम एव सहृदयहृदयरञ्जक इति कुशाग्रीयधिषणैर् निपुणं निरूपणीयम् एतत् । तथा च "युष्मदस्मदोः पदस्य पदात् षष्ठीचतुर्थीद्वितीयास्थयोर् वान्नावौ" (प्स्_8,1.20) इति चूलिकाक्रमेण व्यवहारो दृश्यते । क्रमप्रक्रमभेदस्य पुनर् उदाहरणं वस्तुप्रक्रमभेदविचारप्रस्तावे निरूपयिष्यते । प्रधानभूतस्येत्य् अर्थप्रतिपादनाय शब्दप्रयोगाच् छब्दस्योपायमात्रत्वाद् उपायानां च नियमाभावात् । तद् उक्तं -
"उपादायापि ये हेयास् तान् उपायान् प्रचक्षते ।
उपायानां च नियमो नावश्यम् अवकल्पते ॥"
इति । प्रक्रमभेद इति । प्रक्रमभेदविषयस्य विध्यनुवादभावप्रकारत्वात् प्रक्रमभेदो ऽप्य् उपचाराद् विध्यनुवादप्रकार इत्य् अर्थः । अनेनैव न्यायेन शाब्दश् चार्थश् चेति प्रक्रमभेदस्य भेदद्वयं शाब्दार्थविषयत्वाद् बोद्धव्यम् । शब्दभेदम् इति । एकशब्दा(भेदत्वा?)भिधेयत्वेनार्थस्य प्रत्यभिज्ञायमानत्वोपपत्तये । शब्दभेदे तस्यैवार्थस्यान्यस्येव प्रतीतेः नाञ्जसेन प्रकारेण विध्यनुवादभावविषयत्वम् । काव्यगतत्वेन हि चिन्ता प्रस्तुता । न च काव्ये शास्त्रादिवद् अर्थप्रतीत्यर्थं शब्दमात्रं प्रयुज्यते, सहितयोः शब्दार्थयोस् तत्र प्रयोगात् । साहित्यं तुल्यकक्ष्यत्वेनान्यूनानतिरिक्तत्वम् । अस्त्व् एवम् इति सामान्येन प्रक्रमभेदाभ्युपगमो विशेषे तु पर्यनुयोग इति भावः । प्रक्रम(भेद?)नियमं प्रतीति हृदयङ्गमः पाठः । यद्भेदाभेदाभ्याम् इति हि यच्छब्देन प्रक्रमः परामृश्यते । प्रक्रमभेदनियमं प्रतीति तु पाठे यद्भेदाभेदाभ्याम् इति प्रक्रमस्यैवोद्धृतस्य यथाकथं चित् परामर्शो व्याख्येयः । [64] शुचि भूषयतीति । अत्र भूषयतीति शाब्दं भूषणं प्रक्रान्तम् अलङ्क्रियेत्यादाव् आर्थेन रूपेण प्रतिनिर्दिष्टम् । अत्र च पर्यायप्रक्रमभेदः स्थितो ऽपि सांप्रतं न चिन्तितः शब्दार्थप्रक्रमभेदचिन्तनप्रस्तावात् । अत्र विभागस्यैवेति । (अत्र वेत्य् अर्थाद् उपमेयम्?) तदभिसंबन्धः शब्दाभिसंबन्धः । विपर्ययाद् इति साक्षाच् छब्दसंबन्धाभावात् । उदाहरणद्वये "शुचि भूषयति" इति "चारुता वपुर्" इति च । यादृशम् इति स्थितपाठाभिप्रायेणानौचित्यं दत्तपाठाशयेन त्व् औचित्यम् इत्य् अर्थः । तच्छब्देनान्ये परामृश्यन्ते । सादृश्यम् एवेति । (तदा यच्छब्दस्य नपुंसकता स्यात् । तस्मात् सुरारिवेत्य् अत्र परामृश्यत इति?) अविवेकाक्षमप्रज्ञत्वात् । तदपहृतेति भङ्गिभणितिवैचित्र्यं परामृष्टम् । उत्कटेन भणितिवैचित्र्येण वर्णनीयम् आच्छादितम् इत्य् अर्थः । तद् उक्तं वक्रोक्तिकृता लौकिकालङ्कारान् उपमानीकृत्य
[पगे 37]
"यद्वत् तद्वद् अलङ्कारैर् भासमानैर् निजात्मना ।
स्वशोभातिशयान्तस्थम् अलङ्कार्यं प्रकाश्यते ॥"
इति । अप्राधान्यं ⟨अप्राधान्यं चोन्ज् (एद्): प्राधान्यं न स्याद्⟩ स्याद् इति । अयं भावः - यदि शब्दव्यापारविषयस्य प्राधान्यम् अर्थव्यापारविषयस्य चाप्राधान्यम् इति व्यवस्था, तदा त्रिविधस्य प्रतीयमानस्य परैर् ध्वन्यत्वेन व्यप(निर्दि)दिष्टस्यास्माभिर् अनुमेयत्वेनोपपादितस्याप्राधान्यं प्रसज्येत तस्यार्थव्यापारविषयत्वात्, शब्दव्यापारविषयत्वस्य दूषितत्वात् । इष्यते च प्राधान्यम् । तत् कथम् इयं प्राधान्याप्राधान्यप्रतीतिर् घटत इति । "चक्राभिघाते"त्यादौ च पर्यायोक्ते समासोक्तिवद् गम्यमानस्यैव प्राधान्यं न वाच्यस्येत्य् उपपादितं प्राक् । "एकाभिघात" इति हयग्रीववधे पाठः स्थितः, सुदर्शनस्य पुल्लिङ्गस्य प्रक्रान्तत्वाद् य इत्य् अनेन परामर्शात् । तत् त्व् अनवबुध्य चक्रं यदि परामृश्यते, तदा यच्छब्दस्य नपुंसकता स्यात् । तन् मुरारिर् एवात्र परामृश्यत इत्य् आशयेन "चक्राभिघाते"ति पठन्ति । न त्व् अयं तत्र प्रस्तावः । (तदपेक्षयैव?) प्राधान्यम् अप्राधान्यं चेति इह गमकम् अप्रधानम् उपायत्वात् । गम्यं प्रधानम् उपेयत्वात् । तेन प्रतीयमानस्य गम्यत्वात् प्राधान्यव्यवहारः । न प्रतीत्यपेक्षयेति । शब्देनार्थेन च या प्रतीतिस्, तदपेक्षया न प्राधान्याप्राधान्यव्यवहार इत्य् अर्थः । तयस् त्व् इह गम्यगमकभावविविक्तविषयत्वेन चिन्ता कृता । तदपेक्षयैव चेति । वाच्यस्यापि यः शाब्दत्वेन प्राधान्यव्यवहारयोगस् तस्यापि । तदपेक्षया गम्यगमकत्वापेक्षया । क्व चिद् यत्र प्रतीयमानसद्भावस् तत्राप्राधान्यम् इत्य् अर्थः । वाच्यं हि प्रतीयमानं प्रति गमकत्वेन व्यवस्थितं तेन तदपेक्षत्वेनाप्राधान्यम् इति तात्पर्यम् । विचित्रा भङ्गिभिणितय ⟨विचित्रार्थ(°) क्⟩ इति यथा भट्टबाणस्य तेषु तेषु स्थानेषु । अभिभूयमानत्वाद् इति । यद् उक्तं ध्वनिकृता
"अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः"
इति । वाक्यभेदाच् चेति वाक्यान्तरापेक्षया हि वाक्यान्तरस्य भङ्गिभणितिवैचित्र्यम् इत्य् अंशेन प्रतीतिवैदूर्यान् न प्रक्रमभेददोषं प्रकाशयति । [65] न्यायसिद्धत्वाद् इति । न्यायो ऽत्र भणितिवैषम्यम् । कारणभेदस्यापीति न केवलं प्रतीतिभेदो भेदहेतुः, यावत् कारणभेदो ऽपि । प्रतीतिभेदो विज्ञप्त्यपेक्षया भेदहेतुः, कारणभेदः पुनर् उत्पत्त्यपेक्षयेति विशेषः । तद् उक्तम् -
"अयम् एव भेदो भेदहेतुर् वा भावानां यो ऽयं विरुद्धधर्माध्यासः कारणभेदश् च"
इति । इह भङ्गिभणितिवैचित्र्यावैचित्र्ये प्रतीतिपरिस्खलनास्खलनयोः कारणे । स चेति प्रक्रमभेदः । शाब्दश् चार्थश् चेति पूर्वं प्रकृत्यादिप्रक्रमभेदविलक्षणौ शाब्दार्थप्रक्रमभेदौ लक्षिताव् उदाहृतौ च । अधुना वाच्यप्रतीयमानार्थापेक्षया पर्यवसानाभिप्रायेण सर्वप्रक्रमभेदव्यापकौ सामान्येन शाब्दार्थप्रक्रमभेदाव् उक्ताव् इति विशेषो बोद्धव्यः । वस्तुप्रक्रमभेद इति । वस्तु वर्णनीयं यथा वर्णयितुं प्रक्रान्तं तस्य तथा निर्वाहाभावाद् वस्तुप्रक्रमभेदः । भेदेनेति अवयवसंबन्धित्वेनेत्य् अर्थः । प्रथमे हि पादे अवयविन एव स्वरूपेण वर्णनं प्रक्रान्तम् इत्य् अवयविसंबन्धित्वेन निर्वाहणं दोषः । उभयत्रापीति अवयविवर्णने अवयववर्णने च । तत् स्वरूपं नायिकास्वरूपम् । अङ्गेन इत्य् आमन्त्रणम् । पततु अधस्तात् गच्छतु । सादृश्यप्रतिपादनेति द्विचन्द्रम् इति हि पाठे वदनेन सह चन्द्रो नभसो द्विचन्द्रताम् आपादयति । तच् च वदनचन्द्रयोः सादृश्यमूलम् इति व्यतिरेकप्रक्रमे सादृश्यनिर्वाहात् प्रक्रमभेदः । वस्तुसर्गपौनरुक्त्यस्येति पुनरुक्तवस्तुविरस इत्य् अत्र हि पुनरुक्तवस्तुभिर् विरस इति व्याख्याने सादृश्येन निर्वाहः कृतः । व्यतिरेकेण च प्रक्रम इति दोष एवायम् [पगे 38] विमुख इति । के चित् पुनरुक्तवस्तुषु विरसः पुनरुक्तानि वस्तूनि (न) करोतीति व्याख्यानेन व्यतिरेकनिर्वाहाद् यथास्थितपाठं समर्थयां चक्रे । अर्थदोषाणाम् इति प्रक्रमातिक्रमरूपाणाम् इत्य् अर्थः । तपेन वर्षा इति
"तपेन वर्षाः शरदा हिमागमो, वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनकृत्यं ददतः सदर्तवः पुरे ऽस्य वास्तव्यकुडुम्बितां दधुः ॥"
अत्र हि स्त्रीपुरुषयुगलत्रयरूपतया ऋतूनां वर्णने प्रस्तुते स्त्रीरूपाणाम् ऋतुनां तृतीयासंबन्धाद् अप्राधान्ये विवक्षिते यत् तपेन वर्षा इत्य् अत्र विपर्ययः कृतः, कृते वा तथा निर्देशे शरदा हिमागम इत्यादौ यद् अन्यथाकरणं, स प्रक्रमभेद एव । यदि परं स्त्रीपुंसयोर् अत्र येन क्रमेण प्रक्रमः तस्यान्यथा निर्वाहात् क्रमप्रक्रमभेदम् इमं विद्मः । तेन पूर्वं क्रमप्रक्रमभेदस्येदम् एवोदाहरणं देयम् । तेन वरं "घनश्रियोष्णः शरदा हिमागमः" इति पाठः कर्तव्यः । कर्तृप्रक्रमभेदो ऽपीति । यत्र युष्मदस्मदर्थगतं कर्तृत्वं शेषे ऽत्र चेतने ऽचेतने वा वक्त्रा बुद्धिपूर्वकम् एवारोप्यते, तत्र कर्तुर् अन्यस्यारोपश् चारुत्वाय व्यत्यासो गुण एवेत्य् अर्थः । [66] तयोर् इति । (यत्र?) कर्तृव्यत्यासप्रक्रमभेदयोः । न प्रकरणावसित इति । युष्मदस्मदर्थस्य हि क्व चित् कर्तृत्वं प्रकरणाद्यवसितं न शब्देनाभिधातुं प्रक्रान्तम् इति नायं प्रक्रमभेददोषस्य विषयः । अन्यत्रारोप्यैवम् उक्तम् इति शेषत्वेन विवक्षिते रामभद्रे । एवम् उत्तरत्र भार्गवे वटौ चान्यत्वं योजनीयम् । ननु युष्मदस्मदर्थस्य चेतनत्वात् तदपेक्षयाचेतनस्यैवान्यत्वम् उचितम् इति कथं चेतनस्यैवान्यत्वम् इत्य् आह - द्विविधो हीति । अयं भावः । न युष्मदस्मदर्थगतचेतनत्वापेक्षया वस्त्वन्तरस्यान्यत्वम्, अपि तु युष्मदस्मदर्थत्वापेक्षयैव । युष्मदस्मदर्थौ च क्रमात् संबोध्यमानवस्तुनिष्ठः परभावो ऽस्मिताख्या प्रत्यक्ता च । ततश् च तदपेक्षया शेषस्यान्यत्वम् । तस्य च चेतनत्वाचेतनत्वाद् द्वैविध्यम् इति न विरोधः कश् चित् । परशुना चन्द्रहास इति क्रमेण द्वयोर् अपि युष्मदस्मदर्थयोर् अचेतनविषयकर्तृताव्यत्यास उदाहरणम् । भो लङ्केश्वर इति । अत्र रामः स्वयं याचत इति अस्मदर्थकर्तृत्वस्य चेतनविषयव्यत्यासस्यान्यत् स्थितम् अप्य् उदाहरणीयं न चिन्तितं, पूर्वम् उदाहरणान्तरे चिन्तितत्वात्, चिन्तान्तरप्रस्तावाच् च ।
तद् एवम् इयता प्रबन्धेन प्रक्रमभेदं विचार्य क्रमप्राप्तं क्रमभेदं विचारयितुम् आह क्रमेभेदो यथेति । ननु यदि स्मृतिपरामर्शकस्य तच्छब्दस्यानुभूत एवार्थो विषय इत्य् उच्यते, ये ऽत्यन्तपरोक्षा रामादयस् तेषां कविना काव्ये तच्छब्देन कथं परामर्शः क्रियते तेषाम् अतीन्द्रियत्वाद् इत्य् आह [67] अत्र च प्रतीतिमात्रम् इति । अयम् अत्राभिप्रायः । येन विना यन् नोपपद्यते, तस्य तदपेक्षा न्याय्या । स्मृतिश् च प्रतीतिमात्रम् अन्तरेणानुपपद्यमाना तदपेक्षिणी स्यात्, नैन्द्रियिकप्रतीत्यपेक्षिणी ऐन्द्रियकप्रतीतिं विनापि शब्दादिभ्यः प्रतीतौ तस्याः संभवदर्शनात् । रामादीनां च यदि नैन्द्रियिकी प्रतीतिस् तदा शब्दात् प्रसिद्धेर् वा प्रतीतिर् अस्तु । तन्निबन्धनश् च स्मृतिपरामर्शकेन तच्छब्देन परामर्श इति न कश् चिद् विरोधः । नन्व् इति । अयम् अत्रार्थः । पदार्थविमर्शपुरस्सरो वाक्यार्थविमर्श इति न पदार्थविमर्शवेलायां भवत्व् इयम् आशङ्का । वाक्यार्थविमर्शसमये त्व् अखण्डप्रतीतौ पूर्वापरभावनियमावभासनाभावान् नास्य दोषस्यावकाशः । उद्देश्यत्वाच् च वाक्यार्थप्रतीतेर् अन्तरङ्गत्वम् इति तदाश्रयेणैव व्यवस्थोपपत्तौ न क्रमदोषचिन्ता का चिद् इति । प्रतिरूपः प्रतिबिम्बरूपः तत्संचारो वक्त्रभिप्रायसंक्रमणम् । शब्दव्यवहारस्येति । शब्दव्यवहारमुखेन श्रोतृगृहीतो वाक्यार्थविमर्शः स्वीकृतः । वक्तुर् इति यदि शोर्तृविमर्शपर्यवसायी शब्दव्यवहारो वक्तृविमर्शप्रतिच्छन्दकरूपो न स्यात्, तदा शब्दैर् वक्तृविमर्शस्यासंबन्धित्वाद् अनुमानं न स्याद् इत्य् अर्थः । तत्र चासा [पगे 39] व् इति वक्तृश्रोतृगते वाक्यार्थविमर्शे सूक्ष्मत्वेनास्फुटरूपो ऽस्त्य् एव पौर्वापर्यप्रतिभास इति यावत् । पदार्थबुद्धाव् इति वाक्यार्थपूर्वभासिन्याम् । तत्रापीति । वक्तृश्रोतृगतवाक्यार्थविमर्शे ऽपि सूक्ष्मः पदार्थाश्रयो दोषो दुर्निवारः पदार्थान् अतिक्रमेणैव वाक्यार्थविमर्शस्य व्यवस्थितत्वाद् इत्य् अर्थः । प्रमादज इति । एवं सति प्र(क्रम्य्यमान++) ⟨प्रक्रंस्यमानवस्तु° चोन्ज् (एद्)⟩ परामर्शदोषस् तावत् परिगृहीता भवति । प्रतीपगमनहेतोर् इति गजसेतुबन्धाद् इत्य् अस्य । शाब्दस्येति पञ्चम्यन्तत्वात् । तदीयतीर्थाभिधानेति हेतुहेतुमतोस् तदीयतीर्थशब्देन व्यवधाने सतीत्य् अर्थः । गङ्गाविशेषणमुखेनेति गजसेतुबन्धाम् इति पाठे । अयम् अत्राशयः - शाब्दो यत्र हेतुहेतुमद्भावस् तत्र हेतुत्वेनापन्यासान् न तयोर् व्यवधानं किं चित् कार्यम्, प्रतीतिविप्रकर्षप्रसङ्गात् । आर्थे हेतुहेतुमद्भावे उपन्यस्तस्य हेतुत्वाद् विशेषणभूतस्य हेतोर् विशेष्यस्वरूपवर्णनेन चरितार्थत्वात् सत्य् अपि व्यवधाने न प्रतीतिविप्रकर्षः कश् चित्, पर्यालोचनसामर्थ्याद् धेतुत्वप्रतीतेः । अत्र च श्लोके तीर्थे तदीये इति पदद्वयाकरणे ऽपि वाक्यार्थस्य निराकाङ्क्ष्त्वात् तत्करणम् अपुष्टार्थम् एव । तदेति तच्छब्देन । (इति तच्छब्दः?) आरोपनिवृत्ताव् इति आरोपो भ्रमो ऽन्यस्यान्यत्वेन प्रतीतिः, यथा नवजलधरस्य सन्नद्धदृप्तिनिशाचरत्वेन । तन्निवृत्ताव् अत्र वक्ष्यमानायाम् आरोपविषयस्य जलधरादेर् वस्तुसतः प्रकाशमानस्येदमादिना न्याय्ये निर्देशे तस्य परामृश्यसमीप एव प्रयोगेण भाव्यम् । यस् त्व् अवस्तुसदारोप्यमाणनिकटे प्रयोगः स क्रमभेदम् आवहति । यस् त्व् अत्रैवारोपविषयस्वरूपतया विद्युतो निकट इदम् आद्यप्रयोगः, तत्र दूषणान्तरावकाशः ।
[68] उत्खातद्रुतम् इव शैलं हिमहतकमलाकरम् इव लक्ष्मीविमुक्तम् ।
पीतमदिरम् इव चषकं बहुलप्रदोषम् इव मुग्धचन्द्ररहितम् ॥
इतीवेति । अत्रोपलम्भरूपः पूर्ववाक्यार्थ इतिशब्दावच्छिन्न उत्प्रेक्ष्यत इत्य् उपालब्धेत्य् अतः पूर्वम् इतीवशब्दौ प्रयोज्यौ । विषयान्तरे तु प्रयोगात् क्रमभेदः । प्रापिपयिषुपदेनेति पूर्ववाक्यार्थस्थितेन । तदधीनत्वं पुरुषायत्तत्वम् । स्तम्बरम् इति पीनोन्नतस्तनद्वयदर्शनाद् अयं प्रशंसोक्तिः । षिद्गाः विटाः । प्रतीतिवैचित्र्यम् इति वाक्यार्थस्य तिलतुण्डलीकृतस्यावगमानवगमौ । उक्तिस्वरूपेति । उक्तिः "स्तम्बेरमः परिणिनंसुर् असाव् उपैति" इत्य् एषा । तस्या विटसंबन्धिन्याः स्वरूपम् इतिशब्देनोपलक्षणत्वाद् एवंशब्दादिना व्यवच्छेत्तुम् इष्टम् । अतश् च तत्र तस्माद् इतिशब्दाद् इतिशब्दोपलक्षिताद् एवमादयश् च प्राक् पूर्वम् उक्तेः पूर्वप्रदर्शितायाः । अन्यत् किं चित् पदं षिद्ग इत्यादि न कथनीयम् इत्य् अर्थः । एवम् उदाहरणान्तरे ऽपि योजनीयम् । [69] उपाधिभावाद् इति इतिशब्दस्य स्वा शक्तिः पूर्ववाक्यावच्छेदरूपा । तां पूर्वत्र वाक्ये समर्पयंस् तस्योपाधिर् इतिशब्दः संपद्यते । अतश् च न तस्यान्यत्र प्रयोगः कर्त्तव्य इत्य् अर्थः । पदस्यान्यस्येति षिद्गैर् इत्यादेः । अन्यथेति (विपर्ययान्तरप्रयोगे?) ⟨विषयान्तरप्रयोगे चोन्ज् (एद्)⟩ आसमञ्जस्यं विशरारुप्रतीतित्वम् । आनन्तर्यनियम इति
"यस्य येनाभिसंबन्धा दूरस्थस्यापि तेन सः ।
अर्थतो ह्य् असमानानाम् आनन्तर्यम् अकारणम् ॥"
इति न्यायेनार्थौचित्यवशाद् व्यवहितानाम् अप्य् आनन्तर्यनियमो भविष्यतीत्य् अर्थः । अन्यतस् तर्हीति । अन्यतो ऽर्थौचित्यवशात् । तत्कार्यसिद्धेः इत्यादिकर्त्तव्यसिद्धेः । इति तेषां प्रयोगो नियतः स्याद् इत्य् उक्तम् । ननु "यस्य येनाभिसंबन्(धो न्याय्यः?) कुत्रावतिष्ठताम्" इत्य् आह कैश् चिद् एवेति । [पगे 40] अयं भावः - इत्यादिशब्दवर्जनेनोक्तक्रमेण शब्दहेत्वादिवर्जनेन चान्येषां शब्दानाम् अयं न्यायः । इत्यादीनाम् अयं पुनर् नियतप्रयोगविषय इति । नान्यथा तेषां प्रयोगः कर्त्तव्य इति ।
एवम् उद्देशक्रमेण क्रमभेदं विमृश्य पौनरुक्त्यं विचारयितुम् आह पौनरुक्त्यम् इति । इह खलु द्विविधं पौनरुक्त्यं शब्दपौनरुक्त्यम् अर्थपौनरुक्त्यं चेति । तद् उक्तम् अक्ष्पादमुनिना - "शब्दार्थयोः पुनर्वचन[ं] पुनरुक्तम् अन्यत्रानुवादाद्" इति । तत्र शब्दपौनरुक्त्यम् अर्थापौनरुक्त्ये न दोषः, अर्थपौनरुक्त्येन दुष्टत्व[ं] अर्थस्यैव प्रयोजकत्वात् । अर्थपौनरुक्त्यम् एवैकं पौनरुक्त्यं न शब्दपौनरुक्त्यम् इति समुदायार्थः । आर्थम् इति अर्थाश्रितम् । एवं शाब्दम् इत्य् अत्रापि वाच्यम् । यद् उक्तम् इति वादन्याये । हसतीति एको हसतिशब्दः शत्रन्तः स्वामिविशेषणम्, अपरः क्रियापदम् । एवम् उत्तरत्र वाच्यम् । यन्त्रम् इति । अभेदोपचारेण भृत्यस्य निर्देशः कृतानुकारित्वात् । अन्यत्र तात्पर्यभेदाद् इति तात्पर्यभेदे हि स्वरूपार्थाविशेषे लाटानुप्रास इष्टः । तद् उक्तं -
"स्वरूपार्थाविशेषे हि पुनरुक्तिः फलान्तरात् ।
शब्दानां वा पदानां वा लाटानुप्रास इष्यते ॥"
इति । शक्रसङ्काशेति श्रीनदीहंसेति मेदिनीचन्द्रेति विद्विषां कालेति च चत्वार्यामन्त्रणाणि । अत्र तात्पर्यभेदः स्फुट एव । तथा चैकः काशशब्दो वस्त्राणाम् उपमेयत्वेन स्थितः, अन्यस् तु हसानाम् उपमानत्वेनेति भिन्नं तात्पर्यम् । एवम् अन्यद् अपि योजनीयम् । उभयाभावे इति अर्थभेदस्य तात्पर्यभेदस्य चाभाव इत्य् अर्थः । न च घासेति कर्मत्वेन संबन्धित्वेन चास्तु तात्पर्यभेद इत्य् अर्थः । एतन् न चेति निषिध्यते । स्वार्थम् इति । एतद् उक्तं भवति - न स्वार्थाभिधानम् एव तात्पर्यम्, अपि तु सत्य् एव स्वार्थाभिधाने ऽधिकम् अर्थान्तरोन्मुखत्वं तात्पर्यं, यथा काशशब्दयोः । तत्र काशजात्यवच्छिन्नद्रव्यप्रतिपादनाद् अतिरिक्त उपमानोपमेयभावः प्रतिपाद्यते । न चैवंबिसशब्दयोः । न ह्य् अत्र बिसजात्यवच्छिन्नद्रव्यातिरिक्तं किं चिद् वस्तु प्रतीयते । यत् तु कर्मत्वं संबन्धित्वं च तदभिधेयस्यैव तथावस्थानं नोद्रेकेणान्यताम् आवहतीति स्वशब्दपरिहारेण सर्वनामपरामर्शस्यैव विषयो न्याय्य इति । ननु पुनरुक्तं किम् उच्यते यत्र तत् प्रयोगं विनार्थप्रतीतिः यत्र च तत्समानपदान्तरप्रयोगो ऽवश्यम् उपयुज्यते, तत्र कथं पुनरुक्तत्वम् । यत्रैकार्थेन प्रतीतिर् न तात्पर्यभेदः, तत्र पुनरुक्तत्वं प्रतीतिवैरस्यापादानात् । (यत्र तु तत्स्थानेन?) ⟨यत्र तु तत् समानं चोन्ज् (एद्)⟩ पदान्तरम् उपयुज्यतां मा वा । सर्वथा तत्प्रयोगकृत वैरस्यं पौनरुक्त्यप्रयोजकम् इति तदाश्रयेणायं दोष उक्तः ।
[70] सर्वनामेति "जक्षुर् बिसम्" इत्य् अत्र निर्दिष्टं बिसम् उत्तरत्र प्रसूनसंबन्धित्वेन सर्वनामपरामर्शार्हं सद् यत् स्वशब्देनोक्तं, तत् शब्दपुनरुक्तम् । यद्य् अप्य् अर्थपुनरुक्तम् एवैकं पुनरुक्तं (प्रयुक्तं, तत्?) ⟨प्राग् उक्तं चोन्ज् (एद्)⟩ तथापि शब्दस्य पुनरुक्ततेत्य् उक्तम् अर्थमुखेनैव शब्दस्यापि पुनरुक्ततेत्य् अभिप्रायेण । "सर्वनामपरामर्शयोग्यस्ये"ति निर्दिष्टां योग्यतां विभक्तुम् आह - प्राधान्यम् इति । द्विविधं परामर्शयोग्यत्वं शाब्दम् आर्थं चेति । तत्र यस्मिन् परामृश्यस्य स्वातन्त्र्येण कर्तृत्वादिना निर्देशेन प्राधान्यं तत्र शाब्दम् । यत्र पुनः परामृश्यस्यान्यः कश् चित् संबन्धित्वेन निर्दिश्यते, तत्रार्थम् । तत्र हि संबन्धिनं प्रति अस्योपयोग एव योग्यत्वम् । तथा चैकम् उदाहृतम् । संबन्धिप्रतीतिमुखेनेति । अत्र संबन्धी हरः तस्य मौलिद्वारेण शशाङ्कसंबन्धित्वात् । तत्प्रतीतिमुखेन चात्र शशाङ्कः प्रतीयते, न तु "चारुता वपुर्" इत्यादौ चारुतादेर् इव साक्षाद् एव शशाङ्कस्य प्रतीतिः । शशाङ्कसंब [पगे 41] न्धिनाम् इति । अत्र "संबन्धिनिबन्ध" इति कारिकायां यः संबन्धी युक्तः, स निर्दिष्टः । तथा चात्रांशवः संबन्धित्वेन निर्दिष्टाः । तत्परामर्शयोग्यतेति तच्छब्देन परामृश्यः शशाङ्को निर्दिष्टः । सा हि गुणीभूतस्येति । हरमन्यपदार्थं प्रति निशापतिर् गुणीभूतः । तस्यापि निशा गुणीभूता । सा च भुवनेति । अत्र न नगेन्द्रतनयायाः संबन्धी निर्दिष्टः । अपि तु सा चेत्य् अनेन स्वरूपेण ⟨स्वरूपम् चोन्ज् (एद्)⟩ निर्दिष्टम् । विहस्तो न क्व चिच् छक्तः । समासगतस्येति परामृश्यस्येति संबन्धः । तत्र हि परामृश्यस्य समासे गुणीभावात् संबन्धिनश् चानिर्देशात् परामर्शो न न्याय्यः ।
न सर्वजनसंवेदनीय इति । अस्यार्थः - "यथास्मै रोचते विश्वं तथेदं परिवर्तते" इति न्यायेनात्रातिप्रौढतया ग्रन्थकारो निजायत्तां पदार्थव्यवस्थां कर्त्तुम् आरब्धः, येन "तदंशुनिचितः" इति "तत् तमसाम्" इति ⟨तत् तु समासम् एति च सम् इति म्स्.⟩ च शशाङ्कस्य निशायाश् च तच्छब्देन परामर्शम् अघटमानम् अपि समर्थयते, "जक्षुर् बिसं घृतविकासिबिसप्रसूना" इत्य् अत्र च बिसप्रसूनशब्दस्य संज्ञापदस्यापि बिसशब्दाश्रयेण सूक्ष्मेक्षिकया पौनरुक्त्यं दोषम् उद्भावयति । न चैतत् समर्थनं हृदयहारि, यस्माच् छशाङ्कमौलिर् इति च निशापतिमौलिर् इति च संज्ञाशब्दाव् एतौ । संज्ञाशब्दानां च विद्यमानस्याप्य् अर्थानुगमस्य न प्रयोजकत्वं रूढेः प्राधान्यात् । ततश् चात्र न शशाङ्कार्थो न निशार्थः कश् चित् । किं तूपायमात्रेणैताव् अर्थाव् आश्रित्य संज्ञिविशेष एवात्र विवक्षितः । एवं च संज्ञ्यन्तर्गतयोः शशाङ्कनिशयोस् तच्छब्दपरामर्शेन सहृदयहृदयान्य् आवर्जयतीति हठसर्मथनम् ⟨सिच्⟩ एतत् । किं च शशाङ्कमौलिर् इत्य् अत्र वरं शशाङ्कस्य भवतु सर्वनाम्ना परामर्शः तस्य वक्राकृतेस् तत्र संनिहितत्वात्, निशापतिमौलिर् इत्य् अत्र तु निशायाः परामर्शः पापात् पापीयान् निशापतेर् एवोक्तक्रमेण तत्र संनिहितत्वात् । निशाया उपलक्षणमात्रत्वेनोपयोगिन्यास् तत्र संभवाभावात् । यत्र च तस्या एव न संभवस् तत्र का वार्ता तमसाम् । तद् अयम् "अन्धो मणिम् अविन्दत् । तम् अनङ्गुलिर् आवयद्" इति न्याय (न्याय्ये आयात?) आयातः ⟨न्याय आपतितः चोन्ज् (एद्): न्याय आयात् चोन्ज् (एद्)⟩ । अपि च यत्र प्रसारितानुगमेन शब्देन संज्ञिनः प्रत्यायनं क्रियते, परं तत्रानुगमोत्कर्षाद् भवति सर्वनामपरामर्शः । यथा -
"उत्सवाय जगतः स जायतां रोहिणीरमणखण्डमण्डनः ।
तत्प्रभाभिर् इव पूरितं वपुर् भाति यस्य सितभस्मगुण्ठितम् ॥"
इति । अत्र हि पदव्यापिनी ⟨पादव्यापिनी चोन्ज् (एद्)⟩ संज्ञान्वर्थ(त्व)म् एवोत्कर्षयति । तेनात्र परामर्शो नाप्रतीतिकरः । प्रकृते तु तादृश्य् अपि गतिर् नास्ति । आस्तां वा प्रकृतम् । अत्रापि हि रोहिणीरमणेत्यादौ यदि सूक्ष्मेक्षिका क्रियते तदा संज्ञाप्राधान्यात् तदंशस्य सर्वनामपरामर्शो न दुष्टतां ⟨नादुष्टताम् चोन्ज् (एद्)⟩ भजते । प्रकृते तु पापात् पापीयान् परामर्शः । कृतं चात्र समर्थनं ग्रन्थकृता । तद् एतद् अस्य विश्वम् अगणनीयं मन्यमानस्य स्वात्मनः सर्वोत्कर्षशालिताख्यापनम् इति ।
ग्रन्थकर्त्तुः पुनर् अयम् आशयः - इह तु द्विविधाः संज्ञाशब्दाः रूढा योगरूढयश् च । तत्र रूद्ःआनाम् अर्थानुगमाभावात् तदनुसरणं न कर्त्तव्यम् । ये तु योगरूढयस् तेषां यदि योग उत्कटतां भजते तदाश्रयो व्यवहारो न दुष्यति । अत एव निमित्तबलेन प्रवृत्तस्य शब्दस्य निमित्तान्तर्भावे प्रयोगः सौगतैर् निषिद्ध एव । यद् आहुः -
[पगे 42]
"नैमित्तिकाः श्रुतेर् अर्थम् अर्थं वापरमार्थिकम् ।
शब्दानाम् अनुरुन्धानो न बाधस् तेन वर्णितः ॥" (?)
इति । एवं स्थिते योगाश्रिते व्यवहारे यदि संज्ञावयवभूतार्थस्याव्यभिचारी कश् चित् प्रतिपिपादयिषितः स्यात् तदा तदभिसंबन्धाय तस्यावयवस्य सर्वनामपरामर्शो न दुष्टः । यद् उक्तम् - "सर्वनाम्नानुसंधिवृत्तिच्छन्नस्य" (का. सू. 5.1.11) इति । मौलिर् इत्य् अत्र शशाङ्काव्यभिचारिणो रश्मयः संबन्धित्वेन प्रतिपादिताः । निशापतिमौलिर् इत्य् अत्र निशाव्यभिचारीणि तमांसि । तेषां चावास्तवत्वम् अपि न तथा दुष्टम्, उत्प्रेक्षागोचरत्वेन प्रतिपादितत्वात् । केवलं पूर्वत्र संज्ञिसंबन्धी, परत्र तु संबन्धिसंबन्धी परामृष्ट इति विशेषः । तद् एवं यौगिकानां संज्ञाशब्दानां योगनिमित्तो व्यवहारः क्व चित् क्व चित् सुव्यवस्थित एव । यत् तु "कुर्यां हरस्यापि पिनाकपाणेर्" इत्य् अत्र पिनाकपाणिपदस्य संज्ञाशब्दस्य सतो ऽर्थानुगमो निवारयिष्यते येन संज्ञावगमार्थं हरशब्दः प्रयुक्तः, तन् नार्थानुगमाभावप्रतिपादनपरेण, किं त्व् अनुगम्यमानस्यार्थस्य संरम्भास्पदत्वेन विवक्षितत्वं पृथक् संज्ञापदप्रयोगम् अन्तरेण (न) निर्वहति संज्ञार्थस्यार्थानुगमस्य च युगपत् प्राधान्याभावाद् इति द्वयप्रयोग एवैवंविधेषु स्थानेषु शस्यत इत्य् अभिप्रायेण । प्रकृते वस्तुस्वरूपमात्रप्रतिपादने संज्ञाशब्दत्वे ऽप्य् अर्थानुगमानुसरणम् अव्याहतम् इति । इतरथेत्य् उभयविधयोग्यताभावे परामृश्यप्रतीतेर् अभावाद् इत्य् अर्थः । अत्र त्व् इति । "जक्षुर् बिसम्" इत्य् अत्र । संबन्धिनः प्रसूनस्य निबन्धने उपादाने । आर्थ इति । क्रियाकारकभावस्याख्यातपदवाच्यत्वेन शाब्देन क्रमेण प्रस्तावे ऽत्र विशेषणद्वारेण समासेन (प्र तो ऽर्थः?) प्रतीतेर् आर्थत्वम् । तच्चानेकप्रकारम् इति तच्छब्देन पौनरुक्त्यं परामृष्टम् । संक्षेपेण पञ्चप्रकारं पौनरुक्त्य निर्दिश्यते । अश्वीयेति । अत्र "केशाश्वाभ्यां यञ्छौ" (प्स्_4,2.48) इति समूहे ऽर्थे छप्रत्ययः । एवं छप्रत्ययः संहतिशब्दश् च भिसः प्रकृतित्वेन निर्दिष्टौ पुनर् उक्तौ । अश्वैर् इत्य् एव हि वाच्यम् । बिसेति "बिसकिसलयच्छेदपाथेया" इति "त्वगुत्तरासङ्गाम्" इति च वाच्यम् । [71] बहुव्रीहीति मत्वर्थे बहुव्रीहिविधानम् । कर्मधारयमत्वर्थीयाभ्याम् इति । कर्मधारयमत्वर्थीयौ समुच्चयेनावस्थितौ वृत्तिलाघवाद् बहुव्रीहिणा बाध्येते इत्य् अर्थः ।
ननु -
"भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने ।
संसर्गे ऽस्तिविवक्षायां भवन्ति मतुबादयः ॥"
इति बहवो भूमादयो ऽर्था अस्त्यर्थम् अनुगच्छन्तो मत्त्वर्थीय(ता?)विषयत्वेनोक्ताः । ते किम् इति न बहुव्रीहिवाच्यत्वेनोक्ता इत्य् आह मतोर् इति । मतुब्ग्रहणं मत्वर्थीयानाम् उपलक्षणम् । भूमादयो ह्य् अर्था न केवलेभ्यो मतुबादिभ्यः प्रतीयन्ते, किं तु प्रक्रणादिसहायेभ्यस् तेभ्य इति (न) मतुबादिविचारेणोदाह्रियन्ते, नान्तरीयकतया तेषां गतत्वात् । जाम्बवेति तदीयेति वन्येति च तद्धितप्रत्ययस्य पौनरुक्त्यम् । जम्बूपल्लवानीति, तन्मातङ्गेति, वनकरिणाम् इति च षष्ठीसमासेनैव तद्धितकर्मधारयलक्षणवृत्तिद्वयार्थप्रतीतेः । वार्त्रघ्नेति वृत्रघ्न इन्द्रस्यापत्यम् अत्र विवक्षितं, नेदम् अर्थ इति नात्र तद्धितस्य पौनरुक्त्यम् । समूहार्थाया इति । "ग्रामजनबन्धुसहायेभ्यः" इति (प्स्_4,3.7) समूहे तल्प्रत्ययः । अत्र जनशब्देनैव समूहार्थप्रतीतेस् तल्प्रत्यय(रूपायाः?) प्रकृतेर् बहुवचनस्य प्रत्ययस्य च पौनरुक्त्यम् । पूर्ववद् इति दलत्कन्दलेति लम्बाम्बुदम् इति फुल्लाम्बुजा इति च बहुव्रीहिणैव भजत्य् अर्थादीनां प्रतीतेः पुनर् उक्तत्वम् । विशेष्यमात्रेति विशेष्यस्याविशिष्टविशेष्यरूपतया [पगे 43] विशिष्टविशेष्यरूपतया वा प्रतीतिः । तत्र विशिष्टविशेष्यरूतया ⟨सिच्⟩ प्रतीतौ यत्र विशेषणमात्राद् एव विशेष्यस्यैव प्रतीतिः, तत्र विशेष्यप्रयोगो न दुष्यति यथा "तत्र प्रसादाद्" इत्य् अत्र वक्ष्यते । (किं तूपायमत्रेणैताव?) भवशब्दस्येति शीतकिरणाभरण इत्य् अनेनैव प्रतीतत्वाद् भवार्थस्य, यथा "निधानगर्भाम् इव सागराम्बराम्" इत्य् अत्र सागराम्बराशब्देन मेदिन्याः । चमूरुर् मृगविशेषः । कुथः वर्णकम्बलः । एकतरस्येति इन्द्रवाहनशब्दप्रयोगे कुथसामर्थ्यान् नागेन्द्रप्रतीतिर् नागेन्द्रशब्दप्रयोगे च शुक्लवर्णस्य वर्णितत्वाद् इन्द्रवाहनप्रतीतिर् इत्य् एकतरस्यैव प्रयोगो न्याय्यः । यत्र तद् इत्यादिना विशिष्टविशेष्यरूपतया विशेष्यप्रतिपत्तिम् उदाहरति । तद्विशेषः विशेष्यगतो विशेषः । हरशब्दस्येति पिनाकपाणिशब्देन हरगतो विशेषः प्रतिपाद्यते यः सर्वोत्कर्षहेतुत्वेन विवक्षितो न सज्ञिमात्रम् इत्य् अर्थः । विशेष्योपादानम् अन्तरेणापीति । कुसुमायुधशब्दो ऽपि हि विशेषणम् अपि विशेष्यम् अवगमयत्य् अव्यभिचारात् । न तु तस्य पृथक्प्रयोगः । अत्रापीति पिनाकपाणेर् इत्य् अत्र लिङुत्तमपुरुषेणैवेति "अस्मद्य् उत्तमः" (प्स्_1,4.107) इत्य् अत्र हि स्थानिन्य् अपीत्य् अनुवर्तनाद् अप्रयुक्ते ऽप्य् अस्मच्छब्दे तदर्थसंभवे उत्तमपुरुषो भवत्य् एव । तदनुपादानं विशेष्यानुपादानम् । [72] अन्येषाम् इति । बहुवचनाद् ईदृक्षु स्थानेष्व् एकेनैवेवशब्देन गतार्थत्वाद् अन्येषां प्रयोगो विफल इत्य् अभिप्रायः । तृतीयस्यापीति वाक्यार्थौपम्यविवक्षायाम् एक एवेवशब्दः प्रयोक्तव्यः । पदार्थौपम्यविवक्षणे तु यावन्तो विशेष्यभूताः पदार्थास् तावन्त इवशब्दाः प्रयोक्तव्याः । न त्व् अर्धजरतीयं कार्यम् इत्य् अर्थः । एतच् चाभ्युपगमवादेनोक्तम् । न तु संभवन्त्यां वाक्यार्थोपमायां पदार्थोपमाः कार्या इत्य् अस्य पक्षः । तथा च दिने दिने इत्यादिना दूषयिष्यति । दिने दिने इति । अत्र चान्द्रमस्या लेखाया पार्वत्युपमानं, विशेषाणां तु कलान्तराणि । विशेषाणां च लावण्यमयान् इति विशेषणम् । तत्स्थनीयं कलान्तराणां ज्योत्स्नान्तराणीति । ज्योत्स्नान्तरे येषाम् इति हि व्याख्या । "दिने दिने" इत्यादि पार्वतीन्दुलेखयोः साधारणो धर्मः । न तु कलान्तराणि कर्तॄणि ज्योत्स्नान्तराणि पुष्णतीति साध्वी व्याख्या वचनभेदादिदोषप्रसङ्गात् । अत्र चान्द्रमसीव लेखा कलान्तराणि पुष्णातीत्य् एकेनैवेवशब्देन गतार्थत्वे द्वितीयस्येवशब्दस्य पौनरुक्त्यम् । यं समेत्येति । अत्र यम् इत्य् अस्य चण्डमारुत उपमानं, चेदिपदस्य च प्रदीपः । तुल्यार्थे वतिः । विलोचनप्रशमनाद् एव शम्भुविभ्रमत्यागः । अत्र च दत्ते ऽपि पाठे कर्मभूतयोर् उपमेयोपमानयोर् ललाटलेखयेत्यादिविजातीयपदगर्भितत्वं विकृतपदप्रयोगो वैरस्यं च दुपरिहरम् एव । तेन "चण्डमारुतनवप्रदीपवद्" इति पाठः श्रेयान् । एवं हि मिशब्दस्थाने नशब्दमात्रकरणेन स्तोकमात्रव्यत्यासेन सौकर्येण दोषपरिहारप्रतीतिः सौन्दर्यं च । मलयजार्द्रम् इवेति हिमांशुखण्डस्योत्प्रेक्ष्यत्वेनोपनिबद्धम् आकाङ्क्षासंनिधिसामर्थ्याल् ललाटतटस्य विशेषणं पर्यवस्यतीति कवेर् अभिप्रायः । वस्तुतस् त्व् इवशब्दप्रयोगम् अन्तरेणापीष्टसिद्धेर् इवशब्दः पुनर् उक्तः । न चन्द्रखण्डस्य मलयजार्द्रत्वोत्प्रेक्षणे प्रयोजनं किं चित् । यत्र चैतद् धि विशेषणम् उपयुज्यते, तत्रेवशब्दप्रयोगो व्यर्थः । तदभिन्नार्थेनेति समासे इवार्थगर्भीकारात् । विपर्ययेणेति ललाटतटनिकटे प्रयोगार्हत्वात् । वरम् इति इवशब्दस्य भिन्नक्रमत्वापरिहाराद् अनवतृप्तिः । केवलं हारीत्य् अस्य समासाकरणाद् इवार्थाप्रतीतेर् इवशब्दो न पुनर् उक्त इति पौनरुक्त्यपरिहारः कृतः । अहो अपर्यन्तेति "ओद्" (प्स्_1,1.15) इति प्रगृह्यसंज्ञा । उपमारूपकेत्यादि(ना?)
"अलङ्कारस्य कवयो यत्रालङ्करणान्तरम् ।
असंतुष्टा निबध्नन्ति हारादेर् मणिबन्धवद्"
[पगे 44] इति । वक्रोक्तिजीवितकृतस् तु तम् अलङ्कारपुष्ठपातिनम् अलङ्कारं दूषयति । निर्मोकम् उक्तिम् इवेति अत्रोपमारूपकत्वं परप्रसिद्ध्योक्तम् । न त्व् इदम् उपमारूपकम् । उत्प्रेक्षारूपकं तु स्यात्, निर्मोकम् उक्तस् संभाव्यमानत्वेन प्रतीतेः । तथा हि निर्मोकानुगुण्यात् तावत् गगनस्योरगेण रूपणम् । निर्व्यूढे च रूपके निर्मोकम् उक्तिर् न ताटस्थ्येन प्रतीयते, किं तु गगनोरगसंबन्धित्वेन । (गगनोरगसंबन्धित्वेन) च प्रतीतौ न सादृश्यम् अपि त्व् अध्यवसायः । तस्य च प्रवृत्तमानत्वम् इत्य् उत्प्रेक्षैव ज्यायासी प्रतीतौ । अतश् चे(यं?)(दं)मुक्तिपदं कृतम् । अन्यथा शुद्धसादृश्यप्रतिपादने धर्म्य् एव विशिष्टो निर्मोक उपमानत्वेन निर्देश्यः स्यात् । भिन्नलिङ्गयोर् उपमाया दुष्टत्वान् न निर्दिष्ट इति चेन् न । साधारणधर्मस्यानिर्देशे निर्दिष्टस्यापि वा द्वैरूप्याभावे भिन्नलिङ्गसङ्ख्ययोर् अपि "स्त्रीव गच्छति षण्डो ऽयम्" इत्यादौ "हन्तावहन्ति दोषा इव नृपतीनां गुण इह(सहैव?)दुर्विनयम्" इत्यादौ चोपमानोपमेयभावस्येष्टत्वात् । तस्माद् उपमायां निर्मोक इवेति स्यात् । उत्प्रेक्षायां क्रियामात्रोत्प्रेक्षणम् उपपद्यत इत्य् उत्प्रेक्षारूपकम् एतत् परमार्थतः । एतद् अस्माभिर् हर्षचरितवार्त्तिके विस्तृत्य प्रतिपादितं तत एवावसेयम् । एवं परशुर् इवेत्यादौ वाच्यम् । "तमोरण्यवह्नेर् इवार्चिर्" इति । अत्र तमसो ऽरण्येन रूपेण वह्निर् अर्चिस्संबन्धितया विवक्षितः (समासे न निवेशनीयः कश् चिद् अत्र निर्दिष्टो?) ⟨समासे निवेशनीयः, यतो न कश् चिद् अत्र निर्दिष्टः चोन्ज् (एद्)⟩ यो वह्निना रूप्येत । तस्मात् तमोरण्यस्य वह्न्यर्चिर् इति वक्तव्यम् इत्य् अत्र वाच्यावचनं दोषः । आलानम् इति सत्य् एव सादृश्ये आरोप्यारोपकभावस्य निदर्शनम् । [73] चुम्बतीवेति । अत्रोप्रेक्षार्थे प्रयुक्तस्येवशब्दस्य लक्षणासमर्थितेनार्थेन कृतार्थत्वात् पुनरुक्तत्वम् ।
अ(त्र) चोपमारूपकाभिमते एवंविधे च प्रदेशे ग्रन्थकारो हेवाकितयैव दूषणम् अदात् । तथा शब्दार्थयोर् विच्छित्तिर् अलङ्कारः । विच्छित्तिश् च कविप्रतिभोल्लासरूपत्वात् कविप्रतिभोल्लासस्य चानन्त्याद् अनन्तत्वं भजमाना न परिच्छेत्तुं शक्यते । अत एवोक्तं ध्वनिकृता
"वाचस्पतिसहस्राणां सहस्रैर् अपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव ॥"
इति । अन्यत्राप्य् उक्तम् -
"अज्जवि अभिण्णम् उद्दो पजऐ वाआपरिप्फन्दो"
इति । एवं च यदि विच्छ्त्त्यन्तरापेक्षया तस्य विच्छित्त्यन्तरस्य पौनरुक्त्यं तदोपमाया रूपकाद्यपेक्षया पौनरुक्त्यं स्यात् । उपमापेक्षया हि रूपकम् अतिशयोक्तिर् वा बलीयसी । न चैवं प्रयुज्यते, विवक्षाया नानात्वात् । तथा हि क्व चित् सादृश्यमात्रं विवक्षितम् । तत्रापि क्व चिद् अभेदः । तस्मिन्न् अपि क्वचिद् आरोपः । क्वचिद् अध्यवसायः । (अध्यवसाये ऽपि) क्व चित् साध्यत्वं क्व चित् सिद्धत्वम् इत्यादिक्रमेणानन्तप्रकारं विच्छित्तिवैचित्र्यम् । तत्रापि संयोजनक्रमेण नवं विच्छित्तिवैचित्र्यम् अनुभूयमानम् आश्रितं च महाकविभिः कथं संक्षेपरुचित्वेनापह्नूयते । न हीदं वाक्यं लक्षणशास्त्रं, येन मात्रालाघवं चिन्त्यते । तत्रापि वा न नियमेन लाघवम् आश्रितं महद्भिः । तथा हि वाग्रहणस्य स्थाने ऽन्यतरस्यां ग्रहणम् अपि कृतम् । विच्छित्तिवैचित्र्यं तैर् अप्य् आश्रितम् एव । तद् उक्तं "विचित्रा हि सूत्रस्य कृतिः पाणिनेः" इति । एवं चात्र कृते ऽपि रूपके उत्प्रेक्षादिनिबन्धः कम् अपि गुणम् उत्कर्षयति न दोषम् इति सहृदयैर् निपुणं निरूपणीयम् । न तु हेवाकस्य पश्चाल् लगनीयम् इत्य् आस्तां तावत् । प्रकृतम् अनुसरामः ॥
मुर्मुरः अङ्गारः । आम्रवणस्येति "प्रनिरन्तर्" (प्स्_8,4.5) णत्वम् । पथिक [पगे 45] व्रजान् परित इति । परितश्शब्दयोगे "अभितः परितः समयानिकषा" इति द्वितीया । अत्र दधुर् इवेतीवशब्दः पुनर् उक्त एव, वस्त्वन्तरभूतानां रजःकणानां वस्त्वन्तरभूतमुर्मुरचूर्णत्वधारणेन सुष्ठुसादृश्यप्रतीतेः । एवं -
"तत् पातु वः श्रीपतिनाभिपद्मं स्वाध्यायशाला कमलासनस्य ।
दीर्घैर् निनादैर् दधते ऽनुकारं सामध्वनीनाम् इव यत्र भृङ्गाः ॥"
इत्यादाव् अनुकारशब्दप्रयोगे इवादिशब्दप्रयोगस्य पौनरुक्त्यम् अवसेयम् । प्रतिवस्त्वलङ्काराद् इति "पूर्णः शशाङ्काभ्युदयम् आकाङ्क्षति महार्णवः" इति प्रतिवस्तूपमया सादृश्यप्रतीतौ दृष्टान्तशब्दोक्तिर् दुष्टा । न च दृष्टान्तालङ्कारत्वं प्रतिपादयितुं दृष्टान्तशब्दः, दृष्टान्तशब्दाद् दृष्टान्तालङ्कारत्वाप्रतीतेः । न हि षष्ठ्यादिपरिहारेण संबन्धिशब्दात् संबन्धप्रतीतिः रसशब्दाद् वा रसप्रतीतिः । अदूरविप्रकर्षेण त्व् अभिधानं वस्तुसंस्पर्शि भवतीति । ननु स्वकण्ठेनाभिधानम् अपहाय किम् इति सादृश्यप्रतीतिर् आश्रीयत इत्य् आह वाच्यो ह्य् अर्थ इति । पूर्ववद् इति । पूर्वं यथा "आलानम्" इत्य् आदौ रूपकमुखेनोपमानोपमेयभावः कथितस् तद्वद् इह दीपकमुखेनेत्य् अर्थः । अत्र च द्वयोः प्रभाधेन्वोः प्राकरणिकत्वात् तुल्ययोगिताम् अद्यतना मन्यन्ते । द्वयोर् अपि प्राकरणिकत्वे महाप्रकरणापेक्षया धेनोः प्रकृष्टं प्राकरणिकत्वं प्रभायास् त्व् अप्रक्र्ष्टम् इत्य् एतदपेक्षया चिरन्तनैर् दीपकम् एतत् स्थापितम् । तदपेक्षयात्रानेन तद्वाचोयुक्तिः कृता । एवम् अलङ्कारान्तरेष्व् अपि समासोक्त्यपस्तुतप्रशंसादिषु । तत्राप्य् उपमानोपमेयभावः स्वकण्ठेन नोपनिबन्धनीयः । तथा -
"द्रविणम् आपदि भूषणम् उत्सवे शरणम् आत्मभये निशि दीपिकाः ।
बहुविधार्थ्युपकारभरक्षमो भवति को ऽपि भवान् इव सन् मणिः" ॥
इत्य् अत्राप्रस्तुतप्रशंसया भवदर्थस्य सदृशत्वेन प्रतीतेः पुनर् वचनं न कर्त्तव्यम् इति वक्ष्यते । अस्माभिश् चैतत् प्रपञ्चो बृहत्यां करिष्यते । इतिनैवेति इतिशब्दो हेत्वर्थह् प्रयुज्यमानः स्वभावतः पूर्ववाक्यार्थस्योच्यमानत्वं बोध्यमानत्वं वा गर्भीकृत्य प्रवर्तते । वरम् इति उक्तदोषद्वयनिवारणमात्रम् एतत् । न तु सर्वथा निरवद्यम् इदम्, यतश्शब्दातश्शब्दयोर् वैयर्थ्यात् । [74] अनिबन्धनस्येति न हि पूरणीयपूरकत्वेन दुष्टत्वम् । अविशेषण इति विशेषणदानार्थम् अव्यभिचारिणो ऽपि प्रयोगः शस्यत इत्य् अर्थः तथा चाह वामनः - "विशेषणस्य च" (2 अधि. 18 सू.) इति । व्यलोक्यतेति विलोकनक्रियैव लोकितारं लोकम् आक्षिपतीति लोकशब्दस्य पौनरुक्त्यम् । द्वयऽर्पाति प्रस्थानवशान् नीतिवशाच् चाश्रीयन्ते । गाम् इति गोशब्दस्य वाक्पर्यायस्य वचनक्रियायाम् अव्यभिचारात् प्रयोगो न कार्यः । दृष्ट इति दर्शनक्रियाया दृग् एव करणत्वेनाक्षिप्तेति दृक्शब्दः पुनर् उक्तः । कारकान्तरेष्व् अपीति यथा "स्थाने तिष्ठति" इत्य् अत्राधिकरणस्य पौनरुक्त्यम् । विविक्ते स्थाने तिष्ठतीति तु विशेषणार्थं प्रयोगो न दुष्टः । एकैवेति एकैवोपमादिः । शाब्दत्वं श्रौतत्वं यथेवादिशब्दप्रयोगात् । आर्थत्वं सदृशादिशब्दप्रयोगात् । अतिस्फुटाम् इति स्थूलदृष्ट्यैव दृश्याम् इत्य् अर्थः । उमावृषाङ्काव् इति । अत्र शरजन्मना यथेत्यादिना प्रतीतो ऽप्य् उपमानोपमेयभावस् तत्सदृशेनेत्यादिना पुनर् उक्तः । कवेस् तु नन्दननिमित्तः पूर्व उपमानोपमेयभावः । प्रतीयमानप्रभावादिनिमित्तस् त्व् अपरः । तथा चायं "दिलीप इति राजेन्दुर् इन्दुः क्षीरनिधाव् इव" इत्य् एवंविधम् उपमानोपमेयभावम् आतनोति । ग्रन्थकारस् तु विशिष्टोपमाननिर्देशान् नान्तरीयकतया प्रभावादिप्रती [पगे 46] तिर् भवतीति न द्विरुपादानं कार्यम् इति मन्यते । यस्येति यस्य पूर्वतादेर् यद्रूपतायाः प्रियतमादिरूपत्वस्याभिव्यक्तिः सामर्थ्याल् लिङ्गविशेषश्लिष्टपदोपनिबन्धनरूपाद् भवति, तस्य पर्वतादेः तदर्थं प्रियतमादिरूपत्वप्रतीत्यर्थम् उपमा रूपकं वा यन् निबध्यते, तत् पुनर् उक्तम् इत्य् अर्थः । [75] उरवो महान्तः पयोधरा मेघाः उरू च पयोधरौ स्तनौ च । समयात् सङ्गतेत्य् अर्थः । आर्द्रनखक्षतम् इवेति भिन्नक्रम इवशब्दः । यापितो गमितः निर्वाहित इत्य् अर्थः । उपमानाद् एवेति ⟨उपमेयाद् एव क्⟩ आकारसादृश्येन पलाशं प्रति दीयमानाद् आर्द्रनखक्षतम् इत्य् अस्मात् । तद्विशेषणोपादानम् इति रमणदत्तम् इत्य् आर्द्रनखक्षतविशेषणोपादानं मदयापितलज्जयेति प्रमदाविशेषणोपादानं चेत्य् अर्थः । यत इति नखक्षतम् इवेत्य् उपमोपकृतात् सुरभिवनमालादीनां पुंस्त्वस्त्रीत्वनिर्देशाद् इत्य् अर्थः । स्त्रीपुंसत्वानुमितिर् इति प्रथमविमर्शोक्तप्रकारेण व्यक्तेर् अनुमितिरूपत्वेनोपपादितत्वात् । ऐन्द्रं धनुर् इति अत्यन्तेति आभोगीति चोदाहरणत्रयं वैधर्म्यक्रमेणोक्तम् । उपपन्नक्रमस्या(स्य?) सद्भावात् । नायकत्वप्रतिनायकत्वे इति । अनुमीयते इति शेषः । एवम् अङ्गनेव मणिस्तम्भाव् इति अनुमीयत इति शेषः । [76] भोगी वासुकेः स एव नेत्रम् आकर्षणरज्जुस् तस्य आ समन्ताद् यत् परिवर्तनरूपो विशेषेण भ्रमो भ्रमणं, तेन मन्दरस्य मूर्त्तिः नितम्बे मध्यभागे वलनं परिवर्त्तनं तेनाकुला जाता । तथा आभोगि विस्तारवत् यन् नेत्रं नयनं तस्य परिवर्तनं कटाक्षीकरणं स एव विभ्रमो विलासः । मूर्त्त्या समारोपितनायिकाव्यवहारया । उत्कलिकास् तरङ्गा रुहिरुहिकाश् च हृदयं मध्यदेशाश् चित्तं च । आरोहार्थ इति आरोढुम् इति पूर्वश्लोकभागगतः । हृदयार्थश् चेति । हृदयम् अम्बुनिधेर् इत्य् अत्र स्थितिः । तयोर् इति आरोहो जीवव्यापारविशेषः । हृदयं जीवकायैकदेशविशेषः । अलङ्कारान्तरत्वम् इति सादृश्याल् लक्षणा वक्रोक्तिर् इत्यादिप्रकारेण । लाक्षणिकहृदयादिशब्दप्रयोगे स्वशब्दं विनाप्य् अर्थान्तरं प्रतीयत इत्य् आह यदर्थेति । यत्रोपमेये ऽम्बुनिधिप्रभृतौ । यदर्थैकाश्रयो नायकादिरूपोपमानविषयो धर्मो हृदयादिर् आरोपितो लक्षणया भवेत्, तयोर् नायकादेर् उपमानस्याम्बुनिध्यादेश् चोपमेयस्योपमानोपमेयभावः शाब्दो नेष्यते । गम्यमानस् त्व् इष्ट एवेत्य् अर्थः । अत्रैव अपरागेत्यादिना शाब्दत्वे दोषोदाहरणम् आह । मूलान्य् अमात्यादिप्रकृतिवर्गः वृक्षावबन्धनानि च उन्मूलयितुं सुकर इति योजना । तद् धीति उपमानोपमेयत्वम् । रूपकं यथेति । "तस्योपमा रूपकं वा" इत्य् अनुसंधत्ते । अनुरागो लौहित्यम् अपि । अपिशब्दः सुखादिपदनिकटे योजनीयः । वसुशब्दस् तेजोधनयोः । अत्र निष्कासनम् उत्कटत्वेन गणिकाधर्मो रूपकस्य साधकः प्रमाणम् । कार्यतश् चेति कार्यम् अत्र निष्कासनम् । तद्विशेषस्य स्त्रीत्वविशेषस्य गणिकारूपस्येति । उभयार्थेति द्व्यर्थपदप्रयोगः "पाण्डुपयोधरेण" इत्यादौ । लिङ्गविशेषः "शरद्" "रवेः" इत्यादौ । गुणवृत्ति पदम् "आरोढुं" "हृदयम्" इत्यादौ । उपमानविशेषो यथा "आर्द्रनखक्षताभम्" इत्यादौ । आक्रोशो गालिदानम् । पर्यायोक्तीति येन राहुस्त्रीस्तनयोः कार्कश्यलक्ष्मीर् वृ [पगे 47] था कृतेत्य् अनेन भङ्ग्यन्तरेण राहोः शिरश्छेदः प्रकाशित इति तत्साधनम् असाधारणं चक्रं प्रतीयत एवेत्य् अर्थः । [77] पदादीति पदादिगतानाम् अक्षराणाम् अनुप्रासो गुम्फभङ्गी दर्शयन् कवीनाम् अत्यन्तवल्लभ इत्य् अर्थः । कलभाषिणीति । अत्र कमलेक्षणे इत्य् अर्थानुगुणः पाठः । अन्यथानुप्रासहेवाकितैव स्यात् । शत्रुर् एव शात्रव इति प्रज्ञादित्वात् स्वार्थे ऽण् । तद्रूपणम् एवेति उपमापेक्षया रूपकस्य गम्यमानौपम्यत्वात् प्रयोगार्हत्वे ऽपि सामर्थ्यावगतरूपत्वाद् यत्राभिधानं पुनर् उक्तं तत्रोपमायां (दैवरक्ताः किंशुकाः?) ⟨पौनरुक्त्ये का शङ्का चोन्ज् (एद्)⟩ इति । [78] इवशब्दस्येति मूर्च्छित इव मूर्च्छयतीत्य् अर्थप्रतीतेः सिद्धत्वात् । विषादिसंपर्काद् धि मोहं प्राप्तः परान् अपि मोहयतीति प्रसिद्धम् । अयं मन्दद्युतिर् इति निदर्शनायां ममेवेत्य् अर्थात् प्रतीतं न पुनर् उपात्तम् । मुमूर्च्छेति प्रससारेत्य् अर्थः । बाधकसद्भावाभाव इति । अनेन यत्रैकस्यैव विशेषणस्योपमानोपमेयसंबन्धबाधकम् अस्ति तत्र पृथक्प्रयोगे ऽपि न दोषः, यथा -
"चकोर्य एव चतुराश् चन्द्रिकाचामकर्मणि ।
आवन्त्य एव निपुणाः सदृशो रतनर्मणि ॥"
इत्यादौ प्रतिवस्तूपमायाम् इत्य् आह । अत्र हीवादिशब्दाभावे सति वाक्यभेदः । प्राकरणित्वाप्राकरणिकत्वाभ्याम् ⟨प्राकरणिकत्व° एम् (ह्द्)⟩ उपमानोपमेयभावप्रतीतौ साधरणधर्मस्य पृथक्प्रयोगम् अन्तरेण वाक्यार्थसङ्गतिर् न भवतीति पृथक् प्रयोगो न दुष्टः । तद्वचनम् इति सहजपदेन स्वाभाविकत्ववचनम् । तुल्यविभक्तीनाम् अर्थात् उपमानोपमेयानाम् । एषा निर्धारणे षष्ठी । एतन्मध्ये एकस्येत्य् अर्थः । पर्यायैर् इति । स्वाभाविकपदादिषु कृतेषु सहजपदादिभिः । समासान्तर(पदा)श्रयणेनेति उमा च मा च (उमामे । तयोः) धवाव् इत्यादि द्वन्द्वपूर्वकतत्पुरुषाश्रयेणेत्य् अर्थः । छायानिहतपदयोर् इति प्रथमं छायाशब्दः द्वितीयश् निहतशब्दः कर्तव्यः स्याद् इति दार्ष्टान्तिकक्रमेणैव दृष्टान्ताव् उक्तौ । अस्त्व् इति छायानिहतशब्दयोः प्रयोगः । उभयोर् अपीति । द्वन्द्वपूर्वकस्य बहुव्रीहेर् बहुव्रीहिपूर्वकस्य वा द्वन्द्वस्येत्य् अर्थः । एतच् च दृष्टान्तगतत्वेनोक्तम् अपि दार्ष्टान्तिकगतत्वेनापि पर्यवसानं नेयम् । दार्ष्टान्तिके हीत्थं योजना । तत्पुरुषपूर्वस्य द्वन्द्वस्य द्वन्द्वपूर्वस्य वा तत्पुरुषस्य लक्षणानुगमः संभवतीति । तदर्थत्वाद् इत्य् उक्तं विधेयाविमर्शविचारे । यावद्भिर् इति पदैर् इत्य् अर्थात् । तत्पुरुषलक्षणाश्रयेणेति प्रकृते द्वन्द्वलक्षणपूर्वकत्वं ज्ञेयम् । एवं न द्वन्द्वलक्षणम् इत्य् अत्र तत्पुरुषलक्षणपूर्वकत्वं बोद्धव्यम् । तस्येति द्वन्द्वस्य । अतज्जातीय इति यत्र तत्पुरुषशङ्का नास्तीति पार्वतीपरमेश्वराव् इत्य् अत्रापि परमेश्वरपदे कर्मधारयाश्रयणदर्शनेन तत्पुरुषपूर्वकत्वं योजनीयम् । अवान्तरचिन्तयेति पौनरुक्त्यप्रस्तावे समासचिन्तयेत्य् अर्थः । अत्र माधवशब्दस्य यौगिकत्वे ऽपि सम्ंज्ञात्वेन न्रूढेर् उमामाधवाव् इति प्रयोगे उमाया माधवस्य च स्पृष्टत्वेन प्रतीतिर् न तु द्वन्द्वपूर्वकतत्पुरुषार्थस्येति द्वन्द्वलक्षणं नातीव हृदयङ्गमम् इत्य् आहुः । [79] रेखा हीति रेखा मर्यादा अवधिः सीमेति पर्यायाः । तत्र हेयपक्षप्रतिक्षेपेण प्रयोगो यथा संसारेति । अत्र संसारसंभवस्य निराकरणम् इति हेयस्य प्रतिक्षेपः । उपादेयपरिग्रहो यथा त्वष्टुर् इति । अत्र संपदः प्रसरो विस्तार इत्य् उपादेयस्य परिग्रहः । इन्दूदयस्येव संनिभा यस्येति अत्र संनिभाशब्दः प्रभापर्यायो व्याख्यातः । यथा तु दाण्डो ग्रन्थस् तथा संनिभशब्दः सदृशपर्यायो ऽस्ति तद् उक्तम् -
"इववद् वायथाशब्दाः समाननिभसंनिभाः ।"
[पगे 48] इति । तदनुसारेणेन्दूदयेन सदृश इन्दूदयसंनिभ इति व्याख्येयम् । तदुक्त्यैवेति अवहितत्वोक्त्येत्य् अर्थः । मूढचेतन इति [80] मूढधिय इति च मोहनाम्नो मूढत्वस्य बुद्धिधर्मत्वात् चेतनधीशब्दयोः पौनरुक्त्यम् । तत्संबन्धात् तदवगतिर् इति चेतनसंबन्धाच् चैतन्यावगतिर् इत्य् अर्थः । कृपामृदुर् इति । कृपा चेतनधर्म इति चैतन्यवाचिपदं न कृतम् । एवं "मूढाः" "मूढः" इत्य् अत्रापि वाच्यम् । उदितवपुषीति पौनरुक्त्यम् एवानुसंधत्ते । (मनःकर्तृकत्वं प्रमोदः?) क्रियाकरणशब्दयोर् इति अत्र गौः शाबलेय इतिवच् छोकक्रियाशब्दयोः सामान्यविशेषभावेन प्रयोगः । ग्रन्थकृतस् तु विशेषस्यैवोपयोगात् सामान्याव्यभिचाराच् च क्रियाशब्दस्य वैयर्थ्यम् करणशब्दस्य क्रियावाचित्वान् निष्फलत्वम् इति शोकशब्द एव कर्त्तव्य इत्य् अभिप्रायः । अनुभवविशेषात्मत्वोपगम इति सौगतप्रक्रिययैतद् उक्तम् । वैशेषिकास् तु जडम् एवात्मगुणम् एकार्थसमवायिना ज्ञानेन ग्राह्यं सुखम् आहुः । तत्प्रक्रियायां कर्तव्यम् एवानुभवग्रहणम् । [81] एकस्येति सागरस्य । इतरस्य चेति उत्तारार्थस्य । तद्रूपतावगतेर् इत्य् उभयत्र वाच्यम् । मदिराद्रवेति । अत्र समाभातीत्य् एकं पदं गणितम् उपसर्गाणां द्योत्यपारतन्त्र्येण पृथक्पदार्हत्वाभावात् । एकादिप्रयोगे सतीति एकस्य प्रयोगाभ्युपगमे ऽन्येषाम् एव तत्त्वम् । तत्राप्य् एकत्वम् अनियतम् । एवं द्वयोस् त्रयाणाम् इत्यादियोजना कार्या, तत्राप्य् अनियतत्वेन प्रकारबहुत्वात् । [82] अविवेकप्रयुक्तम् इति । यद्य् अप्य् अविमृश्यकारित्वस्यैवापत्करणत्वं, तथाप्य् अविवेकस्याविमृश्यकारित्वप्रयोजकत्वात् तस्य कारणत्वे ऽप्य् अविमृश्यकारित्वम् एव कारणम् उक्तं भवति । न हीति यस्मिन् सति "वह्नौ धूम" इत्यादिके प्रतिबन्धका(ल?)भाविन्य् अन्वये सति विशेषणस्य यस्य "असति वह्नौ न धूम" इत्यादिव्यतिरेकस्य गतिः प्रतीतिः, तस्यान्वयस्य स एव व्यतिरेको हेतुर् युक्तः वयवस्थितस्य हेतुहेतुमद्भावस्य वैपरीत्यप्रसङ्गात् । अन्वयप्रतीतिहेतुको हि व्यतिरेकप्रतीत्युपक्रमो न तु विपर्ययः । विशेषणाच् चेति गुणलुब्धा इति साधारणत्वाद् इत्य् अर्थः । [83] सामर्थ्येति । द्विविधं पौनरुक्त्यम् अर्थगतं शब्दगतं चेति । तत्रार्थस्य सामर्थ्यसिद्धत्वे ऽर्थगतं गौणम् आमुखे पौनरुक्त्यानवभासात् । शब्दगतम् आसुखावभासमानत्वाद् मुख्यम् । प्रकृतिप्रत्ययार्थस्येति प्रकृत्यर्थः प्रत्ययार्थः प्रकृतिप्रत्ययसमुदायार्थ इति व्यस्तसमस्तत्वेन योज्यम् । एवं प्रकृतेः प्रत्ययस्य चेत्य् अत्रापि वाच्यम् । अन्यथा प्राङ्निर्दिष्टस्य पञ्चविधस्य पौनरुक्त्यस्यासङ्ग्रहः स्यात् । विहितस्येति । वस्तुवृत्त्या स्थितस्य बहुव्रीहेर् या कर्मधारयशङ्का तया मत्वर्थीयादिः शब्दः कृतो बिसकिसलयच्छेदपाथेयवन्त इत्यादौ । तस्य स्फुटं पौनरुक्त्यं वृत्तिद्वयस्य गौरवात् । यस्मिन्न् इति "जाम्बवपल्लवा(दौ?)नी"त्यादौ यस्मिन् पल्लवशब्द इत्य् अर्थः । (अर्थः) (यत्र + त्यलक्षणो?) यत्तद्धितोत्पत्तिः यस्माद् अण्प्रत्ययाख्यात् तद्धिताद् उत्पत्तिः प्रतीतिविषयत्वापत्तिर् यस्यार्थस्य । तदन्तस् तद्धितप्रत्ययान्तो जाम्बवशब्दादिः । तेनैव पल्लवशब्देन न समसनीयः, जम्बूपल्लवानीति समासेन गतत्वात् तद्धितवैयर्थ्यप्रसङ्गात् । विशेषणवशाद् इति । पिनाकपाण्यादिविशेषणमाहात्म्यात् । विशिष्टम् उत्कर्षापकर्षवन्तं संज्ञिनं हरादिकं यत्रेच्छेत् न तत्र पौनरुक्त्यम् । अन्यथा तु पौनरुक्त्यम् । यथा "पायात् स शीतकिरणा [पगे 49] भरणो भवो व(ः)" इत्यादौ । सकृद् एवेति साम्याभिधायी इवशब्दादिः । "निर्याय विद्ये"त्यादौ । यद्वद् इति दृष्टान्तमुखेन "जनैर् अजातस्खलनैर्" इत्यादि सङ्गृहीतम् । अर्थस्येति "राहुस्त्रीरतनयोर्" इत्यादौ । यद्वशाद् इति "तज्जिगीर्षुर् इवे"त्यादौ । अथवा यत्र कारकविशेषवशात् क्रियायाः प्रतीतिः क्रियाविशेषवशाद् वा कारकस्य, तत्र क्रियाकारकयोः प्रयोगो न कार्य इत्य् अयम् अर्थः । यथा "मा भवन्तम्" इत्यादौ । यो यद्धर्मेति "अपरदिग्गणिके"त्यादौ यो दिग्लक्षणो ऽर्थो यद्धर्मस्य गणिकाधर्मस्य निष्कासनादेर् उपचारेणोपलक्षितः । तथा "अम्बुनिधेर् ममन्थे" इत्यादौ यस्य कामुकस्य संबन्धं यद् हृदयादि ते(त्य?)नान्वितो ऽम्बुधिलक्षणो यश् चार्थः, तस्य तद्रूपणा(द्?) गणिकाकामुकरूपणा(त् न?) शाब्दी । नेष्यते । आर्थी पुनर् इष्यत एव । प्रयुक्तान्तर्गतैर् एवेति "मदिराद्रवे"त्यादौ । कर्तरि इति प्रधानभूते राजादौ कर्तरि । तत्क्रियायां च खड्गेन च्छदक्रियायां रूढायां साधकतमस्य खड्गस्य यानि बहूनि तदपेक्षयाङ्गानि धाराविनिपातादीनि तेषां वाग् वचनं नेष्यते यथा "करकलिते"त्यादौ । एतद् उक्तं भवति । राजादौ कर्त्तरि च्छेदादिक्रियायां यत् साधकतमं खड्गाद्यङ्गं तस्याप्य् अङ्गानां धाराविनिपातादीनां वचनं नेष्यते तेनैवाङ्गेन प्रधानभूतेनावान्तराङ्गानाम् अप्य् आक्षेपाद् । [84] दोषद्वयं "प्रयुक्ते"ति "कर्त्तरि" इति च प्रतिपादितम् । ते इति समासाः । वृत्ताव् इति । समासे वाक्ये वा असाधारणं यत्र विशेषणं तत्र विशेष्यं न वाच्यं यथा "दुःखानुभवे"त्यादौ । यो यदात्मेति बाष्पादेर् जलादिरूपत्वाव्यभिचारात् प्रयोजनाभावे जलादिपदप्रयोगा न कार्य इत्य् अर्थः । यथा "नयने बाष्पवारिणे"त्यादौ । यो यस्येति यो निष्यन्दनादिः यस्य चन्द्रकान्तादेर् धर्मिणो ऽव्यभिचारी धर्मः तयोः समासो न प्रशस्यते, यथा "द्विषद्वधूलोचने"त्यादौ । अन्यथा इति । साधर्म्यार्थ इत्य् अर्थः । क्रियेति क्रियायाः शोकादिलक्षणायाः प्रतीतिः करणप्रतीतिं न व्यभिचरति करणम् एव यतः क्रिया । तदप्रतीतौ करणाप्रतीतौ सैव शोकादिलक्षणा क्रिया न निश्चिता स्याद् एकत्वात् । त्यागक्रियेत्य् अत्रैतद् एव क्रियाशब्दप्रवृत्तिनिमित्तम् । तत् तस्मात् । (त?)(य)द्वशात् शोकादिशब्दप्रयोगवशाद् यस्य करणस्य व्यक्तिः प्रकाशस् तदुक्तौ शाकादिशब्दप्रयोगे तत् करणादि(वत्?) पदं न प्रयुञ्जीतेत्य् अर्थः, यथा "शोकक्रियाकरणस्ये"त्यादौ । प्रयुक्ते चेति प्रकृत्यादिपौनरुक्त्यानां चतुर्णाम् उपसंहारः । अन्योन्येति वाक्यपौनरुक्त्यसंग्रहः । उभयोर् उक्तिर् एकस्य उभयमध्यात् कस्य चित् । पौनरुक्त्यं नातिक्रामति । यथा "सहसा विदधीते"त्यादौ ॥
एवं पौनरुक्त्यं सप्रपञ्चं विचार्य वाच्यावचनं प्रपञ्चयितुम् आह - वाच्यस्यावचनं यथेति । असमासेन निर्देशो वक्ष्यमाणम् एतत्समानन्यायम् अवाच्यस्य वचनम् अपि कटाक्षयितुम् । इदमा परामर्श इति अबाधितप्रत्यक्षनिमित्तत्वाद् भ्रान्तिनिवृत्तेः प्रत्यक्षस्य च विषयमुखेन परामर्शार्हत्वात् । तस्य यत् स्वशब्देन वचनम् इति पूर्वं सत्य् एव सर्वनाम्नि पुनः स्वशब्देन प्रतिपादनं -
"सर्वनामपरामर्शयोग्यस्यार्थस्य यत् पुनः ।
स्वशब्देनाभिधानं सा शब्दस्य पुनरुक्तता" ॥
इति पुनरुक्तम् उक्तम् । इदानीं तु सर्वनामस्थनीयत्वेन स्वशब्देन वचनं वाच्यावचनम् उच्यते । [85] धर्मिधर्मेति धर्मी हरलक्षणो ऽर्थः । धर्मः कपालसंबन्धेन गर्हितत्वम् । उभयं धर्मिधर्मात्म [पगे 50] कम् । विशेषप्रतिपत्तय इति गर्हितत्वम् अत्र विशेषः । तस्येति गर्हितत्वस्य । एवं तस्य विवक्षितेत्य् अत्र ज्ञेयम् । विवक्षितो ऽर्थः शोच्यतालक्षणः । आर्थ इति विशेषणद्वारेण भावात् । वामलोचनात्वम् इति । न चात्र वामलोचनेति विशेष्यपदम् । यतो (ऽपि?) यत्तच्छब्दद्वयोत्थापितवाक्यार्थद्वयसामर्थ्यान् नायिकालक्षणस्य विशेष्यस्य प्रतीतिः । विशेषणम् एवात्र वामलोचनापदम् । तृतीय इति उभयवृत्तित्वाख्यः । न चासाव् इति आवृत्तिः । न चैषाम् इति तेनैव तत्पर्यायेण सर्वनाम्ना चेत्य् एषां प्रकाराणाम् । अल्पदोषत्वाद् इति । तस्येति व्यवहितसंबन्धात् किं चिद् उत्कृष्टत्वम् । तस्य समागमप्रार्थनयेति वाच्यम् । अर्थभेदाद् इति । अयम् अर्थः एकस्यासकृद्वृत्ता (सर्वा?) वावृत्तिः, यथा दरिद्राणां भोजने कांस्यपात्र्याः । तद् उक्तम् - "आवृत्तिर् असकृद्वृत्तिः" इति । न चार्थभेदे शब्दस्यैकत्वं न्याय्यम् अर्थभेदस्य प्रधानभूतस्य गुणभूतं शब्दं प्रति भेदक(त्वम्?) (त्वात्) । तस्माद् अत्र द्वयोः शब्दयोर् वस्तुवृत्तेन यत् सादृश्यं यश् च सादृश्यहेतुकः प्रतिपत्तृऋणाम् एकताभ्रमः, तन्निबन्धनो ऽयं मुख्य एवावृत्तिव्यवहार इति । अतश् चेति । यत आवृत्तिर् न युज्यते, तत इत्य् अर्थः । [86] धर्मिधर्मोभयात्मकम् इति । उभयमये वस्तुनि प्रति(पद्य?)त ⟨प्रतिपत्सितः चोन्ज् (एद्)⟩ इत्य् अर्थः । यत्रान्यस्येत्यादिना । वाच्यावचनोदाहरणप्रसङ्गेन श्लेषं गुणदोषवत्तया विततं विचारयति । अलकालीति । अलकान्य् एवाळिकुलम् अलकसदृशं चालिकुलम् । छदो ऽधरः पत्राणि च । आमोदः प्रहर्षः सौरभं च । कर्णिका कर्णाभरणं बीजकोशश् च । न श्लेषस्येति । ननु श्लेषप्रस्तावे कः प्रसङ्गो ऽब्जस्योपमानचर्चायाम् । नैतत् । अलङ्कारान्तरविविक्तविषयाभावेन सर्वालङ्कारापवादत्वाच् श्लेषस्योपमाप्रतिभोत्पत्तिहेतुः श्लेष एवात्र न्याय्यो नोपमेत्य् अभिप्रायः । अत एव श्लेषे तु तस्य वाच्यतयेत्य् उक्तम् । (निबन्ध इति) निबध्नन्तीति निर्दिष्टः । तत्साम्यं रज्ज्वादिसाम्यम् । न श्लेषस्येति उपमाश्लेषस्येत्य् अर्थः । तेन रज्ज्वादिप्रतिपादकं गुणा इवेति (न) वाच्यम् । ननु विशेषणसाम्यनिबन्धना समासोक्तिर् न च निबध्नन्तीति विशेषणम् इत्य् आह न हि विशेषणसाम्यम् एवेति । एतच् चास्माभिर् हर्षचरितवार्तिके निर्णीतम् इति तत एवावधार्यम् । पृथक् तम् उपादायेति तच्छब्देन शशी परामृष्टः । स ह्य् आर्थ एवेति उपमानोपमेयभावः । श्लेषविषये इति । अत्र तिस्रः कक्ष्याः । राजशब्दस्योभयार्थत्वाच् श्लेषः । तदनाश्रयणेनेन्दुना रूपणं तत्पृष्ठे चेन्दुर् इवेत्य् उपमा । ननु राजेन्दुर् इत्य् अत्र तूपमारूपकयोर् एकपरिग्रहे साधकबाधकाभावात् सङ्करो न्याय्यः, न नियमेन रूपकम् । तत् कथम् उक्तं "रूपकम् आसूत्रितम्" इति । उच्यते । प्रक्रम्यमाणोपमाभिप्रायात् पौनरुक्त्यभयेन रूपकम् आश्रितम् । उपमाया अभावे तु सङ्कर एवात्र युक्तः । यद् वोपमापेक्षया रूपकस्यात्र समासे स्फुटत्वेन प्रतीते रूपकं संश्रितम् । अनेनैव ह्य् अभिप्रायेण वक्ष्यति "रूपकस्य विषये उपमाया यथे"ति । ताभ्यां स्पर्धितुम् इति । (रूपकं?) श्लेषरूपकाभ्याम् । तयोर् यथापूर्वम् इति । उपमापेक्षया रूपकस्य रूपकापेक्षया श्लेषस्येत्य् अर्थः ॥
[पगे 51] [87] नन्व् एवं सतीति । अस्य दोषस्यातिप्रसङ्गं ब्रूते । ताप आतपो ऽपि । फलं शाल्यादिकम् अपि । सुमनसः पुष्पाण्य् अपि । खलता दुर्जनत्वं, धान्यादिक्षोदनस्थानं च । असती दूषणीया अशोभना च । यदलङ्कारेति । खलताम् इत्यादाव् उपमोत्थापिते श्लेषे नोपमा श्लेषं बाधते । तस्य विविक्तविषय्त्वाभावात् । श्लेषस् तु ताम् बाधते इति युक्तम् । अस्य न्यायस्यालङ्कारान्तरे ऽपि भावाद् व्याप्तिगर्भम् उक्तं यद् अलङ्कारेति । निबन्धनान्तराभावे इति । सति समासोक्त्यादिनिबन्धने पूर्ववत् श्लेषोत्तापितोपमा न कर्तव्या स्यात् । न चात्रानिराकृतेत्यादिविशेषणसाम्यात् समासोक्तिर् इति वाच्यम् । विशेषणानां नियतोपमानगामित्वाप्रतीतेः । (अत्र?) विषयताशङ्कैवेति उपमाविषयत्वसंभावनेत्य् अर्थः । क्व चित् तु तद[तद्व्]इषयतेति पाठः । तत्र श्लेषविषयत्वम् उपमाविषयत्वं च युगपन् न शङ्कनीयं तयोर् उत्सर्गापवा(दे?)(दभावे) न व्यवस्थितेर् इत्य् अर्थः । उक्तदोषद्वयेति । उक्तं यच् श्लेषविषये दोषद्वयं - यत्र समासोक्तिविषये श्लेषः कृतः श्लेषविषये चोपमेति, तस्यात्र संबन्धाभावाद् इत्य् अर्थः । यदलङ्कारेति । श्लेषोपमादीनाम् अलङ्काराणाम् अभिव्यक्त्यर्थं ये शब्दा अब्जम् इवेत्यादयः तेभ्यो ऽलङ्कारेभ्य इतरः समासोक्तिश्लेषादिः तैर् एव शब्दैः अल्पतरैर् अब्जम् इवेत्यादिरहितैर् यदि व्यज्येत तदासौ समासोक्तिश्लेषादिर् लघुत्वाद् ग्राह्यो, नापरः श्लेषोपमादिर् इत्य् अर्थः । ननु शोभातिशयहेतुत्वम् अलङ्कारान्तराणां लक्षणम् । तद् विशेष्यते । तत् कथम् इदम् उक्तम् इत्य् आह - न ह्य् अस्तीति । शोभातिशयजनने निजे व्यापारे नास्त्य् अलङ्काराणां विशेषः । ततश् चैको गृह्यते ऽपरस् त्यज्यत इति न युक्तम् । गुरुलघुत्वम् आश्रित्य पुनर् युज्यत एतन् नान्यथेति तात्पर्यम् । वाच्यातिशयापेक्षया चैतद् उक्तम् प्रतीयमानत्वापेक्षया तु समनन्तरं विशेषो वक्ष्यते । किं चेत्यादिना काव्यक्रियायां सौन्दर्यनिष्पत्तेः प्रयोजकत्वम् अलङ्कारनिष्पत्तेश् च (अनुनिष्पादितं यथा वक्ता वेदनाचामयोः?) इत्य् आह । समासोक्तिश्लेषभङ्गिभ्याम् एवेति । समासोक्त्या तु "(अल)काली"त्यादौ । श्लेषेण "भैरवाचार्य" इत्यादौ । नोपमेयेति । अलकालीत्यादाव् उपमा श्लेषोपमा । भैरवाचार्य इत्यादौ उपमैवोपमा । "अत्र समासोक्तिश्लेषभङ्गिभ्याम् एव" इत्य् एतद्ग्रन्थानुसारेण "रूपकस्य विषये उपमाया यथे"त्यादिग्रन्थः प्रक्षिप्त इव लक्ष्यते । रूपकस्येहानुपसंहाराद्, "उक्तदोषद्वययोगानुपपत्तेः" ⟨°योगासिद्धेः चोन्ज् (एद्)⟩ इत्य् अस्य च पूर्वोक्तग्रन्थस्यात्र पक्षे (आनत्वात्?) ⟨न्यूनत्वात् चोन्ज् (एद्)⟩ अतश् चैवायं क्व चिद् आदर्शे न पठ्यते । अप्रक्षेपे तु (त्रिरूपक?)ग्रहणम् इह कर्त्व्यं स्यात् । तस्मात् स वा ग्रन्थो निवार्य इह वा रूपकग्रहणं प्रक्षेप्यम् । "उक्तदोषद्वये"ति च प्रकृतौचित्येन व्याख्यातम् । ते हि तत्सिद्धीति । रसबन्धसिद्धाव् अलङ्कारा अवश्यं सिध्यन्तीत्य् अर्थः । निष्पादकत्वम् इहान्मापकत्वम् । अत एव भरते "रसनिष्पत्तिर्" इत्य् अत्र रसानुमितिर् इति व्याख्येयम् । तद्वैचित्र्यं (विभावादिवैचित्र्यम् ।) तदाश्रयाः परंपरया रसाश्रया रसज्ञप्तिहेतव इत्य् अर्थः । तेनैषाम् इति । कवेर् अर्थगतं चारुत्वं तात्पर्येण संपाद्यं, नालङ्कारोपनिबन्धः अलङ्काराणां तन्नान्तरीयकत्वेनाप्राधा [पगे 52] न्यात् । अतश् चारुत्वं यथा निष्पद्यते तथा तेषाम् उपनिबन्धः कार्यः । तत्प्रयोजनाच् चाधानोद्धरणादय इत्य् अर्थः । नान्वहाधानोद्धरणादय इत्य् उक्त्या अलङ्काराणां परस्परं चारुत्वनिष्पादने विशेषः प्रतिपादितः । पूर्वं च "न ह्य् अस्ति निजे" इत्यादिना विशेषाभाव उक्तः । तत् कथं न विरोधः । नैतत् । पूर्वम् अववधानेन चारुत्वनिष्पादनं मनसिकृत्य विशेषाभावः प्रतिपादितः । इह तु विभावाद्युपकरणत्वेन गुरुलघुत्वादिना विशेष उक्त इत्य् अपेक्षाभेदा[न् न] विरोधः कश् चित् ।
[88] कैश् चिद् इति वामनप्रभृतिभिः । अधुना यत् प्रतिज्ञामात्रेण प्रतिपादितं यथा "शब्दस्य शक्त्यन्तराभावाद् व्यञ्जकत्वं न संभवति" इति तद्वाच्यावचनोदाहरणत्वोपयोगि श्लेषप्रसङ्गेनोपपादयितुम् आसूत्रयति - स चायम् इति । यस् समासोक्तिविषये कृतो यस्य च विषये उपमा कृता स इत्य् अर्थः । द्विविध इति वक्ष्यमाणस्योभयश्लेष्यैवात्रान्तर्भावः ⟨उभयश्लेषस्यात्रैवान्तर्भावः चोन्ज् (एद्)⟩ । आभ्याम् एव समुच्चिताभ्यां तस्योत्थापनात् । यत्रान्यूनेति यत्र विशेष्यस्य विशेषणं न न्यूनीभवति नाप्य् अतिरिच्यते, तत्र श्लेषः । मात्रग्रहणं लिङ्गवचनानां भेदाद् उभयसंबन्धसहिष्णुशब्दतापरिग्रहार्थम् । कर्तृकर्मेति । कर्तृकर्मरूपः आदिग्रहणात् क्रियारूपो यत्र प्रधानभूतो ऽर्थः श्लेषेण स्वरूपहानिं नीयते, न तत्र श्लेषो निरवद्य इत्य् अर्थः । तस्य च धर्मप्रतिपादकशब्दविषयत्वेन धर्मिप्रतिपादकशब्दविषयत्वेन च द्वैविध्यम् । उभयप्रतिपादकशब्दविषयत्वं तु दूषयिष्यते । अपरस् त्व् इति । अर्थश्लेषः । उभयत्रापि शब्दश्लेषे ऽर्थश्लेषे च । यावद् इवादि निबन्धनं नाश्रितं तावद् अर्थान्तरम् अप्रमाणकम् एवेति श्लेषाभिव्यक्त्यर्थं निबन्धनम् आश्रयणीयम् । अत्रान्तरे इति फुल्लमल्लिकाभिर् धवला ये ऽट्टास् त्रिपुरचतुष्पुरमहाप्रकारा आपणा वा तैर् विकासो हासो यस्य तद्वच् च धवलाट्टहासो यस्य । कुसुमसमययुगं मासद्वयं रम्यत्वेन तत्सदृश च युगं कृतादिम् उपसंहरन् अजृम्भत विकसितवान् व्यक्ताननश् चाभूद् महाकालो दीर्घसमयः संहर्तृदेवताविशेषश् च । समासोक्तीति । महाकाल इत्य् अत्र महासमय इत्य् अश्लिष्टे विशेष्यपदे प्रयुक्ते विशेषणसाम्याद् एव देवताविशेषप्रतीतेः समासोक्तिर् भवन्ती महाकालशब्दस्यावृत्तौ प्रमाणम् । न चात्र महाकालशब्दे प्रयुक्ते प्रयासः कश् चित् । येन "अलकालिकुले"तिवत् समासोक्त्या श्लेषस्य वैयर्थ्यं शङ्क्येत । आच्छादितेति । पर्वतपक्षे आच्छादितं वैपुल्याद् दिशश् चाम्बरम् आकाशं च येन, उच्चकैर् उच्यतां गां भूमिं चाक्रम्य वर्तमानं, महारोहपरिणाहानि शृङ्गाणि शिखराणि यस्य, तदौचित्याच् च शिरसि स्फुरच् चन्द्रलेखम्, एवंविधं नगेशं पर्वतराजं दृष्ट्वा को न विस्मितो भवतीत्य् अर्थः । हरपक्षे तु आच्छादितं परिधानीकृत दिश एव (अस्य नव?) वस्त्रं येन, तथा उ[क्]तं स्थूलविषाण च वृषभम् अधिरुह्य स्थितं, मस्तके चन्द्रकलान्वितं च नगेश कैलासाधिपतिं साक्षात्कृत्य अनुगृहीतम्मन्यत्वेन को न विस्मयत इत्य् अर्थः । [89] श्वेतो धावतीतिवद् इति शब्दतन्त्रम् । प्रदीपवद् इति पुनर् अर्थतन्त्रम् । यथायोगम् इति तुल्यप्रधानत्वेन साधारण्यं तन्त्रम् । अतुल्यप्रधानत्वेन तु प्रसङ्गः । तयोः प्रतिपत्तिर् इति । किं चित् खलु वस्तुशक्त्यैव कार्यकारि यथा दीपादि । किं चित् तु परामर्शापेक्षं यथा धूमादि लिङ्गम् । यत्र यस्मिन् विषये परामर्शनैरपेक्ष्येण वस्तुशक्त्यैवोभयकारित्वं तत्र तन्त्रादि नान्यत्र । शब्दः परामर्शापेक्षो ऽर्थप्रतीतिकारी । परामर्शो न निर्निबन्धन इति नात्र तन्त्रादिप्रवृत्तिः । अहार्यः पर्वतः । सहकारिता सह करणशीलत्व सहकारसंबन्धश् च । अनवमा उत्कृष्टाः । नवः प्रत्यग्रः । माधवो वसन्तः । रम्यतातिरेकेति सहकारसंबन्धरूप इत्य् अर्थः । तस्य वाच्यस्येति । तच्छब्देन निबन्धनं परामृष्टम् ।
[पगे 53] समयस्मृतिः सङ्केतस्मरणम् । असिद्धम् एकत्वम् इति । ततश् च नायं तन्त्रादेर् विषयः । तत्त्वम् एकत्वम् । अव्ययानव्ययात्मकम् इति । अव्ययम् इवादि । अनव्ययं सदृशादि । धर्मार्थस्येति । श्लेषाद् अभिन्नत्वम् इति योज्यम् । प्रकटेति । कुलयश् चटकाः तद् उक्तम् - "कुलिः कुलिङ्गश् चटकः" इति । ते च ते शकुन्ताः शकुनयः तेषां चक्रेण समूहेन भास्वतीनां वलभीनां हिताः अनुरूपा मत्तवारणाः अङ्कः चिह्नं यस्याः । निशान्तो ऽन्तःपुरम् । विडम्बयन्ती उअपहसन्ती । समरभूपक्षे कुलिशं वज्रं । कुन्ताः प्रासाः । चक्राणि अरीणि । तैर् भास्वद्भिः । व्यतिरेको विडम्बयन्तीति प्रकाशितः । प्रकटेत्यादौ च विशेषणभागे ऽत्र श्लेषः । उषसीति । अन्धकार एव मलिनत्वात् पङ्कः । तस्य विगलितस्य (प्लवम् अवस्थानं?) ⟨प्लवो ऽनवस्थानम् चोन्ज् (एद्)⟩ तेन शबलं विचित्रम् । घनवर्त्म वियत् । दूरम् अत्यर्थम् । मधुरः सुकुमारो यस् तरणितापो रविप्रभा तद्योगेन तारं हृद्यम् । मधुपायिनो भ्रमरास् तेषां पङ्क्तिः । अन्धकारपङ्कप्लव एव विगलनेन निस्सारत्वाच् छवः तस्य लङ्घनेन वर्त्मसु (पक्षेषु) ⟨पक्ष्मसु चोन्ज् (एद्)⟩ दूरमा अरमणीयश्रीः । मधुरता मकरन्दासक्ता तथा रणिता सशब्दा, यद् वा मधुरतेन मकरन्दासङ्गेन रणितं गुञ्जितं यस्याः । पयोगता जलगता । अरम् अत्यर्थम् । अत्र घनवर्त्मशब्दस्योपमेयवाचिनः श्लेषे ऽन्तर्भावात् धर्मिधर्मोभयार्थस्योदाहरणत्वे न्याय्ये धर्मार्थस्योदाहरणत्वं चिन्त्यम् । [90] अनवरतेति । अनवरतं नयनसलिलेन सिच्यमानो वृद्धिं नीयमानः । तथा अनवरतं नयनं प्रापणं यस्य तेन सलिलेन सिच्यमान आर्द्रत्वं प्राप्यमाणः । विपदो लवः सूक्ष्मभागो विपल्लवो विगतकिसलयश् च । प्ररोहति विस्तीर्णीभवति अङ्कुरांश् च मुञ्चति (धर्मांश् च मुञ्चति?) धर्मार्थत्वम् इति । (किल?) अत्र स्थितम् अपि धर्मार्थत्वं नोपमानविशेषणत्वायालं विशेषणत्वस्य कक्ष्यान्तरभावित्वात् । न चावृत्तिम् अन्तरेण कक्ष्यान्तरपरिग्रहो न्याय्यः । न चात्रावृत्तिः कार्या । प्रमाणाभावात् । अनावृत्तौ तु तस्याम् एव कक्ष्यायां विशेषणत्वे उपमेयस्वरूपापहारप्रसङ्ग इति पदार्थः । तस्योपमेयेति तच्छब्देन विपल्लवशब्दः परामृष्टः । यः पुनर् इति श्लेषप्रयोजकः शब्दः । अप्रधानं विशेषणभूतम् । प्रधानस्य हि पूर्वोक्तन्यायेनावृत्तिर् न्याय्या । निबन्धनम् इवादि । सानुपर्वतस्य मा(ल)भूभागः । अङ्कोल्लाख्यास् तरवः तेषां पल्लवा भास्वन्तो यत्र । अङ्कोल्लशब्दः प्राकृतभाषापदम् अपि कविभिर् अतिप्रसिद्ध्या श्लेषादिषु प्रयुज्यते । तथा च "सकुशाङ्कोल्लपल्लवा । मैथिलीव श्रियं धत्ते" इति परिमलेन प्रयुतम् । संस्कृते पुनर् अङ्कोठशब्दः स्थितः । तथा भास्वान् अङ्के उल्लपन् मुखरः लवाख्यः पुत्रो यत्रेति सामान्येनान्यपदार्थो गृह्यते । इहेति विपल्लवशब्दे । इवाद्यव्ययम् इति । तरुर् इवेति प्रयुक्तस्येवशब्दस्यान्यथा व्यवस्थापयिष्यमाणत्वात् । अलङ्कारान्तरं समासोक्त्यादि । प्रधानार्थसंस्पर्शमात्राद् इति । यतः तेन पदेन संभवदप्रधानार्थेनापि प्रधानभूतो ऽर्थः संस्पृष्टः, ततो ऽन्तरसंबन्धासहिष्णुत्वात् द्विरुपादानार्हत्वम् । यत्र च प्रधानाप्रधानोभयार्थस्य द्विरुपादानम् अवश्यं कार्यम्, तत्र दण्डापूपिकया तदेकार्थस्य प्रधानमात्रार्थस्य शब्दस्य द्विरुपादानं न्यायसिद्धम् एव । रुचिर् दीप्तिः अभिलाषश् च रुचिः । अत्र द्वौ रुचिशब्दौ विशेष्यवाचित्वात् प्रधानार्थौ । ननूपमानस्य यदि विशेष्यत्वं नोपमेयविशेषणत्वं तत् कथम् उपमेयसंबन्धिन्य् उपमानस्य विभक्तिः यथा "वागर्थाव् इव संपृक्तौ" इति । नैष दोषः । विशेषणत्वम् अवच्छेदकत्वं तच् चोपमानस्योपमेयं प्रत्य् उपमितिक्रियायां विद्यत एव । अन्यथा तयोः संबन्धाभावाद् अनन्व्यप्र [पगे 54] सङ्गः । स्थिते विशेषणत्वे तस्य न विशेष्यविभक्तेर् हानिः का चित् । यत् पुनर् इहोपमानशब्दस्य विशेष्यवाचित्वम् उक्तं तद् धर्मिताभिप्रायेण । धर्मी ह्य् उपमानम् । न च स्वतन्त्रत्वात् विशेष्यार्थः । अतश् चैवायं "स्त्रीव गच्छति षण्डो ऽयम्" इत्य् उपमेयलिङ्गं न भजते । धर्मवाचि तु विशेषणं विशेष्यलिङ्गम् एव । तद् उक्तम् - "गुणवचनानाम् आश्रयतो लिङ्गवचनानि भवन्ति" इति । तद् एवम् उपमानम् उपमेयविभक्तिं न (न) भजते धर्मित्वं च न जहातीति । खलता दुर्जनत्वम् । खलता आकाशवल्ली । अत्र प्रयुक्त इति । तरुर् इवेत्य् अत्र । वाक्यभेदप्रसङ्गाद् इति "संभवत्य् एकवाक्यत्वे वाक्यभेदश् च नेष्यते" इति वाक्यभेदस्य प्रतिपत्तिगौरववत्त्वाद् धेयत्वम् । अथ समासोक्तीति । अनवरतजलेत्यादेर् विशेषणस्य द्व्यर्थत्वात् । उपमानभूतेति । यत्रोपमानभूतस्य धर्मिणो ऽन्यस्यार्थस्य गम्यमानत्वं तत्र समासोक्तिः, न साक्षाद् उपादान इत्य् अर्थः । क्व चिद् इति । बभ्रवः कपिलाः । एतद् दावाग्नि(विशेषाः ++++?) ⟨विशेषणं सन् नकुल° चोन्ज् (एद्)⟩ लक्षणम् अर्थं प्रतिपादयतीति धर्मिधर्मोभयात्मत्वम् । एवं हरिणा हरिता मृगाश् च । जटा मूलानि केशसंनिवेशाश् च । वल्कलं वृक्षत्वक् तत्कृतं च वासः । कपिलाः पिङ्गला मुनिविशेषा(श् च) । आरोपविषयबहुत्वाद् आरोप्यमानानाम् अपि बहुत्वम् ।
[91] केसरिणं बकुलपुष्पवन्तं सिंहं च । वसन्तं माधवं निवसन्तं च । अभिमानो धाराधिरूढो मानो महाप्रमाणश् च । दुर्वारणो ऽशक्यवारणो दुष्टश् च करी । मत्तो मत्सकाशात् समदश् च । अभिमान इति न तथा हृदयङ्गमः पाठः । अन्योन्यम् इति वसन्तम् इत्य् अस्य केसरिणम् इति विशेषणं, सिंहपक्षे च केसरिणम् इत्य् अस्य वसन्तम् इति । रूप्येति यः केसरी प्रतीतः स वसन्तस्य रूपकत्वेन न ताटस्थ्येन । एवं वसन्तम् इत्य् अस्य निवसनार्थयोगे ऽपि वसन्तार्थः केसरिणो रूपकत्वेन योजनीयः । इत्थम् एव दुर्वारणाभिमानयोर् वाच्यम् । विशेष्यत्वेन रूप्यत्वेन च स्वतन्त्रत्वं, तद्विपर्ययेण परतन्त्रत्वम् । विशेष्याद्यात्मकेति । आदिग्रहणेन रूप्यरूपकभावो गृह्यते । तिलकस् तरुविशेषस् तिलकश् च विशेषकः । तदभिव्यक्तिर् उभयार्थाभिव्यक्तिः । तयोर् उभयोर् अर्थयोः । गुणवन्तो रज्जुयुक्ता अपि घटकाः सङ्घटयितारो ह्रस्वाश् च घटाः । पार्थिवा राजानः, न तु वक्ष्यमाणयुक्त्या पृथिवीविकारा व्याख्येयाः गुणवत्त्वघटकत्वयोर् इति । यद्य् अप्य् अत्र समीहितसिद्धौ हेतुत्वेन व्यवस्थितस्य घट(का) इत्य् अस्य पार्थिवा इति प्रति विशेषणत्वं, तथापि कूप इवेत्य् उपमासामर्थ्याद् विशेष्यत्वम् अपि घटते ॥
मूल पाठ: Vyaktivivekavyākhyā, 2 · Edition: T. Gaṇapati Śāstrī, Trivandrum, 1909 (TSS 5), pp. 15-54. · Data entry Hugo David · GRETIL (Göttingen) · CC BY-NC-SA 4.0