व्याकरणमहाभाष्य · भाग 841860
(प्_6,1.66.2) क_इइइ,44.8-45.2 रो_इव्,374-375 {28।30} आस्रेमाणम् , जीरदानुः इति छान्दसात् वर्णलोपात् सिद्धम् .
(प्_6,1.66.2) क_इइइ,44.8-45.2 रो_इव्,374-375 {29।30} यथा संस्फानः गयस्फानः .
(प्_6,1.66.2) क_इइइ,44.8-45.2 रो_इव्,374-375 {30।30} तत् यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {1।26} दर्विजागृव्योः प्रतिषेधः वक्तव्यः : दर्विः , जागृविः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {2।26} किम् उच्यते दर्विजागृव्योः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति उच्यति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {3।26} भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {4।26} तत् वा कर्तव्यम् दर्विजागृव्योः वा प्रतिषेधः वक्तव्यः . वेः लोपे दर्विजागृव्योः अप्रतिषेधः अनुनासिकपरत्वात् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {5।26} वेः लोपे दर्विजागृव्योः अप्रतिषेधः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {6।26} अनर्थकः प्रतिषेधः अप्रतिषेधः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {7।26} लोपः कस्मात् न भवति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {8।26} अनुनासिकपरत्वात् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {9।26} अनुनासिकपरस्य विशब्दस्य ग्रहणम् न च अत्र अनुनासिकपरः विशब्दः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {10।26} शुद्धपरः च अत्र विशब्दः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {11।26} यदि अनुनासिकपरस्य विशब्दस्य ग्रहणम् इति उच्यते घृतस्पृक्, दलस्पृक् , अत्र न प्राप्नोति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {12।26} न हि एतस्मात् विशब्दात् अनुनासिकम् परम् पश्यामः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {13।26} अनुनासिकपरत्वात् इति न एवम् विज्ञायते .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {14।26} अनुनासिकः परः अस्मात् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {15।26} कथम् तर्हि .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {16।26} अनुनासिकः परः अस्मिन् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {17।26} एवम् अपि प्रियदर्वि , अत्र प्राप्नोति .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {18।26} असिद्धः अत्र अनुनासिकः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {19।26} एवम् अपि धात्वन्तस्य प्रतिषेधः वक्तव्यः .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {20।26} इवि दिवि धिवि .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {21।26} धात्वन्तस्य च अर्थवद्ग्रहणात् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {22।26} अर्थवतः विशब्दस्य ग्रहणम् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {23।26} न धात्वन्तः अर्थवान् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {24।26} वस्य वा अनुनासिकत्वात् सिद्धम् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {25।26} अथ वा वकारस्य एव इदम् अनुनासिकस्य ग्रहणम् .
(प्_6,1.67) क_इइइ,45.4-20 रो_इव्,375-376 {26।26} सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {1।55} यदि पुनः अयम् अपृक्तलोपः संयोगान्तलोपः विज्ञायेत .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {2।55} किम् कृतम् भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {3।55} द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् न कर्तव्यम् भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {4।55} हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः यथा पचन् इति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {5।55} हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {6।55} राजा तक्षा .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {7।55} संयोगान्तलोपस्य असिद्धत्वात् नलोपः न प्राप्नोति यथा पचन् इति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {8।55} तत् यथा पचन्, यजन् इति अत्र संयोगान्तलोपस्य असिद्धत्वात् नलोपः न भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {9।55} न एषः दोषः .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {10।55} आचार्यप्रवृत्तिः ज्ञापयति सिद्धः संयोगान्तलोपः नलोपे इति यत् अयम् न ङिसम्बुद्ध्योः इति सम्बुद्धौ प्रतिषेधम् शास्ति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {11।55} इह अपि तर्हि प्राप्नोति पचन्, यजन् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {12।55} तुल्यजातीयस्य ज्ञापकम् भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {13।55} कः च तुल्यजातीयः .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {14।55} यः सम्बुद्धौ अनन्तरः .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {15।55} वस्वादिषु दत्वम् संयोगादिलोपबलीयस्त्वात् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {16।55} वस्वादिषु दत्वम् न सिध्यति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {17।55} उखास्रत् , पर्णद्व्हत् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {18।55} किम् कारणम् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {19।55} संयोगादिलोपबलीयस्त्वात् . संयोगान्तलोपात् संयोगादिलोपः बलीयान् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {20।55} यथा कूटतट् इति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {21।55} तत् यथा कूटतट् , काष्ठतट् इति अत्र संयोगान्तलोपात् संयोगादिलोपः बलीयान् भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {22।55} ननु च दत्वे कृते न भविष्यति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {23।55} असिद्धम् दत्वम् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {24।55} तस्य असिद्धत्वात् प्राप्नोति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {25।55} सिद्धकाण्डे पठितम् वस्वादिषु दत्वम् सौ दीर्घत्वे इति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {26।55} तत्र सौ दीर्घत्वग्रहणम् न करिष्यते .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {27।55} वस्वादिषु दत्वम् इति एव .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {28।55} एवम् अपि अपदान्तत्वात् न प्राप्नोति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {29।55} अथ सौ अपि पदम् भवति राजा तक्षा नलोपे कृते विभक्तेः श्रवणम् प्राप्नोति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {30।55} सा एषा उभयतस्पाशा रज्जुः भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {31।55} रात्तलोपः नियमवचनात् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {32।55} रात् तस्य लोपः वक्तव्यः .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {33।55} अबिभः भवान् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {34।55} अजागः भवान् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {35।55} किम् पुनः कारणम् न सिध्यति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {36।55} नियमवचनात् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {37।55} रात् सस्य इति एतस्मात् नियमात् न प्राप्नोति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {38।55} न एषः दोषः .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {39।55} रात् सस्य इति अत्र तकारः अपि निर्दिश्यते .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {40।55} यदि एवम् कीर्तयतेः अप्रत्ययः कीः इति प्राप्नोति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {41।55} कीर्त् इति च इष्यते .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {42।55} यथालक्षणम् अप्रयुक्ते .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {43।55} रोः उत्त्वम् च .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {44।55} रोः उत्त्वम् च वक्तव्यम् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {45।55} अभिनः अत्र, अच्छिनः अत्र .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {46।55} संयोगान्तलोपस्य असिद्धत्वात् अतः अति इति उत्त्र्वम् न प्राप्नोति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {47।55} न वा संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {48।55} न वा वक्तव्यम् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {49।55} किम् कारणम् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {50।55} संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {51।55} संयोगान्तलोपः उत्त्वे सिद्धः भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {52।55} यथा हरिवः मेदिनम् इति . तत् यथा हरिवः मेदिनम् त्वा इति अत्र संयोगान्तलोपः उत्त्वे सिद्धः भवति .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {53।55} सः एव दर्हि दोषः सा एषा उभयतस्पाशा .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {54।55} तस्मात् अशक्यः अपृक्तलोपः संयोगान्तलोपः विज्ञातुम् .
(प्_6,1.68) क_इइइ,46.2-47.12 रो_इव्,377-380 {55।55} न चेत् विज्ञायते द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् कर्तव्यम् एव .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {1।66} सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {2।66} सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {3।66} हे कतरत्, हे कतमत् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {4।66} किम् उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {5।66} अपृक्ताधिकारस्य निवृत्तत्वात् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {6।66} निवृत्तः अपृक्ताधिकारः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {7।66} किम् डतरादिभ्यः प्रतिषेधम् वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {8।66} न इति आह .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {9।66} तत् च अमर्थम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {10।66} सः च अवश्यम् अपृक्ताधिकारः निवर्त्यः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {11।66} किमर्थम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {12।66} अमर्थम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {13।66} अमः लोपः यथा स्यात् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {14।66} हे कुण्ड , हे पीठ .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {15।66} निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {16।66} न हि लोपः सर्वापहारी .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {17।66} मा भूत् सर्वस्य लोपः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {18।66} अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् हे कुण्ड , हे पीठ इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {19।66} यदि एतत् लभ्येत कृतम् स्यात् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {20।66} तत् तु न लभ्यते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {21।66} किम् कारणम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {22।66} अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {23।66} अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डाम् , हे पीठाम् इति एतत् रूपम् प्रसज्येत .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {24।66} एवम् तर्हि हलः लोपः सम्बुद्धिलोपः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {25।66} तत् हल्ग्रहणम् कर्तव्यम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {26।66} न कर्तव्यम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {27।66} प्रकृतम् अनुवर्तते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {28।66} क्व प्रकृतम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {29।66} हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {30।66} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {31।66} न एषः दोषः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {32।66} एङ् ह्रस्वात् इति एषा पञ्चमी हल् इति अस्याः प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {33।66} एवम् अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत् रूपम् प्रसज्येत .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {34।66} अमि पूर्वत्वम् अत्र बाधकम् भविष्यति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {35।66} अमि इति उच्यते न च अत्र अमम् पश्यामः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {36।66} एकदेशविकृतम् अनन्यवत् भवति इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {37।66} अथ वा इदम् इह सम्प्रधार्यम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {38।66} सम्बुद्धिलोपः क्रियताम् एकादेशः इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {39।66} किम् अत्र कर्तव्यम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {40।66} परत्वात् एकादेशः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {41।66} एवम् अपि एकादेशे कृते व्यपवर्गाभावात् सम्बुद्धिलोपः न प्राप्नोति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {42।66} अन्तादिवद्भावेन व्यपवर्गः भविष्यति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {43।66} उभयतः आश्रये न अन्तादिवत् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {44।66} न उभयतः आश्रयः करिष्यते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {45।66} कथम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {46।66} न एवम् विज्ञायते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {47।66} ह्रस्वात् उत्तरस्याः सम्बुद्धेः लोपः भवति इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {48।66} कथम् तर्हि .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {49।66} ह्रस्वात् उत्तरस्य हलः लोपः भवति सः चेत् सम्बुद्धेः इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {50।66} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {51।66} न वक्तव्यः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {52।66} उक्तम् वा .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {53।66} किम् उक्तम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {54।66} सिद्धम् अनुनासिकोपधत्वात् इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {55।66} एवम् अपि दलोपः साधीयः प्राप्नोति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {56।66} दुक्करणात् वा .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {57।66} अथ वा दुक् डतरादीनाम् इति वक्ष्यामि .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {58।66} डित्करणात् वा .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {59।66} अथ वा डित् अयम् शब्दः करिष्यते .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {60।66} सः तर्हि डकारः कर्तव्यः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {61।66} न कर्तव्यः .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {62।66} क्रियते न्यासे एव .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {63।66} द्विडकारः निर्देशः अद्ड् डतरादिभ्यः इति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {64।66} एवम् अपि लोपः प्राप्नोति .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {65।66} विहितविशेषणम् ह्रस्वग्रहणम् .
(प्_6,1.69.1) क_इइइ,47.14-48.27 रो_इव्,380-383 {66।66} यस्मात् ह्रस्वात् सम्बुद्धिः विहिता इति .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {1।20} अपृक्तसम्बुद्धिलोपाभ्याम् लुक् .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {2।20} अपृक्तसम्बुद्धिलोपाभ्याम् लुक् भवति विप्रतिषेधेन .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {3।20} अपृक्तलोपस्य अवकाशः गोमान् , यवमान् .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {4।20} लुकः अवकाशः त्रपु, जतु .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {5।20} इह उभयम् प्राप्नोति .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {6।20} तत् ब्राह्मणकुलम् , यत् ब्राह्मणकुलम् .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {7।20} सम्बुद्धिलोपस्य अवकाशः हे अग्ने, हे वायो .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {8।20} लुकः सः एव .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {9।20} इह उभयम् प्राप्नोति .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {10।20} हे त्रपु , हे जतु .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {11।20} लुक् भवति विप्रतिषेधेन .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {12।20} सः तर्हि विप्रतिषेधः वक्तव्यः .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {13।20} न वा लोपलुकोः लुगवधारणात् यथा अनडुह्यते इति .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {14।20} न वा अर्थः विप्रतिषेधेन .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {15।20} किम् कारणम् .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {16।20} लोपलुकोः लुगवधारणात् .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {17।20} लोपलुकोः हि लुक् अवधार्यते .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {18।20} लुक् लोपयणयवायावेकादेशेभ्यः .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {19।20} यथा अनडुह्यते इति .
(प्_6,1.69.2) क_इइइ,49.1-10 रो_इव्,383-384 {20।20} तत् यथा अनड्वान् इव आचरति अनडुह्यते इति अत्र लोपलुकोः लुक् अवधार्यते एवम् इह अपि .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {1।16} अयम् योगः शक्यः अवक्तुम् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {2।16} कथम् अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् इति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {3।16} पूर्वसवर्णेन अपि एतत् सिद्धम् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {4।16} न सिध्यति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {5।16} नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {6।16} छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृह्णाति , महोः तृप्ता इव आसते इति एवमर्थम् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {7।16} तत्र पूंवद्भावेन नुमः निवृत्तिः .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {8।16} नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {9।16} भवेत् सिद्धम् अग्ने त्री ते वजिना त्री षधस्था इति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {10।16} इदम् तु न सिध्यति त ता पिण्डानाम् इति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {11।16} इदम् अपि सिद्धम् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {12।16} कथम् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {13।16} साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिकः भविष्यति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {14।16} एवम् अपि जसि गुणः प्राप्नोति .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {15।16} वक्ष्यति एतत् .
(प्_6,1.70) क_इइइ,49.12-19 रो_इव्,384 {16।16} जसादिषु छन्दोवावचनम् प्राक् णौ चङि उपधायाः इति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {1।55} तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {2।55} तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {3।55} आराशस्त्रि छत्रम् , धानाशष्कुलि छत्रम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {4।55} निष्कौशाम्बि छत्रम् , निर्वाराणसि छत्रम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {5।55} पञ्चारत्नि छत्रम् , दशारत्नि छत्रम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {6।55} तुके कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {7।55} न वा बहिरङ्गलक्षणत्वात् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {8।55} न वा एषः दोषः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {9।55} किम् कारणम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {10।55} बहिरङ्गलक्षणत्वात् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {11।55} बहिरङ्गलक्षणः तुक् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {12।55} अन्तरङ्गाः एते विधयः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {13।55} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {14।55} इदम् तर्हि ग्रामणिपुत्रः , सेनानिपुत्रः इति ह्रस्वत्वे कृते तुक् प्राप्नोति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {15।55} ग्रामणिपुत्रादिषु च अप्राप्तिः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {16।55} ग्रामणिपुत्रादिषु च अप्राप्तिः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {17।55} किम् कारणम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {18।55} बहिरङ्गलक्षणत्वात् एव .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {19।55} अथ वा परादिः करिष्यते .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {20।55} परादौ संयोगादेः इति अतिप्रसङ्गः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {21।55} परादौ संयोगादेः इति अतिप्रसङ्गः भवति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {22।55} अपच्छायात् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {23।55} वा अन्यस्य संयोगादेः इति एत्वम् प्रसज्येत .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {24।55} विलोपवचनम् च .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {25।55} वेः च लोपः वक्तव्यः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {26।55} अग्निचित् , सोमसुत् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {27।55} अपृक्तस्य इति वेः लोपः न प्राप्नोति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {28।55} न एषः दोषः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {29।55} अपृक्तग्रहणम् न करिष्यते .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {30।55} यदि न क्रियते दर्विः , जागृविः , अत्र अपि प्राप्नोति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {31।55} अनुनासिकपरस्य विशब्दस्य ग्रहणम् शुद्धपरः च अत्र विशब्दः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {32।55} एवम् अपि सतुक्कस्य लोपः प्राप्नोति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {33।55} निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {34।55} इट्प्रतिषेधः च .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {35।55} इट्प्रतिषेधः च वक्तव्यः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {36।55} परीतत् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {37।55} सतुक्कस्य वलादिलक्षणः इट् प्रसज्येत .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {38।55} एवम् तर्हि अभक्तः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {39।55} अभक्ते स्वरः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {40।55} यदि अभक्तः तर्हि स्वरे दोषः भवति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {41।55} दधि छादयति , मधु छादयति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {42।55} तिङ् अतिङः इति निघातः न प्राप्नोति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {43।55} ननु च तुक् एव अतिङ् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {44।55} न तुकः परस्य निघातः प्राप्नोति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {45।55} किम् कारणम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {46।55} नञिवयुक्तम् अन्यसदृशाधिकरणे .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {47।55} तथा हि अर्थगतिः .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {48।55} नञ्युक्ते इवयुक्ते वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {49।55} तथा हि अर्थः गम्यते .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {50।55} तत् यथा .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {51।55} अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् एव आनयति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {52।55} न असौ लोष्टम् आनीय कृती भवति .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {53।55} एवम् इह अपि अतिङ् इति तिङ्प्रतिषेधात् अन्यस्मात् अतिङः तिङ्सदृशात् कार्यम् विज्ञास्यते .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {54।55} किम् च अन्यत् अतिङ् तिङ्सदृशम् .
(प्_6,1.71) क_इइइ,49.21-51.6 रो_इव्,385-386 {55।55} पदम् .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {1।7} अयम् योगः शक्यः अवक्तुम् .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {2।7} कथम् .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {3।7} अधिकरणम् नाम त्रिप्रकारम् व्यापकम् औपश्लेषिकम् वैषयिकम् इति .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {4।7} शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः उपश्लेषात् .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {5।7} इकः यण् अचि .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {6।7} अचि उपश्लिष्टस्य इति .
(प्_6,1.72) क_इइइ,51.8-11 रो_इव्,387-388 {7।7} तत्र अन्तरेण संहिताग्रहणम् संहितायाम् एव भविष्यति .
(प्_6,1.74) क_इइइ,51.13-17 रो_इव्,388 {1।6} अथ किमर्थम् आङ्माङोः सानुबन्धकयोः निर्देशः .
(प्_6,1.74) क_इइइ,51.13-17 रो_इव्,388 {2।6} आङ्माङोः सानुबन्धकनिर्देशः गतिकर्मप्रवचनीयप्रतिषेधसम्प्रत्ययार्थः .
(प्_6,1.74) क_इइइ,51.13-17 रो_इव्,388 {3।6} आङ्माङोः सानुबन्धकयोः निर्देशः क्रियते आङः गतिकर्मप्रवचनीयसम्प्रत्ययार्थः माङः प्रतिषेधसम्प्रत्ययार्थः .
(प्_6,1.74) क_इइइ,51.13-17 रो_इव्,388 {4।6} इह मा भूत् .
(प्_6,1.74) क_इइइ,51.13-17 रो_इव्,388 {5।6} आ छाया, आच् छाया .
(प्_6,1.74) क_इइइ,51.13-17 रो_इव्,388 {6।6} प्रमा छन्दः , प्रमाच् छन्दः .
(प्_6,1.75-76) क_इइइ,51.20-22 रो_इव्,389 {1।4} दीर्घात् पदान्तात् वा विश्वजनादीनाम् छन्दसि .
(प्_6,1.75-76) क_इइइ,51.20-22 रो_इव्,389 {2।4} दीर्घात् पदान्तात् वा इति अत्र विश्वजनादीनाम् छन्दसि उपसङ्ख्यनम् कर्तव्यम् .
(प्_6,1.75-76) क_इइइ,51.20-22 रो_इव्,389 {3।4} विश्वजनस्य छत्रम् , विश्वजनस्य च्छत्रम् .
(प्_6,1.75-76) क_इइइ,51.20-22 रो_इव्,389 {4।4} न छायाम् कुरवः अपराम् , नच् छायाम् कुरवः अपराम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {1।49} इग्ग्रहणम् किमर्थम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {2।49} इह मा भूत् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {3।49} अग्निचित् अत्र , सोमसुत् अत्र .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {4।49} न एतत् अस्ति प्रयोजनम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {5।49} जश्त्वम् अत्र बाधकम् भविष्यति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {6।49} जश्त्वम् न सिद्धम् यणम् अत्र पश्य . असिद्धम् अत्र जश्त्वम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {7।49} तस्य असिद्धत्वात् यणादेशः प्राप्नोति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {8।49} यः च अपदान्तः हल् अचः च पूर्वः .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {9।49} यः च अपदान्तः हल् अचः च पूर्वः तस्य प्राप्नोति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {10।49} पचति इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {11।49} एवम् तर्हि दीर्घस्य यण् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {12।49} दीर्घस्य यण् आदेशम् वक्ष्यामि .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {13।49} तत् दीर्घग्रहणम् कर्तव्यम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {14।49} न कर्तव्यम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {15।49} प्रकृतम् अनुवर्तते .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {16।49} क्व प्रकृतम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {17।49} दीर्घात् पदान्तात् वा इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {18।49} तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {19।49} अचि इति एषा सप्तमी दीर्घात् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {20।49} भवेत् सिद्धम् कुमारी अत्र , ब्रह्मबन्ध्वर्थम् इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {21।49} इदम् तु न सिध्यति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {22।49} दधि अत्र , मधु अत्र इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {23।49} ह्रस्वः इति प्र्तवृत्तम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {24।49} ह्रस्वग्रहणम् अपि प्रकृतम् अनुवर्तते .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {25।49} क्व प्रकृतम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {26।49} ह्रस्व्यस्य पिति कृति तुक् इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {27।49} यदि तत् अनुवर्तते दीर्घात् पदान्तात् वा इति ह्रस्वात् अपि पदान्तात् विकल्पेन प्राप्नोति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {28।49} सम्बन्धवृत्त्या .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {29।49} सम्बन्धम् अनुवर्तिष्यते .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {30।49} ह्रस्व्यस्य पिति कृति तुक् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {31।49} संहितायाम् ह्रस्व्यस्य पिति कृति तुक् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {32।49} छे च ह्रस्व्यस्य पिति कृति तुक् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {33।49} आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {34।49} दीर्घात् पदान्तात् वा ह्रस्व्यस्य पिति कृति तुक् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {35।49} ततः इकः यण् अचि .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {36।49} ह्रस्व्यस्य इति वर्तते .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {37।49} पिति कृति तुक् इति निवृत्तम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {38।49} इह तर्हि प्राप्नोति चयनम् , चायकः , लवणम् , लावकः .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {39।49} अयादयः अत्र बाधकाः भविष्यन्ति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {40।49} इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {41।49} गुणवृद्धिबाध्यः .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {42।49} गुणवृद्धी अत्र बाधिके भविष्यतः .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {43।49} इदम् तर्हि प्रयोजनम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {44।49} इकः अचि यण् एव स्यात् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {45।49} यत् अन्यत् प्राप्नोति तत् मा भूत् इति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {46।49} किम् च अन्यत् प्राप्नोति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {47।49} शाकलम् .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {48।49} सिन्नित्यसमासयोः शाकलप्रतिषेधम् चोदयिष्यति .
(प्_6,1.77.1) क_इइइ,52.2-53.6 रो_इव्,389-391 {49।49} स न वक्तव्यः भवति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {1।39} यणादेशः प्लुतपूर्वस्य च .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {2।39} यणादेशः प्लुतपूर्वस्य च इति वक्तव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {3।39} अग्ना3इ* इन्द्रम् , अग्ना3य् इन्द्रम् , पटा3उ* उदकम् , पटा3व् उदकम् , अग्ना3इ* आशा , अग्ना3य् आशा , पटा3उ* आशा , पटा3व् आशा .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {4।39} किम् पुनः कारणम् न सिध्यति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {5।39} असिद्धः प्लुतः प्लुतविकारौ च इमौ .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {6।39} सिद्धः प्लुतः स्वरसन्धिषु .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {7।39} कथम् ज्ञायते .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {8।39} यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः सिद्धः प्लुतः स्वरसन्धिषु इति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {9।39} कथम् कृत्वा ज्ञापकम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {10।39} सतः हि कार्यिणः कार्येण भवितव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {11।39} इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {12।39} दीर्घत्वम् शाकलम् च मा भूत् इति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {13।39} एतत् अपि न अस्ति प्रयोजनम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {14।39} आरभ्यते प्लुतपूर्वस्य यणादेशः तयोः य्वौ अचि संहितायाम् इति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {15।39} तत् दीर्घशाकलप्रतिषेधार्थम् भविष्यति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {16।39} तत् न वक्तव्यम् भवति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {17।39} ननु च तस्मिन् अपि उच्यमाने इदम् न वक्तव्यम् भवति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {18।39} अवश्यम् इदम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {19।39} भो3इ इन्द्रम् , भो3य् इन्द्रम् , भो3इ इह भो3य् इह इति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {20।39} यद् तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {21।39} तत् न वक्तव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {22।39} तत् अपि अवश्यम् स्वरार्थम् वक्तव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {23।39} अनेन हि सति उदात्तस्वरितयोः यणः इति एषः स्वरः प्रसज्येत .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {24।39} तेन पुनः सति असिद्धत्वात् न भविष्यति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {25।39} यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {26।39} इदम् न वक्तव्यम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {27।39} ननु च उक्तम् इदम् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {28।39} भो3इ इन्द्रम् , भो3य् इन्द्रम् , भो3इ इह भो3य् इह इति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {29।39} छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {30।39} यत् तर्हि न छान्दसम् भो3य् इन्द्रम् , भो3य् इह इति साम गायति .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {31।39} एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः क्रियते .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {32।39} जश्त्वम् न सिद्धम् यणम् अत्र पश्य .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {33।39} यः च अपदान्तः हल् अचः च पूर्वः .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {34।39} दीर्घस्य यण् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {35।39} ह्रस्वः इति प्र्तवृत्तम् .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {36।39} सम्बन्धवृत्त्या .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {37।39} गुणवृद्धिबाध्यः .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {38।39} नित्ये च यः शाकलभाक्समासे तदर्थम् एतद् भगवान् चकार .
(प्_6,1.77.2) क_इइइ,53.7-54.4 रो_इव्,391-393 {39।39} सामर्थ्ययोगात् न हि किम् चित् अस्मिन् पश्यामि शास्त्रे यत् अनर्थकम् स्यात् .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {1।24} वान्तादेशे स्थानिनिर्देशः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {2।24} वान्तादेशे स्थानिनिर्देशः कर्तव्यः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {3।24} ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {4।24} सः तर्हि कर्तव्यः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {5।24} न कर्तव्यः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {6।24} वान्तग्रहणम् न करिष्यते .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {7।24} एचः यि प्रत्यये अयादयः भवन्ति इति एव सिद्धम् .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {8।24} यदि वान्तग्रहणम् न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {9।24} क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {10।24} क्षिज्योः एव इति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {11।24} तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {12।24} क्षेयम् पापम् , जेयः वृषलः इति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {13।24} उभयतः नियमः विज्ञास्यते .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {14।24} क्षिज्योः एव एचः तयोः च शक्यार्थे एव इति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {15।24} इह अपि तर्हि नियमात् न प्राप्नोति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {16।24} लव्यम् , पव्यम् , अवश्यलाव्यम् , अवश्यपाव्यम् .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {17।24} तुल्यजातीयस्य नियमः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {18।24} कः च तुल्यजातीयः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {19।24} यथाजातीयकः क्षिज्योः एच् .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {20।24} कथञ्जातीयकः क्षिज्योः एच् .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {21।24} एकारः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {22।24} एवम् अपि रायम् इच्छति , रैयति , अत्र अपि प्राप्नोति .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {23।24} रायिः छान्दसः .
(प्_6,1.79.1) क_इइइ,54.6-16 रो_इव्,393-394 {24।24} दृष्टानुविधिः छन्दसि भवति .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {1।8} गोः यूतौ छन्दसि .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {2।8} गोः यूतौ छन्दसि उपसङ्ख्यानम् कर्तव्यम् .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {3।8} अ नः मित्रावरुणा घृतैः गव्यूतिम् उक्षतम् .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {4।8} गोयूतिम् इति एव अन्यत्र .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {5।8} अध्वपरिमाणे च .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {6।8} अध्वपरिमाणे च गोः यूतौ उपसङ्ख्यानम् कर्तव्यम् .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {7।8} गव्यूतिम् अध्वानम् गतः .
(प्_6,1.79.2) क_इइइ,54.17-22 रो_इव्, 394 {8।8} गोयूतिम् इति एव अन्यत्र .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {1।13} एवकारः किमर्थः .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {2।13} नियमार्थः .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {3।13} न एतत् प्रयोजनम् .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {4।13} न एतत् अस्ति प्रयोजनम् .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {5।13} सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थङ् भविष्यति .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {6।13} इष्टतः अवधारणार्थः तर्हि .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {7।13} यथा एवम् विज्ञायेत .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {8।13} धातोः तन्निमित्तस्य एव इति .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {9।13} मा एवम् विज्ञायि .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {10।13} धातोः एव तन्निमित्तस्य इति .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {11।13} किम् च स्यात् .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {12।13} अधातोः तन्निमित्तस्य न स्यात् .
(प्_6,1.80) क_इइइ,54.24-55.2 रो_इव्,394 {13।13} शङ्कव्यम् दारु , पिचव्यः कार्पासः इति .
(प्_6,1.82) क_इइइ,55.4-5 रो_इव्,395 {1।5} तत् इति अनेन किम् प्रतिनिर्दिश्यते .
(प्_6,1.82) क_इइइ,55.4-5 रो_इव्,395 {2।5} सः एव क्रीणात्यर्थः .
(प्_6,1.82) क_इइइ,55.4-5 रो_इव्,395 {3।5} इह मा भूत् .
(प्_6,1.82) क_इइइ,55.4-5 रो_इव्,395 {4।5} क्रेयम् नः धान्यम् .
(प्_6,1.82) क_इइइ,55.4-5 रो_इव्,395 {5।5} न च अस्ति क्रय्यम् इति .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {1।14} भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {2।14} भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् कर्तव्यम् .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {3।14} ह्रदय्याः आपः .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {4।14} अव् शरस्य च .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {5।14} शरस्य च ह्रदस्य च अतः अव् वक्तयः .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {6।14} ह्रदव्याः आपः .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {7।14} शरव्याः वै तेजनम् .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {8।14} शरव्यस्य पशून् अभिघातकः स्यात् .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {9।14} शरुवृत्तात् वा सिद्धम् .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {10।14} शरुवृत्तात् वा सिद्धम् पुनः सिद्धम् एतत् .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {11।14} ऋञ्जती शरुः इति अपि दृश्यते .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {12।14} ऋञ्जती शरुः इति अपि शरुशब्दप्रवृत्तिः दृश्यते .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {13।14} शरुहस्तः इति च लोके .
(प्_6,1.83) क_इइइ,55.7-17 रो_इव्,395-396 {14।14} शरुहस्तः इति च लोके शरहस्तम् उपाचरन्ति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {1।51} एकवचनम् किमर्थम् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {2।51} एकवचनम् पृथक् आदेशप्रतिषेधार्थम् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {3।51} एकवचनम् क्रियते एकः आदेशः यथा स्यात् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {4।51} पृथक् आदेशः मा भूत् इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {5।51} न वा द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {6।51} न वा एतत् प्रयोजनम् अस्ति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {7।51} किम् कारणम् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {8।51} द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {9।51} तत् यथा द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {10।51} अनयोः पूलयोः कटम् कुरु .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {11।51} अनयोः मित्पिण्डयोः घटम् कुरु इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {12।51} न च उच्यते एकम् इति एकम् च असौ करोति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {13।51} किम् पुनः कारणम् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {14।51} तत् च एकवाक्यभावात् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {15।51} एकवाक्यभावात् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {16।51} आतः च एकवाक्यभावात् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {17।51} व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {18।51} ज्वरत्वरस्रिव्यविमवाम् उपधायाः च .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {19।51} भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {20।51} यत् तावत् उच्यते एकवाक्यभावात् इति तत् न .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {21।51} अर्थात् प्रकरणात् वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {22।51} आतः च अर्थात् प्रकरणात् वा .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {23।51} व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {24।51} रदाभ्याम् निष्ठातः नः पूर्वस्य च दः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {25।51} उभौ साभ्यासस्य इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {26।51} कथम् यत् तत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {27।51} ज्वरत्वरस्रिव्यविमवाम् उपधायाः च .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {28।51} भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {29।51} इह तावत् ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {30।51} स्ताम् द्वौ ऊठौ .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {31।51} न अस्ति दोषः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {32।51} सवर्णदीर्घत्वेन सिद्धम् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {33।51} इह भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {34।51} वक्ष्यति हि एतत् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {35।51} भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {36।51} यत् उच्यते अर्थात् प्रकरणात् वा इति तत् न .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {37।51} किम् कारणम् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {38।51} एकवाक्यभावात् एव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {39।51} आतः च एकवाक्यभावात् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {40।51} अङ्ग हि भवान् ग्राम्यम् पांसुलपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु अनयोः पूलयोः कटम् कुरु .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {41।51} अनयोः मित्पिण्डयोः घटम् कुरु इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {42।51} एकम् एव असौ करिष्यति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {43।51} कथम् यत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {44।51} रदाभ्याम् निष्ठातः नः पूर्वस्य च दः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {45।51} उभौ साभ्यासस्य इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {46।51} इह तावत् रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {47।51} कथम् .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {48।51} योगविभागः करिष्यते .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {49।51} रदाभ्याम् निष्ठातः नः .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {50।51} ततः पूर्वस्य च दः इति .
(प्_6,1.84.1) क_इइइ,56.2-57.6 रो_इव्,396-398 {51।51} इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात् द्वौ आदेशौ भविष्यतः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {1।59} तत्र अवयवे शास्त्रार्थसम्प्रत्ययः यथा लोके टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {2।59} तत् यथा लोके .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {3।59} वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {4।59} तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृत् उपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {5।59} तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति सकृत् उपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {6।59} एवम् इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {7।59} सिद्धम् तु धर्मोपदेशने अनवयवविज्ञानात् यथा लौकिकवैदिकेषु .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {8।59} सिद्धम् एतत् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {9।59} कथम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {10।59} धर्मोपदेशनम् इदम् शास्त्रम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {11।59} धर्मोपदेशने च अस्मिन् शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {12।59} लोके तावत् : ब्राह्मणः न हन्तव्यः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {13।59} सुरा न पेया इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {14।59} ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {15।59} यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् च ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {16।59} तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रम् प्रत्युत्थीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {17।59} यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् पूर्ववयसम् प्रत्युत्थाय अन्यत्र कामचारः स्यात् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {18।59} तथा वेदे खलु अपि .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {19।59} वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {20।59} यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् सकृत् इष्ट्वा पुनः इज्या न प्रवर्तेत .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {21।59} उभयथा इह लोके दृश्यते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {22।59} अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {23।59} कथम् पुनः इदम् उभयम् लभ्यम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {24।59} लभ्यम् इति आह .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {25।59} कथम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {26।59} इह तावत् वसन्ते ब्राह्मणः अग्नीन् आदधीत इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {27।59} अग्न्याधानम् यज्ञमुखप्र्तिपत्त्यर्थम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {28।59} सकृत् आधाय कृतः शास्त्रार्थः प्रतिपन्नम् यज्ञम् इति कृत्वा पुनः प्रवृत्तिः न भवति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {29।59} अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {30।59} तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {31।59} उपनयनम् संस्कारार्थम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {32।59} सकृत् च असौ उपनीतः संस्कृतः भवति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {33।59} अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {34।59} तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {35।59} उपस्पर्शनम् शौचार्थम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {36।59} सकृत् च असौ उपस्पृश्य शुचिः भवति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {37।59} अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {38।59} इह इदानीम् ब्राह्मणः न हन्तव्यः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {39।59} सुरा न पेया इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {40।59} ब्राह्मणवधे सुरापाने च महान् दोषः उक्तः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {41।59} सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {42।59} अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {43।59} तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {44।59} पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {45।59} कथम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {46।59} ऊर्ध्वम् प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {47।59} प्रत्युत्थानाभाभिवादाभ्याम् पुनः तान् प्रतिपद्यते इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {48।59} सः च प्रूर्ववयोमात्रे प्रसक्तः .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {49।59} अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {50।59} तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किम् चित् प्रयोजनम् उक्तम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {51।59} किम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {52।59} स्वर्गे लोके अप्सरसः एनम् जायाः भूत्वा उपशेरते इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {53।59} तत् च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुम् अर्हति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {54।59} अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {55।59} तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनम् उक्तम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {56।59} किम् .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {57।59} एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {58।59} यदि एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति किमर्थम् द्वितीयः तृतीयः च प्रयुज्यते .
(प्_6,1.84.2) क_इइइ,57.7-58.17 रो_इव्,399-402 {59।59} न वै कामानाम् तृप्तिः अस्ति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {1।23} अथ पूर्वग्रहणम् किमर्थम् .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {2।23} पूर्वपरग्रहणम् परस्य आदेशप्रतिषेधार्थम् .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {3।23} पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {4।23} परस्य आदेशः मा भूत् .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {5।23} आत् गुणः इति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {6।23} कथम् च प्राप्नोति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {7।23} पञ्चमीनिर्दिष्टात् हि परस्य .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {8।23} पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {9।23} तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {10।23} षष्ठीनिर्दिष्टार्थम् तु .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {11।23} षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {12।23} षष्ठीनिर्देशः यथा पकल्पेत .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {13।23} अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {14।23} अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {15।23} कस्य .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {16।23} स्थानेयोगत्वस्य .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {17।23} न एषः दोषः .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {18।23} आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {19।23} तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {20।23} एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {21।23} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {22।23} यत् उक्तम् : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति .
(प्_6,1.84.3) क_इइइ,58.18-59.8 रो_इव्,402-403 {23।23} सः न दोषः भवति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {1।32} किमर्थम् इदम् उच्यते .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {2।32} अन्तादिवद्वचनम् आमिश्रस्य आदेशवचनात् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {3।32} अन्तादिवत् इति उच्यते आमिश्रस्य आदेशवचनात् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {4।32} आमिश्रस्य अयम् आदेशः उच्यते .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {5।32} सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {6।32} तत् यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात् न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {7।32} इष्यते च ग्रहणम् स्यात् इति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {8।32} तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तादिवच्वचनम् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {9।32} एवमर्थम् इदम् उच्यते .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {10।32} अस्ति प्रयोजनम् एतत् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {11।32} किम् तर्हि इति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {12।32} तत्र यस्य अन्तादिवत् तन्निर्देशः .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {13।32} तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {14।32} अस्य अन्तवत् भवति अस्य आदिवत् भवति इति वक्तव्यम् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {15।32} सिद्धम् तु पूर्वपराधिकारात् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {16।32} सिद्धम् एतत् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {17।32} कथम् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {18।32} पूर्वपराधिकारात् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {19।32} पूर्वपरयोः इति वर्तते .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {20।32} पूर्वस्य कार्यम् प्रति अन्तवत् भवति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {21।32} परस्य कार्यम् प्रति आदिवत् भवति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {22।32} अथ यत्र उभयम् आश्रीयते किम् तत्र पूर्वस्य अन्तवत् भवति आहोस्वित् परस्य आदिवत् भवति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {23।32} उभयतः आश्रये न अन्तादिवत् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {24।32} किम् वक्तव्यम् एतत् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {25।32} न हि .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {26।32} कथम् अनुच्यमानम् गंस्यते .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {27।32} लौकिकः अयम् दृष्टान्तः .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {28।32} तत् यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यम् करोति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {29।32} यदा तु तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {30।32} किम् पुनः कारणम् उभयोः न करोति .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {31।32} यौगपद्यासम्भवात् .
(प्_6,1.85.1) क_इइइ,59.10-60.6 रो_इव्, 404-406 {32।32} न अस्ति यौगपद्येन सम्भवः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {1।118} अथ अन्तवत्त्वे कानि प्रयोजनानि .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {2।118} अन्तवत्त्वे प्रयोजनम् बह्वच्पूर्वपदात् ठज्विधाने .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {3।118} अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {4।118} द्वादशान्यिकः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {5।118} पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {6।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {7।118} यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {8।118} तरयोदशान्यिकः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {9।118} प्रत्ययैकादेशः पूर्वविधौ .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {10।118} प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {11।118} मधु पिबन्ति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {12।118} शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {13।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {14।118} यत्र एकादेशः न भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {15।118} पिबति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {16।118} वैभक्तस्य णत्वे .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {17।118} वैभक्तस्य णत्वे प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {18।118} क्षीरपेण , सुरापेण .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {19।118} उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {20।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {21।118} यत्र एकादेशः न भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {22।118} क्षीरपाणाम् , सुरापाणम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {23।118} अदसः ईत्त्वोत्त्वे .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {24।118} अदसः ईत्त्वोत्त्वे प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {25।118} अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {26।118} अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {27।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {28।118} यत्र एकादेशः न भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {29।118} अमीभिः , अमूभ्याम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {30।118} स्वरितत्वे प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {31।118} कार्या , हार्या .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {32।118} तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {33।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {34।118} यत्र एकादेशः न भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {35।118} कार्यः , हार्यः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {36।118} स्वरितत्वम् विप्रतिषेधात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {37।118} स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {38।118} परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {39।118} न एषः युक्तः विप्रतिषेधः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {40।118} नित्यः एकादेशः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {41।118} कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {42।118} अनित्यः एकादेशः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {43।118} अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {44।118} स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {45।118} अन्तरङ्गः तर्हि एकादेशः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {46।118} का अन्तरङ्गता .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {47।118} वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {48।118} स्वरितत्वम् अपि अन्तरङ्गम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {49।118} कथम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {50।118} उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {51।118} उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {52।118} स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {53।118} लिङ्गविशिष्तग्रहणात् वा .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {54।118} अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {55।118} पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {56।118} गुडोदकम् , मथितोदकम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {57।118} पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {58।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {59।118} यत्र अकादेशः न भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {60।118} उदश्विदुदकम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {61।118} पूर्वपदान्तोदात्तत्वम् च .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {62।118} पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {63।118} पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {64।118} परत्वात् पूर्वपदान्तोदात्तत्वम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {65।118} पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {66।118} एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {67।118} इह उभयम् प्राप्नोति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {68।118} मथितोदकम् , गुडोदकम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {69।118} पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {70।118} सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {71।118} एकादेशे हि स्वरिताप्रसिद्धिः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {72।118} एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {73।118} यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {74।118} मथितोदकम् , गुडोदकम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {75।118} कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {76।118} प्राटिता , प्राशिता .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {77।118} कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {78।118} क्व तर्हि स्यात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {79।118} यत्र न अकादेशः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {80।118} प्रकारकः , प्रकरणम् . कृदन्तप्रकृतिस्वरत्वम् च .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {81।118} कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {82।118} कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {83।118} परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {84।118} कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् . एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {85।118} इह उभयम् प्राप्नोति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {86।118} प्राटिता , प्राशिता .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {87।118} कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {88।118} सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {89।118} एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {90।118} यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {91।118} किम् कारणम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {92।118} उत्तरपदस्य अपरत्वात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {93।118} न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {94।118} ननु च अन्तादिवद्भावेन परम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {95।118} उभयतः आश्रये न अन्तादिवत् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {96।118} उत्तरपदवृद्धिः च एकादेशात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {97।118} उत्तरपदवृद्धिः च एकादेशात् भवति विप्रतिषेधेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {98।118} उत्तरपदवृद्धेः अवकाशः पूर्वत्रैगर्तकः, अपरत्रैगर्तकः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {99।118} एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {100।118} इह उभयम् प्राप्नोति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {101।118} पूर्वैषुकामशमः , अपरैषुकामशः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {102।118} उत्तरपदवृद्धिः भवति विप्रतिषेधेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {103।118} एकादेशप्रसङ्गः तु अन्तरङ्गबलीयस्त्वात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {104।118} एकादेशः तु प्राप्नोति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {105।118} किम् कारणम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {106।118} अन्तरङ्गस्य बलीयस्त्वात् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {107।118} अन्तरङ्गम् बलीयः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {108।118} तत्र कः दोषः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {109।118} तत्र वृद्धिविधानम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {110।118} तत्र वृद्धिः विधेया .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {111।118} न एषः दोषः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {112।118} आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {113।118} कथम् कृत्वा ज्ञापकम् .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {114।118} इन्द्रे द्वौ अचौ .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {115।118} तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {116।118} ततः अनच्कः इन्द्रः सम्पन्नः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {117।118} तत्र कः प्रसङ्गः वृद्धेः .
(प्_6,1.85.2) क_इइइ,60.7-63.7 रो_इव्,406-411 {118।118} पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {1।55} अथ आदिवत्त्वे कानि प्रयोजनानि .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {2।55} आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {3।55} आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {4।55} अग्नी इति , वायू इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {5।55} द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {6।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {7।55} यत्र एकादेशः न भवति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {8।55} त्रपुणी इति , जतुनी इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {9।55} सुप्तिङाब्विधिषु .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {10।55} सुप्तिङाब्विधिषु प्रयोजनम् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {11।55} सुप् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {12।55} वृक्षे तिष्ठति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {13।55} प्लक्षे तिष्ठति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {14।55} सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {15।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {16।55} यत्र एकादेशः न भवति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {17।55} वृक्षः तिष्ठति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {18।55} प्लक्षः तिष्थति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {19।55} सुप् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {20।55} तिङ् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {21।55} पचे, यजे इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {22।55} तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {23।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {24।55} यत्र एकादेशः न भवति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {25।55} पचति , यजति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {26।55} तिङ् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {27।55} आप् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {28।55} खट्वा , माला .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {29।55} अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {30।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {31।55} यत्र एकादेशः न भवति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {32।55} क्रुञ्चा , उष्णिहा , देवदिशा .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {33।55} आङ्ग्रहणे पदविधौ .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {34।55} आङ्ग्रहणे पदविधौ प्रयोजनम् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {35।55} अद्य आहते .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {36।55} कदा आहते .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {37।55} आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {38।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {39।55} यत्र एकादेशः न भवति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {40।55} आहते .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {41।55} आटः च वृद्धिविधौ .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {42।55} आटः च वृद्धिविधौ प्रयोजनम् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {43।55} अद्य ऐहिष्ट .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {44।55} कदा ऐहिष्ट .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {45।55} आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {46।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {47।55} यत्र एकादेशः न .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {48।55} ऐहिष्ट , ऐक्षिष्ट .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {49।55} कृदन्तप्रातिपदिकत्वे च .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {50।55} कृदन्तप्रातिपदिकत्वे च प्रयोजनम् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {51।55} धारयः , पारयः .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {52।55} कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {53।55} क्व तर्हि स्यात् .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {54।55} यत्र एकादेशः न .
(प्_6,1.85.3) क_इइइ,63.8-64.8 रो_इव्,411-412 {55।55} कारकः , हारकः .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {1।41} न अभ्यासादीनाम् ह्रस्वत्वे .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {2।41} अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {3।41} के पुनः अभ्यासादयः .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {4।41} अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {5।41} अभ्यासह्रस्वत्वम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {6।41} उपेयाज , उपोवाप .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {7।41} ऊहेः ह्रस्ववम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {8।41} उपोह्यते , प्रोह्यते , परोह्यते .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {9।41} अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {10।41} अम्ब अत्र , अक्क अत्र .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {11।41} कुमारि इदम् , किशोरि इदम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {12।41} आराशस्त्रि इदम् , धानाशष्कुलि इदम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {13।41} निष्कौशाम्बि इदम् , निर्वाराणसि इदम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {14।41} अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {15।41} न वा बहिरङ्गलक्षणत्वात् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {16।41} न वा एतत् वक्तव्यम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {17।41} किम् कारणम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {18।41} बहिरङ्गलक्षणत्वात् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {19।41} अन्तरङ्गम् ह्रस्वत्वम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {20।41} बहिरङ्गाः एते विधयः .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {21।41} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {22।41} वर्णाश्रयविधौ च .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {23।41} वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {24।41} किम् प्रयोजनम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {25।41} प्रयोजनम् खट्वाभिः जुहाव अस्यै अश्वः इति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {26।41} इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {27।41} न एषः दोषः .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {28।41} तपरकरणसामर्थ्यात् न भविष्यति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {29।41} अस्ति अन्यत् तपरकरणे प्रयोजनम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {30।41} किम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {31।41} कीलालपाभिः , शुभंयाभिः .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {32।41} जुहाव .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {33।41} आतः औ णलः इति औत्वम् प्राप्नोति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {34।41} अस्यै अश्वः इति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {35।41} एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {36।41} न वा अताद्रूप्यातिदेशात् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {37।41} न वा वक्तव्यम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {38।41} किम् कारणम् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {39।41} अताद्रूप्यातिदेशात् .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {40।41} न इह ताद्रूप्यम् अतिदिश्यते .
(प्_6,1.85.4) क_इइइ,64.9-65.6 रो_इव्,413-414 {41।41} रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {1।39} किमर्थम् इदम् उच्यते .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {2।39} षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {3।39} षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {4।39} आदेशलक्षणप्रतिषेधाऋथम् तावत् .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {5।39} कोसिञ्चत् .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {6।39} योसिञ्चत् .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {7।39} एकादेशे कृते इणः इति षत्वम् प्राप्नोति .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {8।39} असिद्धत्वात् न भवति .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {9।39} उत्सर्गलक्षणभावार्थम् च .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {10।39} अधीत्य , प्रेत्य .
(प्_6,1.86.1) क_इइइ,65.8-66.7 रो_इव्,414-415 {11।39} एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0