भाषा

ENहिગુ
ग्रंथ पाठ

विश्वन्तरावदान · भाग 17

fओल्. ग्ब्म् ग्ब्म् विश्व् रेमर्क्स्
5र् 172 1347 1-3 प्रेसेर्वेद् अस् व् ओf 13
5व् 159 1332 3-10
160 1333 ब्लन्क्! र् ओf fओल्. 5
6र् 161 1334 11-15
6व् 162 1335 15-18
7र् 157 1336 18-22
7व् 158 1337 22-25
8र् 163 1338 25-30
8व् 164 1339 30-35
9 35-39 लोस्त्
10र् 165 1340 40-43
10व् 166 1341 43-45
11र् 167 1342 45-48
11व् 168 1343 48-51
12र् 169 1344 51-54
12व् 170 1345 54-59
13र् 171 1346 59-64
र् 64-68 ग्ब्म् 3314
व् 68-69 ग्ब्म् 3315
14र् 173 1348 69-70 + चोल्. अन्द् बेग्. ओf कप्फिण-अवदान
14व् 174 1349 कप्फिण-अवदान
( विश्व् 1 ) पुनर् अपि यथैष अकृतज्ञः अकृतवेदी तच् छ्रूयतां
( विश्व् 2 ) भूतपूर्वं भिक्षवो विश्वपुर्यां राजधान्यां विश्वामित्रो नाम रा जा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्य ं च प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं. धार्मिको धर्मराजा धर्मेण राज्यं का र यति. स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः
( विश्व् 3 ) सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमति परिचारयति. तस्य क्रीडतो रम माण स्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता
( विश्व् 4 ) साष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता. दारको जात अभिरूपो दर्शनीयः प्रासादिको गौरः कनकव र्णश् छ त्राकारशिरा प्रलम्बबाहुर् विस्तीर्णललाट ः संगतभ्रूस् तुंगनास ः सर्वांगप्रत्यंगोपेतः
( विश्व् 5 ) तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते. किं भवतु दारकस्य नामेति ज्ञातय ऊचुर् यस्माद् अयं दारको विश्वामित्रस्य राज्ञः पुत्रस् तस्मा द् भवतु दारकस्य विश्वन्तर इ त् इ ना मेति. तस्य विश्वन्तर इति नामधेयं व्यवस्थापितं.
( विश्व् 6 ) विश्वन्तरो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनकधात्रीभ्यां. स अ ष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्ध्यते ह्रदस्थम् इव पङ्कजं
( विश्व् 7 ) स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः संख्यायां गणनायां मुद्रायां. स यानि तानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्था म वीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां पृथ ग् भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुष्य् अपयाने निर्याणे अंकुशग् र हे पाशग् र हे तोमरग्रहे च्छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादब न्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षणवेधे दृढप्रहारितायां पञ्चसु स्थाने षु कृतावी संवृत्तः
( विश्व् 8 ) विश्वन्तरः कुमारो श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्व प्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते तस्य प्रदानविस्तरम् उपश्रुत्य योजनशताद् अभ्यर्थिजनो ऽभ्यागच्छति. सर्वं च परिपूर्णमनोरथं प्रेषयति
( विश्व् 9 ) अथ कदाचिद् बोधिसत्वो मणिकन करजतवज्रविद्रुमवैडूर्यमुसारगल्वार्केन्द्रनीलविद्योतितं चन्दनवरसा रपरिणामितं सिंहव्याघ्रद्वीपिचर्मपरिणद्धं पवनब ल समजवैः कनकरजतमणिघण्टिकापूर्णितरवैश् चतुर्भिस् तुरगैर् युक्तं स्यन्दनवरम् अ धिरुह्य नगराद् उद्यानाभिमुखो निर्ययौ .
( विश्व् 10 ) अथ केचित् प्रत्यर्थिकप्र युक्ता विप्रा वेदवेदांगविदस् त्वरितत्वरितं विश्वन्तरकुमारम् अभिगम्योचुः जयतु भवां क्षत्रियकुमारः इत्य् आह च
सर्वेषु खलु लोकेषु विश्रुत
ः सर्वदो भवान् ।
रथम् एतद् द्विजातिभ्यो दानं त्वं दातुम् अर्हसि ॥
( विश्व् 11 ) इत्य् एव म् उक्ते बोधिसत्वो लघुलघ्व् एव तस्माद् रथवराद् अवतीर्य हृष्टतुष्टप्रमुदितहृदयस् तेभ्यो द्विजातिभ्यस् तं रथवरम् उपदर्शयन्न् उवाच
यथा मया रथस् त्यक्तो विप्रेभ्यः परया मुदा ।
तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिम् उत्तमाम् ॥
( विश्व् 12 ) सो ऽपरेण समयेन कुन्दकुमुदहिमरजतसिताभ्रवर्णं सप्तसुजातसुप्रतिष्ठितचरणतलं ऐरावणद्विरदविलासगामिनं परस्वाभाव्यलक्षणालंकृतं पुण्यदर्शनं राज्यवर्धनं नाम गजवरम् अधिरुह्य परितुष्टभृत्यमित्रसेवकानुयात्रिकैश् चन्द्र इव नक्षत्रगणपरिवृतः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौंचमयूरशुकशारिकाकोकिलजीव ं जीववकनिर्घोषितवनषण्डम् उद्यानभूमि ं विनिर्ययौ
( विश्व् 13 ) अथ केचित् प्रत्यर्थिकप्रयुक्ता विप्रा वेदवेदांगविदस् त्वरितत्वरितं विश्वन्तरकुमारम् अभिगम्योचुः: जयतु भवां क्षत्रियकुमार इत्य् आह च

सदैत्यामरलोकेषु विश्रुतः सर्वदो भवां ।
दातुम् एनं{द्} गजवरम् अस्मभ्यस् त्वम् इहार्हसि ॥
( विश्व् 14 ) एवम् उक्ते बोधिसत्व स् तस्माद् अ पि गजवराल् लघुलघ्व् एवावतीर्य हृष्टतुष्टप्रमुदितमनास् तेभ्यो द्विजातिभ्यस् तं गजवरम् उपदर्शयन्न् उवाच
यथा मया गजस् त्यक्तो विप्रेभ्यः परया मुदा ।
तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिम् उत्तमाम् ॥
( विश्व् 15 ) शुश्राव च राजा विश्वामित्र ः पु त्रेण चात् र विश्वन्तरेण राज्यवर्धनो ना म गजवरः प्रत्यर्थिकप्रयुक्तेभ्यो विप्रेभ्यो दत्तः इति. श्रुत्वा च पुन राज्ञा विस्वामित्रेण परमकोपकुपितेन विश्वन्तरः कुमार आहूयोक्तः: गच्छ कुमार न ते मद्विषये वस्तव्यम् इति.
( विश्व् 16 ) कुमारः पित्रा परित्यक्तश् चिन्तयामास: बोधाय मया कृतव्यवसायेन सर्वलोकानुग्रहार्थं बद्धसन्नाहेन गजो ऽसौ त्यक्तस्
तद्गृहे वर्तमानेन देयं दानं यथाबलम् ।
तपोवनं वा संशृत्य कर्तव्यो नियमः परः ॥
ततो ऽहं गृहम् उत्सृज्य प्रयास्यामि तपोवनम् ।
वक्तुं न तूत्सहे वाक्यं न दास्यामीति याचकं ॥
( विश्व् 17 ) अथैवं कृतमतिर् बोधिसत्वो भार्याया माद्र्याः सकाशं अभिगम्यैतद् विस्तरेण निवेदयामास. ततो माद्री सहश्रवणाद् एव प्रियविप्रयोगाशंकितहृदया कृतकरपुटा बोधिसत्वम् उवाच: आर्यपुत्र यद्य् एवम् अहं अपि तपोवनं यास्यामि. न शक्यं मया आर्यपुत्रवियुक्तया म् उ हूर्तम् अपि प्राणान् धारयितुं. कुतः
गगनम् इव चन्द्रविहीनं सस्यविहीना भवेद् यथा पृथिवी ।
नलिनीव जलविहीना भर्तृविहीना तथा भवेन् नारी ॥
( विश्व् 18 ) बोधिसत्व उवाच: अवश्यम् एवावयोर् अन्ते वियोगेन भवितव्यं. एष हि लोकस्वभावः. त्वं च प्रवरान्नपानश य नासन सं वसनो प चिता परमसुकुमारशरीरा. तपोवने तृणपर्णोपचितायां भूम्यां स्वप्तव्यं, मूलपुष्पफलानि चाहारो दर्भोपलकुशकण्टकचितायां मह्यां विचरितव्यं अभीक्ष्णं चोपवास उपवसितव्यः, सर्वजनस्यात्मा दर्शयितव्यः, सर्वप्रयत्नेनातिथयः पूजयितव्यास्. तत्रापि च मया अवश्यं यथाशक्त्या दानं देयं. तत्र भवत्या न कथंचिद् अनुतापः करणीयस् त त् पुनर् अपि तावत् संप्रधार्यताम् इति.
माद्री कथयत्य् आर्यपुत्र यथाशक्त्याहम् आर्यपुत्रस्य अनुवर्तिष्यामीति.
बोधिसत्वः कथयति यद्य् एवं स्मर्तव्या ते इयं प्रतिज्ञेति.
( विश्व् 19 ) ततो बोधिसत्वः पितरम् अभिगम्य मूर्ध्ना प्रणिपत्योवाच
क्षमस्व यत् तात मयापराद्धं गजप्रदानं प्रति पार्थिवेन्द्र ।
एष प्रयास्यामि पुराद् अरण्यं कोशक्षयो मा नृपते तवाभूद् ॥ इति
तत ः पुत्रवियोगविक्लवो राजा बाष्पोपरुध्यमानगद्गदकण्ठ उवाच: पुत्र तिष्ठ निवर्त्यतां दानान् मति र् इति . बोधिसत्व उवाच
अप्य् एव परिवर्तेत धरा सधरणीधराः ।
प्रदानान् न त्व् अहं चित्तं निवर्तेयं महीपते ॥
इत्य् उक्त्वा प्रक्रान्तः.
( विश्व् 20 ) ततः पुत्रदुहितृकलत्रसहितः शोकोत्कण्ठैः पौरजानपदशतसहस्रैर् अनुगम्यमानो रथम् अधिरुह्य तस्मान् नगरवरान् निर्जगाम.
( विश्व् 21 ) अथ कश्चित् पुरुषस् तं रुदितपरिदेवितशब्दं श्रुत्वा महाजनकायं च नगरद्वारेण निर्गच्छन्तं दृष्ट्वान्यतमं पुरुषम् उवाच: भोः पुरुष किंकृतो ऽयं महाजनकायस्य रुदनशब्द इति. स उवाच: किं भवान् न जानीते. यद् अस्मद्-
देशात् स्वकान् नृपतिना स्वसुतः सुदंष्ट्रो
निर्वास्यते स्थिरधृतिर् निरतः प्रदाने ।
स प्रस्थितो वनम् अपेत्य सपुत्रदारः
पौराः च् अ भृत्य करुणंकरुणं रुदन्ति ॥
( विश्व् 22 ) ततो विश्वन्तरो बोधिसत्वस् तस्मान् नगरवरान् निर्गतान् पौरान् यथान्यायम् अभिगम्योवाच: निवर्तन्तु निवर्तन्तु भवन्तः. सुचिरम् अपि हि प्रियसंप्रयोगो भूत्वावश्यम् एवान्ते वियोगावसानो भविष्यति. वासवृक्षाध्वप्रतिश्रयभूतो ऽपि बन्धुजनवियोगो ऽवश्यभावी प्रियविप्रयोगः. कुतः
सर्वेषु लोकेष्व् अवगम्य जन्तोः प्रियैर् वियोगो भवतीति मत्वा ।
कार्या भवद्भिर् भुवि सर्वयत्नैः स्थिराप्रकंप्या च शमाय बुद्धिः ॥
( विश्व् 23 ) अथ त्रिंशद्योजनातिक्रान्तं बोधिसत्वम् अवेक्ष्यान्यतमो ब्राह्मणो ऽभिगम्योवाच: भोः क्षत्रियकुमार इतस् त्रिंशन्मात्रैर् योजनैर् अधिष्ठानं यतो ऽहं भवतो गुणश्रवणाद् आगत इति. तद् अर्हसि भवान् अनेन रथवरेण मे सफलं श्रमं कर्तुम् इति.
ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणम् उवाच
अहो द्विजस्यास्य सुदारुणा मतिर् वने ऽपि यो ऽभ्यर्थयते नृपात्मजं ।
न नाम कारुण्यम् इहास्य जायते नरेन्द्रपुत्रे नृपतिश्रिया च्युते ॥
बोधिसत्व उवाच: ए व ं न खलु न खलु भवत्या ब्राह्मणः परिभाषणीयः. कुतः
यद्य् एते न भवेयुर् अर्थनदयो माद्रि प्रतिग्राहकाः
बोधिं कः समवाप्नुयाद् भुवि नरः सर्वप्रदानाद् ऋते ।

षड्भिः पारमिताभिर् उत्तमगुणाः संबोधिसत्वाः सदा
दानाद्याभिर् अवाप्नुवन्ति नियतं सर्वज्ञताम् उत्तमाम् ॥
( विश्व् 24 ) अथ बोधिसत्वस् तम् अप्य् अश्वरथं परमेण प्रहर्षेण तस्मै ब्राह्मणाय दत्वोवाच
अ न् नेन मात्सर्यमलप्रवाहिणा रथप्रदानेन ममास्त्व् इह द्विज ।
महर्षिभि ः षड्भिर् अनुप्रवर्तितो निरास्रवो धर्ममयो मह् आ रथः ॥
( विश्व् 25 ) ततो बोधिसत्व ः प्रमुदितहृदयस् तम् अपि रथवरं ब्राह्मणाय दत्वा कृष्णाजिनां कुमारी ं स्कन्धे आरोप्य माद्री च जालिनं कुमारं तपोवनाभिमुखौ संप्रस्थितौ. अनुपूर्वेण तपोवनम् अनुप्राप्तौ. ततो विश्वन्तरो बोधिसत्वस् तस्मिं तपोवने स्वहृदयप्ररितोषकरं व्रतम् आस्थाय विजहार.
( विश्व् 26 ) तेन खलु समयेन अन्यतमस्मिं कर्वटके ब्राह्मणः प्रतिवसति स्म. तेन सदृशात् कुलात् कलत्रम् आनीतं. स तया सार्धं क्रीडति रमति परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतः पु त्रो जात अष्टादशभिर् अपलक्षणैः समन्वागतः. स यदा जुज्जवयति, तस्य जुज्जुको जुज्जुक इति संज्ञा संवृत्ता.
( विश्व् 27 ) अन्यत मस्मिं अपि कर्वटके ब्राह्मणः प्रतिवसति चतुर्वेद ज्ञ स्. तेन सदृशात् कुलात् कलत्रम् आनीतं. स तया सा र्धं क्रीडति रमति परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता अभिरूपा दर्शनीया प्रासादिका चतुर्दिनावधिना महती संवृत्ता. तेन ब्राह्मणेन प्रतिज्ञा कृता: न मया कस्यचिद् इयं दुहिता रूपेण वा कुलेन वा धनेन वा शिल्पेन वा दातव्यापि तु यो ममान्तिकाच् चतुरो वेदान् अधिगमिष्यति, तस्य मयेयं दातव्या.
( विश्व् 28 ) अथ जुज्जुको मन्त्रार्थी मन्त्रगवेषी तस्य गृहम् उपसंक्रान्तः. स तेन ब्राह्मणेनाभिहितो: भो माणव कु त स् त्वं किं वा प्रार्थयसि
स कथयतीच्छाम्य् अहम् उपाध्यायस्य पादशुश्रुषां कर्तुं.
स कथयति: शोभनम् एवं कुरुष्व माणव. करणीयम् एतद् ब्राह्मणानां.
( विश्व् 29 ) स तस्यान्तिके वेदाध्ययनं कर्तुम् आरब्धः. स मेधावी जातीयः. तेन अल्पीयसा कालेन च त्वारो वेदा अधीताः
( विश्व् 30 ) स ब्राह्मणः संलक्षयति: मया प्रतिज्ञा कृता न मया कस्यचिद् इयं दुहिता रूपेण वा कुलेन वा धनेन वा शिल्पेन वा दातव्या. अपि तु यो ममान्तिकाच् चतुरो वेदान् अधिगमिष्यति तस्य मयेयं दातव्या. अनेन च माणवकेन ममान्तिकाच् चतुरो वेदान् अधिगता. अयं च अष्टादशभिर् अपलक्षणैः समन्वागतः. यद्य् एतां दारिकां स प्रतिगृह्णीयाच् छोभनं स्यात्.
( विश्व् 31 ) तस्य तेनोक्तं: माणव मया प्रतिज्ञा कृता न मया कस्यचिद् इयं दुहिता रूपे ण वा कुले न वा धनेन वा शिल्पेन वा दातव्या, अपि तु यो ममान्तिकाच् चतुरो वेदान् अधिगमिष्यति तस्य मयेदं दातव्या. त्वया च ममान्तिकाच् चतुरो वेदा अधिगताः. तवाहं दुहिता भार्यार्थम् अनुप्रयच्छामि.
स कथयति: स्वस्ति प्रतिगृहीता भवतु.
तस्य तेन मह ता श्रीसमुदयेन विवाहः कारितः कृत्वा कथयति: माण व पत्नीम् आदाय स्वगृहं गच्छ.
( विश्व् 32 ) स तां पत्नीम् आदाय स्वगृहं गतः. स तया उच्यते: आर्यपुत्र सुकुमारा नाहं शक्नोमि कर्म कर्तुं. मम उपस्थायकम् अनुप्रयच्छेति.
स कथयति: भद्रे कुतो मम उपस्थायकः.
सा कथयत्य् आर्यपुत्र विश्वपुर्यां विश्वामित्रो नाम राजा. तस्य पुत्रो विश्वन्तरो नाम. स यत् किंचित् याच्यते तत् सर्वं ददाति. तस्य स काशान् मम उपस्थायकं मृगय.
स कथयति: भद्रे यद् य् एवं सहितं गच्छावः.
( विश्व् 33 ) स तया सार्धं विश्वपुरिं गत्वा पृच्छति: कुत्र विश्वन्तरकुमारस्.
ते कथयन्ति: तपोवनं संश्रितः.
( विश्व् 34 ) अथ जुज्जुकः पत्न्या सार्धं तपोवनं गत ः .
( विश्व् 35 ) ततो ऽसौ ब्राह्मणो माद्र्या मूलफलार्थम् अभिगतायास् तपोवना न् निर्गत्य विश्वन्तरम् अभिगम्योवाच: जयतु भ वान् क्षत्रियकुमार इति
॥।
( विश्व् 40 ) तं अर्थं निवेदयामास:
नूनं तपोवनगतौ हि फलाम्बुभक्ष्यौ बालौ सुतौ नयनतुष्टिकरौ मनोज्ञौ ।
दुःखान्वितस्य जगतः परिमोक्षणार्थं विश्वन्तरस् त्यजति कंपति येन भूमिः ॥
( विश्व् 41 ) ततस् तौ बालदारकौ पितुर् आशयपरित्यागबुद्धिम् अवगम्य करु ण करुणं रुदन्तौ विश्वन्तरस्य पादयोर् निपत्य कृतकरपुटाव् ऊचतुः: प्रसीद तात मावां परित्याक्षीस् तदानीं गुरुविहीनौ गमिष्या वः
अंबा च तात निष्क्रान्ता त्वं च नो दातुम् अर्हसि ।
यावत् ताम् अपि पश्यावस् ततो दास्यति नौ भवान् ॥
ततो बोधिसत्वः सहविक्लवहृदय् अ .. .. .. .. .. वदनस् तौ बालदारकौ परिष्वज्योवाच: पुत्रकौ
न मे हृदयं अस्निग्धं नाकृपा नापि नैर्घृणं ।
सर्वलोकहितार्थं तु त्यजामि गुणदर्शिनौ ॥
बुध् य् ए वाहं परां बोधिम् अभिगम्य शिवां स्वयम् ।
दुःखार्णवगतं लोकं तारयेयं निराश्रयम् ॥
( विश्व् 42 ) ततस् तौ बालदारकौ पितुर् आशयपरित्यागबुद्धिम् अवगम्य करुणदीनविलंबिताक्षरैः पादयोर् निपत्य कृतकरपुटाव् ऊचतुः
यद्य् एवं व्यवसायस् ते वचनाद् आ वयो स् त्वया
वक्तव्या जननी तात क्षन्तुम् अंब त्वम् इहार्हसि ॥
अपि च तात

यन् नौ गुरोर् अपकृतं त्वयि बालबावा द्
यद्य् अप्रियं क्वचन किंचिद् उदाहृतं वा ।
शुश्रूषया च परिपूरितम् एव न स्याद्
बालापराध इति तत् खलु मर्षणीयम् ॥
इत्य् उक्त्वा पितरम् अभिवाद्य त्रिःप्रदक्षिणीकृत्य गुरुवचनपालकौ मुहुर्मुहु ः संपरिवर्तमानौ नयनाम्बुपरिप्लुताक्षकौ तस्माद् आश्रमपदाद् विनिश्चक्रामतुः.
( विश्व् 43 ) ततो बोधिसत्वस् तैर् अतिकरुणैर् बालदारकवचोभिः विक्लवीकृतहृदयो बोधौ मन ः प्र ण् इ धाय तपोव + + + + निष्क्रान्तमात्रयोश् च पुनर् तयोर् बालदारकयोर् अयं त्रिसहस्रमहासहस्रो लोकधातुः षड्विकारं प्रकंपितो ऽनेकैश् च देवतासहस्रैर् हाहाकारो ऽन्तरिक्षाज् जातो बभूव
अहो प्रदानस्य माहात्म्यम् अहो सत् वस्य निश्चयः ।
बालाव् इमौ सुतौ त्यक्त्वा यन् न विक्रियते मनः ॥
( विश्व् 44 ) तस्मिंश् च समये माद्री मूलफलान्य् आदायाश्रमपदाभिमुखी संप्रस्थिता. तेन च महता भूमिकंपेन त्वरितत्वरितम् एवाश्रमपदं संप्रतस्थे. तत्रान्यतमा देवता सिंहरूपधारिणी भूत्व मार्गम् अवरुध्यमानावस्थिता मा हैव मद्री बोधिसत्त्वस्य सर्वसत्वनिर्मोक्षणकृतोद्योगस्य दानपारमिताया ं विघ्नम् उत्पादयिष्यतीति.
ततो माद्री तां मृगराजवधूविलासिनीम् उवाच
मृगराजवधूविलासिनि किम् इदं माम् उपरुध्य तिष्ठसि
ध्रुवम् अस्मि यथा पतिं गता लघु मार्गाद् अपसर्प मे तथा ॥
अपि च
त्वम् अपि मृगराजपत्नी अहम् अपि भार्या नरेन्द्रसिंहस्य ।
धर्मेण भवसि भगिनी मृगराज्ञि ददस्व मे मार्गम् ॥
इत्य् एवम् उक्ता सा सिंहरूपधारिणी देवता तस्मान् मार्गाद् अपक्रान्ता
( विश्व् 45 ) ततो माद्री ऽनिमित्तान्य् अप्रसन्नानीति मत्वा म् उ हूर्तं चिन्तयामास: यथा य म् अन्तरिक्षे रुदनशब्दः श्रूयते, यथा च वनवासिनां भूतानां विद्रावणशब्दो व्यक्तम् आश्रमपदे अकुशलं भविष्यतीत्य् आह च
यथा स्फुरति मे नेत्रं यथा रौति विहंगमः ।
क थ् अन् नौ बालकौ त्यक्तौ यथा च मतिर् उत्सुका ॥
यथायं पृथिवीकंपो वेपते हृदयं च मे ।
सुव्यक्तौ बालकौ त्यक्तौ यथा कायश् च सीदति ॥
( विश्व् 46 ) सैवम् अनर्थशतसहस्राणि चिन्तयन्ती आस्रमपदं गत्वा प्रविश्य चाश्रमपदं ससंभ्रान्ता निरीक्षते, न पश्यति तौ पुत्रकौ. ततो माद्री विक्लवहृदया वेपमाना स्थानपदानुसारं विकल्पयत्य् अस्मिन् प्रदेशे जालिमां कुमारः सह भगिन्या मृगपोतकैर् अभीक्ष्णं क्रीडितवां. इमानि च ताभ्यां पांसुनगराणि कृतानि. इमानि च तयोः क्रीडनकानि. तौ तु न पश्यामि. अथ वा अंबा न दृश्यत इति पर्णकुटीं प्रविश्य शयितौ भविष्यतः
( विश्व् 47 ) इत्य् एवम् आशंकापरिगतहृदया सुतदर्शनलालसा मूलफलान्य् एकान्ते उपनिक्षिप्य बाष्पाम्बुपरिप्लुतेक्षणा भर्तुः पादयोर् निपत्य पृच्छत्य् आर्यपुत्र क्व गतौ तौ बालदारकाव् इति. विश्वन्तर उवाच
आशया समभिक्रान्तो ब्राह्मणो मम सन्निधिम् ।
तस्य तौ बालकौ दत्तौ ताव् अनुज्ञातुम् अर्हसि ॥
( विश्व् 48 ) अथैवम् उक्ता माद्री विषदिग्धविद्धेव मृगी भूमौ निपपात. जलाश्रयोद्धृतेव मत्सी पृथिव्याम् आवर्तनं परिवर्तनं करोति स्म. हृतपोतेव कुररी करुणकरुणं विरौति स्म. प्रनष्टवत्सेव च गौर् बहुविधं हंभारवैर् विललाप. आह च
बालपंकजसमानवक्त्रकौ पद्मपत्रसुकुमारहस्तकौ ।
दुःखिताव् अननुभूतदुःखकौ कां गतिं मम गतौ हि पुत्रकौ ॥
निरतौ मृगकैः सहाश्रमे मृगशावार्जवकौ मृगाक्षकौ ।
कथम् अद्य नु पुत्रकौ मम व्रजतो ऽन्यस्य वशेन दुःखितौ ॥
नयनांबुपरिप्लुताक्षकौ विरुदन्तौ करुणं सुदुःखितौ ।
न च मे ऽद्य सुदृष्टकौ कृतौ कृपणैर् जीवति दुःखितौ बत ॥
अंगे मम तौ विवृद्धकौ मूलपुष्पफलभोजनात्मकौ ।
क्षान्तिमार्दव इः सदा गुरुप्रियौ दुःखितौ हि परमं सुतौ मम ॥
ज्ञातिमातृपरिहीनकौ च तौ बन्धुभिश् च सहसा निराकृतौ ।
दुर्जनं जनम् उपेत्य पापकं दुःखितौ हि परमं सुतौ मम ॥
क्षुत्तृषापरिगृहात्मकौ सदा कस्य तौ वशम् उपागमिष्यतः ।
आर्त्तिदुःखपरिपीडितौ च तौ प्रेष्यभावम् उपयास्यतो ध्रुवम् ॥
कर्म नूनम् इह पापकं मया अन्यजन्मनि सुदारुणं कृतं ।
प्राणिन ः प्रि यशतैर् वियोजिता येन गौर् इव विरौम्य् अधर्मिका ॥

येन सत्यवचनेन मे सदा सर्वसत्वसमतां नतं मनस् ।
तेन सत्यवचनेन मे सुतौ दासभावगमना द् विमुच्यताम् ॥
( विश्व् 49 ) ततो माद्री ताभ्यां बालदारकाभ्यां ये वृक्षा रोपितकाः पालितकाश् च तान् किसलयसंछन्नाण् दृष्ट्वा ससंभ्रमा परिष्वज्योवाच
बाल बाल कलशावसिक्तकाः प ल्ल व् आ ः प्रपतिताश्रुबिन्दवः ।
चेतना इव रुदन्ति वृक्षका बालकाः स्तनविहीनका इवेति ॥
( विश्व् 50 ) पुनश् च तयोर् बालदारकयोः क्रीडनकान्य् आश्रमवासिनो मृगशावकान् दृष्ट्वा करुणादीनविलंबितैर् अक्षरैः वचनम् उवाच
दुःखम् एतद् अपरम् ह्य् अनल्पकम् यद् रमन्ति मृगशावका इमे ।
तद् वयस्यपरिदर्शनोत्सुकाः स्थानकेषु परिमार्गमाणका ॥
( विश्व् 51 ) ततो माद्री येन मार्गेण तौ बालदारकौ गतौ तं मार्गम् अनुसरन्ती तयोर् बालदारकयोर् इतश् चामुतश् च पदान्य् अरिक्तकानि दृष्ट्वा तीव्रदुःखाभ्याहता पुनर् उवाच
ताड्यमानौ ध्रुवं नीतौ यथा पदविलंबितौ ।
क्वचिद् गतौ गतावृत्तौ हा नृशंस द्विजोत्तम ॥
बाष्पगद्गदनिरुद्धकण्ठकौ वेपमानरुचिराधरौष्ठकौ ।
तौ हि मे हरिणपरिप्लुताक्षकौ कोमलैश् चरणकैः कथं गताव् इति ॥
( विश्व् 52 ) ततो बोधिसत्वस् तांस् तथापरिदेवनात्मिकां दृष्ट्वा ताभिस् ताभि ः श्रुतिभिर् अनित्यताप्रतिसंयुक्ताभिः बहुप्रकारम् अनुसंज्ञापयन्न् उवाच
न दर्पान् न च विद्वेषान् मया त्यक्तं सुतद्वयम् ।
सर्वसत्वहितार्थं तु त्यक्तौ तौ दुस्त्यजौ सुतौ ॥
आत्मपुत्रकलत्रांश् च त्यक्त्वा परमदुस्त्यजां ।
प्राप्नुवन्ति महासत्वा विधिवद् बोधिम् उत्तमाम् ॥
त्यागाधिष्ठानान् माद्रि पुत्रौ यदा ते त्यक्तौ दुस्त्याजौ लोकनिर्मोक्षण् आ र्थम् ।
दद्या ं स्वां दारां वाहनं चापि वित्तं सर्वं सर्वेभ्यो दातुम् एषा मतिर् मे ॥ इत्य्
( विश्व् 53 ) अथ माद्री धैर्यम् आलंब्य चित्तेन बोधिसत्वम् उवाच
न करोम्य् अन्तरायं ते मा ते भून् मतिर् अन्यथा ।
माम् अपीच्छसि चेद् दातुं निर्विशंकः प्रयच्छ माम् ॥
अपि च
यस्यार्थे स्वजनान् वीर त्यजसि स्नेहविक्लवां ।
तम् अर्थं प्राप्नुहि क्षिप्रं तारय त्रिभवाज् जगत् ॥
( विश्व् 54 ) ततः शक्रो देवेन्द्रस् तद् अत्यद्भुतम् अतिदुष्करं माद्र्या बोधिसत्वस्य च व्यवसायम् अवगम्य त्रिदशगणपरिवृत उपरि विहायसा तदाश्रमम् उपगम्योदारेणावभासेन तद् वनम् अवभास्य गगनतलस्थ एव बोधिसत्वम् उवाच
यथा मूढे लोके कुमतिमतिपर्याकुलमतौ
विभो भोगासक्ते सुतहृदयपाश् आ नि सहिते ।
त्वम् एको निःसंगस् त्यजसि तनयां स्नेहजनकां
ध्रुवं क्षेमं शान्तं विमलम् अरज ं प्राप्स्यसि पदम् ॥
( विश्व् 55 ) तद् एवं प्रोत्साह्य बोधिसत्व ं शक्रो देवेन्द्रश् चिन्तयामास: एको ऽयम् उपस्थायकरहितः खेदम् आपत्स्यते. यन्व् अहम् अप्य् अस्मात् प्राथयेयम् इति. ततो बोधिसत्वसकाशाद् अपक्रम्य ब्राह्मणवेषम् आस्थाय पुनर् बोधिसत्वम् उवाच
इमां सर्वानवद्यांगीम् अनुरक्तां पतिव्रताम् ।
संप्रयच्छ कुलश्लाघ्यां मम भृत्यार्थभागिनीं ॥
( विश्व् 56 ) ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणम् उवाच
निर्लज्जश् चासि लुब्धश् च त्वम् इह ब्राह्मणाधम ।
सद्धर्मनिरतां यस् त्वं माम् इच्छसि पतिव्रताम् ॥
( विश्व् 57 ) ततो बोधिसत्वः करुणापरिगतहृदयो माद्रीं निरीक्षितुम् आरब्धः. अथ माद् री बोधिसत्वम् उवाच
न शोचाम्य् अहम् आत्मानं नापेक्षा मे तथात्मनि ।
यथा त्वाम् अनुशोचामि कथम् एको भविष्यसि ॥

ततो बोधिसत्वो माद्रीम् उवाच
अहम् इह भुवि माद्रि नानुशोच्यः परिमृगयं पदम् अक्षयं विशोकम् ।
तम् इमम् अनुसर द्विजं विशोका मृग श रणं त्व् अ ह म् आश्रमे ऽभ्युपैमि ॥
( विश्व् 58 ) इति विदित्वा हृष्टतुष्टप्रमुदितमनाश् चिन्तयामास
इदम् अस्मिं वने दानं पश्चिमं मे भविष्यति
माद्रीप्रियां परित्यज्य भविष्याम्य् अपरिग्रह ः ॥
इति विदित्वा माद्री ं च पा णिना गृहीत्वा तं ब्राह्मणम् उवाच
भावानुरक्तशुश्रूषां सद्वृत्तां प्रियवादिनीम् ।
मम भार्याम् इमां शिष्यां गृहाण त्वं द्विजोत्तम ॥
( विश्व् 59 ) ततः पत्नीम् उपस्पृश्य त्यजतो बोधिकां क्षया ।
षड्विकारमही कृत्स्ना चचालाम्भसि नौर् यथा ॥
( विश्व् 60 ) ततो माद्री बाष्पोपरुध्यमाना गद्गदकण्ठी ब्राह्मणवशम् आगता पतिपुत्रदुहितृविरहिता इदम् अभ्रवीत्
कीदृङ् मया कृतं कर्म अनार्यं पूर्वजन्मसु ।
नष्टवत्सेव गौर् येन विरौमि विजने वने ॥
( विश्व् 61 ) ततः शक्रो देवेन्द्रो ब्राह्मणवेषम् अन्तर्धाप्य स्ववेषेण स्थित्वा माद्रीम् उवाच
न ब्राह्मणो ऽस्मि सुभगे न च मानुषो ऽस्मि
शक्रस् त्व् अहं ह्य् असुरनाशकरः सुरेन्द्रः ।
प्रीतो ऽस्म्य् अनेन विनयेन तवोत्तमेन
तद् ब्रूहि किं वरम् अपीच्छसि मत्सकाशात् ॥
ततो माद्री तद्वचनजनितसौमनस्या शक्रं प्रणिपत्योवाच
मम पुत्रौ सहस्राक्ष दासभावाद् विमोचय ।
पितामहसकाशं च प्रापय त्रिदशेश्वर ॥
( विश्व् 62 ) तथेत्य् उक्त्वा महेन्द्रः पुनर् आश्रमं प्रविश्य बोधिसत्वसकाशम् अभिजग्मिवान्. माद्री ं च वामेन पाणिना गृहीत्वा बोधिसत्वम् उवाच
अहं माद्रीम् इमां तुभ्यं ददामि परिचारिकाम् ।
न च ते कस्यचिद् देया न्यासद्रोहो हि गर्हितः ॥
( विश्व् 63 ) ततः शक्रो देवेन्द्रस् तं बालदारकपरिगृहीतारं ब्राह्मणं तथा व्यामोहयामास यथान्यनगरशंकया तद् एव नगरम् उपगम्य तौ बालदारकौ विक्रीतुम् आरब्धो यावद् अमात्यैर् दृष्ट्वा राज्ञो निवेदितं
एतौ पुत्रस्य ते पुत्रौ ब्राह्मणो ऽस्मिन् पुरोत्तमे ।
जालिनं चेव कृष्णां च विक्रीणीते ति दारुणः ॥
( विश्व् 64 ) एत च् छ्रुत्वोद्भ्रान्तचित्तः स राजा प्राह क्षिप्रं दर्शयध्वं कुमारौ ।
नार्यश् चक्रुः क्रो श म् अन्तःपुरस्थाः पौरा राज्ञः क्षिप्रम् एयुः समीपम् ॥
यावद् अन्यतमेनामात्येन राज्ञः सकाशम् उपनीतौ
पुत्रौ निरीक्ष्य स नृपो ऽभि मुखोपनीतौ
क्षीणस्वरौ कृशतनू मलदिग्धगात्रौ ।
सिंहासनात् क्षितितले सहसा पपातः
पौरा विचुक्रुशुर् अमात्यगणा ः स्त्रियश् च ॥
( विश्व् 65 ) ततो रा जा अमात्यान् आमन्त्रयते
वने ऽपि वसतो दानेष्व् अभिरतं मनः ।
तम् इहानयत क्षिप्रं पत्न्या सार्धं सुलोचनम् ॥
( विश्व् 66 ) ततः शक्रो देवेन्द्रो बोधिसत्वम् अभिनमस्यमानः स्वभवनम् उपजगाम.
( विश्व् 67 ) शक्रेण च राजनि विश्वामि त्रे अभ्यतीते ब्राह्मणामात्यपौरजानपदैः सार्धं तद् आश्रमपदं गत्वा बोधिसत्वं याचित्वा स्वपुरम् आनीय राज्ये प्रतिष्ठापितवान् .

( विश्व् 68 ) ततो विश्वन्तरो राजा सर्व ं ददो बभ् ऊ व. स श्रंअनब्राह्मणवनी पकसुहृत्सम्बन्धिबान्धवानुजीविजनेषु अनेकप्रकाराणि दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते
बोधिं प्रार्थयमानेन दानं देयं वि शारदः ।
क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कसे ॥
हिरण्यं च सुवर्णं च गवाश्वमणिकुण्डलम् ॥
दद्यात् संपन्नशीलेभ्यो दासकर्मकरं तथा ॥
सुतदारपरित्यागं कृत्वा मुक्तेन चेतसा ।
प्राप्नुवन्ति नराः शुद्धिम् अ स्मिं लोके परत्र चेति ॥
( विश्व् 69 ) यदा विश्वामित्रेण राज्ञा विश्वन्तर् अनिमित्तं जुज्जुकाय ब्राह्मणाय प्रभूतं धनं दत्तं तदासौ विस्तीर्णविभवो जातः. तस्य सुहृत्सम्बन्धिबान्धवा मित्राणि चागम्य कथयन्ति: या काचि त् तव श्रीसौभाग्यसंपत् सर्वासौ विश्वन्तरकुमारम् आगम्येति. स कथयत् इ: किं मम विश्वन्तरेण कृतम् उत्तमवर्णप्रसूतो ऽहं, दक्षिणीयो लोकस्य; येन मम भोगा उपनयन्ति.
( विश्व् 70 ) भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ विश्वन्तरो नाम राजकुमार अहम् एव स तेन कालेन तेन समयेन. यो ऽसौ जुज्जुको ब्राह्मण एष एवासौ देवदत्तस् तेन कालेन तेन समयेन. तदाप्य् एष अकृतज्ञः अकृतवेदी. एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी. तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यत् कृतज्ञा भविष्यामः कृतवेदिनः स्वल्पम् अपि कृतं न नाशयिष्यामः, प्राग् एव प्रभूतं. इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
विश्वन्तरावदानं समाप्तम्.

मूल पाठ: Viśvantarāvadāna · Edition: Kabita Das Gupta: Viśvantarāvadāna, Eine buddhistische Legende, Berlin 1978. Cf. GBM 157-174, 1332-1349, 3314-3315 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc