विष्णुस्मृति · अध्याय 43
कृतपातकिनः पापाः प्राणत्यागाद् अनन्तरम्
याम्यं पन्थानम् आसाद्य दुःखम् अश्नन्ति दारुणम् ॥
यमस्य पुरुषैर् घोरैः कृष्यमाणा यतस् ततः
सकृच्छ्रेणानुकारेण नीयमानाश् च ते यथा ॥
श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः
अग्नितुण्डैर् भक्ष्यमाणा भुजङ्गैर् वृश्चिकैस् तथा ॥
अग्निना दह्यमानाश् च तुद्यमानाश् च कण्टकैः
क्रकचैः पाट्यमानाश् च पीड्यमानाश् च तृष्णया ॥
क्षुधया व्यथमानाश् च घोरैर् व्याघ्रगणैस् तथा
पूयशोणितगन्धेन मूर्छमानाः पदे पदे ॥
परान्नपानं लिप्सन्तस् ताद्यमानाश् च किंकरैः
काककङ्कबकादीनां भीमानां सदृशाननैः ॥
क्वचित् तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित्
आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ॥
क्वचिद् वान्तम् अथाश्नन्ति क्वचित् पूयम् असृक् क्वचित्
क्वचिद् विष्ठां क्वचिन् मांसं पूयगन्धि सुदारुणम् ॥
अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित्
क्रिमिभिर् भक्ष्यमाणाश् च वह्नितुण्डैः सुदारुणैः ॥
क्वचिच् छीतेन बाध्यन्ते क्वचित् चामेध्यमध्यगाः
परस्परम् अथाश्नन्ति क्वचित् प्रेताः सुदारुणाः ॥
क्वचिद् भूतेन ताड्यन्ते लम्बमानास् तथा क्वचित्
क्वचित् क्षिप्यन्ति बानौघैर् उत्कृत्यन्ते तथा क्वचित् ॥
कण्टेषु दत्तपादाश् च भुजङ्गाभोगवेष्टिताः
पीड्यमानास् तथा यन्त्रैः कृष्यमाणाश् च जानुभिः ॥
भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः
कूटागारप्रमाणैश् च शरीरैर् यातनाक्षमैः ॥
एवं पातकिनः पापम् अनुभूय सुदुःखिताः
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0