विष्णुस्मृति · अध्याय 32
गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि
विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥
विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम्
गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥
वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी
एतानि मानस्थानानि गरीयो यद् यद् उत्तरम् ॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम्
पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः
वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0