ग्रंथ पाठ
विष्णुस्मृति · अध्याय 26
26.5
द्विजस्य भार्या शूद्रा तु धर्मार्थं न क्वचिद् भवेत्
रत्यर्थम् एव सा तस्य रागान्धस्य प्रकीर्तिता ॥
26.6
हीनजातिं स्त्रियं मोहाद् उद्वहन्तो द्विजातयः
कुलान्य् एव नयन्त्य् आशु ससंतानानि शूद्रतां ॥
26.7
दैवपित्र्याथितेयानि तत्प्रधानानि यस्य तु
नाश्नन्ति पितृदेवास् तु न च स्वर्गं स गच्छति ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0